११ ज्योतिरधिकरणम्

ॐ ज्योतिश्चरणाभिधानात् ॐ

॥ श्रीः ॥

॥ अथ ज्योतिरधिकरणम् ॥

ॐ ज्योतिश्चरणाभिधानात् ॐ

अद्वैतिनः “अथ यदतः परो दिवो ज्योतिर्दोप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु" इति वाक्ये ज्योतिः पदं भूतज्योतिः परमेव । तत्र तस्य रूढत्वात् पूर्वाधिकरणवत् स्ववाक्ये ब्रह्मलिङ्गादर्शनाच्चेति पूर्वपक्षः

सिद्धान्तस्तु ज्योतिरिह ब्रह्म ग्राह्यं कुतश् चरणाभिधानात् पादाभिधानादित्यर्थः । पूर्वस्मिन् हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् । “तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" अनेन मन्त्रेण तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं सम्बन्धिरूपं निर्दिष्टं तदेवेह सम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामिति यदाहुः॥

चन्द्रिकानुवादः_०१

(चं.) तन्न, चरणाभिधानादित्यस्य पादाभिधानादित्यर्थकत्वे लाघवार्थं श्रुत्यनुगमार्थं च पादाभिधानादिति सूत्रं स्यात् । किञ्च,

पौनरुक्त्यं परमते ज्योतिर्भूतादिसूत्रयोः ।

पादोपदेशादन्या हि नैवास्ति चरणाभिधा ।

‘पादोस्य सर्वा भूतानि’ इति पूर्ववाक्यस्थपादाभिधानादन्यस्य ज्योतिर्वाक्ये पादाभिधानस्याभावात्तस्य च भूतादिसूत्रेणवोक्तत्वाच्चरणाभिधानादित्यस्य पौनरुक्त्यम् । अथ चरणाभिधानादित्यनेन ‘पादोस्य सर्वा भूतानि’ इति मन्त्रवाक्यस्थं सर्वभूतानामेकपादत्वम् अमृतस्य त्रिपात्त्वं चोच्यते । भूतादिपादेत्यनेन तु सैषा चतुष्पदेतिब्राह्मणवाक्यस्थं भूतपृथिवीशरीर हृदयानां पादत्वमुच्यते । ब्राह्मणवाक्ये हि इदं सर्वं भूतमिति भूतं येयं पृथिवीति पृथिवीं, यदिदमस्मिन्पुरुषे शरीरमिति शरीरं, यदिदमस्मिन्नन्तःपुरुषे हृदयमिति हृदयं चोक्त्वा, सैषा चतुष्पदा षड्विधा गायत्रीति भूतादीनां चतुर्णां पादत्वं व्यपदिश्यते । ततो न पौनरुक्त्यमिति चेन्न । चरणाभिधानादित्यनेन पादोऽस्य सर्वा भूतानि त्रिपादस्येति मन्त्रस्थपादाभिधानद्वयस्येव ततोऽधिकार्यस्य ब्राह्मणस्थपादाभिधानस्यापि वक्तुं शक्यत्वेन भूतादिसूत्रवैय्यर्थ्यादिति यदुक्तम्,

रामसुब्ब_०१

(रा.) तन्न, ब्रह्मपर ज्योतिःशब्दसमानाधिकरणयदितिसर्वनामपदपरामर्शयोग्यस्यैव त्रिपाद्ब्रह्मणश्चरणशब्देन ग्रहीतव्यतया भूतपृथिःव्यादीनां बहूनामुक्तैकवचनान्तयदितिसर्वनामशब्दग्रहणायोग्यतया च चरणशब्देन सौत्रेण तद्ग्रहणायोगात् तद्ग्रहणार्थ ‘भूतादिपाद’ इति पृथक् सूत्रस्यावश्यकत्वादिति यदुक्तं,

खण्डनं_०१

(खं.) तत्तुच्छं, ‘त्रिपादस्यामृतं दिवि’ इति उक्तत्रिपाद्ब्रह्मणब्रह्मपरज्योतिः शब्दसमानाधिकरणयदिति सर्वनामपदपरामर्शयोग्यत्वमिव ‘सैषा चतुष्पदा षड्विधा गायत्री’ इति उक्त भूतादिचतुष्पकब्रह्मणोऽपि तादृशयदिति सर्वनामपदपरामर्शयोग्यत्वेन सौत्रेण चरणशब्देन तस्यापि गृहीतुंशक्यत्वेन भूतादिपादेति सूत्रस्यावश्यकत्वाप्रप्तेः । अङ्गीकृत्येदमुदितम् । चरणाभिदानादित्यनेन यत्पदेन परामर्शयोग्यस्यैव ग्रहणमित्यत्र नियामकाभावात् । चरणपदेन भूतादिपदानां त्वदीयभाष्यरीत्या ग्राह्यत्वेन त्रिपाद्ब्रह्मणश् चरणशब्देन ग्रहीतव्यतयेत्युक्ते भाष्योक्तपदार्थाज्ञानमूलकत्वात् । तथार्थग्रहणे तस्य हेतुत्वायोगाच्च ॥

ॐ ज्योतिश्चरणाभिधानात् ॐ । सिद्धान्ते सूत्रार्थस्तु ज्योतिश्चरणाभिधानादित्यादिचतुसूत्र्या ऐकाधिकरण्यं ङ्गीकृत्य,

‘विमेकर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हदय आहितं यत्’ इति ।

‘अथ यदतः परो दिवो ज्योतिर्दोप्यते’ इति ।

अग्निसूक्तच्छान्दोग्य वाक्यद्वयं विषयं कृत्वा पूर्वपक्ष सिद्धान्तौ वक्तव्याविति।

ज्योतिः सूत्रस्याग्निसूक्तस्थं वाक्यं विषयं कृत्वा पूर्वपक्ष सिद्धान्तौ वक्तव्यौ । त्रिसूत्र्याश् छान्दोग्यवाक्यं विषयं कृत्वा पूर्वपक्षसिद्धान्तौ वक्तव्याविति पक्षद्वयम् ॥ अत्र ज्योतिरादिशब्दा उदाहरणम् । प्राणाधिकरणन्यायागोचरत्वप्रदर्शनेन पूर्वपक्षोत्थानात्प्रत्युदाहरणरूपाऽनन्तरसङ्गतिः । तदर्थं कि ज्योतिर् अत्र ज्योतिः किमग्निः किं वा विष्णुरिति चिन्ता । श्रुतिप्रसिद्धयनुसारेण कर्णादिविदूरत्वलिङ्गं बाध्यम् उत विपरीतमिति तदर्थं श्रुत्यनुग्राहकं सूक्तं निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु-इदं ज्योतिग्निरेव ज्योतिश्रुतेर् अग्निसूक्तस्थत्वाच्च, इति ।

सिद्धान्तस्तु-कर्णादीनां विदूरत्वं विष्णोरन्यत्र नैव हि । अग्नेस्तु श्रुतिसूक्तादिसावकाशं परात्मनि ॥ १॥

अग्निसूक्तस्थं ज्योतिर्विष्णुरेव कर्णादिविचारणाभिधानात् । इयदिति परिच्छेदानर्ह वैभववत्त्वरूपकर्णादिविदूरत्वस्य विष्णोरन्यत्र क्वाप्यसम्भवादिति चन्द्रिकोक्तमनूद्य,

रामसुब्ब_०२

(रा.) तन्न, सङ्गतिस्तावदयुक्ता । अत्राग्निसूक्ते ज्योतिषो हृदयाहितत्वमुक्तं, आनन्दमयस्य च गुहाऽऽहितत्वमुक्तम् । तयोश्च भेदात् । हृदयाहितत्वेन गुहाऽऽहितत्वस्याप्रत्यभिज्ञानात् । छान्दोग्यवाक्ये सुतरां तदभावाच्च । “यदिदमन्तःपुरुषेज्योतिः” इति जाठरज्योतिरेक्योपदेशेन तदभावस्यैव ज्ञापनाच्च । योयमन्तर्हृदय’ इति गायत्र्यां श्रवणेऽपि पूर्वपक्षे गायत्री ज्योरिषोभिन्नत्वेन ज्योतिर्द्वारा तदाक्षेपायोगाच्च । आनन्दमयाधिकरणस्यात्यन्तव्यवहितत्वेन तेनास्य सङ्गतिकथनस्यानुपयुक्तत्वाच्च इति यदभिहितं,

खण्डनं_०२

(खं.) तत्तुच्छं त्वदीयतैत्तिरीयशाङ्करभाष्ये हार्दमेव तु परमं व्योमेति न्याय्यं विज्ञानां गत्वेनोपासनाङ्गत्वेन व्योम्नो विवक्षितत्वात् … “योयमन्तर्हदय” इति श्रत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वं तस्मिन् हार्दे व्योम्नि या बुद्धिर्गुहा तस्यां निहितं ब्रह्म इति गुहानिहितत्वं हृदयगृहानिहितत्वरूपमिति स्पष्टोक्तेः । आनन्दमयस्यं वतं गुहानिहितत्वम् अग्निसूक्ते ज्योतिष उक्तम् । हृदयाहितत्वं चैकरूपमिति हृदयाहितत्वेन गुहानिहितत्वस्य प्रत्यभिज्ञानात् । “यो यमन्तहृदय” इति छान्दोग्य वाक्येऽपि ज्योतिः प्रकरणे हृदयाहितत्वश्रवणाच् छान्दोग्यवाक्ये सुतरां तदभावाच्चेत्यस्य छन्दोग्यग्रन्थानवलोकननिमित्तत्वात् । “यदिदमस्मिन्नन्तः पुरुषे ज्योतिः” इति वाक्ये जाठरज्योतिरेक्योपदेशकपदाभावेन जाठरज्योतिरेक्योपदेशेन तदभावस्यैव ज्ञापनादित्युक्तेरयुक्तत्वाच्च । गायत्रीज्योतिषोः पूर्वपक्षे भिन्नत्वानाशनाच्च । चन्द्रिकायां प्राणाधिकरणेन प्रत्युदाहरणरूपसङ्गतिकथनेनानन्दमयाधिकरणेन सङ्गतेरकथनाद् अत्यन्तव्यवहितानन्दमयाधिकरण सङ्गत्युक्तत्वोक्तेश् चन्द्रिकाऽदर्शनमूलत्वात् । शाङ्करभाष्यरीत्या कम्पनाधिकरणे पूर्वाधिकरणेन सङ्गत्यभावस्य कल्पतरावुक्तत्वेन अद्वैतिभिरप्यव्यवहितपूर्वाधिकरणेन सङ्गतिर्वक्तव्येति नियमस्याङ्गीकरणासम्भवाच्च ॥

रामसुब्ब_०३

(रा.) यत्तु, ऐकाधिकरण्येनाग्निसूक्तस्थवाक्योदाहरणमप्ययुक्तम् । तत्र छन्दोभिधानभूतादिपादव्यपदेशोपदेश भेदानामसत्त्वेन “छन्दोभिधानात्” इत्यादिसूत्राणामप्रवृत्तेरिति यदुदितं,

खण्डनं_०३

(खं.) तत्तच्छम्, “ज्योतिहृदय आहितं यत्” इति अग्निसूक्तस्थस्यैव ज्योतिषश् छान्दोग्येऽपि ज्योतिःश्रुत्या “योयमन्तहृदय" इति हृदयनिहितत्वधर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमानत्वेनैकत्वात् । तथाच “छन्दोऽभिधानात्” इत्यस्यायमर्थः । अग्निसूक्तस्थं ज्योतिर्न विष्णुः, अस्यैव ज्योतिषश् छान्दोग्ये गायत्रीत्वाभिधानादिति चन्द्रिकायामेव त्वदीयशङ्काया निराकृतत्वात् ॥

रामसुब्ब_०४

(रा.) न च दिवः पविश्वोत्तीर्णप्रदेशवृत्तित्वेन श्रुतस्य छान्दोग्योक्तज्योतिषः हृदयाहितत्वेन श्रुताग्निसूक्तस्थज्योतिष ऐक्यासम्भवात् । अग्निसूक्ते कर्णादिविदूरत्वश्रवणेन छान्दोग्ये तद्विरुद्धस्य “तदेतद्दृष्टं च श्रुतं च” इति कर्णादिगोचरत्वेन श्रुतस्य भेदावश्यम्भावेन मासाग्निहोत्र नैय्यमिकाग्निहोत्रयोरिव ज्योतिषोर्नामैवयस्य वस्त्वैक्याप्रयोजकत्वाच्च । अग्निसूक्तस्थज्योतिषश् छान्दोग्यज्योतिषा ऐक्यं च न सम्भवातितो वाच्यं,

खण्डनं_०४

(खं.) “तद्दुरे तद्वन्तिके” इत्युक्तदूरस्थसमीपस्थत्वयोरिव सर्वव्यापिवस्तुनः दिवः परविश्वोत्तीर्णप्रदेशवृत्तित्वस्य हृदयाहितत्वस्य च सम्भवाभिप्रायेण वा तदाच्छादनेन वा तयोरैक्यमिति पूर्वपक्षकरणसम्भवात् । नहि पूर्वपक्षिणा उक्तं सर्वं युक्तियुक्तमित्यावयोर्मतम् । तथात्वे सिद्धान्तस्यैवानुत्थानप्रसङ्गात् । अद्वैतिना सिद्धान्तेऽपि दिवः परत्वद्युस्थत्वयो-“उपदेशभेदात्” इति सूत्र अविरुद्धतया नीतत्वेन तद्वदेव कर्णादिविदूरत्वदृष्टतयोर् आकारभेदेन अविरुद्धतया पूर्वपक्षिणा वक्तुं शक्यत्वेन त्वदुक्तशङ्काया एव निर्दलत्वत् ॥

रामसुब्ब_०५

(रा.) यत्तु निश्चिते ज्योतिषोरैक्ये आकारभेदनिश्चयः, आकारभेदे च तदैक्यनिश्चय इत्यन्योन्याश्रय इति यदुक्तं,

खण्डनं_०५

(खं.) तत्तुच्छं, इतर लिङ्गेन उभयोर् विष्णुपरत्वे निश्चिते विरुद्वत्वेन भासमानयोर्धर्मयोर् आकारभेदेनाविरुद्धतायानीतत्वेन परस्परज्ञप्त्यधीनज्ञप्तिकत्वरूपान्योन्यायाश्रयानवकाशात् ॥

रामसुब्ब_०६

(रा.) यत्तु, न च “तेजो वै ब्रह्मवर्चसं” इति गायत्र्यां तेजोरूपताश्रवणात् तेजः शब्दाग्निशब्दयोरनतिभिन्नार्थतया अग्नौं गायत्रीपदस्य प्रयोगो न विरुद्ध इति द्वयोरेकार्थतेति शङ्क्यं ब्रह्मवर्चसलक्षणतेजोहेतौङ्गायत्र्यां तेजःशब्दस्य ‘आयुर्घ्रुतं’ इतिवद्गौणव्ययदेशेपि तस्य तेजसोग्निरूपत्वाभावात् ः अन्यथा ‘यजमानः प्रस्तरः’ इति निर्देशात् ‘सूक्तवाक्येन प्रस्तरं प्रहरति’ इत्युक्तप्रहरणं यजमानस्य स्यादिति यदुक्तं,

खण्डनं_०६

(खं.) तत्तुच्छं, अग्नौ गायत्रीपदस्य गायत्र्याम् अग्निपदस्य प्रयोगो न विरुद्ध इति पूर्वपक्षिणा उक्तत्वमात्रेण तस्य गौणव्यपदेशत्वकथनम् । अन्यथा " यजमानः प्रस्तर इति निर्देशेन यजमानस्य प्रहरणापादनमित्यादीनाम् अत्यन्तासम्बद्धत्वात् ॥

रामसुब्ब_०७

(रा.) यत्तु ऐकाधिकरण्ये छान्दोग्यवाक्योदाहरणमप्ययुक्तम् । तत्र विचरणाभिधानरूपहेत्वभावात् । छान्दोग्योक्तज्योतिषो ऽग्निसूक्तस्थज्योतिषश्चानुपदमैक्यस्य निराकृतत्वादिति यदभिहितं

खण्डनं_०७

(खं.) तत्तुच्छम्, पूर्वन्यायेनैव परिहृतत्वात् ॥

रामसुब्ब_०८

(रा.) किञ्च सूत्रे चरणशब्दस्य विचारणार्थत्ववद् ब्राह्मणार्थवत्वत् क्लिष्टमिति,

खण्डनं_०८

(खं.) इदं वाक्यम् अन्वयायोग्यार्थप्रतिपादकत्वादुपेक्ष्यमेवेति ॥

इति अद्वैतखण्डनपूर्वकचन्द्रिकामण्डने ज्योतिरधिकरणं सम्पूर्णम्

॥ इति ज्योतिरधिकरणम् ॥