०७ सर्वशब्दावाच्यस्य लक्ष्यत्वासंभवसमर्थनन्

विशदं क्षीरमाधुर्यं

सर्वशब्दावाच्यस्य लक्ष्यत्वायोगः ।

विशदं क्षीरमाधुर्यं

यच्चोक्तम् ’ इक्षुक्षीरमाधुर्यादीनामिव, आकृत्यधिकरणन्यायेनावाच्यानां व्यक्तीनां लक्षणया बोधनवद् अन्विताभिधानवादेऽप्यवाच्यस्यान्वयविशेषस्य बोधवच्च वेदान्तैर्लक्षणयैव निर्विशेषब्रह्मबोधाविरोधः" इति तदप्ययुक्तम् । अद्वैतिभिर्निर्विशेषब्रह्मणः सर्वथा सर्वशब्दावाच्यत्वाङ्गीकाराद् इक्षुक्षीरमाधुर्यादीनां रसशब्दवाच्यत्वस्य मधुरादिशब्दवाच्यत्वस्य “विशदं क्षीरमाधुर्यं” इत्यादिपाकशास्त्रीयानुशासनेन विशदादिशब्दवाच्यत्वस्य च सत्त्वेन अवाच्यत्वाभावेन दृष्टान्तत्वायोगाद् आकृत्यधिकरणन्यायेन व्यक्तीनां गोपदेन लक्षणया बोधनाङ्गीकारेऽपि व्यक्तिपदवाच्यताया अवश्याभ्युपेयत्वाद् व्यक्तेर्व्यतिपदेनाऽपि लक्ष्यत्वाभ्युपगमे व्यक्तिपदेन किं लक्ष्यमितिप्रश्नस्य निरुत्तरत्वापाताद् घटवान् यस् तं पश्येत्यादौ घटस्यैवाकृत्यधिकरणन्यायेनाऽपि तत्पदवाच्यत्वावश्यम्भावात् । वस्तुतस्तु ब्रह्ममीमांसायां समन्वयाध्याये “आकाशस्तल्लिंगा" दित्यादौ आकाशादिशब्दाभिधेयत्वं व्यक्तिरूपब्रह्मण एव प्रसाध्यते न त्वाकृतेरिति आकृत्यधिकरणन्यायस्य वेदान्तिभिरनुदाहरणीयत्वाद् अन्विताऽभिधानवादे अन्वयविशेषस्याऽपि वाच्य- त्वाङ्गीकारादवाच्यत्वकथनमयुक्तमेव । तथा च वेदान्तैर्लक्षणया निर्विशेषब्रह्मबोधाविरोध इति कथनमत्यन्तासङ्गतम् । निर्विशेषस्य स्वयं शङ्कराचार्यैरेव ज्ञानाविषयत्वनिरासाद् वार्तिककारादिभिर् अभिधालक्षणागौणीरूपवृत्तित्रयस्याऽपि निराकरणात् स्वयमसुधाकृताऽपि अनेकशः निर्विशेषस्य शब्दबोध्यताया निराकरणात्तत्तद्वचनविरोधानां सुदृढनिरूढत्वात्

। इति निविशेषब्रह्मणः लक्ष्यत्वाभावसमर्थनम् ।