परिशिष्टप्रकरणम्
अद्वैतखण्डनपूर्वकचन्द्रिकामण्डने परिशिष्टप्रकरणम्
रामसुब्ब_०१
( रा . ) यत्तु " इदं तु बोध्यं माध्वमते ब्रह्मण इव ज्ञानानन्दादि गुणैर्जीवस्यात्यन्ताभेदस्वीकारान्मुक्तिदशायां ज्ञानानन्दादिगुणानां मुक्तस्य चाश्रयाश्रयिभावानुपपत्या ब्रह्मवन्मुक्तोपि निर्गुणः स्याद् इति ।
खण्डनं_०१
(खं. ) तन्न गुणगुणिनोरभेदपक्षे घटोपलम्भे शुक्लाद्यनुपलम्भार्थ, भेदाभेदपक्षे तयोरविरोधार्थं, कालः, सदास्ति, देशः सर्वत्रास्ति, इत्यबाधितव्यहारार्थं त्वदङ्गीकृततत्तदसाधारणस्वरूपस्यैव स्वभावविशेषापरपर्यायविशेषतयास्मदङ्गीकृतत्वेन तेनैव ज्ञानादिगुणाभिन्नस्यापि मुक्तस्य ज्ञानाद्याश्रयत्वरूप सगुणत्वोपपत्तेः । अपरिच्छेद्यत्वस्य ब्रह्मानन्यत्वमेव बृहधातूत्तरप्रत्ययस्यापि आश्रय एवार्थो ऽत्यन्ताभेदे आश्रयाश्रयिभावः “स्वे महिम्नि प्रतिष्ठित” ( छां. ७।२४।१ ) इत्यादाविव सम्भवतीति सित्धान्ते दोषाभावादिति जिज्ञासाधिकरणे अभेदेऽप्याश्रयाश्रयिभावस्य त्वया खण्डनाख्यग्रन्थे ९५ तमे पत्रे स्वीकृतत्वाच्च । अनुभवरूपेपि मुक्ते अनुभवितृस्वरूपगुणाश्रयत्वस्य “एवं मुक्तस्य निरतिशयानन्दाविद्यानिवत्युपलक्षित-शुद्धचित्घनकैवल्यरूपात्मरूपत्ववद् उक्तकैवल्यरूपात्मानुभवितृत्वमपि भाष्यकृदभिमतं न तु मूककल्पम् आनन्दानुभवितृत्वशून्यं कैवल्यात्मकानन्दत्वं यथासौ सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति यथा च वर्तमाना ब्रह्मविद आरब्धभोगक्षये कैवल्यमनुभवति इति यावदधिकाराधिकरणभाष्यप्रामाण्यान् ननु निर्दुःखनिरतिशयानन्दात्मककैवल्यस्य तदनुभवस्य मुक्तस्यात्यन्ताभेदात् । स्वरूपातिरिक्तस्य कैवल्यानुभोगसाधनस्याभावाच्च तादृशकैवल्यानुभवितृत्वं मुक्तस्य न सम्भवतीति चेन्न " स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम” इति गीतातद्भाष्ययोरेकस्येव स्ववेतृत्व, स्ववेद्यत्व, स्ववेदन साधनत्यनिर्देशदर्शनेन प्रकृतेपि तथा सम्भवात् कर्मकर्तव्यपदेशाच्चेति सूत्रं तु ज्ञानाक्रियाव्यतिरिक्त क्रियानिरूपितकर्तृकर्मणोर्भेदपरम् अन्यथोदाहृतगीतातद्भाष्यविरोधापत्तेरित्यलमिति त्वत्कृतशाङ्करभाष्यगाम्भीर्य नि. र्णयाख्यग्रन्थे उपपादितत्वाच्च । नहि द्रष्टृर्द्ष्टेविपरिलोपोविद्यते ( ब. ४- ३ - २३ ) इत्युपनिषद्व्याख्यानावसरे “तथायमप्यात्मा” विपरिलुप्तया स्वभावया दृष्ट्या नित्यदृष्टेत्युच्यत इति ज्ञानस्वभावस्यापि ज्ञानाश्रयत्वव्यवहारस्य शाङ्करभाष्ये स्वीकृतत्वाच्च । अद्वैत सित्धावपि कालः सदाऽस्ति इत्यादिव्यवहारस्य स्वभावविशेषरूपास्मदङ्गीकृतविशेषेण निर्वाहस्योक्तत्वाच्च । यत्तु विशेषस्याङ्गीकारेणास्मन्मत ( श्रीमन्मध्वमत) प्रवेशमाशङ्क्य तत्तदसाधारणस्वरूपस्यैव स्वभावविशेषशब्दार्थत्वेन त्वदुक्तविशेषानुक्तेरिति अस्मदङ्गीकृतविशेषास्वीकारकथनं तद् अस्मत्सिद्धान्ताज्ञानविजृमितमेवेति उपेक्षणीयमेव । एतेन धर्मरूपस्य भवत्कल्पितविशेषस्य " एवं धर्मानि"ति श्रुत्या जीवात् पृथक्त्वासिध्या जीवाभिन्नतया जीवस्वरूप वदेवाश्रयाश्रयिभावव्यहाराप्रयोजकत्वादित्येतन्निरस्तं त्वम्मत इव तत्तदसाधारणस्वरूपापरपर्यायविशेषेणैव व्यवहार निर्वाहोपपत्तेः । " एवं धर्मानिति" श्रुतेर्जीव विषयत्वाभावाच्च ॥ न च “एवन्धर्मानिति” श्रुतेर्जीवविषयत्वाभावे आनन्दादिगुणानां जीवेनाभेदे प्रमाणाभाव इति वाच्यम् । “योविज्ञाने तिष्ठन् (बु) बलमानन्द ओजश्च सहोज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यते परमाद्विभोः प्रज्ञान घनः " (बु) इत्यादि श्रुति-स्मृतिभिर्ज्ञानादीनां जीवस्वरूपत्वावगतेः ।
**एतेन " **
रामसुब्ब_०२
( रा ) किञ्च तन्मते आनन्दानुभवितृत्वानुपपत्तिर् आनन्दानुभवरूपधर्म प्रति मुक्तस्याश्रयत्वाभावान् मध्वमते आनन्दानुभवस्य मुक्तरूपत्वस्वीकारादित्युक्तं प्रत्युक्तम् ।
खण्डनं_०२
(खं.) “स्वे महिम्नि प्रतिष्ठितः " ( ) इत्यादाविव विशेष बलादेव अभेदेपि आश्रयाश्रयिभावोपपत्तेरुक्तत्वात् । आनन्दानुभवरूपेपि मुक्ते आनन्दानुभवाश्रयत्वरूपानन्दानुभवितृत्वस्य त्वयैव शाङ्करभाष्यगाम्भीर्यनिर्णयाख्यग्रन्थे अङ्गीकृतत्वेन आनन्दानुभवितृत्वानुपपत्युक्तेः स्वव्याघातकरत्वाच्च ।”
रामसुब्ब_०३
रा.) यदुक्तं, " न च वृत्तिज्ञानस्य जीवाद्भिन्नतया तस्य मोक्षदशायाम् आनन्दानुभवरूपत्वं स्वीकृत्य तदाश्रयत्वरूपानन्दानुभवितृत्वमुपपादनीयमिति वाच्यम् । वृत्तिज्ञानस्य मनः परिणामत्वेन मुक्तौ मनोनाशेन वृत्तिज्ञानासम्भवस्य भवद्भिरेवोक्तत्वात् प्रमातृस्वरूपज्ञानस्यैव भवद्भिस्तदङ्गीकारादिति
खण्डनं_०३
(खं.) तन्न अनुक्तोपालम्भनत्वेनोपेक्षणीयत्वात्
रामसुब्ब_०४
(रा.) यत्तु किञ्च माध्वमते मुक्तानां तारतम्योक्तिरप्ययुक्ता किं तत् तारतम्यं प्रस्थमितव्रीह्याढकपरिमितव्रीह्योरिव सङ्ख्यातारतम्यकृतं ? उत शौर्यपराक्रमगुणद्वययुक्त देवदत्तशौर्यपराक्रमगाम्भीर्यादिगुणयुक्त विष्णु-मित्रयोरिव गुणतारतम्यकृतं ? आहोस्वित् कपालघटयोरिव परिमाणतारतम्यकृतं ? अथवा घटपटयोरिव स्वरूपकृतं ? । नाद्यः मुक्तानां प्रत्येकमेकत्वसङ्ख्याश्रयत्वात् । न द्वितीयः मुक्तानां भवद्रीत्या आनन्दादिगुणात्यन्ताभिन्नतया निर्गुणत्वात् । न तृतीयः मुक्तानां प्रत्येकमणुत्वेन परिमाणतारतम्याभावात् । न चतुर्थस् तस्य परस्परभेदरूपत्वेन तस्मिन् तारतम्यव्यवहारासिद्धेः । सर्वैरपि मुक्तानां परस्परभेदस्य स्वीकृतत्वेन तत्साधनवैफल्याच्चेति ।
खण्डनं_०४
(खं.) तन्न आनन्दादिगुणाभिन्नस्यापि मुक्तस्यानन्दाश्रयत्वरूपसगुणत्वस्योपपादित्वेन द्वितीयपक्षस्यादुष्टत्वाद् इतरपक्षाणां चानङ्गीकारपराहतस्वात् । मुक्तानां परस्परभेदस्य त्वयैवानङ्गीकृतत्वेन ‘सर्वैरपि मुक्तानां परस्परभेदस्य स्वीकृतत्वेन तत्साधनवैफल्याच्चेति’ चतुर्थपक्षोक्तदोषस्यात्यन्तासङ्गतेश्च ।
रामसुब्ब_०५
(रा.) इक्षुक्षीरगुडादिरसानां मधुरमधुरतरमधुरतमानामिव-मुक्तजीवस्वरूपाणां तारतम्यमाशङ्क्य उक्तरसानां मध्ये यस्य क्षीरप्रियस्य क्षीररसे मधुरतमत्वबुद्धिस् तत्र तु अन्यस्य मधुरत्वबुद्धिर् इत्याद्यनुभव-सिद्धं तथाच तेषु मधुरत्वमधुरतरत्वमधुरतमत्वानाम् अनियततया स्वरूपतारतम्यनियमाभावेन तदृष्टान्तबलेन मुक्तानन्दनियमस्य वक्तुमशक्यत्वादिति यदधूषणमुक्तं
खण्डनं_०५
(खं. ) तन्न यथेक्षुरसेष्वेवैकोमधुर एको मधुरतर एको मधुरतमः यथा वा समानपरिमाणेष्वपि दीपेषु एकः प्रकाशतर एकः प्रकाशतमः यथा वा समपरिमाणेष्वेव रत्नेषु एकः प्रकाशतर एकः प्रकाशतम यथा वा क्षीरेषु एकं क्षीरं मधुरम् अपरं मधुरतरम् अन्यच्च मधुरतममित्येकस्यैव पुरुषस्यानुभवसिद्धमित्येकजातीयेष्वेव मधुरमधुरतरमधुरतमत्वादीनां नियततया तद्दृष्टान्तबलेन मुक्तानामानन्दादिनियमस्य वक्तुं शक्यत्वात्
रामसुब्ब_०६
( रा . ) यत्तु किञ्च माध्वमते “तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको-मनुष्यगन्धर्वाणामानन्दः” इत्यादिश्रुतौ " श्रोत्रियस्य चाकामहतस्य” इति प्रतिपर्यायमकामहतशब्देन तत्तन्मुक्तं गृहीत्वा आनन्दतारतम्यं बोध्यते इत्येतदनुपपन्नम् एकमेवमुक्तं तत्तत्पर्यायवगताकामहतशब्देनानूद्य तस्य तत्तत्पर्यायोक्तानां मनुष्यादारभ्य हिरण्यगर्भपर्यन्तं मुक्तानन्दानां बोधनेन मुक्तभेदेनानन्दभेदस्य तच्छूत्या स्वरसतः प्रतीत्यभावाद् इति ।
खण्डनं_०६
( खं . ) तन्न श्रोत्रियस्य अकामहतस्येति विशेषणद्वयस्य वचनव्यत्यासेन मनुष्यगन्धर्वादिभिरन्वये ताभ्यां तेषां मुक्तत्वप्रतीत्या मुक्तमनुष्यानन्दापेक्षया मुक्तमनुष्यगन्धर्वानन्दस्य शतगुणितत्वम् एवं मुक्तमनुष्यगन्धर्वापेक्षया मुक्तदेवगन्धर्वानन्दस्य शतगुणितत्वमित्येवम् अन्यान्यमुक्तनां चतुर्मुखपर्यन्तानां बोधनेन मुक्तभेदेनानन्दभेदस्य तच्छूत्या प्रतीतेरविकलत्वाद् अन्यार्थस्यासम्भवाच्च ।
रामसुब्ब_०७
( रा . ) यत्तु वस्तुवस्तु नेयं श्रुतिर्मुक्तविषया तस्मिन्नबद्धजीवत्वव्याप्य श्रोत्रियत्वधर्मादिभावात् शतगुणितप्रकृतानन्दस्य तत्तत्कामहतश्रोत्रिये असम्भवाद् अकामहतत्वं विशेषणं जडस्य घटादेरेव स्वतोऽकामहतत्वात् तत्रानन्दाप्रसक्त्या श्रोत्रियत्वविशेषणम् अकामहतत्व समुचितं श्रोत्रियत्वमेवोक्तशतगुणनन्दस्य प्रयोजकमिति सिध्यर्थं श्रोत्रियत्वाकामहतत्वयोस्समुच्चयार्थश्चकार इति ।
खण्डनं_०७
(खं . ) तत्र कामहतत्वं नाम तत्तत्कामनायां जातायां तद्विषयालाभप्रयुक्तत्र्यथावत्वं तदभावो ऽकामहतत्वं किंवा तृष्णा (कामा ) भाव एतदुभयात्मकाकामहतत्वस्य बदध्जीवसंसारिणि काम्यमानवस्तुनो ऽलाभेन कामानामवर्जनीयत्वेन च असम्भवेन बृहदारण्योपनिषदि आनन्दतारतम्यप्रकरण एव श्रोत्रियोऽवृजिनोऽकामहत इति अवृजिनत्व विशेषेण " साधु युवाध्यायक" इति श्रोत्रियत्वावृजिनत्वे गृह्येते इति तैत्तिरीयशाङ्करभाष्ये श्रोत्रियत्वावृजिनत्वे द्वे (१०) इति सुरेश्वरकृततैत्तिरीयभाष्यवार्तिकेपि अस्मिन्नपि प्रकरणे अवृजिनत्वं स्वीकर्तव्यमित्युक्तत्वेन च अवृजिनत्वस्यापि अकामहतत्वादिवद् विशेषणत्वावगतेः सर्वपापाभावार्थकावृजिनत्व विशेषणस्य बद्धजीवे कथञ्चिदपि असम्भवेन च अवृजिनत्वादिविशेषणानां मुक्तत्वव्याप्यतया बद्धजीवत्वविरोधितया चास्याः श्रुतेर्मुक्तविषयत्वात् शतगुणितप्रकृतानन्दस्य तत्तत्कामहतश्रोत्रियेऽसम्भवाद् अकामहतत्व विशेषण’ मिति वाक्येन श्रोत्रियत्वस्यैव शतगुणितप्रकृतानन्दप्रयोजकत्वाङ्गीकारे तत्तत्कामहतश्रोत्रियस्यापि तत्तदानन्दप्रसङ्गवारणार्थम् अकामहतत्व विशेषणमिति प्रयोजनकथनमसङ्गतमेव इन्द्रराजादिपदकामनारहितश्रोत्रियस्यापि इन्द्रराजादिसम्बन्धिसुखानुभवस्यादर्शनेन तद्विपरीतदर्शनेन च अकामहतत्वसंहितश्रोत्रियत्वस्य उक्तशतगुणानन्दं प्रति प्रयोजकत्वासम्भवात् ।
रामसुब्ब_०८
( रा . ) " अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ’ (ऋ. ८-२-२४) इति श्रुतौ मनोजवशब्दितमोक्षहेतु ब्रह्मोपासनानां तारतम्यकथनेन तत्साध्यमुक्तावपि तारतम्यमस्तीति प्रतीयत इति अस्ं दुक्त मित्याशङ्क्य मनोजवशब्दस्य मनोवेगपरत्वेन मोक्षहेतु ब्रह्मोपासनपरत्वस्य विनाकारणमभ्युपगन्तुमशक्यत्वादिति यदुक्तं दूषणम् ।
खण्डनं_०८
(खं . ) तन्न मनोजवाः प्रज्ञाद्यास्तेष्वसमा अतुल्या बभूवुः - भवन्तीति अतुल्यत्वमुक्त्वा आदध्नास उपकक्षासः स्नात्वा-हृदा इत्यादिपदेन केषाञ्चिन् मध्यमप्रज्ञत्वं केषाञ्चिद् अल्पप्रज्ञत्वं केषाञ्चिन् महाज्ञानित्वम् उक्तमिति वेदभाष्यकारेणापि व्याख्यातत्वेन उपासनायाज्ञानरूपत्वेन अस्याः श्रुतेरूपासना तारतम्यबोधनपरत्वस्य निर्विवादत्वेन मनोवेगपरत्वकथनस्य वेदभाष्याद्यनवलोकन निमित्तत्वात् प्रकृतेर् मनोवेगरूपार्थस्य अनुपयुक्तत्वाच्च ।
रामसुब्ब_०९
( रा . ) किञ्च माध्वमते मुक्तेश्वरावुभावप्यप्यन्धौ निर्गुणत्वेन दर्शन-रहितत्वाद् उभावपि समौ न्यूनाधिक भाव समर्प कगुणरहितत्वात् । न चेश्वरस्य महत्वं मुक्तस्याणुत्वमित्यसाम्वमिति वाच्यम् । तन्मते महत्वस्यापि ब्रह्मात्यन्त्ताभिन्नतया ब्रह्मरूपत्वाद् अणुत्वस्यापि मुक्ताभिन्नतया तद्रूपत्वान् महत्वाणुत्वयोरेव तयोरभावात् साम्यापत्तेर निवार्यत्वादिति ।
खण्डनं_०९
( खं . ) तन्न मुक्तेश्वरयोरुभयोरपि आनन्दानुभवितृत्वादिरूपगुणवत्वस्य साधितत्वेन त्वयाप्यङ्गीकृतत्वेन च निर्गुणत्वाभावात् । “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ( पुरु. ) यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मकः शक्त्यात्मक ऐश्वर्यात्मक " इत्यादिश्रुत्या ईश्वरस्य " स तत्र पर्येति जक्षन् क्रीडन् रममाणः” ( छां०) “एतत्सामगायन्नास्ते” ( तै० ) इत्यादिश्रुत्या मुक्तजीवस्य इन्द्रियवत्वोक्तेर्दर्शनत्वस्योपपादितत्वाच्च । सर्वज्ञत्वा सर्वज्ञत्वाल्पशक्तिपूर्णशक्त्यादिभिविशेषत्वेन मुक्तेश्वरौ न सर्वांशेन समौ अणुत्वमहत्वयोर्जीवेश्वराभिन्नत्वेपि विशेषबलेन जीवेश्वरधर्मतया ताभ्यामपि विशेषवत्वसम्भवात् । इदं तु बोध्यं सङ्करमते एव ब्रह्मणो निर्गुणत्वेन अन्धत्वं (न) खरेश्वरयोरुपहितचैतन्यत्वेन साम्यम् ईश्वरः खरचैतन्याभिन्नश्च । सङ्कराभिमतब्रह्मणः ‘निविशेषं स्वयम्भातं निर्लेपमजरामरम् । शून्यं तत्वमविज्ञेयं मनोवाचामगोचरम् इत्यादि बौद्धाभिमतशून्यलक्षणोपेतत्वेन शून्याभेदः शून्यवाद्यभिमतस्य जगतो ऽज्ञानकल्पितत्वस्य शून्यापरपर्याय ब्रह्मज्ञाननिवर्त्यत्त्वस्य अहं तुच्छम् अहं ब्रह्मेत्यादिशून्यापरपर्याय ब्रह्मैक्योपासनायास्तया च ब्रह्मापरपर्यायशून्यभावरूपमोक्षस्य च शून्यवाद्यभिमतव्यावहारिक सत्वादीनां चाङ्गीकृतत्वेन मायावादी शून्यवाद्यभिन्नश्चेति ।
रामसुब्ब_१०
(रा.) किञ्च जगत्स्रष्टृत्वगुणः ब्रह्मत्यन्ताभिन्न इति तैः स्वीकृतः स चानुपपन्नः । " तत्तेजोऽसृजते " ति स्रष्टृत्वस्यागन्तुकत्वोक्त्या नित्य सिद्धब्रह्मरूपत्वासम्भवाद् इति यदुक्तम् ।
खण्डनं_१०
तन्न नित्यप्रकाशरूपस्यापि सवितुः “सविता प्रकाशते " इति व्यवहारविषयत्वाज् जगत्सर्जनक्रियारूप ( जगत्स्रष्टृत्वरूप ) स्यापि ब्रह्मणः क्रियाया व्यक्त्यभिप्रायेण " तत् (ब्रह्म) तेजोसृजत” इति व्यवहारविषयत्वसम्भवेन तादृशव्यवहारस्य सूर्यप्रकाशस्येव सर्जनक्रियारूपस्रष्टृत्वस्य आगन्तुकत्वाज्ञापकत्वात् । स्वीकृतं हि शङ्करेणापि “यद्वै तन्नपश्यति पश्यन् वै न पश्यति” (बु) इत्यूपनिषद्व्याख्यानावसरे " यथादित्यादयोनित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति न ह्यप्रकाशात्मनः सन्तः प्रकाशं कुर्वत प्रकाशयन्तीत्युच्यते किं तर्हि स्वभावेनैव नित्येन प्रकाशेन तथायमप्यात्मा अविलुप्तस्वभावया दृष्टया नित्यया द्रष्टेत्युच्यते इति नित्यज्ञानस्वरूपस्यापि द्रष्टा इत्यादिव्यवहारविषयत्वं तादृशव्यवहारस्य ज्ञानसम्बन्ध्यागन्तुकत्वाज्ञापकत्वं च ।
रामसुब्ब_११
( रा.) स्रष्टृत्वस्याभिव्यक्त्यात्मना आगन्तुकत्वं शक्त्यात्मना ब्रह्मस्वरूपत्वामित्याशङ्क्याभिव्यक्त्यात्मकस्य स्रष्टृत्वस्य ब्रह्मभिन्नत्वे ‘एवं धर्मानि" ति श्रुतिविरोधापत्या तदभिन्नत्वस्यावश्यकतया आगन्तुकत्वोक्तिविरोधतादवस्थ्याद् आगन्तुक व्यक्त्यात्मकस्रष्टृत्वात्यन्ताभिन्न तया ब्रह्मणोप्यागन्तुकत्वापत्तेश्चेति तद्दूषणमुक्तम् ।
खण्डनं_११
खं.) तन्न अभिव्यक्त्यात्मकस्यापि स्रष्टृत्वस्य अनागन्तुकत्वाभ्युपगमाद् अभिन्नस्यापि विशेषबलेन शक्तिव्यक्तिरूपत्वोपपत्तेः ।
रामसुब्ब_१२
( रा . ) न च विशेषस्यापि पूर्वोक्तरीत्या ब्रह्मात्यन्ताभिन्नतया घट्टकुट्टीप्रभातापत्तिरिति वाच्यम् ।
खण्डनं_१२
(खं . ) कालः सदास्ति इत्यादि व्यवहारनिर्वाहार्थम् अद्वैत सिद्धिकार त्वदाद्यद्वैत्यङ्गीकृततत्तदसाधारणवस्तुस्वरूपापरपर्यायवस्तुस्वभावविशेषस्यास्माभिविशेषतयाङ्गीकृतत्वेन विशेषाङ्गीकारपक्षे प्राप्तदोषाभासानाम् उभाभ्यां स्वनिर्वाहकतया समाधेयत्वात् ।
रामसुब्ब_१३
( रा . ) यत्तु किञ्च द्युभ्वाद्यधिकरणादिषु चतनाचेतनात्मक सर्वजगदाधारत्वस्य ब्रह्मणि भवद्भाष्य एव कथितत्वात् कृत्स्नस्यापि जगतोब्रह्माश्रितत्वेन ब्रह्मधर्मतया “एवं धर्मान्” इति श्रुत्या ब्रह्मनिरूपितपृथग्धर्मत्वनिषेधेन ब्रह्मात्यन्ताभिन्नत्वाज् जीवब्रह्मजडानामद्वैतापत्तिः । माध्वानां द्वैतिनइति शब्दश्च निरर्थकः स्यात् । उक्तरीत्या तन्मते जडस्य ब्रहृणो जीवस्य चात्यन्ताभिन्नतया भेदरूपविषयासिद्धेरित्यलमिति ।
खण्डनं_१३
( खं) तन्न चेतनाचेतनात्मक सर्वजगदाधारत्वस्य ब्रह्मधर्मत्वेन ब्रह्माभिन्नत्वेपि जगतः ब्रह्मधर्मत्वाभावेन ब्रह्मस्वरूपत्वाप्राप्तेः । न च जगतो ब्रह्माश्रितत्वाद् ब्रह्मधर्मत्वमिति वाच्यम् । तथा सति घटोपि त्वदाश्रितः पटोपि त्वदाश्रित इति तयोरपि त्वत्धर्मत्वं स्यात् । यावत्धर्माणां धर्म्यभिन्नत्वानङ्गीकाराच्च
रामसुब्ब_१४
( रा . ) यत्तु मध्व माध्वभाष्यजिज्ञासाधिकरणे “स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता” इति व्योमसंहितायामित्यस्ति । तत्र तन्त्रं-पञ्चरात्रादि इति जयतीर्थटीका तेन पञ्चरात्ररूपतन्त्रोक्तज्ञाने स्त्रीशूद्रद्विजाभासानामधिकारः न तु द्विजश्रेष्ठानां शिष्टानामिति स्पष्टं प्रतीयते इति ।
खण्डनं_१४
(खं . ) तन्न स्त्रीशूद्र ब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिनोदितम् । इत्यादौ शूद्रादीनां वेदाधिकाराभावाद् भारत निर्माणं कृतमित्येतावन्मात्रेण द्विजश्रेष्ठानां भारतादौ नाधिकार इत्यस्येव स्त्रीशूद्रद्विजाभासानां तन्त्र शब्दितपञ्चरात्रादिज्ञानेऽधिकारकथनेऽपि द्विजश्रेष्ठानां शिष्टानां नाधिकार इत्यस्यासित्धेः । किञ्च " तन्त्रज्ञानेऽधिकारिता । एकदेशे परोक्ते तु न ग्रन्थपुरस्सरे" इति तस्मिन्नेव वाक्ये ‘परोक्ते’ इति पदेन परान् प्रति स्त्रीशूद्रद्विजाभासातिरिक्तान् द्विजश्रेष्ठान शिष्यान् प्रति उक्ते स्त्रीशूद्रादीनां श्रवणेऽधिकारः न तु साक्षात् स्वान् प्रति उक्त इति कथनेन द्विजश्रेष्ठानामधिकारो व्योमसंहितावचनेनैव गम्यत इति द्विजश्रेष्ठानामधिकाराभावप्राप्तिरिति कथनस्य व्योम संहितावाक्यार्थाज्ञानविजृम्भितत्वाच्च ।
रामसुब्ब_१५
(रा.) यत्तु मध्वभाष्ये तदन्तरप्रतिपत्त्यधिकरणे ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनं’ इति वाराहे इति ग्रन्थेन भूतबन्धस्य संसाराख्यबन्धत्वमुक्तम् । आनन्दमयाधिकरणे प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते’ इति मध्वभाष्येण भूतसम्बन्धरूपबन्धस्य प्रमादात्मकत्वमुक्तम् । तत्र तत्वप्रकाशिका तद्गतबन्धस्याज्ञानमूलत्वेनास्वाभाविकत्वाद् अस्वाभाविके चाविद्यमानपदप्रयोगादिति भाव इति तथाचाद्वैतिवद्बन्धरूपसंसारस्याज्ञानमूलत्वं ‘स्वीकृतवान्’ माध्वः किमित्यद्वं तिनं द्वेष्टीति ।
खण्डनं_१५
( खं) तन्न सर्वप्रमाणविरुद्धानां जीव ब्रह्माभेद ब्रह्मनिर्गुणत्व, जगन्मिथ्यात्व, स्वाप्नपदार्थ मिथ्यात्व ब्रह्मवाच्यत्व, सत्तात्रैविध्य, ब्राह्मण्याद्यारोप, सन्ध्यायज्ञादिवेदविहितक्रियाकर्तृत्वाभावादीनां प्रत्यक्षानुमानवेदाद्यागमानाम् अतत्वावेदकत्वलक्षणाप्रामाण्यस्य चास्मदनङ्गीकृतानाम् अद्वैतिभिरङ्गीकारेण प्रमाणविरुद्ध वक्तृषु चार्वाकसौगतादिष्विव द्वेषस्य न्याय्यत्वात् । सत्यरूप भूतबन्धस्य सत्यभूताज्ञानस्थित्यधीनस्थितिकत्वरूपाज्ञानमूलत्वाङ्गीकारेपि अद्वैतिवद् बन्धस्य मिथ्यात्व मिथ्याभूताज्ञानोपादानत्वादीनामनङ्गीकारेण बन्धस्याज्ञानमूलत्वमिति शब्दश्रवणमात्रेण साम्योपपादनस्य अद्वैतिषु तत्प्रयुक्तद्वेष्यत्वाक्षेपस्य च स्वपरमताज्ञानविजृम्भितत्वाच्च । यद्यपि शाङ्करभाष्यगाम्भीर्य निर्णयाख्ये स्वकृतग्रन्थे रामसुब्बशास्त्रिणा मायायास्तत्प्रयुक्तपदार्थानां च विद्यया नाशोनास्ति किन्तु कर्तृत्वभोक्तृत्वादीनामेव नाश इति शाङ्कराभिप्राय इत्यवोचि । केषाञ्चित्सत्यानामपि अध्यस्तत्वाङ्गीकाराद्वेषस्यापरिहारात् । ब्रह्मातिरिक्तनाश्यपदार्थाङ्गीकारेण अद्वैतमतहानेरपसित्धान्तापत्तेश्च ।
रामसुब्ब_१६
( रा . ) यत्तु " असम्भवस्तु सतोऽनुपपत्तेः" इति सूत्रेमध्वभाष्यतट्टीकयोः सत इति पदं ब्रह्मासाधारणमित्यङ्गीकृतत्वाज्जगति सद्विलक्षणत्वमङ्गीकृतप्रायं “असद्व्यपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषात् " इति सूत्रे भाष्यटीकयोरसत्वनिराकरणेन जगति असद्वैलक्षण्यं स्वीकृतं तन्मतप्रविष्टास्तु अद्वैत्यङ्गीकृत सदसद्विलक्षणत्वमिथ्यात्वमाक्षिपन्ति । स्वभाष्यटीकाज्ञानादिति ।
खण्डनं_१६
(खं.) तन्न अद्वैतिमते हि जगति सद्विलक्षणत्वं नाम सत्वावच्छिन्नप्रतियोगिताकभेदो वा, सत्वत्वाच्छिन्नप्रतियोगिताकाभावो वाङ्गीकृतः । अस्माभिस्तु सतां बहुत्वात् सदन्तर प्रतियोगिकभेद एव स्वीकृतः न तु सत्वत्वावच्छिन्नप्रतियोगिताकाभावः । एवमसद्विलक्षणत्वं नाम प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगितारूपासद्वैलक्षण्यं तत्ववादिभिरस्माभिरङ्गीकृतम् । अद्वैतिभिस्तु जगतः प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वाङ्गीकारात् । तादृशनिषेधप्रतियोगिवैलक्षण्यं नाङ्गीकृतं किन्तु निरुपाख्यादिरूपासद्वैलक्षण्यमङ्गीकृतं तत्तु द्वैतवादिभिर्नागीकृतं जगद् असन्नेति असद्विलक्षणज्ञानार्थं प्रतियोगितया असत्ज्ञानस्यावश्यकत्वेनासतः प्रतीतिविषयत्वस्यैवाङ्गीकारात् । एवमाद्यत्यन्त वैलक्षण्यात् श्रीमन्मध्वमतप्रविष्टकर्तृकाद्वैत्यङ्गीकृत सदसद्विलक्षणत्वरूपमिथ्यात्याक्षेपस्य स्वभाष्यटीकाज्ञानादित्युक्तेः । रामसुब्बाशास्त्रिण एव स्वपरभाष्यटीकाद्यज्ञानव्यापकत्वात् । अनुव्याख्यानसुधादिग्रन्थेषु अद्वैत्यभिमतसदसद्वैलक्षण्यस्य निपुणतरं स्पष्टं दूषितत्वेन तन्मतप्रविष्टास्त्वित्यादिना तेषामद्वैत्यभिमतसदसद्वैलक्षण्यानुमोदनाविष्करणस्यात्यन्तमसमञ्जसत्वाच्च ।
रामसुब्ब_१७
( रा . ) मध्त्रध्वमते सच्छन्दः स्वतन्त्रपरः जगति च स्वातन्त्र्याभावेन स्वतन्त्र विलक्षणत्वमास्तां न तावता अद्वैत्यभिमतसद्विलक्षणत्वघण्टितमिथ्यात्वं माध्वाभिमतमित्याशङ्क्य अद्वैतभाष्ये वाक्यान्वयाधिकरणे यो हि ब्रह्मक्षत्रादिकं जगद् आत्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शनं तदेव मिथ्यादृष्टं जगत् पराकारोति, इति ग्रन्थेन ब्रह्मण्येव स्वातन्त्र्यस्य जगति तदभावस्य जगति स्वतन्त्र विलक्षणत्वादर्शनप्रयुक्तस्वातन्त्र्यदर्शने मिथ्यादर्शनत्वस्य च कथनेनाद्वैत्यभिमतमिथ्यात्वस्य मध्वाङ्गीकृतत्वे विवादासङ्गतेरिति समाधानमुक्तम् ।
खण्डनं_१७
(खं . ) तन्न यदि वाक्यान्वयाधिकरणीयशाङ्करभाष्येण जगतः सत्यत्वम् ईश्वरस्य स्वातन्त्र्यादिकमद्वैत्यभिमतमिति सिध्येत् तदा अस्मदङ्गीकृतं जगतः सत्वं परमात्मनः स्वातन्त्र्यम् अद्वैतिभिरेवाङ्गीकृतं न तु अद्वैत्यङ्गीकृत प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वादिरूपमिथ्यात्वं द्वैतिभिरङ्गीकृतमिति अद्वैतिनामेव द्वैतमतप्रवेशः । न तु द्वैतिनामद्वैति मतप्रवेश इति फल्गुविवादं न कुर्मः । परमात्मनः स्वातन्त्र्य सर्वोत्तमत्वादीनां जगतः सत्यत्वादीनाम् अस्मदभिमतानां सित्धेश्च । परन्तु वाक्यान्वयाधिकरणीयशाङ्करभाष्येण तदसिद्धेर्विवादस्य सङ्गतत्वात् । तथाहि वाक्यान्वयाधिकरणीयशाङ्करभाष्यं तु " यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति “ब्रह्म तं परादाद्योन्यत्रात्मनो ब्रह्म वेद” इत्यादिना यो हि ब्रह्म क्षत्रादिकं जगद् आत्मनोन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्म क्षत्रादिकं जगत् पराकरोतीति भेददृष्टिमपोद्य " इदं सर्वं यदयमात्मा” इति सर्वस्य वस्तुजातस्य आत्माव्यतिरेकत्वमवतारयतीति अत्र यद्यपि आत्मनोन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शनं तदेव मिथ्या दृष्टं ब्रह्म क्षत्रादिकं जगत् पराकरोतीति भेददृष्टिमपोद्य “इदं सर्वंयदयमात्मा” इति सर्वस्य वस्तु जातस्य आत्माव्यतिरेकत्वमवतारयतीति अत्र यद्यपि आत्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यतीति वाक्येन झटिति जगतः सत्वेपि स्वातन्त्र्याभावमात्रं प्रतीयते तथापि ‘भेददृष्टिमपोद्य’ “इदं सर्वं यदयमात्म” इति सर्वस्य वस्तुजातस्य आत्माव्यतिरेकत्वमवतारयति इति उत्तरवाक्यं जगतो ब्रह्मणि अध्यस्तत्वरूपात्माव्यतिरेकस्य कथनात् सत्यत्वाध्यस्तत्वयोविरोधेन सत्यत्वं नाभिप्रेतमित्यवगम्यते ‘भेददृष्टिनिन्दापूर्वकमभेदंवददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुम् अस्यार्थमाह यो हीति जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातं स्वातन्त्र्येणेत्यक्तमिति च आनन्दगिरिकृततट्टिप्पणीवाक्याभ्यां त्वद्भाष्यकारस्य तात्पर्यं नास्तीति स्पष्टमवगम्यते । योग्यत्रात्मन आत्मस्वरूपव्यतिरेकेण आत्मैव न भवति ब्राह्मणजातिरिति तां “यो वेदे" त्यादि बृहदारण्यकोपनिषदीय साङ्करभाष्यवाक्येनापि जगतः ब्रह्मण्यारोपितत्वरूप ब्रह्मव्यतिरेकेणासत्वोक्त्या जगतः सत्वाभावे सङ्करतात्पर्यमवगम्यते न तु स्वातन्त्र्याभावमात्रे इति । तथाच जगतः सत्यत्वमङ्गीकृत्य स्वातन्त्र्याभावमात्रेण सच्छद्वावाच्यस्वतन्त्र परमात्मभिन्नत्वेन सविलक्षणत्वङ्गीकृतमद्वैतिभिरित्यत्र ज्ञापकाभावादिति ।
रामसुब्ब_१८
(रा.) यत्तु " तद्गुणसारत्वादिति" सूत्रे ज्ञानानन्दादिब्रह्मगुण एवास्य यतः सारः स्वरूपम् अतोऽभेदव्यपदेश इति मध्वभाष्येपि जीवब्रह्मणोः स्वरूपाभेदोऽद्वैतिवत्कथितः प्रतीयते मध्वमते आनन्दादिगुणानां ब्रह्मात्यन्ताभिन्नत्वाद् ब्रह्मात्यन्ताभिन्नानन्दादिस्वरूपत्वं जीवस्योक्त्वा ज्ञानानन्दादिब्रह्मगुणा एवेत्येवकारेण ब्रह्मभिन्नत्वनिराकारणात् । न च ज्ञानानन्दादिगुणा एवेत्यत्र ज्ञानानन्दादिगुणसदृशज्ञाननन्दादिगुणा इत्यर्थः । टीकोक्तरीत्या ग्राह्य इति शङ्क्यं स्वायत्ते शब्दप्रयोगे भाष्यकारेण गौणवृत्यार्थसमर्पकज्ञानानन्दादिगुणा इति निर्देशस्यायुक्तत्वापत्तेः । तस्मान्मध्वभाष्यकाररीत्या जीवब्रह्मणोर्भेदपक्षवदभेदपक्षोप्यस्तीति निष्प्रत्यूहमिति ।
खण्डनं_१८
(खं . ) तन्न नागायुतबलसदृशबलार्थकतया नागायुतबला इत्यादि बहुलप्रयोगदर्शनेन ज्ञानानन्दादिब्रह्मगुणा इत्यनेन शक्तितुल्यया निरूढलक्षणया ब्रह्मगुणसदृशगुणानां बोधनान् निरूढलाक्षणिक प्रयोगे स्वायत्तन्यायानवकाशात् । आचार्यैरेव " तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सास्वरूपमस्यापि मुक्तावप्यवशिष्यते" इति अनुव्याख्याने ब्रह्मगुणसदृशगुणस्वरूपत्वोक्तेश्च । श्रीमट्टीकाचार्यैरपि तथा व्याख्यातत्वाच्च । जीवब्रह्माभेदनिषेधकानां श्रीमदानन्दतीर्थीयानाम् अनेकेषां वाक्यानां विद्यमानत्वाच्च । जीवब्रह्मभेदो नाचार्यसम्मत इति श्रीमन्मध्वभाष्यरीत्या जीव-ब्रह्मणोरभेदपक्षोस्तीति त्वदुक्तेः शब्दस्वभावाद्यज्ञानमूलत्वेनोपेक्षणीयत्वात् ।
रामसुब्ब_१९
(रा.) यत्तु " तदभिध्यानाधिकरणे तस्याभिध्यानाद् योजनात्तवभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" इति अनादिबन्धलयस्य तदभिध्याननिमित्तत्वाल्लिङ्गात्तत्कर्तृत्वं प्रतीयते किमुत सादेर्जगत इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति माध्वमाष्येणाद्वैत मतइव मायाया अनादिबन्धरूपत्वं जीवगतब्रह्मसाक्षात्कार सन्तुष्ट भगवदभिध्यानरूपज्ञाननाश्यत्वं सादिप्रपञ्चरूपस्य संसारस्य कैमुतिकन्यायेन तदभिध्याननाश्यत्वं चोक्तम् उक्तं च सुधायां " अस्यापरोक्षज्ञाने जाते अन्ते कर्मक्षयान्ते" इति अत्र मायाशब्देन मायाऽविद्याप्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयमिति चोक्तम् । सुधाग्रन्थे प्रकृतिरिति पदेन मायाया जगत्परिणामिकारणत्वमद्वैति वदुक्तम् । अविद्याशब्दाभिलप्यत्वं चानाद्येव किमपि द्रव्यमिति अनादित्वं भावरूपत्वं च कथितम् । “अज्ञानेनावृतं ज्ञानमि” ति गीताभाष्यप्रमेयदीपिकायां “स्वरूपज्ञानमविद्यावृतं वृत्तिज्ञानं त्वविद्यां शिथिलयति ब्रह्म प्रकाशयती” ति ग्रन्थेनापि अद्वैतमतवदेव स्वरूपस्याविद्यावृतत्वमविद्यायावृत्तिनाश्यत्वं च कथयति । एवं स्थिते माध्वः स्वस्यापि वृत्तिरूपब्रह्मज्ञानविनाश्या विद्यावादित्व जगत्परिणामिकारणानादिमायाबन्धवादित्वादिसाम्येपि अद्वैतिनं मायावादित्वादिना दूषयन् स्वसि त्धान्तानभिज्ञ इति प्रतीयते इति ।
खण्डनं_१९
(खं . ) तन्न मायापदार्थस्य तस्य जगदुपादानत्वादिबन्धरूत्वज्ञाननाश्यत्वादीनामस्मदङ्गीकृतत्वेपि अद्वैतिवत् तस्य मिथ्यात्वसाक्षाद्ब्रह्मज्ञाननिवर्त्यत्वादीनामनङ्गीकारेण प्रत्युत सत्यत्वस्य मायापरपर्याय प्रकृतेरीश्वरप्रसादेनापि स्वरूपतोनाशमनङ्गीकृत्य जीव सम्बन्ध वियोगमात्रस्य सत्यजगदुपादानत्वस्य एवमाद्यनेकाद्वैत्यनङ्गीकृतप्रमेयाणामङ्गीकारेण महावैलक्षण्यसद्भावेन मायापदोच्चारणमात्रेण साम्यमङ्गीकृत्य मायावादिनो दूषयितुः स्वसिद्धान्तानभिज्ञत्वकथनस्यापहसनीयत्वात्
रामसुब्ब_२०
( रा . ) यतु वाक्यान्वयाधिकरणे “कृष्णद्वैपायनस्यैव एकदेशविचिन्तितम् । स्वीकृत्य मुनयों ब्रूयुस्तन्मतं न विरुध्यते” इति मध्वभाष्ये पुराणश्लोकमुदाहृत्योत्तरतन्त्रोदाहृतानामृषिमतानां सर्वेषामपि सित्धान्तत्वमेव न पूर्वपक्षत्वमित्युक्तं “स्वामिनः फलश्रुतेरित्यात्रेयः” इति सूत्रभाष्यतत्वप्रकाशिकायां ज्ञानकर्मफलमिन्द्रियाधिष्ठतृणां स्वामिनां देवानामेव न कर्तुरित्यात्रेयमतस्य पूर्वपक्षत्वमेवेत्युक्त्वा " आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते" इति सूत्रे ऋत्विजामिव कर्तुर्यजमानस्यापि किञ्चित् कर्मफलमस्तीत्यस्य सित्धान्तत्वमुक्तमिति पूर्वोत्तरविरोध इति ।
खण्डनं_२०
(खं . ) तन्न तत्वप्रकाशिकायामात्रेयमतस्य पूर्वपक्षत्वमेवेत्येवकारघटितवाक्यस्याभावात् " अस्वामित्वेपि प्रजानां ज्ञानफलसम्भवान् न च श्रुतिमुनिमतविरोधः प्रजानामल्पफलाभ्युपगमात्तदभिप्रायकत्वाच्च श्रुत्यादेरल्पस्वेनिस्वप्रयोगदर्शनाद् इत्यौडुलोमिराचार्यो मन्यत इति भाव इति तत्वप्रकाशिकायां न च श्रुतिमुनिमतविरोध इति वाक्येनात्रेयमतविरोधमाशङ्क्य अल्पस्वे निस्वप्रयोगदर्शनेन प्रजानामल्पफलं भवतीति अभिप्रायेण प्रजानां फलं नास्तीति उक्तं न सामान्यतः फलाभावतात्पर्येणेति तादृशमतस्यापि विरोधपरिहारेण समञ्जसीकृतत्वात् " न चात्रेयमतावलम्बेन पूर्वपक्षिते सित्धान्तयत् सूत्रं पठित्वा व्याचष्टे" इति तत्वप्रकाशिकायां ‘आत्रेयमतावलम्बेन पूर्वपक्षिते’ इति कथमुक्तमिति वाच्यम् । उत्तरवाक्ये स्पष्टं न च श्रुतिमुनि (आत्रेय) मतविरोधइति विरोधमाशङ्क्य अल्पत्वविवक्षया अभावप्रयोग इति तादृशमतविरोधपरिहारस्य कृतत्वात् पूर्वपक्षित इत्यस्य आपाततः शङ्किते इत्यर्थस्यैव तदभिप्रेतत्वात् तत्वप्रकाशिकाव्याख्यात्राचार्यस्यथैव व्याख्यातत्वाच्च । पूर्वोत्तर विरोधर्गवानवकाशेपि पूर्वोत्तरग्रन्थविरोधकथनस्य श्रीमत्तत्वप्रकाशिकादिग्रन्थानवलोकननिबन्धनत्वात् ।
रामसुब्ब_२१
(रा.) यत्तु आभास एव चेति सूत्रे ‘सोपाधिर्निरुपाधिश्च प्रतिबिम्बो द्विधा स्मृतः । जीवः परस्यानुपाधिरिन्द्रचापो यथा रवेः । इत्यप्रसित्धश्रुतिमुदाहृत्य जीवस्य निरुपाधित्वे सति भगवत्प्रतिबिम्बत्वं रविं प्रति इन्द्रचापस्येवेति माध्वभाष्ये कथितमस्ति । तत्र दृष्टान्ते रव्यभिमुखदेश इव इन्द्रचापो रविप्रतिबिम्बो दृश्यते तथा दार्ष्टान्तिके भगवदभिमुख देश एव भगवत्प्रतिबिम्बो जीव इति वक्तव्यं यस्मिन् देशेऽभिमुखे रवेर्भगवतश्च प्रतिबिबस्य एवोपाधिरिति प्रतिबिम्बस्य निरुपाधिकत्वोक्तिर्युक्तिविरुद्धा प्रत्यक्षविरुद्धा च श्रुतिश्च न पठद्यमाना सर्वाङ्गीकृता काचिदुपलभ्यते । अप्रसिद्धश्रुतिश्च स्वस्यासिद्धत्वान्न समीचीनयुक्तिम् प्रत्यक्षं वा बाधितुं शक्नोति ‘यथैषा पुरुषेच्छाया एतस्मिन्नेत दाततं’ इति प्रत्यक्षभूतो एतस्मिन् ब्रह्मणि एतज्जीवस्वरूपमाततं’ यथा पुरुषे छाया आततेति मध्वभाष्यटीकाव्याख्या तया भूतलादिप्रदेशोपाधिकच्छायाया निदर्शनत्वोक्त्या जीवस्यापि सोपाधिकं भगवच्छायात्वं प्रतीयते न तु निरुपाधिकं प्रतिबिबत्वमिति ।
खण्डनं_२१
(खं . ) तन्न जीवस्य निरुपाधित्वे सति भगवत्प्रतिबिबत्वं रविं प्रति इन्द्रचापस्येवेति श्रीमन्मध्वभाष्येऽनुक्तेः । अप्रसिद्धश्रुतिमुदाहृत्येति यदुक्तं तन्न । शाङ्करभाष्येपि गुहाधिकरणे ‘षैङ्गिरहस्य ब्रह्मणे’ इति पैङ्गिश्रुतेरुदाहृतत्वात् । किञ्चाप्रसिद्धत्वं नाम त्वत्सवेतज्ञानाविवायत्वं वा सर्वसमवेतज्ञानाविषयत्वं वा । नाद्यः " अनन्ता वै वेदा" इति वेदानामनन्तत्वाद् अल्पज्ञेन त्वया अज्ञातत्वमात्रेण असत्यकथनायोगात् । न द्वितीयः । सर्वसमवेतज्ञानाविषयत्वस्य ज्ञातुमशक्यत्वात् । इदानीमस्मत्प्रत्यक्ष सिद्ध ग्रन्थाघटकत्वमात्रेणासत्वं वक्तुमशक्यं वेदानामनन्तत्वहानेः ।
रामसुब्ब_२२
( रा . ) यच्च प्रत्यक्ष विरुद्धा चेति तदप्ययुक्तम् ।
खण्डनं_२२
(खं. ) उपाधिविषयकप्रत्यक्षस्याप्रदर्शितत्वात् तादृशप्रत्यक्षस्य केनाप्यननुभूयमानत्वाच्च । बिम्बप्रतिबिम्बादीनां प्रत्यक्षायोग्यत्वाच्च ।
रामसुब्ब_२३
(रा.) भगवदभिमुखदेश एव भगवत्प्रतिबिम्बो जीव इत्येतदपि असङ्गतम् ।
खण्डनं_२३
(खं.) भगवतो व्याप्तत्वेन विश्वतोमुखत्वेन च सर्वदेशस्यापि भगवदभिमुखदेशत्वेन भगवदभिमुखदेश एवेति एवकाख्यावर्त्याभावात् । “यथैषा पुरुषे छाया एतस्मिन्नेतक्षततं” इति श्रुतिस्तु यथाच्छायायाः पुरुषाधीनत्वं तथा जीवजातस्य भगवदधीनत्वमित्यस्मिन्नर्थे उक्तत्वेन सोपाधिनिरुपाधिविषये अनुक्तत्वात् ।
रामसुब्ब_२४
(रा. ) " मध्वादिष्वसम्भवादनधिकारं जैमिनिरि" ति सूत्राक्षरस्वारस्यालोचने माध्वानां वेदान्तानधिकारः प्रतीयते इति यदुक्तं रामसुब्बेन ।
खण्डनं_२४
(खं . ) तदनुमतमेवास्माकं तादृशसूत्रस्य देवादीनामधिकाराभाव इति पूर्वपक्षप्रापकतया त्वदीयभाष्ये व्याख्यातत्वेन माध्वानामधिकाराभावप्रतिपादकतया योजने माध्वानां देवत्वमुक्तं भवेदिति । किञ्चास्य सूत्रस्य पूर्वपक्ष सूत्रत्वेन पूर्वपक्षे ब्रह्मण असत्वाकारणत्वयोर्वेदाप्रामाण्यादेर्देवानां वेदविद्याधिकाराभावस्य एवमनेकेषां प्रमाणविरुद्धानां कथितत्वेन तेषां यथा सिद्धान्तसूत्रेणाप्रामाणिकत्वादिव्यवस्था क्रियते तथा “भावं तु बादरायणोस्ति हि” इति सित्धान्तसूत्रेण देवानां माध्वानां च तु शब्देन अप्रामाणिकं वेदान्तानधिकारमपोह्याधिकारसद्भावस्य साक्षान्नारायणावतारभूतेन भगवता बादरायणेन साधितत्वेन “मध्वादिष्वसम्भवादनधिकारं जैमिनिरिति पूर्वपक्षसूत्रेण माध्वानां वेदान्तानाधिकारप्रतीतेः ‘वेदान्ताधिकादारढसम्पादकत्वेन भूषणत्वात् । इदं तु तत्वं जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह ‘प्रतिपाद्यन्त्विति’ प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति " शास्त्रदृष्यातूपदेशो वामदेववत्” इत्यादिना इति शाङ्करभाष्यतद्व्याख्यानाभ्यां शास्त्रदृष्टयेति " आत्मेति सूत्रव्यतिरिक्तसर्वसूत्राणां तद्व्याख्येयभूतवेदानां च शङ्करशाङ्करणां भेदपरत्वसम्मत्यवगत्या तयोरपि जीव ब्रह्मैक्यबोधकपदाभावेन “त्यजेदेकं कुलस्यार्थ इति” न्यायेनानेकश्रुतिसूत्र सिद्धभेदविरुद्धार्थप्रतिपादकत्वासम्भवेन च शास्त्रदृष्येत्यस्य अन्तर्यामिदृष्टयेति व्याख्यानसम्भवेन “आत्मेति तुपगच्छन्ति” इति सूत्रे ईश्वरमिति विशेष्यवाचकपदाभावेन बहुश्रुतिसूत्र विरुद्धत्वेन ईश्वरमित्यध्याहारसम्भवेन आत्मशब्दस्य द्युभ्याद्यधिकरणीयत्वदीय भाष्यरीत्या जीवपरत्वासम्भवेन ईश्वरपदाध्याहारेपि ईश्वर आत्मेति अहमिति अर्थासम्भवेन ब्रह्म आत्मेति उपगच्छन्तीत्युत्तरसन्दर्भानुसारेणार्थसम्भवेन सावकाशतया च जीवब्रह्मणोरैक्यबोधकत्वासम्भवेन जीवब्रह्मभेदपरत्वस्यैवावश्यं वक्तव्यतया वेदार्थनिर्णायकसूत्राणां च तनिर्णेयवेदानां च सर्वेषां भेदपरत्वात् । " अष्टवर्ष ब्राह्मणमुपनयीत । तमध्यापयीते “ति वेदाधिकार प्रयोजकतयोक्तानां ब्राह्मण्यादीनां शाङ्करभाष्ये आरोपितत्वाङ्गीकारेणाधिकारप्रयोजकब्राह्मण्याद्यभावाच्च । अद्वैतिभिः स्वप्रतिकूलयोः श्रुतिसूत्रयोरनधिकारोऽकामैरपि स्वीकरणीय इति सूत्रसित्धान्तार्थः । ॐ अंशो नानाव्यपदेशात् ॐ अन्यथा चापि दाशकितवादित्वमधीयत एके ॐ सूत्रार्थस्तु जीवः परमात्मनोंशः नानाव्यपदेशात् पुत्रत्वेन भ्रातृत्वेन सखित्वेन नानाव्यपदेशाद् अन्यथा-चापि वक्ष्यमाणाभेदापेक्षया भेदेन दाशकितवादित्वं ब्रह्मणः दाशकितवादिस्वरूपत्वम् अधीयते कथ्यते श्रुतौ तथाचाभेदेन व्यपदेशः प्राप्तः । एव भेदाभेदाभ्यां व्यपदेशाच्च जीवः परमात्मनोंश इति नानाव्यपदेशस्तु “मां रक्षतु विभुनित्यं पुत्रोहं परमात्मनः” इत्यादिरूपः श्रीमज्जयतीर्थटीका तु हेत्वन्तरेणैतत्समर्थयति अन्यथेति । अन्यथेति वक्ष्यमाणाभेदापेक्षया एतत्श्रुतिद्वयेन जीवेशयोर्भेदाभेदावुच्येते । न चान्यन्तरश्रुतिबाधो युक्तः । न च साक्षाद्भेदाभेदावुपपन्नौ विरोधात् । अतः श्रुतिद्वयान्यथानुपपत्या भेदमङ्गीकृत्याभेदस्थानेशत्वं वक्तव्यमिति भावइति ।
रामसुब्ब_२५
( रा . ) यत्तु सा जयतीर्थटीका पूर्वोत्तरविरुद्धा अन्यथा चेति सूत्रपदस्य यदपेक्षयेत्याकाङ्क्षाशान्त्यर्थं वक्ष्यमाणाभेदेनेति लेखनेन दाशकितवादित्वमधीयत इत्यंशगृहीत दाशकितवादिश्रुतेरभेदार्थत्वमङ्गीकृतम् । अन्यथावक्ष्यमाणाभेदापेक्षयेति लेखनानुपपत्तेः । अन्ते वाभेदस्थाने अंशत्वं वक्तव्यमिति लेखनेनाभेदनिर्देशस्यांशत्वार्थत्वमुक्तमिति अत्यन्तविरोधादिति ।
खण्डनं_२५
(खं) तन्न गङ्गायां घोष इत्यत्र गङ्गापदवाच्ये प्रवाहे घोषाधिकरणत्वबाधाद् गङ्गापदस्य तीरार्थत्वं वक्तव्यमित्युक्ते पूर्व प्रवाहः गङ्गापदबोध्य इत्युक्तम् इदानीं तीरं गङ्गापदबोध्यमित्युच्यते अतो विरोध इति वक्तुरिवाभेदस्थानेऽंशत्वं वक्तव्यमित्यभेदबोधकतया प्रतीयमानपदस्यांशार्थकत्वमङ्गीकरणीयमित्युक्ते “ब्रह्मदाशाब्रह्मकितवा " इति वाक्येन प्रतीयमानाभेदापेक्षयेत्युक्तिमात्रेण तस्याभेदार्थत्वमुररीकृतमिति विज्ञाय विरोध इति वदतस्तवाप्यपहसनीयत्वात् ।
रामसुब्ब_२६
(रा.) एतेन किञ्चाभेदस्थाने अंशत्व निवेशे सौत्रान्ययाशब्दस्यांशत्वापेक्षयाऽन्यथात्वरूपानंशत्वार्थत्वं भवेद् अन्यथा पदव्याख्यानतयोदाहृता “अन्यः परोन्यो जीव” इति श्रुतिगतान्यशब्दस्यापि अनंशत्वार्थत्वं स्यात् । तथा सत्यंशत्वानंशत्वाभ्यां जीवस्य ब्रह्मांशत्वमुक्तसूत्रात् साधितं स्याद् अंशत्वे साध्ये अंशत्वानंशत्वयोर्हेतुत्वं वदतः सूत्रकारस्योपर्यम्पि महदसामञ्जस्यं प्रसज्येत । तस्मादसङ्गतैव टोकेत्येतदपि परास्तम् ।
खण्डनं_२६
(खं.) अभेदबोधकतया प्रतीयमानवाक्यस्यांशपरत्वमङ्गीकरणीयमित्युक्ते " ब्रह्मदाशाब्रह्म कितवा " इति वाक्येनापाततः प्रतीयमानाभेदापेक्षया अन्यथाचापि भेदबोधकतया भासमानानां वाक्यानामपि सत्वादित्युक्तेर् अनंशत्वबोधकानां वाक्यानां सत्वादिति सिद्धमित्यङ्गीकृत्यांशत्वानंशत्वाभ्यामंशत्वसाधनं विरुत्धमित्युक्तेराविपालगोपालगोपाङ्गनासाधारणापहासविषयत्वात्
रामसुब्ब_२७
( रा . ) यत्तु इतोप्यसङ्गता तट्टीका “यतो भेदेन तस्यायमभेदेन च गीयते । " अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यतः” इतिभाष्योदाहृत वाराहवचनेन भेदाभेदयोर्मुख्यतयोक्त श्रुतिनिर्दिष्टत्वाभावोक्त्यविशेषभेदमङ्गीकृत्या भेदस्थानेंशत्व निवेशोक्त्यसाङ्गत्यात् । वैपरीत्यस्यापि वक्तुं शक्यत्वाच्चेति ।
खण्डनं_२७
(खं) तन्न पुत्रः भ्रात्रखितत्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंशस्तस्य तेन तु इति तत्पूर्ववाक्य एव पुत्रत्वभ्रातृत्वादिना भेदविशिष्टस्येवांशत्वाङ्गीकारात् । तदनुरोधेन भेदाभेदयोर्मुख्यतयोक्तश्रुतिनिविष्टत्वाभावोक्ति साम्येपि भेदमङ्गीकृत्या भेदस्थानेंशत्व निवेशोक्तेः सङ्गतत्वाद् वैपरीत्यस्य वक्तुमशक्यत्वात् । अन्तःकरणाद्यवच्छिन्नचिद्रूपरूपदाशादीनां शुद्धचिद्रूप ब्रह्मणाऽभेदासम्भवेन “ब्रह्मदाशाब्रह्मकितवा " इत्याद्यभेदबोधकतया भासमानानां वाक्यानां गौणार्थत्वस्याभेदवादिनाप्यङ्गीकार्यत्वाद्भेदवाक्यानामंशत्वादिपरतया गौणत्वाङ्गीकारे वाक्यद्वयस्यापि गौणत्वस्वीकारापत्तेर् भेदवाक्यानां मुख्यभेदपरत्वमङ्गीकृत्याभेदवादिनामपि अवश्यं गौणपरतया योजनीयानां “ब्रह्मदाशा” इत्याद्यभेदबोधकतया भासमानानां वाक्यानामेवांशपरतया व्याख्यानस्यैकदेशापवादेन कल्प्यमाने च बाधकेन सर्वं बाधनं युक्तमिति न्यायविदः स्थिता इति न्यायानुसारेण युक्तत्वाच्च ।
रामसुब्ब_२८
( रा ) यत्तु न्यायामृते द्वितीयपरिच्छेदे भेदो न स्वरूपमात्रः किन्त्वन्योन्याभावः स च वस्तुनः सविशेषाभिन्न इति वाक्यं दृश्यते तदसङ्गतपदार्थान्वयकमिति प्रतीयते । तरङ्गिण्या व्याख्यानान्तरे च पदयोजनयोक्तवाक्यार्थानुक्तेरिति ।
खण्डनं_२८
(खं.) तन्न भेदोधर्मिस्वरूपेण निर्विशेषाभिन्नो न किन्तु अन्योन्याभावरूपः स च धर्मिणा सविशेषाभिन्न इति सङ्गतपदार्थान्वयत्वस्य व्युत्पनानां स्पष्टत्वेन तरङ्गिण्यां व्याख्यानान्तरे च पदयोजनया वाक्यार्थानुवतेरदोषत्वात् ।
रामसुब्ब_२९
(रा.) सन्यायामृत एव सत्यं ज्ञानमिति लक्षणवाक्यस्थितसत्यपदं “अथ यत् सत् तदमृतं” अथ यत्ति तन्मर्त्यं " अथ यद्यं ते उभे यच्छति’’ इति छान्दोग्यश्रुत्या बद्धमुक्तोभयनियन्तृपरं तेन सत्यपदेन बद्धमुक्तोभयनियन्तृत्वं ब्रह्मणो लक्षगमुच्यते । रूढ्या योगबाधो न शङ्क्यः शास्त्रस्था वा तन्निमित्तत्वादिति न्यायेन शास्त्रात्प्रसिद्धेर्बलवत्वादिति लिखितमित्याशङ्क्य यत्रार्यम्लेञ्च्छ प्रसिद्ध्योः समावेशस् तत्रार्थप्रसिद्धे रूढिप्रयोजकत्वं न म्लेञ्छप्रसिद्धेर्वा तत्प्रयोजकत्वमिति विषये आर्यप्रसिद्धे रूढिप्रयोजकत्वं न म्लेञ्छप्रसिद्धेरित्यर्थपरशास्त्रस्था वा तन्निमित्तत्वादिति न्यायस्य रूढियोगविषयत्वासम्भवादिति दूषणमुक्तम् ।
खण्डनं_२९
(खं . ) तन्न आर्यप्रसिद्धेरेव रूढियोजकत्वं न तु म्लेञ्च्छप्रसिद्धेरित्यत्र नियामिकाकाङ्क्षायां “आर्या हि शब्दैकसमधिगम्य धर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्वं विविच्य परिपालयन्ति न म्लेञ्छा दृष्टार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धे” रिति आर्याणां शास्त्रानुसारेणार्थस्वीकर्तृत्वादेव आर्यप्रसिद्धेरेव नियामकत्वमिति भाट्टदीपिकादावुक्तत्वेन शास्त्रानुसारेणार्थः स्वीकरणीय इति तदभिप्राय सिद्धेः । प्रकृतेपि सत्यमिति पदस्य शास्त्रानुसारेण मुक्तामुक्तनियामकत्वरूपयौगिकार्थ एव स्वीकार्य इति अभिप्रायेण शास्त्रस्थविति न्यायस्वीकारोपपत्तेः ।
रामसुब्ब_३०
( रा . ) यत्तु सर्वतन्त्रस्वतन्त्र भगवत्कलावतार श्रीमदश्वत्थनारायणशास्त्रिणां पौत्रेण तिरुविशलूर ग्रामाभिजनेन रामसुब्रह्मण्यशास्त्रिणा विरचितमद्वैतमण्डण पूर्वक मध्वचान्द्रिकाखण्डनं समाप्तमिति ।
खण्डनं_३०
**(खं . ) तदसमञ्जसम् अश्वत्थनारायणशास्त्रिणां भगवत्कलावतारत्वं किमद्वैतिमतानुसारेण सर्वेषामुपहित ब्रह्मचैतन्यरूपत्वेन किंवा व्याणादीनामेव भगवत्कलात्वबोधकवाक्यविशेषानुसारेण । आद्ये आकीरं सर्वेषाम् उपहित चैतन्यत्वेनोक्त विशेषणस्येतरव्यावर्तत्वाभावेन माहात्म्यानापादकत्वेन च वैय्यर्थ्यमेव । सर्वषामुपहितचैतन्यरूपतायाः प्राङनिरस्तत्वेनासम्भवदुक्तिकता च । न द्वितीयः । भगवत्कलावतारत्वे प्रमाणानुपन्यासाद् अभावाच्च विना प्रमाणं भगवत्कलावतारत्वे अश्वादीनामपि भगवत्कलावतारत्वाङ्गीकारापातात् ॥ “अप्राप्ते शास्त्रमर्थवत्” इति न्यायाद् बह्म सत्यं जगन्मिथ्येति तव मते अर्थभूतस्य ब्रह्मणः स्वप्रकाशत्वेनाप्राप्तत्वाभावात् । कथञ्चिदप्राप्तत्वेपि शास्त्रीयपदानां ब्रह्मणि शक्त्यभावेन अशक्ये च प्रत्यक्षादिना अगम्ये लक्षणाया अप्यनुपपत्या तद्बोधकत्वानुपपत्तेः । ब्रह्मातिरिक्तस्य वेद्यत्वेपि तस्य मिथ्यात्वेन तत्प्रतिपादकत्वे शास्त्रस्याप्रामाण्यप्रसङ्गात् । तथा च त्वन्मतरीत्या शास्त्रित्वमपि न सम्भवत्येवेति नारायणशास्त्रिणां सुब्रह्मण्यशास्त्रिणा इति शास्त्रिपदमनर्थकमेव । किञ्च “न शास्ता न शास्त्रं” इति शङ्करोक्त्यनुसारेण शास्त्राभावः शास्त्रित्वाभावोऽद्वैतिन इष्टः स्याच्चेन्न तदा अद्वैतिभिः साकमस्मद्विवादितेति । एवमद्वैतमण्डनं नाम प्रमाणसिद्धताख्यापनं वा “दुर्घटत्वमविद्याया भूषणं न तु दूषणम् । कथञ्चिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेदिति” अविद्याया दुर्घटत्व’ वा । नाद्यस् तत्वमस्यादिवाक्यायाम् अद्वैतिमते अखण्डार्थपरत्वेन ( संसर्गाविषयक धीजनकत्वेन ) भेदाभेदपक्षयोरौदासीन्याद् भेदप्रतिपादकतयाअद्वैत्यभिमतानां तत्वमस्यादिपञ्चषातिरिक्त वाक्यानां भूयसां स्यात्स्वधर्मत्वमिति न्यायेनाभेदबोधकत्वासम्भवस्य निपुणतरमुपपादितत्वेन च प्रमाणसिद्धत्वरूप मण्डनासम्भवात् । द्वितीयं दुर्घटत्व ( युक्तादिप्रमाणविषयत्व) रूपमण्डनम् अस्माकमनुमतमिति त्वदभिलषितं दुर्घटत्वमेवैतावता प्रबन्धन स्पष्टीकृतमस्माभिरिति सन्तोष्टव्यमेव । मण्डनस्य दुर्घटत्वरूपत्वे तत् प्रतिद्वन्द्वितया निर्दिष्ट चन्द्रिकाखण्डनं नामचन्द्रिकायाः सघटत्व ( प्रमाणादिसिद्धार्थप्रतिपादकत्व) मुक्तं भवति । तदप्यस्माकमिष्टमिति श्रुति स्मृत्यादिभिः रामसुब्बवाक्येन च प्रमाणसिद्धार्थप्रतिपादकत्वरूपसुघटत्वं प्रपञ्चितमस्माभिः । अस्मदभिमते अद्वैतस्य दुर्घटत्वरूपमण्डने चन्द्रिकाया स्तत्प्रतिद्वन्द्वियुक्त्यादिप्रमाणसिद्धार्थप्रतिपादकत्वरूपमण्डने च रामसुब्बशास्त्रिप्रभृत्यद्वैतिनो ऽस्माकमतीव सहायभूता इति भवदीयोपकारं स्मरामः कदापि न विस्मराम इति श्रीरामः शरणं मम । **
॥ इति अद्वैतखण्डन-पूर्वकचन्द्रिकासमर्थने रामसुब्बप्रदर्शितदोषाभासनिरासकभागः समाप्तः ॥