०३ जन्माधिकरणम्

ॐ जन्माद्यस्य यतः ॐ

॥ श्री ॥
॥ अथ जन्माधिकरणम् ॥
ॐ जन्माद्यस्य यतः ॐ

चन्द्रिकानुवादः_१

(चं. ) ( १२७) अत्र परैः-न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणं, तस्यानित्याशुद्धपरिच्छिन्नस्य तद्विरुद्धब्रह्मलक्षणत्वानुपपत्तेः । नापि नित्यत्वकारणत्वादिर्ब्रह्मधर्मः, तस्यानुपलब्धेरिति प्राप्ते, मा भूदनुभूयमानं जगत्तद्धर्मतया तदात्मतया वा लक्षणं, तदुत्पत्त्यादि तु भविष्यति, देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति सिद्धान्तितम् । तन्न, जिज्ञास्यस्येतरव्यावृत्यर्थं लक्षणसूत्रेऽस्मद्रीत्याऽव्यावृत्तिपूर्वपक्षस्यैवोचितत्वात् । अनित्यादिरूपस्य शब्दादेर् नित्यादिरूपाकाशादिलक्षणत्वदर्शनाच्च । जगत इव कारणत्वस्याप्यनात्मतया आत्मविरुद्धस्वभावत्वाच्च । जिज्ञास्यत्वेनाद्यसूत्रे प्रकृतस्य निर्विशेषब्रह्मणो भ्रमाधिष्ठानत्वेनाकारणत्वाच्च । अधिष्ठानत्वस्यैव विवक्षायां तु श्रुतिसूत्रयोजन्मोक्त्ययोगात् । देशान्तर प्राप्तेः सूर्यगत्यनुमापकत्वेऽपि तल्लक्षणत्वाभावाच्च । न चात्र सूत्रे “यतो वै” इत्यादिश्रुतौ उत्पत्यादिकमद्वितीये ब्रह्मणि लिङ्गत्वेनोच्यत इति त्वयापि स्वीकृतमिति यत्,

रामसुब्ब_११

( रा . ) तन्न, आकाश नित्यत्वस्य वेदान्तिमतेऽसिद्धेरिति, यदुक्तं,

खण्डनं_११

(खं.) तत्तुच्छम्, “आकाशवत्सर्वगतश्च नित्यः” इति ब्रह्मण नित्यत्वविषये आकाशस्य दृष्टान्तत्वोक्त्या अनुपचरितनित्यत्वस्य " अनादिर्वा अयमाकाशः" इत्यनादित्वस्य च वेदेनेव सिद्धतया वेदान्तिमतेऽसिद्धेरित्युक्तेर्वेदार्थाज्ञानविजृम्भितत्वात् ॥

रामसुब्ब_१२

( रा . ) विरुद्धस्वभावस्य स्वरूपलक्षणत्वासम्भवेऽपि तटस्थलक्षणत्वसम्भवाज् जगतोऽपि कारणत्वसम्बन्धेन लक्षणत्वस्येष्टत्वात् । पूर्वपक्षे जगतो लक्षणत्वासम्भवशङ्का तु स्वरूपलक्षणत्वाभिप्रायेति यदुदितं,

खण्डनं_१२

( खं. ) तत्तुच्छम् आत्मस्वभावविरुद्स्वभावस्य कारणत्वस्य लक्षणताया इष्टत्वे जगतः विरुद्धस्वभावत्वेन न सम्भवतीति खण्डनानुपपत्तेः । न च विरुद्धस्वभावस्य कारणत्वस्य स्वरूपलक्षणत्वासम्भवेऽपि तटस्थलक्षणता सम्भवति, जगतः लक्षणत्वनिषेधस्तु स्वरूपलक्षणत्वाभिप्रायेणेति वाच्यम्, कारणत्वसमकक्ष्यतया जगतः लक्षणत्वनिराकरणेन त्वदुक्ताभिप्रायस्य तद्वाक्येनाप्रतिभासात् । लक्ष्यवाचिपदसमानाधिकरणपदनिरूपितवृत्तिज्ञाना विशेष्यत्वे सति लक्षणत्वं तटस्थलक्षणलक्षणमिति त्वयावक्ष्यमाणत्वेन कारणत्वे ब्रह्म जगत्कारणमिति वाक्यघटकोक्तपदनिरूपितलक्षणावृत्तिज्ञाननिरूपित विशेष्यत्वसत्वेनोक्तपद निरूपितवृत्तिज्ञानाविशेष्यत्वादि घटिततटस्थलक्षणलक्षणस्याप्यनुपपत्तेः । एतेन जगतोऽपि तटस्थलक्षणत्वं दूषितं ज्ञातव्यम्, लक्ष्यवाचिपदसमानाधिकरणपद-निरूपितलक्षणावृत्तिज्ञानविशेष्यत्वेनोक्तविशेष्यत्वाभावस्याभावात् ॥

चन्द्रिकानुवादः_२

(चं.) अद्वैतिरीत्या जिज्ञास्यत्वेनाद्यसूत्रे प्रकृतस्य निर्विशेषब्रह्मणो भ्रमाधिष्ठानत्वेनाकारणत्वाच्च द्वितीयसूत्रे जन्मादिकारणत्वकथनमयुक्तम्, अधिष्ठानत्वस्यैव विवक्षायां श्रुतिसूत्रयोर्जन्मोक्त्ययोग इति यदभिहितं,

रामसुब्ब_२१

( रा.) तन्न, " तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धं न तर्हि जिज्ञासितव्यम् । अथ चाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति, उच्यते, अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं, ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात्" इति जिज्ञासाधिकरणशाङ्करभाष्ये जिज्ञास्यब्रह्मणः ‘नित्यशुद्धबुद्धमुक्तस्वभावं’ इति निर्विशेषत्वमुक्त्वा ‘सर्वज्ञं सर्वशक्ति’ इत्यादिना सगुणब्रह्मत्वोक्त्या सगुणस्याप्युपहितब्रह्मणः जिज्ञास्यत्वावगमेन तत्र कारणत्वसम्भवात् । शाङ्करभाष्यव्याख्याने रामानन्दीये उक्त भाष्यस्य " परिच्छेदाभावरूपं नित्यत्वं, अविद्यादोषशून्यत्वं शुद्धत्वं जाड्यराहित्यं बुद्धत्वं, बन्धकाले स्वतो बन्धाभावः मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् । तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धं ज्ञेयस्य च कार्यस्य च परिशेषे अल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभात्" इति जिज्ञास्यब्रह्मणः सगुण निर्गुणपरतया व्याख्यानं दृश्यते । एतेनाधिष्ठानत्वस्यैव विवक्षायां श्रुतिसूत्रयोर्जन्मोक्त्ययोग इति परास्तम् । उपहितब्रह्मणि जगत्कारणत्वस्यापि विवक्षितत्वेन श्रुतिसूत्रयोर्जन्मोक्ति साङ्गत्यादिति यदुक्तं,

खण्डनं_२१

(खं) तत्तुच्छम्, अद्वैतिमते सगुणब्रह्मणः कालादिपरिच्छिन्नत्वेन त्रिविधपरिच्छेदाभावार्थकेन " तद्विजिज्ञासस्व तद्ब्रह्म, ब्रह्मजिज्ञासा" इति जिज्ञासाविधायकश्रुतिसूत्रस्थब्रह्मपदेन ग्रहीतुमशक्यत्वेन सगुणब्रह्मणः जिज्ञास्यतया त्वदीयभाष्यकारोक्तेरसङ्गतत्वात् । “अस्ति तावद्-ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्” इति एकस्यैव ब्रह्मणः सगुणत्वनिर्गुणत्वोक्तेर्व्याहतत्वाच्च । शास्त्रयोनित्वाधिकरणे उपहितस्यैव ब्रह्मणः जिज्ञास्यत्वोक्तेर् निविशेषस्य जिज्ञास्यत्वं त्वार्थिकमिति वदता त्वया ब्रह्मशब्दे सगुणपरत्वस्यैव स्वीकारेण ‘जिज्ञास्यब्रह्मणः सगुण निर्गुणपरतया व्याख्यानं दृश्यते’ इत्यस्योत्तरग्रन्थविरुद्धत्वाच्च । ‘जिज्ञास्यब्रह्मणः सगुण निर्गुणपरतया व्याख्यानं दृश्यते’ इत्यत्र ‘जिज्ञास्यब्रह्मणः’ इत्यस्य अर्थस्य व्याख्यानासम्भवेनानन्वितत्वाच्च । जन्मादिसूत्रोक्तस्य जगत्कारणत्वस्य सगुणब्रह्मलक्षणत्वे जिज्ञास्यनिर्गुणब्रह्मणः लक्षणोक्त्यभावप्रसङ्गाच्च ॥ देशान्तर प्राप्तेः सूर्यगत्यनुमापकत्वेऽपि तल्लक्षणत्वासम्भव इति चन्द्रिकोक्तपूषणपरिहारार्थम्,

रामसुब्ब_२२

(रा. ) ’ तन्न, लिङ्गत्वस्य लक्षणत्वव्याप्यत्वेन तेन तत्सिद्धेर्निप्रत्यूहत्वात् । धूमोऽपि व्यापकतासम्बन्धेन वह्नेर्लक्षणमेव, वह्निरितरेभ्यो मिद्यते व्यापकता सम्बन्धेन धूमवत्त्वादिति रीत्या धूमस्यापि व्यावर्तकत्वात्’ इति यदुक्तम्,

खण्डनं_२२

( खं) तत्तुच्छम् । व्यापकतासम्बन्धेन धूमस्य लक्ष्यभिन्ने द्रव्यत्वप्रमेयत्वादविद्यमानत्वेनातिव्याप्तेर्धूमस्य व्यापकता सम्बन्धेन वह्निलक्षणत्वासम्भवात् । व्यापकतासम्बन्धेन धूमवत्त्वरूप हेतोर् वह्नीतरमेदरूपसाध्याभाववति द्रव्यत्वप्रमेयत्वादौ सत्त्वेन व्यभिचारितया व्यावर्तकत्वासम्भवाच्च । लिङ्गत्ववति धूमे लक्षणत्वाभावेन लिङ्गत्वलक्षणत्वयोव्याप्यव्यापकभावस्यैवाभावेन देशान्तरप्राप्तेः सूर्यगति लिङ्गत्वेन सूर्यगतिलक्षगत्व सिध्युक्तेर् व्याप्यव्यापकभावभ्रममूलत्वात् ॥

रामसुब्ब_२३

( रा . ) यत्तु अतात्विकस्य कारणत्वस्य ताज्विक ब्रह्मलक्षणत्वासम्भव इति चन्द्रिकोक्तमित्याशङ्क्य ‘तन्न, अरुन्धत्यामसतस्तारासमूहविशेषत्वस्य तात्त्विकैकतारा विशेषरूपारुन्धती लक्षणत्वप्रसिद्धेर् इति यदुक्तं,

खण्डनं_२३

(खं. ) ततुच्छम्, ‘अतात्त्विकस्य कारणत्वस्य तात्विक ब्रह्मलक्षणत्वासम्भवः’ इति चन्द्रिकायामनुक्तेः । ब्रह्मनिष्ठत्रैकालिक निषेधप्रतियोगित्वरूपातात्त्विकत्ववतः कारणत्वस्य ब्रह्मवृत्तित्वघटितब्रह्मलक्षणत्वासम्भवाच्च अरुन्धत्याः सूक्ष्मत्वेन चक्षुः सन्निकर्षस्य झडित्यसम्भवेन तत्समीपदेशवर्तिस्थूलतारासमूहं प्रदर्श्य तत्समीपवर्त्यरुन्धतीप्रदर्शनं क्रियते, न तु अरुन्वत्यास्तारासमूहविशेषत्वं लक्षणम् । अतो ऽतात्त्विकस्य लक्षणत्वविषये तदुदाहरणस्यासङ्गतत्वमेव । तुष्यत्विति न्यायेन बाधकाभाव इत्यपि वक्तुं शक्यं च ॥

चन्द्रिकानुवादः_३

( चं) यच्चोक्तं परैर् जन्मादीत्यत्रोत्पत्तिस्थितिभङ्गमेवोवोच्यते, न त्वन्यत्, यतो वेत्यादिश्रुत्यनुसारादिति, तन्न, “यतो वै" इत्यत्र चतुर्णां " तमेवैकं जानथ" इत्यादौ " यस्मिन् द्यौः” इति स्थित्यादीनामेकैकस्य श्रवणात् । न चाभिसंविशन्तीत्येतत्प्रलयपरं प्रयन्तीत्यनेन पौनरुक्त्यापत्त्या तस्य मोक्षपरत्वात् । जगतो जन्माङ्गीकारेऽनित्यत्वापत्त्या मिथ्यात्वासिद्धेरुक्तत्वाच्च । तस्मात्सृष्ट्याद्यष्टकमेव जन्मादिपदार्थः…. सूत्रकृतंव स्कान्देऽष्टकर्तुत्वस्य लक्षणत्वेनोक्तेश्च । इति यदवादि,

रामसुब्ब_३१

( रा .) तन्न, जन्मादित्रयस्येव श्रुतौ ‘अभिसंविशन्ति’ इति मुक्तप्राप्यत्वस्य स्वातन्त्र्येण पृथक् तद्धर्मत्वोक्तौ ‘यतः, येन यत्’ इति उत्पत्तिस्थितिसंहाराणां लक्षणत्वसिद्धयर्थं प्रतिपर्यायं यच्छब्देन ब्रह्मानुनुवादवद् यदभिसंविशन्तीति संवेशनस्यापि लक्षणत्वसिद्धयर्थं चतुर्थेन यच्छब्देन ब्रह्मानुवादप्रसङ्गात् । ’ यत्प्रयन्त्यभिसंविशन्ति’ इत्यस्यार्थस्तु सूत्रमुक्तावल्यां ब्रह्मानन्दः प्रयन्ति म्रियमाणानि भूतानि यदभिसन्धिशन्ति यस्मिन् लीयन्ते’ इत्यादिना निरूपितः । एतेन ‘न चाभिसंविशन्तीत्येतदपि प्रलयपरम् इत्यादिचन्द्रिकाग्रन्थः परास्तः । न च जन्माद्येकैकस्यापि लक्षणत्व समर्पक वाक्यान्तररीत्या जन्मः द्यष्टकमेकैकमेव लक्षणमस्त्विति वाच्यम्, यतो वेत्यादि श्रुतेः शब्दतोऽर्थतश्च सारूप्येण प्रधानविषयवाक्यतया तदनुसारेण जन्मादित्रयस्यैव श्रीमदद्वैतभाष्ये लक्षणत्वाभिधानादिति यदुक्तं

खण्डनं_३१

( खं) तत्तुच्छम्, मुक्तप्राप्यत्वरूपलक्षणस्य भवद्भिरप्यङ्गीकृततया लक्षणसद्भावे विवादाभावेन ‘अभिसंविशन्ति’ इत्यनेन तल्लक्षणस्य प्रतीयमानत्वेन च मोक्षकारणत्वस्यापि श्रुतिविवक्षितत्वात् । ‘यतः, येन यत्’ इति प्रतिपर्यायं यच्छब्देन ब्रह्मानुवादवच् चतुर्थेन यच्छब्देन ब्रह्मानुवादाभावस्तु ‘यत्प्रयन्ति इति पर्यायोक्तयच्छन्वस्यैवात्रानुषङ्गाभिप्रायेण न तु लक्षणत्रयाभिप्रायेण । न च यदित्यस्य चतुर्थपर्यायेऽनुषङ्गे प्रथमयच्छब्दानुषङ्गेण निर्वाहे यत इतियेनेति यदिति पदत्रयं व्यर्थमिति वाच्यं तत्र भिन्नभिन्नविभक्तीनां यच्छब्दानामावश्यकत्वेन प्रथमपर्यायोक्तस्य ‘यतः’ इति पञ्चम्यन्तशब्दस्यानुषङ्गे विभक्तिव्यत्ययकरणेन गौरवापत्तेः । ‘यत्प्रयन्ति’ इति पर्यायोक्तयच्छन्दस्य ‘अभिसंविशन्ति’ इत्यत्रानुषङ्गे विभक्तिव्यत्ययस्यानावश्यकत्वेन वैषम्यात् ॥

प्रयन्ति म्रियमाणानि सन्ति भूतानि यदभिसंविशन्ति यस्मिन् लीयन्ते’ इत्यर्थकरणं त्वयुक्तमेव, म्रियमाणानीत्यस्य पूर्वमनुक्तत्वेन “येन जातानि जीवन्ति” इत्यत्र जातानीतिवदनुवादानुपपत्तेः । पदद्वयवैयर्थ्यानिस्ताराच्च । “यतो वै” इति श्रुत्युक्तलक्षणनामेव “जन्माद्यस्य यतः” इति सूत्रविवक्षितत्वे ज्ञापकाभावेन, प्रत्युत

उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।

बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकरादृ ॥

इति स्कान्दपुराणस्थसूत्रकृदुक्तेरेवाष्टग्रहणे ज्ञापिकायाः सत्वेन, प्रमाणान्तरर्मोक्षार्थं तेषामवश्यं ज्ञेयत्वावगमेन च जिज्ञासाकर्तव्यत्वबोधिकासु “यतो वा इमानि भूतानि जायन्ते” “तमेवैकं जानथ” इत्यादिश्रुतिषूक्तानां सृष्ट्यादीनामष्टानामेव जन्मादिपदेन ग्रहणस्य न्याय्यत्वात् । जन्मादित्रयस्य शाङ्करभाष्ये लक्षणत्वानभिधानेन जन्मादित्रयस्याद्वैतभाष्ये लक्षणत्वाभिधानादित्युक्तिरुन्मादमूला च ॥

रामसुब्ब_३२

(रा.) एतेन,

उत्पत्तिस्थितिसंहारौ नियतिर्ज्ञानमावृत्तिः ।

बन्धमोक्षौ च भवतो यस्मात्स हरिरेकराट् ॥

इति स्कान्दपुराणवचनानुसारेण जन्माद्यष्टकं जन्मादिसूत्रेण लक्षणमुच्यत इति मध्वमतमपास्तम्, श्रुत्यर्थनिर्णयाय प्रवृत्तस्य सूत्रस्य शब्दतोऽर्थश्च सरूपं “यतो वै” इत्यादिश्रुत्यनुसारेण प्रतीतं जन्मादित्रयलक्षणं परित्यज्य स्कान्दपुराणवचनबलेन जन्माद्यष्टकस्य सूत्रोक्तब्रह्मलक्षणत्वकथनस्यात्यन्तानुचितत्वात् । पुराणे वेदोपबृंहणांशस्य वेदोपव्यास्व्यानत्वमेवेति प्रागेव सप्रमाणमुपपादितत्वाच्च । मध्वभाष्ये प्रथमं स्कान्दपुराणवचनं जन्मादिसूत्रे उपन्यस्य पश्चाच्छ्रतिवाक्यं चोदाहृतवतां तद्भाष्यकृतां वेदापेक्षया पूराणमेवाभ्यर्हितमित्याशयोऽवगम्यत इति यत्,

खण्डनं_३२

(खं.) तसुच्छम्, जन्मादिसूत्रेण जन्माद्यष्टकर्तृत्वस्यैव लक्षणतयोक्तावपि जन्माद्यष्टकस्य लक्षणत्वानुक्त्या ‘जन्माद्यष्टकं जन्मादिसूत्रेण लक्षणमुच्यत इति मध्वमतमपास्तं’ इत्युक्तेरस्मत्सिद्धान्तग्रन्थानयलोकन निबन्धनत्वात् । एवं " जन्माद्यस्य यतः" इति सूत्रे आदिपदेन “यतो वै” इत्यादिश्रुत्यनुसारेण चतुर्णां वा, “य उ त्रिधातु पृथिवीमुत द्यामेको दाधार” इत्यादिश्रुत्यनुसारेणान्येषामपि वेत्याकाङ्क्षायां सूत्रकृतैव स्कान्दपुराणे अष्टानां गृहीतत्वेन अष्टानां ग्रहणमिति तत्तात्पर्यमवगभ्यत इति ज्ञापनाय प्रथमं स्कान्दपुराणग्रहणं, न तु अभ्यर्हितत्वाभिप्रायेण वेदस्यापौरुषेयत्वेन स्वतः प्रामाण्यं पुराणानां तु तदनुसारित्वेनेत्यादिवदतां श्रीमदाचार्याणां वेदत्वाभ्यर्हितत्वं पुराणानां तदनुसारित्वेन ततोभ्यर्हितत्वाभावश्च सम्मत इति ज्ञातुं शक्यत्वेन त्वदुक्तेरभिनिवेशमूलत्वात् । तदेतदभिप्रेत्योक्तं चन्द्रिकायां ‘सूत्रकृतैव स्कान्दे अष्टकर्तृत्वस्य लक्षणत्वेनोक्तेश्च’ इति ।

चन्द्रिकानुवादः_४

चं.) यच्चोक्तं परैः- जन्मादिकारणत्वं तटस्थलक्षणं, आनन्दादिरेव स्वरूपलक्षणमिति, तत्र यावल्लक्ष्यभाव्यभाविनी वा, सत्यासत्ये वा, यावत्स्वबोध्य भाव्यभाविनी वा, लक्ष्यगतागते वा, लक्ष्यान्तर्गतानन्तर्गते वा, निरुपाधिकसोपाधिकरूपे वा, स्वतो व्यावर्तकव्यावर्तकान्तरोपस्थापकरूपे वा, विशेषणोपलक्षणरूपे वा स्वरूपतटस्थलक्षणे इत्यष्टधा विकल्प्य निराकरणं कृतम् ॥

रामसुब्ब_४१

( रा.) लक्ष्यवाचिपदसमानाधिकरणपदनिरूपितवृत्तिज्ञानविशेष्यत्वे स्वरूपलक्षणत्वम् । तच्च “सत्यं ज्ञानमनन्तं” इत्यत्र लक्ष्यवाचि ब्रह्मपदसमानाधिकरणज्ञानपदनिरूपितवृत्तिज्ञानविशेष्ये ज्ञानेऽस्तीति लक्षणसमन्वयः । ब्रह्म जगत्कारणमित्यप्रयोगाज् जगत्कारणत्वे नास्तीति नातिव्याप्तिः । तटस्थलक्षणत्वं च लक्ष्यवाचिपदसमानाधिकरण पदनिरूपितवृत्तिज्ञानाविशेष्यत्वे सति लक्षणत्वम् । तच्च कारणत्वादावस्तीति लक्षणसमन्वयः । लक्षणत्वं च लक्ष्यत्वेनाभिमतवस्तु विशेष्यकसंशय विपर्यासादिविरोधिज्ञानप्रकारत्वम् । तच्च ब्रह्मज्ञानरूपं न वेति संशय विरोधिज्ञानविषये सत्यं ज्ञानमित्युक्तज्ञाने ‘ब्रह्मणः कारणत्वमस्ति नास्ति’ इति संशय विरोधिज्ञानविषये कारणवाक्योक्तकारणत्वे चास्ति । लक्ष्यवाचिपदसमानाधिकरणेत्यत्र सामानाधिकरण्यं लक्ष्यवाचिपद प्रवृत्तिनिमित्तकत्वं न तु समानविभक्तिकत्वमात्रम् । अतो न ‘शाखाग्रं चन्द्रमाः ’ इत्यद्वैत्यभिमततटस्थलक्षणे शाखाग्रे स्वरूपलक्षणलक्षणातिव्याप्तिः । एतेन लक्ष्यगतागते स्वरूपतटस्थलक्षणे इत्यादिर् मध्वचन्द्रिकाग्रन्थः परास्तः, अनुक्तोपालम्भत्वादिति यदुक्तम्,

खण्डनं_४१

(खं. ) तत्तुच्छम्, अद्वैतसिद्धिगौडब्रह्मानन्दकृत लघुचन्द्रिकादिग्रन्थेषु यावल्लक्ष्यभाव्य भाविनोः स्वरूपतटस्थलक्षणरूपतया आशङ्कनात् ।
“अन्तर्गत पदेन लक्ष्यैकदेशोक्तौ लक्ष्यस्याखण्डत्वहाने, अभेदोक्तो प्रकृष्ट प्रकाशत्वादेश्चन्द्रस्वरूपलक्षणत्वेन स्वीकृतस्यापि तन्न स्यात्” इति विकल्पपूर्वकं चन्द्रिकायां दूषितस्य लक्ष्यान्तर्गतानन्तर्गते इति पक्षस्य अखण्डार्थवादे " अन्यथा स्वरूपतटस्थलक्षण विभागो न स्यात्" इति अद्वैतसिद्धिव्याख्यानावसरे लघुचन्द्रिकायां लक्ष्यात्यन्ताभिन्नं स्वरूपलक्षणं, स्वाश्रयकालावच्छेदेन स्वाश्रयनिष्ठं तटस्थलक्षणमिति सिद्धान्तिततया अद्वैत्युक्तस्यैव निराकरणेन अनुक्तोपालम्भत्वोक्तेर् अद्वैत सिद्धिब्रह्मानन्दीयादिग्रन्थानवलोकन निबन्धनत्वात् । लक्ष्यवाचिपदसमानाधिकरणपद निरूपितवृत्तिज्ञान विशेष्यत्वं स्वरूपलक्षणत्वमिति त्वत्परिष्कृत स्वरूपलक्षणलक्षणस्य अभिन्नयोरेव समानाधिकरणपदवाच्यत्वेनोदाहरणानुसारेण च लक्ष्याभिन्नं स्वरूपलक्षणमिति चन्द्रिकायामाशङ्कितपक्ष पर्यवसानेन तत्पक्षोक्तदूषणैरेव दूषितत्वात् स्वत्कृतशब्दान्तररचनाया उक्तदोषवारणाक्षमत्वात् । प्रत्युत प्रत्यग्रातिस्फुट दूषणजालसम्पादननिदानत्वाच्च। तथाहि प्रसिद्धस्यासाधारणधर्मस्य लक्षणत्वेन, अप्रसिद्धस्य धर्मिणश्च लक्ष्यतया त्वन्मते, ब्रह्ममात्रस्य ज्ञानस्य ब्रह्मलक्षणत्वानुपपत्तिः । आनन्दत्वसत्त्वादेः प्रकृष्ट प्रकाशत्वादेश्च लक्ष्यवाचिपदसमानाधिकरणपदनिरूपितवृत्तिज्ञानविशेष्यत्वाभावेन स्वरूपलक्षणत्वानुपपत्तिः । न चेष्टापत्तिर् अद्वैत सिद्धिलघुचन्द्रिकादौ ज्ञानत्वसत्यत्वादेः स्वरूपलक्षणत्वेनोक्तत्वात् । जगत्कारणस्यापि ‘स कारणं’ ‘ब्रह्म जगत्कारणं’ इत्यादि-वाक्यघटकोक्तपदवृतिज्ञान विशेष्यत्वेन ब्रह्मस्वरूपलक्षणत्वापत्तिर् इत्यादि-चन्द्रिकोक्तदोषस्यापरिहारः ।

ब्रह्मण्यवाच्ये यो विद्वान् वाच्यतामधिगच्छति ।

स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥

इति तदुक्तम्–

दृष्टा गुणक्रियाजातिसम्बन्धाः शब्द हेतवः ।

नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते ॥

इति, अद्वैत सिद्धयादिग्रन्थे लक्षणीयस्य ब्रह्मणः वाच्यत्वाभावस्य प्रवृत्तिनिमित्तवत्त्वाभावस्य च सिद्धया “सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्यघटकब्रह्मपदस्य लक्ष्यभूतब्रह्मवाचकत्वाभावात्, ब्रह्मनिष्ठप्रवृत्तिनिमित्तकत्वाभावाच्च, लक्ष्यवाचिपदप्रवृत्तिनिमित्तधर्मसमानाधिकरणपदनिरूपितवृत्तिज्ञानविशेष्यत्वरूप स्वरूपलक्षणलक्षणस्यासम्भव एव । घटवाचकपदसमानाधिकरण नीलपदनिरूपितवत्तिज्ञानविशेष्यत्वस्य नीले सत्वान्नीलस्यापि घटलक्षणत्वापत्तिः । लक्ष्यवाचिपदसमानाधिकरणपदनिरूपितवृत्तिज्ञानाविशेष्यत्वे सति लक्षणत्वरूपतटस्थलक्षणलक्षणस्य ब्रह्मस्वरूप लक्षणत्वेनाभिमते ज्ञानत्वानन्दत्वादी चन्द्रस्वरूपलक्षणत्वेनाभिमते प्रकृष्ट-प्रकाशत्वादौ च त्वद्रीत्योक्तपदनिरूपितवृत्तिज्ञानाविशेष्यत्वेन चातिव्याप्तिः । घटो द्रव्यं न वा पृथिवी न वेत्यादिसंशय विरोधिज्ञानप्रकारी तद्रव्यत्वादेरपि घटलक्षणत्वापातेन लक्ष्यत्वेनाभिमतवस्तुविशेष्यकसंशयविपर्यासादिविरोधिज्ञानप्रकारत्वं लक्षणत्वमिति त्वदुक्तपरिष्कारस्यात्यन्तमसम्बद्धत्वात् । शाखाग्रस्य चन्द्रलक्षणत्वाभावेन लक्षणत्वेनाद्वैत्यभिमतिमात्रेण तदर्थं लक्षणपरिष्कारानुपपत्तेः ॥

चन्द्रिकानुवादः_५

(चं.) एतेन यदुक्तं विवरणे विषयानवच्छिन्नम् आदित्यादिप्रकाशवदर्थप्रकाशनसमर्थं ज्ञानं स्वरूपलक्षणमिति, तन्निरस्तम्, सामर्थ्यस्य शक्तिरूपत्वात् । विषयनिरूप्यत्वाच्च । जगज्जननादिसामर्थ्यस्यैव स्वरूपलक्षणत्वोपपत्तेश्चेति यदुक्तं,

रामसुब्ब_५१

(रा.) तन्न, अर्थप्रकाशनसामर्थ्योपेतज्ञानस्यैव विवरणग्रन्थे लक्षणत्वोक्त्या सामर्थ्यस्य स्वरूपलक्षणत्वानुक्त्या तत्सिद्धिमङ्गीकृत्य जगज्जन्मादिकारणत्वसामर्थ्यस्य स्वरूपलक्षणत्वोपपत्तिकथनस्यायुक्तत्वादिति यदुक्तं,

खण्डनं_५१

(खं. ) तत्तुच्छम्, ज्ञानस्य विषयनिरूप्यत्वेन अर्थप्रकाशनसामर्थ्यस्य शक्तिरूपत्वेन शक्तेः सोपाधिकतया सोपाधिकसामर्थ्यघटितस्य स्वयं सोपाधिकस्य अर्थप्रकाशनसमर्थज्ञानस्य स्वरूपलक्षणत्वं न सम्भवति । सोपाधिकस्यापि लक्षणत्वाङ्गीकारे शक्तिरूपस्य जगज्जननादिसामर्थ्यस्य लक्षणत्वमुपपद्यतामित्येव चन्द्रिकाचार्याणामभिप्रायः, न तु विवरणकृता अर्थप्रकाशनसामर्थ्यस्य स्वरूपलक्षणत्वमङ्गीकृतमिति विवरणमतानुवादावसरे समर्थज्ञानं स्वरूपलक्षणमित्यनुवादात् । एतत्पूर्वमपि ज्ञानमप्यर्थप्रकाशात्मकत्वे सोपाधिकमेवेति ज्ञानस्यैव स्वरूपलक्षणत्वमुक्तमित्यङ्गीकृत्य दूषणार्थं प्रवृत्तत्वात् । तथा च त्वदुक्तेश् चन्द्रिकार्थाज्ञानविजृम्भितत्वमेवेति । यत्वित्यादिना चन्द्रिकानुवादावसरे अर्थप्रकाशनसामर्थ्यस्य शक्तिरूपत्वाद् विषयानित्यत्वाच्च स्वरूपलक्षणत्वासम्भवादिति अनुवादोऽपि विरुद्ध एव, चन्द्रिकायां तथाऽनुक्तत्वात् ॥

चन्द्रिकानुवादः_६

( चं) एतेनैव, कार्यान्वयिरूपं विशेषणं स्वरूपलक्षणं, तदनन्वयिरूपोपलक्षणं तटस्थं, आनन्दत्वादिकं हि " तद्विजिज्ञासस्व" इति वाक्यविहितजिज्ञासारूप कार्यान्वयि तस्य मुमुक्षुज्ञेयत्वात्, न तु कारणतेति निरस्तम् । इतरव्यावृत्त्यर्थम् आनन्दत्वादेरिव कारणत्वस्यापि जिज्ञास्यत्वात्, अन्यथा समन्वयाविरोधाध्याययोस्तद्व्युत्पादनं न स्यात् । न च ब्रह्मण्यानन्दत्वादेः कारणत्वादेश्चारोपितत्वेऽविशिष्टेऽपि दुःखव्यावृत्तिरेव ज्ञेया, न त्वकारणव्यावृत्तिरित्यत्र हेतुरस्ति । सुखस्वभावत्वादसुखव्यावृत्तौ कारणस्वभावत्वादकारणव्यावृत्तिरस्तु “देवस्यैष स्वभावोऽयम्” इत्यादिश्रुतेरिति यत्

रामसुब्ब_६१

( रा . ) तत्र, अध्यारोपापवादन्यायेन निर्विशेषस्वरूपप्रतिपत्त्यर्थमेव तद्व्युत्पादनोपपत्तेः । “देवस्यैषः” इत्यादेर् गौडपादकारिकात्वेनास्मदीयमाण्डूकभाष्येऽव्याख्यातत्वेन श्रुतित्वासिद्धेरिति यदुक्तं,

खण्डनं_६१

(खं.) तत्तुच्छम्, श्रीचन्द्रिकोक्तरीत्या इतरस्मात् प्रधानादितः व्यावृत्त्यर्थं वा स्वदुक्तरीत्या निर्विशेषप्रतिपत्त्यर्थं वा कारणत्वस्य जिज्ञासारूप कार्यान्वयित्वेन तटस्थलक्षणतया स्वीकृतस्य स्वरूपलक्षणत्व प्राप्तेरपरिहारात् । त्वन्मते निर्विशेषस्याज्ञेयत्वेन तत्प्रतिपत्तेरेवासम्भवात् । रज्ज्वां सर्वभ्रमप्राप्तौ नायं सर्प इत्युक्तिर्दृष्टा, न तु अयं सर्प इति पूर्व भ्रान्तिमुत्पाद्यानन्तरं नायं सर्प इति । तथा च त्वदभिमते निर्विशेषे ब्रह्मणि जगत्कारणत्वादिभ्रममुत्पाद्य निषेधकरणस्यान्याय्यत्वाच्च । निर्विशेषे अत एव शब्दाद्यगम्ये ब्रह्मणि भ्रमोत्पादनासम्भवाच्च । “देवस्यैष स्वभावोऽयं" इत्यस्य गौडपादकारिकात्वेऽपि गौडपादकारिकायाः श्रुतिसमानप्रामाण्यमङ्गीकुर्वाणमद्वैतिनं प्रतिकारणत्वादीनां स्वभावत्वे प्रमाणतयोदाहरणस्य सङ्गतत्वात् । स्वप्रमायासरूपेति सृष्टिरन्यैर्विकपिता ॥इत्यद्वैत्यभिमतसृष्टे निन्दनेनास्य गौडपादकारिकात्वाङ्गीकारस्यायुक्तत्वाच्च । श्रुतित्वाभावसाधकाया गौडपादकारिकात्वेन शङ्करोक्तेरित्युक्तेरसङ्गतत्वात्, उभयवादिसम्प्रतिपन्नस्यैव हेतु कर्तव्यत्वात् । अन्यथा श्रुतेः प्रामाण्याभावसाधकतया वा जगत्कारणस्य शून्यत्वसाधकतया वा अस्मदाचार्यैस्तथोक्तत्वादिति बौद्धोक्तया प्रामाण्याभावादिसिद्धिप्रसङ्गात् । महापूर्वपक्ष भाष्ये रामानुजाचार्यैरपि गौडपादकारिकात्वेन त्वदङ्गीकृतस्य “अनादिमायया सुप्तः” इति वाक्यस्य उपनिषत्वेन स्वीकृतत्वाच्च । पूर्वोत्तरोपनिषद्वाक्य सन्दष्टस्यास्य श्रुतित्वावगमाच्च ! अस्य श्रुतित्वाभावे ज्ञापकाभावाच्च । न च " अत्रेते श्लोका भवन्ति" इति मध्ये वाक्यमेव ज्ञापकमिति वाच्यं, तेत्तिरीयादौ " तदप्येष श्लोको भवति" इति तत्र तत्रोक्त्वोदाहरिष्यमाणानां ‘अन्नाद्वै प्रजाः प्रजायन्ते’ ‘प्राणं देवा अनुप्राणन्ति’ ‘यतो वाचो निवर्तन्ते’ इत्यादीनां वेदत्वाभावापत्तेश्च । “परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " इत्यादीनाम् ईश्वरसम्बन्धि सृष्टयादिव्यापाराणां स्वभावत्वबोधकानां वाक्यानां विद्यमानत्वेन चन्द्रिकाचार्यैरुदाहरिष्यमाणत्वेन च “देवस्यैषः " इतिश्रुत्युदाहरणस्य श्रुत्यन्तराभावतदज्ञानान्यतरमूलकत्वरूपागतिकागतित्वाभावाच्च ॥

चन्द्रिकानुवादः_७

(चं.) किञ्च

असाधारणधर्मो हि लक्षणं परिकीर्त्यते ।

तच्च निर्धर्मकब्रह्मवादिनां युज्यते कथम् ॥ १॥

स्वरूपं वा तटस्थं वा लक्षणं भेदकं मतम् ।

सजातीयाद्विजातीयात्तच्चाद्वैतिमते कथम् ॥२॥

न च मिथ्याभेदसिद्धये मिथ्यालक्षणकीर्तनम् ।

मुमुक्षं तत्त्वजिज्ञासुं प्रति शास्त्रेषु शोभते ॥३।

न च कारणत्वे श्रुतेरतात्पर्यान्नाप्रामाण्यं तात्पर्यनिर्णायकैः सूत्रै प्रत्यधिकरणं “सदेव” इत्यादिवाक्यं न प्रधानकारणत्वपरं किन्तु ब्रह्मकारणत्वपरमित्युक्तेरिति यदभिहितं,

रामसुब्ब_७१

(रा.) तन्न, “स्वरूपं वा ” तटस्थं वा इति श्लोके भवद्भिरेव स्वरूपस्य लक्षणत्वकथनेन असाधारणधर्मस्य लक्षणत्वमिति नियमस्य भवद्भिरेव निर्दलितत्वात् । यत्तु “स्वरूपं वा तटस्थं वा” इति इलोके सजातीयविजातीययोरद्वैतिमतेऽभावाद् लक्षणस्य व्यावर्तकत्वं न सम्भवतीयुक्तं, न स्वरूपस्यापि लक्षणत्ममङ्गीकृत्येति, तन्न, कल्पितस्य व्यावहारिकस्य सजातीयस्य विजातीयस्य च सत्त्वेन तद्व्यावर्तकत्वेन लक्षणत्वोपपत्तेः । तस्मादनवद्यमद्वैतिमतमिति यदुक्तं,

खण्डनं_७१

(खं. ) तत्तुच्छम्, अद्वैतिमते अध्यासकारणतया लोके दृष्टानामसम्भवेन ब्रह्मणि सजातीयविजातीय वस्त्वारोपस्यैवासम्भवेन कल्पितसजातीयविजातीयव्यावर्तकत्वेन लक्षणत्वोपपत्तिकथनस्यायुक्तेः । ब्रह्मणः सर्व जगद्रूपत्वाङ्गीकारेण जगद्व्यावृत्तिकथमेऽपसिद्धान्तापत्तेश्च । व्यावृत्तेर्व्यावर्तकधर्मस्य च मिथ्यात्वाङ्गीकारे तत्प्रतिपादकश्रुतितदर्थनिर्णायकसूत्रयोरप्रामाण्यापाताच्च । तात्पर्यज्ञापकोपक्रमादिभिनिर्णीते कारणत्वादौ तात्पर्याभावस्य वक्तुमशक्यत्वाच्च । “स्वरूपं वा तटस्थं वा " इति श्लोकस्य लक्षणस्य सजातीयविजातीयव्यावर्तकत्वेन अद्वैतिमते सजातीयविजातीयद्वितीयवस्त्वभावेन लक्षणप्रयोजनस्यासम्भवादित्यत्रैव तात्पर्यं न तु स्वरूपस्य लक्षणत्वाङ्गीकारे इति वक्तुं शक्यत्वेन असाधारणधर्मस्य लक्षणत्वमिति नियमस्यास्माभिरनिर्दलितत्वात् । अस्मन्मते ब्रह्मस्वरूपस्याप्यानन्दत्वादेर् विशेषबलेनाधाराधेयभावस्वीकारेण स्वरूपस्य लक्षगत्वाङ्गीकारेऽप्यसाधारणधर्मत्वोपपत्तेर् असाधरणधर्मस्य लक्षणत्वमिति नियमत्यागे कारणाभावात् । निर्विशेषणब्रह्मवादिमते स्वरूपस्य धर्मत्वकथनासम्भवेन लक्षणत्वासम्भवात् । तथा चाद्वैतिमते शून्यं तत्वमविज्ञेयं मनोवाचामगोचरम् । इत्याद्युक्तशून्यकल्पब्रह्मङ्गीकाराज् जगत्कारणत्वादिवेदोक्त-धर्माणाम् मिथ्यात्वकथनद्वाराऽनन्तवेदानाम् अप्रामाण्याङ्गीकाराद् बौद्धमतवत् हेयमेवाद्वैतिमतम् । अत एवोक्तं प्राचीनैः प्रच्छन्न बौद्धा अद्वैतिन इति ॥

ॐ जन्माद्यस्य यतः ॐ ॥ योगरूढयोर्मध्ये रूढः शीघ्रोपस्थितिजनकत्वेन प्राबल्याद्ब्रह्मशब्दः जीवे रूढः जीवमेव बोधयति, न तु विष्णुं, तत्र यौगिकत्वात् । तथा च जिज्ञास्ये श्रुतब्रह्मशब्देन तस्य गुणपूर्णत्वासिद्धेर् जिज्ञास्यं न जीवाद्व्यावृत्तम् । जीवस्य तु स्वप्रकाशत्वेन सिद्धत्वादविषयत्वेन न विजिज्ञास्यतेति पूर्वः पक्षः । योगापेक्षया रूढर्बलीयत्वेऽपि रूढिबाधकस्य जगज्जन्मादिकारणत्वरूपलक्षणस्य “यतो वै” इत्यादिवाक्ये जिज्ञास्ये श्रुतत्वात् तस्य च जीवेऽऽसम्भवाद् रूढार्थं परित्यज्य यौगिकार्थ एव ग्राह्यः । तेन च गुणपूर्णत्वसिद्धया जीवाद्भेदसिद्धिः । ततश्च विषयत्वसम्भवेन जिज्ञास्यता सम्भवतीति सिद्धान्त इति । तदुक्तं चन्द्रिकायां

जिज्ञासाकारणीभूतगुणपूर्ति प्रसिद्धये ।

जींवादिभेदकं विष्णो विश्वकर्तृत्वमुच्यते ॥ इति । एतदधिकृत्य,

रामसुब्ब_७२

(रा.) तन्न तन्मते जगत्कारणत्वस्य ब्रह्मात्यन्ताभिन्नतया ब्रह्मलक्षणत्वासम्भवात् । अन्यथा ब्रह्मैव ब्रह्मलक्षणं स्यात् । न ह्यद्वैतिनामानन्दरूपस्य ब्रह्मण आनन्दत्वब्रह्मत्वाभ्यामिव कल्पितभेदः माध्वैरङ्गीक्रियते, येन कारणत्वस्य ब्रह्मलक्षणत्वं भवेत् । न च कारणत्वस्य ब्रह्मात्यन्ताभेदेऽपि विशेषबलाल्लक्षणत्वोपपत्तिरिति वाच्यं भवन्मते विशेषरूपधर्मस्यापि ब्रह्मभिन्नत्वे “एवं धर्मान्पृथक् पश्यन्” इत्यादिश्रुतिविरोधापत्त्या विशेषस्यापि ब्रह्मात्यन्ताभिन्नत्वावश्यकतया कारणत्वस्य ब्रह्मलक्षणत्वोपपत्तिरित्यस्य ‘कारणत्वबलात्कारणत्वं ब्रह्मलक्षणं, ब्रह्मबलाद्ब्रह्म स्वलक्षणं’ इत्येतत्समशीलत्वात् । किञ्च माध्वमते जगत्कर्तृत्वस्य ब्रह्मात्यन्ताभिन्नतया नित्यत्वात् " तदधैक्षत, तत्तेजोऽसृजत” इति श्रुत्युक्तमागन्तुकं जगत्कर्तृत्वं कथं सङ्गच्छते ।

कारणत्वस्य शक्त्यात्माना नित्यत्वेऽपि व्यक्त्यात्मनाऽऽगन्तुकत्वमुपपद्यत इत्यप्यसत्, व्यक्त्यात्मकस्यापि कारणत्वस्य ब्रह्मात्यन्ताभिन्नतयोक्तदोषतादवस्थ्यात् । तस्य ब्रह्मभिन्नत्वाङ्गीकारे " एवं धर्मान्” इति श्रुतिविरोधापत्तिस्तदवस्थैव । किञ्च जिज्ञासाधिकरणे माध्वैर् विचारविधिगतेनैकेन ब्रह्मपदेन बहूनामुपक्रमाद्यवगतजीवब्रह्मैक्यपराणां वेदान्तवाक्यानामन्यथाकरणमुक्तं, जन्माद्यधिकरणे “यतो वा इमानि भूतानि जायन्ते” इति जगत्कारणत्वलक्षणप्रतिपादनपर बहुपदानुसारेण जीवे रूढस्यैकस्य ब्रह्मपदस्य मुख्यार्थात्प्रच्यावनमुक्तमिति पूर्वोत्तराधिकरणविरोधः स्पष्ट इति यदुक्तं,

खण्डनं_७२

(खं. ) तत्तुच्छम्, विशेषबलादभिन्नयोरपि लक्ष्यलक्षणभावोपपत्तेः । अभेदेऽपि लक्ष्यलक्षणभावस्याधाराधेयभावस्य चाद्वैतिभिरप्यङ्गीकृतत्वेन स्वदुक्तेर्व्याहतत्वाच्च । स्फुरति ब्रह्मणि आनन्न्दभेदकल्पनाया अद्वैतिमतेऽसम्भवाच्च । विशेषस्य ब्रह्मस्वरूपत्वेऽपि प्रामाणिक व्यवहारानुरोधेन लक्ष्यलक्षणभाव निर्वाहकत्वात् । ‘कालः सदास्ति, देशः सर्वत्रास्ति’ “स्वे महिम्नि प्रतिष्ठितः” इत्यादिव्यवहारसिद्धयर्थम् अद्वैत्यङ्गीकृतस्वभावविशेषस्यापि ब्रह्मादिरूपत्वेन देशस्य स्वभावविशेषेणाधाराधेयभावोपपत्तिरित्यस्य देशस्य देशेन देशाधारतोपपत्तिरित्यादिसमशीलत्वप्राप्तेः स्वनिर्वाहकत्वादिना समाधानस्य तुल्यत्वात् । अद्वैत सिद्ध्यादौ विशेषविचारप्रस्तावे स्वनिर्वाहकत्वादिना समाहितत्वाच्च । “तत्तेजोऽसृजत" इति श्रुतेर् व्यक्तिविषयकत्वेन जगत्कारणशक्तिरूप जगत्कर्तृत्वस्यागन्तुकत्वाज्ञापकत्वात् । “स्वाभाविकी ज्ञानबलक्रिया च” इति श्रुत्याऽनागन्तुकत्वावगतेश्च । अङ्गीकृतं हि शाङ्करभाष्ये क्रियाया आगन्तुकत्व ज्ञापकतया लोके दृष्टानामपि तृजादिप्रत्ययानां नित्यत्वबोधकश्रुतिबलेनागन्तुकत्वाज्ञापकत्वम् " नन्वनित्य क्रियाविषय एव तच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः यथा छेत्ता भेत्ता गन्तेति । तथा द्रष्टेत्यत्रापीति-चेत्, न, प्रकाशयितेति दृष्टत्वात् । भवतु प्रकाशकेषु अन्यथाऽसम्भवान्नत्वात्मनीति चेत्, न दृष्ट्यविपरिलोपश्रुतेः" इत्यादिना " न हि द्रष्टुईष्टेविपरिलोपो विद्यते" इत्येतस्य व्याख्यानावसरे । व्यक्तेः कारणत्वाभिन्नत्वेऽपि स्वभावविशेषबलेन प्रमितसर्वकार्यनिर्वाहकत्वसम्भवात् । जीवब्रह्मैक्यविषये उपक्रमादीनामभावेन, प्रत्युत उपक्रमादीनां जीवब्रह्मैक्यपरत्वविरुद्धत्वेन वेदान्तानां जीवब्रह्मैक्ये तात्पर्यस्यैवाभावात् । जीवब्रह्मैक्यविषये प्रबलभूतविरुद्धधर्माधिकरणत्वरूपयुक्तिविरोधस्य ब्रह्मपदेन सूचनात् । भेदविषय एव प्रत्यक्षानुमानकर्मकाण्डोपनिषद्रूपागमानां बहूनां सत्वाच्च पूर्वाधिकरणे एकेनानेकेषां बाधस्यानुक्तेः सावकाशनिरवकाशतयोरेव दौर्बल्यप्राबल्यप्रयोजकत्वेन शतमन्धा अपि न पश्यन्ति इति न्यायेन बहुत्वस्याप्रयोजकत्वाच्च । अत्र जगज्जन्मादिकारणत्वरूपेण लक्षणेन रूढिपरित्याग उक्तः, न तु बह्वनुसाराय एकस्य बाध उक्त इति पुर्वोत्तराधिकरणयोर्विरोधगन्धाभावेन विरोधः स्पष्ट इति स्पष्टतोक्तेः स्पष्टतराज्ञानमूलत्वाद् इति ।

। । इति जन्माधिकरणं समाप्तम् । ।