असतः साधकत्वानुपपत्तिः
असतः साधकत्वानुपपत्तिर्
यञ्चोक्तं “तत्रासत्पदेन शशशृङ्गादिग्रहणे इष्टापत्तिः, मिथ्यार्थस्य ग्रहणे नाद्वैतमतेऽसदसाधकत्वम् " इति । तदयुक्तम् । असत्पदस्य न सद् असदिति व्युत्पत्त्या सद्भिन्नार्थकत्वेन तदतिरिक्तार्थबोधकत्वात् सद्भिन्नस्य शशशृङ्गादिवत् साधकत्वानुपपत्तिरेव । उक्तं हि शङ्कराचार्यैर् जगतः सद्विलक्षणत्वादेवासद्रूपत्वं शशविषाणवन् निराकृतं च असतः साधकत्वं " न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र " इत्यादिना । किञ्चासत्पदेन मिथ्यार्थग्रहणे इति कोऽर्थः ? यदि असत्पदेन असद्विलक्षणग्रहणे इति मन्यसे तर्हि श्लाघनीयप्रज्ञोऽसि ।
किश्च असद्विलक्षणं नाम सर्द्विलक्षणविलक्षणं तच्च सदेवेति सत एव साधकत्वं प्राप्तम् ।
। इति सद्विलक्षणस्य साधकत्वानुपपत्तिसमर्थनम् ।