अद्वैतमते ज्ञानोत्तरं भेददर्शनानुपपत्तिः
अद्वैतमते ज्ञानोत्तरं भेददर्शनानुपपत्तिः ।
स्वक्रियास्वन्यायस्ववचनविरोधः
ब्रह्मज्ञानिनः ब्रह्मातिरिक्तज्ञानं विलुप्यते । मदन्यः कोऽपि नास्तीत्येव तस्य प्रत्ययो भवति । एवं सति किमर्थं स शास्त्रप्रणयने प्रचारे च प्रवर्तते । बद्धानां बन्धविमोचनाय खलु तेन प्रयतिव्यम् । इदं न संभवति । बन्धो मिथ्या, बद्धोऽपि नास्ति इत्येव हि स प्रत्येति । एवं प्रतीत्यनन्तरमपि, बद्धानां कृते शास्त्रं रचयति तत् प्रचाययति इति चेत् कथं न स्वक्रियास्वन्यायस्ववचनविरोधः ।
ननु परमार्थतो ऽद्वैतमभ्युपगम्यते । तथापि औपधिकभेदवशाद् अन्योऽपि जीवोऽस्त्येव मिथ्याभूतं बन्धादिकमपि वर्तते अतो नोक्तानुपपत्तिर् इति न वाच्यं यत एकजीववाद एव अद्वैतिनां मुख्यः सिद्धान्तः भवतु । सोऽपि न विकल्पं सहते । तथा हि शास्त्रकर्तुर् गुरोर्जीवत्वङगीकार्यमुत तच्छिष्यस्य वा । यदि गुरोर्जीवत्वमङ्गीक्रियते, तर्हि शिष्यस्य जाड्यमङ्गीकार्यं स्यात् । यदि तस्य जाड्यं तदुपदेशार्थं प्रेक्षावतः गुरोः कथं प्रवृत्तिः । यदि गुरुरेव जडः स्यात् तदा तेन शास्त्रप्रणयनं तदुपदेशश्च कथं क्रियेत । यदि अनेकजीवपक्षः स्वीक्रियते मुख्यपक्षत्यागापत्तेरपसिद्धान्तापत्तेश्च । तत्त्वदपि न एकजीववादप्रतिपादकविवरण ग्रन्थस्य " मुख्यं मतमाह ” इति अवतरणिका दत्ता । अमुख्यपक्षस्य अङ्गीकारेऽपि दोषाः स्युरेव । परोक्षतो ऽपरोक्षतः वा तत्त्वनिश्चयानन्तरं हि तत्प्रतिपादनाय शास्त्रं प्रणेयम् । तत्त्वज्ञानं च भवद् एतादृशमेव स्याद् यद् ब्रह्मातिरिक्तं सर्वं मिथ्याप्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि, यद् दृश्यते तन् नास्त्येव एतदृशज्ञानवांश्च कथं शास्त्रप्रणयने प्रवर्तेत । न हि सर्पं रज्वारोपितत्वान् मिथ्येति ज्ञात्वा तं हन्तुं दण्डं व्यापारयन्तो दृश्यन्ते यदि विनेयविशेष्यकः संसारावशेषश्यकश्च सत्यत्वनिश्चयोऽनुवर्तते तर्हि भ्रान्तिर्न नष्टा इति वक्तव्यम् । तथा च भ्रान्तस्य वाक्यं कथमुपादेयं स्यान्मुमुक्षुभिः शिष्यैः । ननु गुरुः स्वयम् भ्रान्तोऽपि शिष्याणां भ्रान्तिमपनेतुं प्रयतते तत्र को दोषः । भगवतो व्यासस्य स्वयमभ्रान्तस्यापि संसारिणां भ्रान्ति दूरीकर्तुं प्रयतमानस्य दृष्टत्वाद् इति चैन्न द्वैतमते भ्रान्तानां सत्त्वस्य ज्ञानिभिः प्रतिपन्नत्वात् तेषां भ्रान्त्यपनयनानुकूलव्यापाराः संभाव्यन्ते । अद्वैतसाक्षात्कारानन्तरं तु चिदतिरिक्तं न किमपि प्रतीयते इति विषमोयं दृष्टान्तः ।
अन्यच्च अद्वैतशास्त्रप्रवर्तकेन अद्वैतभूषणं द्वैतदूषणं च क्रियते । इदं चोभयविधं कार्यं द्वैताद्वैतज्ञानशून्येन न कर्तुं शक्यते । यदि अद्वैतसाक्षात्कारवतः द्वैताद्वैतविवेको न स्यात् तदा एकस्य दूषणमपरस्य भूषणं न क्रियेत । यदि च द्वैताद्वैतविवेकः स्यात्तदा भेदज्ञानवत्त्वाद् भ्रान्तिमान् स्याद् इत्युभयथा दोष आपद्यते । किञ्च द्वैताद्वैतयेोरैक्ये यद्येकं दूष्येत अपरमपि दूष्येत, यद्येकं स्थाप्येत अपरमपि स्थापयेत । एकदा दूषितस्य पुनः भूषणे च व्याघातः स्यात् । यद्यद्वैती द्वैतिभिः सह अद्वैतं कलयति तर्हि वादिप्रतिवादिभाव एव न संभवति । तैः सह द्वैतमेव कलयति चेद् भ्रान्तिरपरिहार्य स्यात् । ननु भ्रान्तिर्द्विविधा सोपाधिका निरुपाधिका चेति । तत्र सोपाधिका अधिष्ठानविशेषदर्शनाप्रतिबध्या तदनन्तरमपि अनुवर्तमानत्वात्। यथा वंशोरगभ्रान्तिः शंखपीतिमभ्रान्तिः सवितृसुषिरादिभ्रान्तिर्वा । एषा शब्दानुमानाभ्यामधिष्ठानयथार्थज्ञाने जातेऽपि भिन्नेन्द्रियेण जायमानतत्प्रत्यक्षे जागरूकेऽपि, दोषवशान्न निवर्तते प्रत्युत अनुवर्तते एव । तथा च सोपाधिकभ्रमस्थले तत्तदिन्द्रियजन्यानाहार्याप्रामाण्यज्ञानानास्कन्दि विरोधिप्रत्यक्षमेव तथाविधभ्रमनिवर्तकं दृष्टम्-अत एव अधिष्ठानासाधारणधर्मस्य वंशत्वस्य भिन्नेन्द्रियेण प्रत्यक्षे जातेऽपि चाक्षुषोरगभ्रान्तिर्न निवर्तते । दोषनिवृत्तौ तु तादृशप्रत्यक्षेण निवर्तते । ननु अद्वैत-तत्त्वोपदेशकस्य गुरोर् ब्रह्मपरोक्षे ज्ञाने जातेऽपि भ्रान्तिरनुवर्तते । ततश्च सर्वोऽपि हानोपादानादिर्व्यवहारः शास्त्रप्रणयनं शास्त्रोपदेशः वादिप्रतिवादिभवः दूषणभूषणादिकं सर्वं संपद्यते को दोष इति चेन् न, भ्रमः कथमनुवर्तेत । उक्तविधज्ञानस्यैव तन्निवर्तकत्वात् । भ्रान्तावनुवर्तमानायामपि प्रपञ्चविषयिणीप्रवृत्तिर्वा निवृत्तिर्वा अवश्यं निवर्तते इति वक्तव्यम् । परोक्षरूपाधिष्ठानतत्त्वज्ञानस्य भ्रान्त्यनिवर्तकत्वेऽपि प्रवृत्तिनिवृत्तिप्रतिबन्धकत्वावश्यंभावात् । अन्यथा, मण्डूकवसाक्तनयनस्य चाक्षुषसर्पभ्रमो जायते । तदानीं वंशत्वरूपासाधारणधर्मेण वंशज्ञाने जातेऽपि शाब्दे आनुमानिके त्वाचे वा सर्पाभावज्ञाने जातेऽपि अनुभवसिद्धा सर्पभ्रमजन्यभयकम्पादिनिवृत्तिर्न स्याद् दण्डादिकमुद्यम्य तदुपघाताय प्रवृत्तिश्च स्यात् । तथाचाद्वैतकालानले-
कवलकवलिताक्षः शङ्खगं पीतिमानं कलयति चिरकालं सादरं लोचनाभ्याम् । विरहमपि तदानीं तत्र तस्यानुमिन्वन् क्षिपति न जलधारां तस्यसंक्षालनार्थम् ।
**। इति अद्वैतमते ज्ञानोत्तरं भेददर्शनानुपपत्तिः । **