यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । न क्षमंते विमतयस्तमुपासे श्रियः पतिम्
॥ श्रीदिग्विजयरामो विजयते ॥
नम्रं निवेदनम् -
**यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । **
न क्षमंते विमतयस्तमुपासे श्रियः पतिम् ॥
जानंत्येवैतत्संतो यत्समलंकृत सर्वज्ञाचार्यमुख्यपीठैस्तत्संप्रदा यमनवरत- संवर्धमानोत्साहभरेणानुपालयद्भिद्वैतसिद्धांतप्रतिष्ठापनाचार्येतिपदवीमात्मनो नितांतमन्वर्थयद्भिः श्री १०८ श्रीसत्यप्रमोदतीर्थश्रीचरणैः श्रीन्यायसुधामण्डनाख्यः सताममृतत्वहेतुः सद्ग्रंथो निरमायीति । निर्माणेनानेन पं. महामहोपाध्यायानन्तकृष्णशास्त्रि कृतेरद्वैततत्वसुधायाः खंडनात्मकेन श्रीस्वामिपादैर्निग्रंतरमधमर्णी कृतोऽशेषसज्जनप्रपंच इति नात्र वक्तव्यमस्ति । यतो लोके खलु यो यस्य समापतितां विषबाधां परिहृत्य पीयूषं पाययति स तस्य महदुपकारोतीति संप्रतिपत्तिः । श्री स्वामिपादास्तु पं. अनन्तकृष्ण शास्त्रिकृत्या सतां विषादपि विषस्य नित्यदुः खहेतोरद्वैतस्य बाधां प्रविणाश्य तान् पीयूषादपि पीयूषं द्वैततत्वसुधां समपाययन्निति को वा विनोदपात्रं तेषामुपकारं प्रतिकुर्यात्सुरायुषसहस्रैरपि ।
अ. सुधाकारा यदा राजगोपालपुर्यां स्वयं श्रीस्वामिपादेभ्यः स्वनिबन्धं प्रादुस्तदैव तैस्तद्विचारप्रस्तावार्थ पर्यनुयुक्ता अपि नैव मौखिकवादमन्वमन्यंत । कारणं तु तत्र त एव जानीयुः । इदं पुनरविवादम् । वादफलं तत्वनिर्णयो यथा प्रत्यक्षविचारैः सुसाधो न तथा परः शतैरपि ग्रंथप्रतिग्रंथ प्रकाशनैः । मन्यामहे श्री स्वामि पादानां सन्निधौम् अ. सुधाकारास्तदैव तदाह्वानम्। मानयित्वा यदि वाक्यार्थविचारमकरिष्यन् तदा तेषां भूयान् न्यायसुधामंडन विमर्शविफलप्रयास उर्वरितोऽभविष्यत् । एवमस्ताकमयमेष न्यायसुधामंडनप्रकाशप्रकाशनात्म-कस्तत्प्रत्युत्तरनिरूपणप्रयासोऽपि । ज्ञायते शास्त्रिणां श्रद्धा न तत्वनिर्णये किं नाम बृहद्ग्रंथ निर्माण । अत एव प्रथमभाग इव मंडनविमर्शनात्मके भूमिकाभागेऽप्यर्था सारतामनादृत्य पुनरुक्ती ः पुरस्कृत्य ग्रंथबृहत्वसंपिपादयिषा भूयिष्ठं दृश्यते । न केवलमेतावदेव । अन्योन्यस्मिन्नन्योन्यधर्मानध्यस्येति स्वाचार्यभाष्यमनुरुध्य न्यायसुधामंडनस्य धर्मं सुधात्वं स्वनिबन्धे अद्वैततत्वसुधेति नामकरणेन समारोप्य स्वनिबन्धगतानसदनुवादनुक्तोपालं- भादिधर्मांश्च न्यायसुवामंडने स्वैरमव्यस्य अध्यासवादे श्रद्धाऽऽविष्कृता । यथा चैवं तथा तत्र तत्र सुविशदतया प्रबन्धेऽस्मिन् प्रकटितम् ।
मंडनेन मायावादेऽनवस्थादयोऽनुपपत्तयः समर्थिताः । ताः खलु परमार्थतो दुरुद्धराः । अंगीकृताश्च तथात्वेनाद्वैतिपूर्वाचार्यैः परमादर- पुरस्सरम् । अनुपपत्तीनां भूषणत्वं हि खलु तत्सिद्धांतः स्फुटमेततत्तदीयैर्वचनैः ‘“मायायामनुपपत्तिरलंकारः " ( कल्पतरुपरिमल) मायायाश्च सर्वानुप- पत्तेर्भूषणत्वात् (अ.सि.) अनवस्थादयो दोषाः सत्तां निश्नंति वस्तुनः । अद्वैतिनां ते सुहृदः (ब्रह्मानन्दी ) " अनुपपत्तिहि मायामुपोद्वलयति" (भामती) इत्यादिभिः । स्थितेऽप्येवम् अ. सुधाया स्वसिद्धांतानुप- पत्तिपरिहारप्रयत्नो न केवलं निष्फलोऽनुपपत्तीनां दुरुद्धरत्वात् । किं नाम स्वाचार्यदोष संपादकोऽपि निश्चीयते । न हि कोऽपि विवेकपदवीमाख्यितः स्वस्थात्मा स्वसिद्धांते बद्धादरस्तद्भूषणानि विनाशयितुं स्वयं संनह्येत ।
अपरमप्यत्र निवेद्यते । प्रातःस्मरणीय-मायिमत्तेभकं ठीरवपंडितकुल- सार्वभौमश्रीमत्सत्यध्यानतीर्थमुनींद्र श्रीचरणैः पुरा कुंभघोणे सभायां क्षेत्रक्षेत्रज्ञवाक्यार्थविचारः प्रावर्त्यत । सभाया इति वृत्तलेखनार्थं तदानीं त्रयो महात्मानः श्री. के. सुन्दरराव - सि. नर सिंहराव - सि. गोपालदेशकार्य शर्माणो मध्यस्थतया विनियुक्ताः । एतैर्हस्ताक्षरांकनेन यत्प्रकाश्येत तदेव प्रमाणतया ग्राह्यं नान्यदित्यासीदपि समयबन्धः । ‘क्षेत्रनं चापि मा विद्धि’ इति गीतायांक्षेत्रशब्दार्थः क इति विचारः प्रसक्तोऽभूत् । गीतावाक्यैरेव विप्रतिपन्नं सर्वं साधनीयमिति कृतं नियममक्षरशोऽनुपालयद्भिः श्रीस्वामिपादैः ‘महाभूतान्यहंकारः. संघातश्चेतना धृतिः’ इति गीतावाक्योदाहरणेनैव क्षेत्रशब्दांर्थो न परिदृश्यमानशरीरं किं नाम धृत्यंततत्वसमुदाय एवेति समस्थापि । निग्रहवशाः सहसंव सभात्यागमकुर्वन् । मध्यास्थानां हस्ताक्षरांकिते पत्रे दर्शितेऽपि किमपि तत्र वक्तुमसमर्था वादभूमिं विजहुः । एतत्सर्वमत्रैव ४६ पत्रे मुद्रितेन मध्यस्थकराक्षरचिह्नितेन लेखेन निरस्तासूयाः सहृदया निश्चेतुं प्रभवंति । वस्तुवृत्ते एवं स्थिते यद् अ. सुधाकारैर् भूमिकायाः (५१) पत्रे प्रजल्पितं ’ विचारक्रमः स्वामिपादानां निग्रहेण स्ययमुपरत’ इति तदतीव निद्यम् । विवक्षित विषये मध्यस्थानाम् अधिकृतं प्रकटनं किमप्यप्रद यदेवं मान्येषु महात्मसु वृथा दोषारोपणं सा हि दुर्मत्सरधियां प्रकृतिः । एवमेवेदानीमपि अ. सुधाया द्वितीयभागस्य भूमिकायां निराधारं बहु मंडने दोषारोपणप्रयत्नस्तेषां दरीदृश्यते । स च खलु तेषां पुरातनीं सासूयां प्रकृतिमिदानीमपि प्ररूढजवां जागरितामावेदयति । अत साधूच्यते ‘प्रकृतिं यांति भूतानि निग्रहः किं करिष्यति’ इति । इदमत्रावश्यं नम्रधिया निवेद्यते । श्रीगुरुचरणैरनुगृहीतं न्यायसुधामंडनं श्रीमूलरामस्य ग्रीवारत्नमिव प्रोद्यत्प्रद्योतनौघ प्रकाशम् । तस्य सुधामयीभिर्गोभिर्नूनं मायावादतमो- व्याप्तिरंजसा वारितैव । तत्प्रकाशासहिष्णुभिर् अ. सुधाकारैरन्यैर्वा विमर्शव्याजेन कृताः करिष्यमाणा वा पांसुप्रक्षेपार्मंडनस्याकिंचित्करा न मनानपि तस्य संशुद्धिं समुज्वलतां वा कलकयितुमीशते । परापरतत्व प्रकाशनेन स्वयमेवालं जाज्वल्यमानस्य तस्य प्रकाशनाय कोऽपि न प्रकृतोऽन्यो वा प्रबन्धोऽपेक्ष्यते । अत एव ‘न्यायसुधामंडनप्रकाश’ इति प्रकृत प्रबन्धाभिधानस्य विग्रहो नैव ‘मंडनेना० सुधा खंडनरूपतया प्रकाशिता एव विषया अत्र श्रीचरणांतेवासित्वसौभाग्यातिशयभाजा मया अ० सुधाभूमिकाखंडने यथाऽल्पमति यिनियुक्ता इत्येव । न मनागपि अधिकं लिखितम् । अत्र ये गुणा स्युस्ये सर्वे श्रीगुरुचरणानामेव । ये तु दोषास्ते सर्वे मंदधियो ममैवेति सुधीभिर्दयालुभिरनुग्राह्योऽस्मि ।
श्रीगुरुचरणानां सुकृतेः प्रकाशं पवित्रं सर्वथा निरंतरमुपजीव्यैव लब्धात्मानमिमं मंडनप्रकाशं त एव कृपालव ः स्वोपास्ये श्रीभारतीश-हृत्पद्मसद्मनि श्रीसीतापतौ श्रीरामचंद्रे समर्पयंत्विति प्रणामपरंपरापुरस्सरमहं संप्रार्थये ।
श्रीचरणदासानुदासः केशवः