क्षुद्राक्षेप निरासाय येषां वाक्यार्थचन्द्रिकाम् । दृष्ट्वैव मे शक्तिरभूद् विद्याधीशान्नमामि तान्
नेहनानास्ति किंचनेत्यादिश्रुतीनां सर्वनिषेधपरत्वाभावसमर्थनम्
“नेह नानेत्यादिश्रुतीनां सजातीयविजातीयस्वगतसर्वनिषेधकत्वायोगः”
क्षुद्राक्षेप निरासाय येषां वाक्यार्थचन्द्रिकाम् ।
दृष्ट्वैव मे शक्तिरभूद् विद्याधीशान्नमामि तान् “।
यच्चोक्तम् " नेह नानास्ति किञ्चन इत्यादिभेदनिषेधपराणां श्रुतीनां स्वरूपतः सजातीय-विजातीयस्वगतसर्वनिषेधपरत्वम्” इति तदप्यकिञ्चित्करम् । नेह नानेति श्रुतेः कथं सर्वनिषेधपरत्वमित्यत्र हेतोरनुपन्यासेन प्रतिज्ञामात्रस्यासाधकत्वात् । प्रतिज्ञामात्रस्यैवार्थसाधकत्वे प्रतिवादिनोऽपि नेह नानेति श्रुतेर्न सर्व निषेधपरत्वमिति प्रतिज्ञयैव कृतार्थाः स्युः । यथा चात्र हेतूपन्यासविषये श्रुतेः स्वाभिमतसर्वनिषेधप्रतिपादकत्वप्रकारप्रदर्शने च मौनमवलम्बितम् असुधया । तथा अद्वैतसिद्ध्याऽपि मौनमवलम्ब्य केवलं " एवमन्या अपि श्रुतयःस्मृतयश्च ग्रन्थविस्तरभयान्नोदाहृताः । स्वयमेव सूरिभिराकरे द्रष्टव्याः " इत्यभिहितम् । किमेवमेव प्रतिवादिभिर्न वक्तव्यमिति राजाज्ञाऽस्ति । तेऽपि एतावदेवोक्त्वा कृत-कृत्या विजयिनः परीक्षक श्रेष्ठाश्च भवेयुः । न केवलमत्र, किन्तु अ. शास्त्रिप्रणीतेषु सर्वेष्वपि ग्रन्थेषु स्वपक्षस्थापनाय नञघटितानि प्रतिज्ञावाक्यानि परपक्षप्रतिक्षेपाय च नञ्घटितानि प्रतिवाक्यान्येव प्रवेशितानि । अ. सुधायां तु शब्दतोऽर्थतश्च परग्रन्थानां सर्वत्रान्यथानुवादश्चाधिकः । स चानभिज्ञानाद्वा विप्रलम्भेच्छया वेत्यन्यदेतत् । लघुचन्द्रिका तु “सूरिभिराकरे द्रष्टव्याः " इति गुरुवन्मौनमनवलम्ब्य आकरग्रन्थानवलोक्य तदनुसारेण श्रुतिव्याख्यानाय प्रवृत्ताऽपि आकरग्रन्थविरुद्धमेव बहुतरं लिखति ।
इयांस्तु विशेषः । यदवेहेत्यत्रेदम्पदस्य “द्वैतविशिष्टब्रह्मरूपोद्देश्यार्थ केहपद-युक्तत्वाच्च ” इत्येनेन द्वैतविशिष्टब्रह्मार्थकत्वमुक्तम् । यद्यप्याकरप्रन्ये शाङ्करभाष्ये केवलब्रह्मपरत्वमुक्तं शङ्कराचार्यैः । तथापि तद्विरोधमप्यविगणय्य श्रुतेर्व्याहतार्थ-प्रतिपादकत्वेनाप्रामाण्यं पर्यायेण समर्थयितुं द्वैतविशिष्टे ब्रह्मणि द्वैतं नास्तीत्यर्थ इति निश्शङ्कं लघुचन्द्रिका वर्णयति । तेन च तया “सत्यं ज्ञानमनन्तं ब्रह्म " इत्यत्र ब्रह्मपदस्य असत्यं ब्रह्म अर्थः । तथा च “असत्यं ब्रह्म सत्यम् " इति श्रुत्यर्थः सम्पद्यते । तेन च, इदमपि वाक्यं व्याहतार्थमिति, अत एवाप्रमाणमिति च प्रतिपादनेन सर्ववेदाप्रामाण्यसमर्थनाय अवैदिकेभ्यः वेदाप्रामाण्यवादिभ्यः मार्गप्रदर्शनमेव कृतमिति । अद्वैततत्त्वसुधाऽपि तन्मार्गमेवावलम्बते । वैदिकैः कचित् श्रुतावापाततः प्रतीयमानेऽर्ये व्याहतिशङ्काप्राप्तौ तत्परिहाराय श्रुतेर् व्याहतिशङ्कासम्पर्कशून्यमर्थान्तरं प्रतिपाद्यते न पुनः श्रुत्यक्षरलभ्येऽर्थे प्रमाणान्तरविरोधश्रुत्य- न्तरविरोधस्वविरोधादिशङ्काकलङ्कशून्ये सम्भवति तं परित्यज्य लक्षणादिकमङ्गीकृत्य स्वव्याघातापादकार्थपरिकल्पनेनाप्रामाण्यं सम्पाद्यते । अतः लघुचन्द्रिकाद्वैतसुधादिप्रदर्शितोऽर्थः वैदिकैरत्यन्तं हेय इति ज्ञेयम् । आकरग्रन्थविरुद्धत्वाच्चा-द्वैतिभिरपि परित्याज्य इत्यपि मन्तव्यम् ।
अथेदानीमाकरोक्तमर्थं परीक्षामहे । तथा हि-
यदेवेह तदमुत्र यवमुत्र तदन्विह ।
॥ मृत्योः समृत्युमाप्नोति य इह नानेव पश्यति ॥ इति ।
(कठो. ४।१०) (शाङ्करभाष्यम्) “ यद् ब्रह्मादिस्थावरान्तेषु वर्तमानं…..तदेव स्वात्मस्थममुत्र… सर्वसंसारधर्मवर्जितं ब्रह्म यच्चामुत्रामुष्मिन्नात्मनि स्थितं तदन्विह तदेवेह …. नान्यत् । तत्रैवं सति उपाधिस्वभावभेददृष्टिलक्षणया अविद्यया मोहितः सन् य इह ब्रह्मणि अनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यत्युपलभते, स मृत्योर्मरणान्मृत्युं मरणं पुनः पुनः जननमरणभावमाप्नोति प्रतिपद्यते तस्मात्तथा न पश्येत् परिपूर्णं ब्रह्मैवाहमस्मीति पश्येदिति वाक्यार्थः " इति ।
” मनसैवेदमाप्तव्यं नेह नानस्ति किंचन ॥
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ " इति । ( क. ४।११ )
(शां. भा.) “ इह ब्रह्मणि नाना नास्ति । किंचनाणुमात्रमपि । यस्तु इह ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ” इति ।
तदेव प्रकृतं ब्रह्म आह-
**अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । **
ईशानं भूतभव्यस्य न ततो विजिगुप्सते । एतद्वै तत् “ ॥ इति । ( क. ४।१२ )
( शां. भा. ) “ अङ्गुष्ठमात्रोऽङ्गुष्ठपरिणामः पुरुषः पूर्णमनेन सर्वमिति मध्ये आत्मनि शरीरे तिष्ठति तमात्मानमीशानं भूतभव्यस्य विदित्वा न तत इत्यादि पूर्ववत् ” इति ।
**अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । **
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वैतत् “ ॥ (क. ४।१३ )
(शां. भा. ) किं च “अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः … । यस्त्वेवं लक्षितो योगिभिर्हृदय ईशानो भूतभव्यस्य स एव नित्यः कूटस्थोऽद्येदांनीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, नान्यस्तत्समोऽन्यश्च जनिष्यते इत्यर्थः” इति ।
तथा चोपदर्शितोपनिषत्तद्भाष्यावलोकनेन नानाशब्दस्य भेदार्थकत्वं ज्ञायते । इहेत्यत्र इदम्पदस्य ब्रह्मार्थकत्वं च । तेन ब्रह्माणि भेदो नास्तीति श्रुत्त्यर्थः सम्पद्यते । अत्र प्रतियोगिवाचकपदान्तरस्याभावात्-
‘यदेवेह तदमुत्र’ इति पूर्ववाक्यानुसाराद् इहेत्यत्रेदम्पदमेव प्रतियोगिवाचकमिति ज्ञायते । एवं च अनयोर्भेदः, अनयोः संयोगः, अनयोरभेदः, अनयोर्विरोधः, इत्यादाविव सप्तम्याः प्रतियोगित्वमनुयोगित्वं चार्थः । तथा च ब्रह्मप्रतियोगिकः ब्रह्मानुयोगिकश्च भेदो ऽनया श्रुत्या निषिध्यते न विजातीयप्रतियोगिकभेदो वा विजातीयं वा ।
तथा चाकरग्रन्थभूतशाङ्करभाष्यविरुद्धत्वाल्लघुचन्द्रिका अद्वैततत्त्वसुधा-चातिहेयाऽद्वैतिभिरपि ।
श्रुत्यर्थनिष्कर्षस्त्वित्यम्-
यद् ब्रह्मादिस्थावरान्तेषु संसारिषु-अमुक्तेषु जीवेषु नियामकतया- अन्तर्यामितया-स्थितं ब्रह्म तदेव ब्रह्मादिस्थावरान्तेषु मुक्तेषु जीवेषु अन्तर्यामितया वर्तते न तु मुक्तनियामकब्रह्मणो ऽमुक्तनियामक ब्रह्मणः सकाशाद्भेदः शङ्कनीय इति । नियम्यभेदप्रयुक्तभेदशङ्कां स्थानभेदप्रयुक्तभेदशङ्कां चापाकर्तुमेव नेहनानास्ति किञ्चनेति वाक्यं प्रयुक्तम् । अयमेवास्य वाक्यस्यार्थ इति “यद् ब्रह्मादिस्थावरान्तेषु वर्तमानं संसारधर्मवदवभासमानमविवेकिनां तदेव स्वात्मस्थम्, अमुत्र यच्चामुत्रामुष्मिन्नात्मनि स्थितं तदेव इह नान्यत् ” इति शाङ्करभाष्यादप्यधिगम्यते । द्वैतभाष्यानुसारेण तु यमदेववाक्ये यमलोकस्थितनचिकेतसंप्रत्युपदिष्टे इहेत्यत्रेदम्पदेन भूलोकादिसत्यलोकान्ताः सप्तसंख्याका अमुक्तस्थानरूपा लोका गृह्यन्ते । तथा तत्रस्थाः स्थावरादिब्रह्मदेवान्ताश् चेतनाश्च गृह्यन्ते । इह यद् अस्तीत्युक्त्या सप्तलोकस्थितान्यवताररूपाणि सर्वजीवान्तर्यामिरूपाणि चोच्यन्ते । अमुत्रेत्यत्रादः शब्देन श्वेतद्वीपानन्तासन वैकुण्ठरूपास्त्रयो लोकाः प्रतिपाद्यन्ते । त्रला च तल्लोकस्थानन्तासन वैकुण्ठपद्मनाभाख्यानि भगवद्वपाणि, तल्लो कस्थितसकलमुक्तान्तर्यामिभगवद्रूपाणि चोच्यन्ते । तेनावताररूपाणां मूलरूपाणाम् अमुक्तान्तयभिरूपाणां मुक्तान्तर्यामिरूपाणां चाभेदः, विशिष्टवाक्यार्थः सम्पद्यते ।
तथा च “ नेह नानास्ति किञ्चन ” इत्यत्रेहेत्यस्य इहलोकपरलोकस्थितयोः- अमुक्तलोक-मुक्तलोकस्थितयोः- अवताररूपमूल्रूपयोर् अमुक्तान्तर्यामिमुक्तान्तर्यामिरूपयोश्चेत्यर्थः । सप्तम्या च प्रतियोगित्वमनुयोगित्वं च बोध्यते । प्रकृत्यर्थस्य यथायथमाधेयतया प्रतियोगित्वे अनुयोगित्वे चान्वयः । तयोश्च निरूपकत्वेन नानाशब्दार्थभेदे अन्वये स भेदोनास्तीतिबोधोजायते रामकृष्णयोर्भेदो नास्तीत्यत्र यथा रामप्रतियोगिकः कृष्णानुयोगिकः भेदः कृष्णप्रतियोगिकः रामानुयोगिकश्च भेदो ऽत्यन्ताभावप्रतियोगी-सत्ताभाववान् इति वा बोधोजायते तद्वत् तथा स एवाद्य स उश्वः " इत्यनेनापि अद्य इदानीं सर्वप्राणिषु वर्तमानः स एव श्वोऽपि वर्तिष्यते इत्युक्त्या मोक्षकालेऽपि मुक्तेष्वन्तर्यामितया वर्तिष्यते । अत एव भूतभव्यस्येशान इति कथनान्मुक्तनियामकस्य अमुक्तनियामकस्य चेश्वरस्य भेदनिषेधात् । नेह नानास्ति किञ्चनेत्यत्राप्युत्तरवाक्ये “मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति " इत्यत्रापि मुक्तामुक्तान्तर्यामिरूपाणां मूलरूपावताररूपाणां च भेदज्ञानिनो ऽनर्थप्राप्तिकथनरूपार्थवादद्वारा श्रुतीनामुपदर्शिताभेद एव तात्पर्यमवसीयते ।
यदपि शाङ्करभाष्ये " य इह ब्रह्मण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यत्युपलभते स मृत्योर्मरणान्मृत्युं मरणं पुनः पुनर्जननमरणभावमाप्नोति प्रतिपद्यते ।… ब्रह्मैवाहमस्मीति पश्येदिति वाक्यार्थः " इत्यादिना अहमर्थपरब्रह्मणोर्भेदज्ञानिनो ऽनर्थावाप्तिकथनेन अहमर्थपरब्रह्मणोर्भेदनिषेध एव श्रुतितात्पर्यमिति सूचितम् । तत्तु असुधोक्तरीत्या व्याघातापादकत्वादयुक्तम् । यतो ऽद्वैततत्त्वसुधाकारैः " तत्र दकारान्तास्मच्छन्दवाच्योऽहमर्थो वस्तुगत्या नात्मा ” ( १७५ ) इत्यादिना अहमर्थस्य आत्माभेद एव निषिद्धः परब्रह्माभेदस्तु दूरत एवापास्तः । सति चैवम् आत्मानात्मविवेकादिग्रन्थेषु आत्मा-नात्मभेदज्ञानस्य मुक्तिहेतुत्वमुक्तम् । अत्र तु अहमर्थानात्मब्रह्मणोर्भेदज्ञानस्य आत्मानात्मविवेकरूपस्य मृत्युहेतुत्वमुक्तमिति व्याघातः स्यात् ।
यदि च नैष्कर्म्यसिद्धिमते अहं ब्रह्मास्मीत्यादौ बाधायां सामानाधिकरण्याङ्गीकारेऽपि " अहं ब्रह्मास्मीत्यादावहंशब्दो वाच्यविधयोपहितम्, लक्ष्यविधया संविन्मात्रं च बोधयति । अत एवाभेदे सामानाधिकरण्यम् ” ( १७४ ) इत्यद्वैत- सुधोक्तरीत्या संविन्मात्रमस्मरछब्दार्थ इत्युच्यते तदा अस्मीत्युत्तमपुरुषानुपपत्तिः । तत्रापि तत्त्वमसीत्यत्र त्वंपदस्य चिन्मात्रपरत्वे मध्यमपुरुषप्रयोगानुपपत्तिपरिहारः प्रयोगसाधुत्वार्थत्वाङ्गीकारेण यथा क्रियते तथैवात्रापीति यद्युच्यते तदाऽपि यदेवेहेत्यव्यवार्हतपूर्ववाक्यव्याख्यानावसरे अमुत्रेत्यस्य अमुष्मिन्नात्मनि स्थितमिति वाक्येन वैकुण्ठादिपरलोकस्थितमुक्तात्मान्तर्यामितया मुक्तजीवभिन्नत्वेन वर्णितस्य ब्रह्मणः जीवाभेदकथनस्य व्याहतत्वात् । त्वन्मते मुक्तजीवानां संविन्मात्रस्वरूपत्वान् मुक्तजीवस्वरूपस्य तत्स्थब्रह्मस्वरूपस्य च भेदः पारमार्थिक एव । अतः भेदः व्यावहारिकः विधेयः, निषेध्यश्च पारमार्थिक इत्यादिकथनमपि न युक्तम् ।
किश्च श्रुतौ–
य इदं मध्वदं वेदात्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो ‘विजुगुप्सते ॥ अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥” तं देवास्सर्वे अर्पितास् तदुनात्येति कश्चन । ”
इत्यादिपूर्ववाक्येषु सर्वान्तस्थत्वं सर्वेशानत्वं सर्वैरनतिक्रमणीयत्वं सर्वेषां तदधीनत्वं च स्फुटमभिहितम् । उत्तरत्रापि
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न तता विजुगुप्सते ॥ "
इति वाक्ये " शब्दादेव प्रमितः " (१-३-२४ ) इति सूत्रानुसारेण, तथा “ एवं प्राप्ते ब्रूमः– परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति । कस्मात् ? शब्दात्-“ ईशानो भूतभव्यस्ये " ति । न ह्यन्यः परमेश्वराद् भूतभव्यस्य निरङ्कुशमीशिता । " एतद्वैतद् ” इति च प्रकृतं पृष्टमिहानुसन्दधाति । एतद्वैतद् यत्पृष्टं ब्रह्मेत्यर्थः । पृष्टं चेह ब्रह्म " अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद " ( का० १/२/१४ ) इति ” । इति शाङ्करभाष्यानुसारेणापि भूतेभ्यः वर्तमानेभ्यः भव्येभ्यश्च जीवजडात्मकपदार्थेभ्यः भिन्नस्यैव वस्तुनः पृष्टत्वेन ‘**एतद्वैतत् **’ इत्यनेन भूतभव्यजीवजडेशानस्य जीवजड भिन्नस्य सर्वोत्तमस्यैव वक्तव्यत्वेन तदनुसारेण " सर्वे वेदा यत्पदमामनन्ति " इत्यादिना विष्णोः सर्ववेदवेद्यत्वं मुक्तप्राप्यत्वं भूतभवद्भावि- सकलजीवजडात्मकपदार्थेशानत्वं तत एव भूतभवद्भाविपदार्थभिन्नत्वं वर्णितम् । तत एव स्थानभेदकालभेदनि यम्यभेदादिप्रयुक्त नियामकभेदशङ्कामपाकर्तुं ‘नेह-नानास्ति किञ्चन ’ इति वाक्यं प्रयुक्तम् । तेन च " सर्वदेशेषु कालेषु स एकः परमेश्वरः " इति समर्थितम् । तदेवोत्तरवाक्ये अनूदितम् । शिष्यो नचिकेता जडं शरीरं परित्यज्य यमलोकं गतः जडातिरिक्तं जीवं जानात्येव किन्तु सकलजीवडभिन्नं सर्वेश्वरं जिज्ञासुः पप्रच्छ । गुरुर्यमस्तु नेह नानेति वाक्येन तस्मै यदि जीवाभिन्नं ब्रह्मेति उपदिशतीत्युच्यते तदा " एतद्वैतत् " इत्यत्र यद् जीवभिन्नं पृष्टं तद् एतद् जीवाभिन्नमिति तदीयमुत्तरं व्याहतम् असङ्गतं च स्यात् । अतः नेहनानत्यस्य जीवेश्वरभेद निषेधपरत्वकथनमयुक्ततरम् ।
यदि च " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति " य आत्मनि तिष्ठन् " “तमात्मस्थं येऽनुपश्यन्ति ” इत्यादिवचनानुसारेण जीवस्वरूपान्तर्यामी जीवस्वरूपाभिन्नः शाङ्करवाक्यगताहंशब्दार्थः । तथा च मदन्तर्यामिणि ब्रह्मभेदस्य ब्रह्मणि वा मदन्तर्यामिभेदस्यात्र निषेधः क्रियते इति शङ्कराचार्याशयः । अत एव तैः " अथातः संप्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस् त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्म अहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता " (बृ. १/५/१७) इत्यत्र त्वमित्यस्य त्वत्कर्तृक इति, अहमित्यस्य च मत्कर्तृक इत्यर्थो वर्णितः । तेन प्रकृतेऽपि अहमित्यस्य मदन्तर्यामि मन्नियम्यकं = पर ब्रह्मणोऽन्यदिति भेदज्ञानी मृत्युमाप्नोतीत्यर्थम् इति सूचितम् ।
तथा च नेह नानेति श्रुत्या जीवान्तर्यामिणः परब्रह्मणश्च भेदनिषेधेन ’ अहं ब्रह्म ’’ तत्त्वमसि’ इत्यादीनामपि जीवान्तर्यामिब्रह्मणोरभेदबोधकत्वमेव, न तु जीवस्वरूपब्रह्मस्वरूपयोरित्यपि समर्थितम् । एवमेव " युष्मद्युपपदे समाना-धिकरणे स्थानिन्यपि मध्यमः " " अस्मद्युत्तमः” इति सूत्रप्राप्तमध्यमोत्तमपुरुषयोस् त्वं ब्रह्म, त्वं यज्ञस् त्वं लोकः; अहं ब्रह्माहं यज्ञोऽहं लोक इत्यादाविव प्रयोगसाधुत्वार्थत्वं वा “ असनादसि नामासौ " इत्यादिस्मृत्यनुसारेणान्तर्यामिपरत्वं वा वर्णनीयम् ।
एतावता ग्रन्थेन नानाशब्दस्य भेदार्थकत्वं गृहीत्वा पूर्वोत्तरवाक्यानुसारेणार्थोऽभिहितः ।
” यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक्पश्यन् तानेवानुविधावति ॥ “
इति उत्तरवाक्यानुसारेण " एवं धर्मानात्मनोऽभिन्नान् पृथक् पश्यन् " इति तद्भाष्यानुसारेण च नानाशब्दस्य भेदविशिष्टमर्थः । तथा च इह ब्रह्मणि किञ्चन नाना स्वभिन्नं गुणक्रियादिधर्मजातं नास्तीत्यर्थः । अत्र नेहास्ति किञ्चनेत्येतावता पूर्ती नानापदप्रयोगो व्यर्थः स्यात् । अतो ऽत्र न विशेष्यमात्रनिषेधतात्पर्यं किन्तु विशिष्टनिषेध एवेति वक्तव्यम् । विशेष्यवति विशिष्टनिषेधस्य विशेषणनिषेध पर्यवसानस्य सकलतान्त्रिकसम्मततया " स्वाभाविकी ज्ञानबलक्रिया च " " सत्यः सोऽस्य महिमा ” “ अदृश्यत्वादिगुणको धर्मोक्तेः " इत्यादिभिरनेकप्रमाणैः सिद्धस्य विशेष्यस्य निषेधायोगेन धर्मधर्मिभेदनिषेधकत्वमेवास्याः श्रुतेरिति सिध्यति । भेदाभावे धर्मधर्मिभावो वा कथमित्याशङ्कापरिहारपरत्वं किञ्चनेति पदस्येति श्रीमद्वादिराजतीर्थपूज्यचरणैरभिहितम् । तथा च इह ब्रह्मणि भिन्नं गुणक्रियादिकं नेति निषधे अभिन्नं गुणादिकं ब्रह्मणि वर्तते इति लभ्यते । ततश्चाभेदे कथमाधाराधेयभाव इत्याशङ्कायां तत्परिहाराय अस्ति किञ्चनेत्युक्तम् । तेन च भेदाभावेऽपि भेदकार्यभूताधाराधेयभावव्यवहारादिकतिपयभेदकार्यकारी अत एव तत्प्रतिनिधिभूतः कश्चन स्वभावविशेषो ऽस्ति । तेनाधाराधेयभावव्यवहार इति । अङ्गीकृतं चैतदद्वेतसिद्धौ “स्वभावविशेषादेव सर्वस्योपपत्तेः” इत्यादिना । एवं सत्यपि अद्वैततत्त्वसुधा न केवलं शङ्कराचार्योक्तदिशा जीवभेदनिषेधिका किन्नाम जडभेदस्य जडस्य च निषेधिका, तथा न केवलं शङ्कराचार्योक्तदिशा भिन्नधर्मनिषेधिका किन्नाम भिन्नसर्वजडजीवादिनिषोधकेति श्रुत्यर्थमभिदधाना शङ्कराचार्यानप्यतिक्रामति लघुचन्द्रिकावत् । मन्ये च अद्वैतसिद्धिकारः यथा विस्तराद्विभेति तथानैते विस्तरादिभ्यति न वा स्वाचार्यद्रोहान् नापि श्रीतिपूर्वोत्तरवचनविरोधाद् इति महदाश्चर्यम् ।
इहलोकपरलोकयोरभावे यदेवेहेति वाक्यं कथमुपपद्यताम्, द्रष्टुरभावे मृत्योरभावे कः पश्यति कस्मात्को वा मृत्युमामोति । सर्वथा नेह नानेति वाक्यमप्रमाणं स्यात् सर्वनिषेधपरत्वे । किञ्च सर्वान्तर्गतस्य “नेह नानास्ति किञ्चने’ ति वाक्यस्य च निषेधापत्त्या निषेधवाक्यस्य तत्प्रामाण्यस्य प्रामाण्याभावे च निषिध्यमानसत्यत्वसिद्धेरप्रत्यूहत्वेन च सर्वनिषेधपरत्वकथनमुन्मत्तप्रलपितमेवेति बोध्यम् ।
सर्वोऽपि धर्मराज सिद्धान्तः ।
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ (का. ५।१३ ) इति मन्त्रे संगृहीतः ।
अत्रैवं योजना ये धीराः, य एकः नित्यश् चेतनः बहूनां नित्यानां चेतनानां कामान् विदधाति, आत्मस्थं तम् अनुपश्यन्ति तेषां शाश्वती शान्तिर्भवति, इतरेषां शाश्वती शान्तिर्न भवति इति । तत्र नित्यानाम् = स्वरूपतो देहतश्च -नाशरहितत्वेन नित्यानां चेतनानाम् इति वाक्येन मुक्ता एवोच्यन्ते । किंच कामान् विदधातीत्युक्त्या इष्टमात्रं परमात्मा सम्पादयतीत्युक्त्या “ सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चता " इति श्रुत्युक्तदिशाऽपि मुक्ता एवात्राभि- प्रेता इति सिध्यति । बहूनामिति तेषां बहुत्वकथनेन तेषां परस्परमेदसिद्धिः । कामानिति बहुवचनेन जडानां भेदसिद्धिः । चेतनानां कामानित्युक्त्या जीवजडभेदसिद्धिः । कामान् विदधाति इत्यनेन तमात्मस्थम् इत्यनेन च जीवपरमात्मनोर् जडपरमात्मनोश्च भेदसिद्धिरिति पञ्चभेदज्ञानस्यैव शान्तिहेतुत्वमुपदर्शितम् । एकश्चेतन इत्युक्त्या आत्मस्यमित्युक्तान्तर्यामित्वेन नियम्यभेदप्रयुक्तभेदशङ्का-परिहारः कृतः । अयमेव भेदः नेह नानेति श्रुत्या निषिद्धः । न तु पूर्वोपदर्शितभेदपञ्चकान्तर्गतः कश्चिदपि । मुक्तजीवाभीष्टप्रदातुरश्विरस्य मायानाशाधीननाश- प्रतियोगित्वशङ्कां निराकर्तुमेव तस्य नित्यत्वमुक्तम् । एतेन
**” पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च " । **
निर्दोषत्वं गुणोद्रेकं ज्ञात्वामुक्तिर्नचान्यथा “ ॥ इत्यादिस्मृतिवाक्यान्यपि तद्विवरणपराण्युपपद्यन्ते इति ज्ञेयम् ।
यत्त्वत्र अनित्यानामित्यकारप्रश्लेषणेन पाठं परिकलप्य अनित्यानामिन्त्यस्य विनाशिनामित्यर्थं चाभिधाय विनाशिनां चेतनानां ब्रह्मादीनाभित्यर्थकथनं तत्तु जीवचेतनब्रह्मचेतनयोरैक्यवादिनां स्वव्याहतमेवेति हेयमेव । अतः” नेह नानास्ति किञ्चन " इत्यादिश्रुतीनां न विजातीयभेदनिषेधपरत्वं न वा सर्वनिषेधपरत्वं किन्तु सर्वान्तर्यामिभगवद्रूपभेदनिषेधपरत्वमेवेति ।
**। इति नेहनानेत्यादिश्रुतीनां सर्व निषेधपरत्वनिरासः । **