०२ मङ्गलाचरणम्

श्रुतिशतपरिगीतः शुद्धभावैर्गृहीतः । कमलनिलयतातः कंजनेत्रः प्रतीतः

मङ्गलाचरणम्

॥ दिग्विजयरामो विजयते ॥

श्रीगुरुभ्यो नमः

श्रुतिशतपरिगीतः शुद्धभावैर्गृहीतः ।

कमलनिलयतातः कंजनेत्रः प्रतीतः ॥

सकलजगदतीतः सर्वसंपत्समेतः ।

प्रविशतु मम चेतः प्रत्यहं रङ्गनाथः ॥

जयताज्जानकीजानिः कल्याणगुणवारिधिः ।

दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा ॥

मायावादतमोव्याप्तिरंजसा येन वारिता ।

प्रकाशितं च तत्वं तं भजे मध्वदिवाकरम् ॥

यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

लभंते मानुषा नूनं तान् जयादिगुरून् भजे ॥

परभाष्यस्थदोषान्ये व्याहत्यादीनदर्शयन् ।

परविद्याप्रवक्तॄंस्तान् सत्यध्यानगुरून् भजे

अपास्याद्वैतमसुधां पायितो यैः सुधामहम् ।

तान् सुधामंडनाचार्यान् गुरून् वन्दे निरंतरम् ॥

सुधामंडनसूर्यस्य प्रकाशमसहिष्णुभिः ।

क्षुद्रैः प्रक्षिप्तधूलीनां निरासार्थमियं कृतिः ॥

श्रीसत्प्रमोदतीर्थार्यकृपालेशोपजीविना ।

कृत इत्येव मे यो मन्दस्यापि मुदे सताम् ॥