०२ जिज्ञासाधिकरणम्

ॐअथातो ब्रह्मजिज्ञासा ॐ

जिज्ञासाधिकरणम्

ॐअथातो ब्रह्मजिज्ञासा ॐ

चन्द्रिकानुवादः_१

(चन्द्रिकानुवादः) तत्र भामत्युक्तमधिकरणं “प्रत्यगात्मन एव ब्रह्मत्वात् तस्य चाहमितिप्रकाशमानत्वेनासन्दिग्धत्वान् न विषयत्वम् ॥ नाप्यविद्यानिवृत्तिः प्रयोजनम् । उक्तरीत्या आत्मनि भासमानेऽपि तदनिवृत्तेः । न च वाच्यं, अहम्प्रत्ययः, स्थूलोऽहं कर्ता भोक्ता दुःखीति गृह्णाति, तद्विपरीतश्च वेदान्तप्रतिपाद्यः सन्दिग्ध इति, विषयादिसिद्धिरिति । वेदान्तानाम् अध्ययनविध्यापादितप्रयोजनवदर्थावबोधानामपि प्रबलाहम्प्रत्यय बाधितत्वेन जपमात्रोपयोगित्वेनाविवक्षितार्थत्वादुपचरितार्थत्वाद्वा । तथाच वेदान्तविचारो नारब्धव्य इति पूर्वपक्षः । सिद्धान्तस्तु वेदान्त-वाक्यैर् ज्ञानानन्देकरसाद्वितीयोदासीनस्वभाव आत्मा उपक्रमादिभिः प्रतिपाद्यते ॥ न च क्रियासमभिहारेणेदृगात्मतत्वमभिदधति तत्पराणि सन्ति युक्तमुपचारितार्थानीति वक्तुम् ॥ प्रत्यक्षं तु सम्भावितदोषम् अपौरुषेयेण निर्दोषणागमेन बाध्यते । तेन वेदान्तवेद्यः शुद्धोऽहं प्रत्यये न भातीति विषयादिसिद्धिरिति ॥

तन्न । तथाहि । शुद्धो न भातीति कोऽर्थः । किमात्मस्वरूपे किञ्चिद्भाति किचिन्न भातीति । किंवाऽऽत्मस्वरूपमेव न भातीति । यद्वा अनात्मापि भातीति । आद्येऽभासमानोंशः शरीरादिभ्यो भेदो वा, कर्तृत्व भोक्तृत्वाद्यभावो वा, ब्रह्मात्माभेदो वा, द्वितीयमात्राभावो वा । आत्मभिन्नः सत्यश्चेदपसिद्धान्तः । अभावद्वैतं त्वन्यत्र निरस्तम् । मिथ्याचेन्न तत्वावेदकशास्त्रवेद्यः । आत्ममात्रत्वे तु द्वितीयपक्षान्तर्भावः ॥ तथाऽपि कल्पितेन भेदेनागृहीत इव भातीति चेन्न । तत्वतो गृह्यमाणेऽधिष्ठाने भेदकल्पनाया अगृहीतत्वारोपस्यचायोगात् ॥ न च मिथ्याभूतेनापि तेनोपलक्षित आत्मा शास्त्रवेद्यः, स च सत्य इति वाच्यम् । स्वप्रकाशत्वेन नित्यसिद्धात्मावबोधनार्थमुपलक्षणोक्त्ययोगात् । उपलक्षण एव तात्पर्ये चाप्रामाण्यापातात् । अत एव न द्वितीयः । तस्य स्वप्रकाशस्याप्यविद्यावशादभाने अविद्यादेर्दुःखादेश्च प्रकाशो न स्यात् । तस्य चैतन्य प्रकाशाधीनप्रकाशत्वोपगमात् ॥

एतेन स्वप्रकाशत्वात् स्फुरति चैतन्यं, अविद्यावृतत्वाच्च-न स्फुरति । न च विरोधः । स्फुरणस्य तात्विकत्वाद् अस्फुरणस्यातात्विकत्वात् । एवञ्च न कोऽपि दोषः । स्फुरत्वादज्ञानादि साधकत्वस्य अस्फुरत्वाद्विषयस्य च सम्भवादिति निरस्तम् । स्फुरत्यस्फुरणारोपायोगस्योक्तत्वात् । न च स्वरूपचितः प्रकाशेपि तस्या अज्ञानाविरोधित्वाद् विरोधिन्याश्च वृत्तेरभावेनाविद्यावृतत्वात् सन्दिग्धत्वमिति युक्तम् । स्वरूपचितोऽज्ञानाविरोधित्वे तद्वेद्ये दुःखादावज्ञानप्रसङ्गात् । त्वन्मते अयं घट इत्याद्यपरोक्षवृत्तेरपि घटाद्यवछिन्नचिद्विषयत्वाच्च । श्रवणादिजनितसंस्कारसहितान्तःकरणवृत्तिनाश्यत्वे च मिथ्यारूप्यादौ तददर्शनात् सत्ये भ्रमरादिध्यान निवर्त्यकीटत्वादौ च तद्दर्शनादज्ञानस्य सत्यत्वं स्यात् ॥ न तृतीयः । अनात्मनोऽधिकस्य भानेपि आत्मनोऽसन्दिग्धत्वेनाविषयत्वतादवस्थ्यात् । अधिष्ठाने तत्वतः स्फुरत्यनात्मारोपायोगाच्च ॥

एतेन यथा षड्जादयो गान्धर्वशास्त्राभ्यासात्प्रागपि स्फुरन्तस्तद्रूपेणानुल्लिखिता न श्रोत्रेण व्यज्यन्ते । व्यज्यन्ते तु शास्त्र वासितेन तेन । एवं वेदान्तवाक्यजन्यब्रह्मैक्याकार वासनावासितान्तःकरणेन तद्भावाभिव्यक्तिर्नप्रागिति भामत्युक्तं निरस्तम् । तत्र प्रागस्कुरतः पश्चाच्च स्फुरतः षड्जत्वादि जातिभेदस्येव प्रकृते तस्याभावात् ॥ एतेनैव तत्त्वमसीति वाक्याद् यद्यप्यात्मनो ब्रह्मत्वं ज्ञातम् । तथापि वादिविप्रतिपत्त्या संशयात् तत्र जिज्ञासेति भामत्युक्तं निरस्तम् । चिन्मात्रे धर्मिणि निश्चिते तन्मात्रैक्ये संशयायोगात् ॥ युक्तं चापौरुषेयस्याप्यागमस्य शङ्किततात्पर्य भ्रमरूपदोषस्य यजमानः प्रस्तर इत्यादेरिव प्रत्यक्षविरोधेन प्रतीतार्थप्रच्यावनम् । उक्ता च त्वयापि तत्त्वमसि-वाक्ये प्रत्यक्षाविरोधाय लक्षणा ॥ तस्मात्परमते स्वरूपमात्रस्य स्वप्रकाशत्वेन नित्यसिद्धत्वाद् अन्यस्य चाज्ञान कल्पितत्वेनाज्ञानविषयत्वायोगेन ज्ञानासम्भवात्, अज्ञातो विषयो ऽज्ञाननिवृत्तिः फलम् अज्ञानी चाधिकारी न युक्त इति शास्त्रमनारम्भणीयमेवेति भामतीमतं तावदयुक्तमिति ॥

रामसुब्ब_११

( रामसुब्ब ग्रन्थानुवादः ) तन्न । शुद्ध इत्यस्य अविद्यातत्प्रयुक्तान्यतरभिन्नचिद्रूप इत्यर्थकत्वेन तस्याहं प्रत्यये मानाभावेन त्वदुक्तविकल्पदूषणानां शुद्ध शब्दार्थाबोधविलसितत्वादिति ॥

खण्डनं_११

( खण्डनं) तत्तुच्छम् । ‘शुद्धो न भातीति कोऽर्थः । किमात्मस्वरूपे किञ्चिद्भाति किचिन्न भाती’ति प्रथमकल्पे अभासमानोंशः शरीरादिभ्यो भेदो वा कर्तृत्यभोक्तृत्वाद्यभावो वेति कृते अवान्तर विकल्पे, यः देहादिभिन्नचिद्रूपः शुद्ध इति पक्षः । तस्मात् पक्षात् ‘देहादीनाम् अविद्यातत्प्रयुक्तान्यतरत्वेन अविद्यातत्प्रयुक्तान्यतरभिन्नचिद्रूपः शुद्धः’ इति त्वदीयपक्षस्याबहिर्भावेन तद्दूषणेन दूषितत्वात् ॥ अद्वैत्यभिमतशुद्धपदार्थान् सम्यक्विज्ञायैव दूषितवतां शुद्धशब्दार्थानवबोधोक्तेरेवाशुद्धत्वाच्च ॥

रामसुब्ब_१२

(रा) ‘स्वरूप चैतन्यस्याज्ञानाविरोधित्वे’ इत्यादि चन्द्रिकोक्तदोषपरिहारार्थं, तन्न । यस्य घटादेर् न जानामीत्यनुभवस् तद्विषयकमज्ञानम् । सुखादेर्हि न जानामीत्यनुभवाभावात् तत्राज्ञानप्रसक्त्यभावात् । घटाकारवृत्त्या, घटावच्छिन्नस्य विशिष्ट चैतन्यस्य विषयीकरणेऽपि शुद्धस्याविषयीकरणात् शुद्धाज्ञाननिवृत्त्यभावाद् इति यदुक्तम् ॥

खण्डनं_१२

( खं) तत्तुच्छम् । सुखं न जानामीत्यनुभवाभावादेर् अस्मदुक्त-तर्काङ्गसाकल्यसम्पादकत्वेन तर्कबाधकतया त्वदीयवर्णनस्य तर्काङ्गाज्ञानमूलकत्वात् । तथाहि । तर्के हि आपाद्यस्यानिष्टत्वमङ्गम् । अनिष्टत्वं च प्रामाणिकपरित्यागः, अप्रामाणिककल्पनं चेति द्विविधम् । प्रकृते सुखं न जानामीत्यनुभवाभावोक्तेः सुखादिविषयकाज्ञानमप्रामाणिकमितिज्ञापनद्वारा सुखादावज्ञानप्रसङ्ग इत्यापादनस्य अनिष्टविषयत्वरूपाङ्गसम्पादकत्वम् । एवं घटाकारवृत्त्या शुद्धाज्ञाननिवृत्त्यभावोक्तेः शुद्धाज्ञाननिवृत्त्यापादनस्य अनिष्टविषयत्वरूपाङ्गसम्पादकत्वमेवेति ॥

घटावच्छिन्नचितः विषयीकरणे शुद्धचितोऽपि विषयीकृतत्वात्, शुद्धस्याविषयीकरणादित्युक्तेरयुक्तत्वात् । अन्यथा दण्डी देवदत्त इतिज्ञानस्य देवदत्ताविषयकत्वप्राप्त्या तेन देवदत्तविषयकाज्ञानसंशयनिवृत्त्यभावापातात् ॥

“सर्वं प्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ "

इति शुद्धब्रह्मणः सर्वप्रत्ययविषयत्वस्य अद्वैतिभिरङ्गीकाराच्च ॥

चन्द्रिकानुवादः_२

(चं) एतेन, ‘न प्रत्यक् ब्रम्हैक्यं विषयः । कर्तृत्वादेविरुद्ध-धर्मस्य सत्यत्वेनैक्यायोगात् । नापि तन्निवृत्तिः प्रयोजनम् । ज्ञानस्याज्ञानमात्रनिवर्तकत्वेन सत्यस्य ज्ञानान्निवृत्त्ययोगादिति प्राप्ते सत्यम् । कर्तृत्वादि प्रपञ्चस्य सत्यत्वे विषयादिर्न सिध्यतीति । प्रपञ्चस्तु मिथ्यैव । अत एव भाष्ये अध्यासवर्णनं ’ इति विवरणाभिप्रेतमधिकरणं निरस्तम् । कर्तृत्वादिविशिष्टस्य सम्भावित दोषेण तत्वावेदकेन प्रत्यक्षानुमानादिना मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानान्तर विरोधाभावेन तत्त्वम्पदमुख्यार्थत्वाय, तल्लक्षिते चिन्मात्रे भेदाप्रसक्त्या तत्त्वमसिवाक्यावैय्यर्थ्याय च, विशिष्टस्यैव निर्दोषया श्रुत्या तात्विकाभेदबोधनसम्भवेन, विषयार्थमध्यासस्यावक्तव्यत्वात् ॥ न च विरुद्धधर्मस्य सदा सत्वे भेदस्तात्विकः स्थादिति वाच्यम् । अस्याप्यनुमानस्य श्रुतिविरुद्धत्वेनातात्विकविषयत्वात् ॥ नापि प्रयोजनार्थं तदुक्तिः । सेत्वज्ञानाकार्यस्यापि पापस्य सेतुज्ञानान्निवृत्तेः । विस्तृतं चैतन्न्यायामृते । तस्मान्न विवरणमतमपि युक्तमिति ॥

रामसुब्ब_२१

रा) तन्न “एकमेवाद्वितीयं” “तद्धास्यविजज्ञौ” इत्युपक्रमोपसंहाराभ्याम् अद्वितीयब्रह्म निर्विशेष विषयाभ्यां तन्मध्यपतितस्य निर्विशेष-विषयत्वावगमेन तद्धटक ‘तत्त्वमसि’ इत्यादेरपि जीवत्व ब्रह्मत्वोपलक्षितचिन्मात्रे तात्पर्यावगमात् ॥ विशिष्टयोर्भेदे तत्त्वमसिवाक्य तात्पर्यस्यैवाभावात् । सेतुज्ञानस्य पापनाशं प्रति हेतुत्वेऽपि उपादानेन सह कार्य निवृत्तिरूपबाधं प्रति अप्रयोजकत्वात् ॥ बाधितस्य तु अध्यासवर्णनम् । न तु नाशमात्रप्रतियोगिन इति विवरणाचार्याभिप्रायादिति ॥

खण्डनं_२१

(खं) तत्तुच्छम् । “तम आसीत् । तमसागूहूलमग्रे " इति तमआदीनां सत्त्वश्रवणात् ॥

“जीवईशो विशुद्धाचिद् भेदस्तस्यास्तयोर्द्वयोः ।

अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥ "

इत्यद्वैतिभिर् अनादीनां जीवादीनामङ्गीकाराच्च । त्वत्कृते शाङ्करभाष्यगाम्भीर्यनिर्णयाख्येग्रन्थे, “क्षरश्चाक्षर एव च” इति गीताश्लोकव्याख्यानपरभाष्ये ‘न क्षरतीत्यक्षरः’ इत्येतादृशैर्बहुभिः शाङ्करवाक्यैर् मायाया अविनाशित्वं शाङ्कराभिमतमिति त्वदुक्तयैव मायाया नित्यत्वसिद्धेश्च ॥ आत्मा वा इदमेक एवाग्रआसीत् । नान्यत्किञ्चनमिषत्’ इति श्रुत्या ब्रह्मातिरिक्तव्यापारविशिष्ट द्वितीयवस्तुनो निषेधेन व्यापाररहित द्वितीयवस्तुसद्भावस्यावगमात् । तथैव शङ्करादिभिर्व्याख्यातत्वाच्च । अग्र इति आसीदिति आत्मेति च पदैः काल सत्ता जगत्कर्तृत्वादिगुणानां प्रतिपादनात् । विद्यारण्यादिभिः ‘कालादीनां प्रतिभासो भवति’ इत्युक्तत्वाच्च ॥ “नैवेह किञ्चनाग्र आसीत् । मृत्युनैवेदमावृतमासीत्” इति श्रुत्यापि अग्र इतिपदेन कालस्य आवृतमित्यनेनावरणीय वस्तुनः सत्वबोधनात् ।

शाङ्करभाष्ये “यदिहि किञ्चिदपि नासीद्येनाव्रियते यच्चाव्रियते तदा नावक्ष्यन् मृत्युनैवेदमावृतमासीत्” इति । न हि भवति ‘गगनकुसुम छन्नो वन्ध्यापुत्रः’ इति । ब्रवीति च मृत्युनैवेदमावृतमासीदिति । तस्माद्येनावृतं कारणेन यच्यावृतं कार्यं प्रागुत्पत्तेस् तदुभयमासीत् । श्रुतेः प्रामाण्याद् अनुमेयत्वाच्च” इत्यादिना आवरकार्वीयमाणवस्तुद्वय सद्भावपरतया व्याख्यानाच्च । अर्थान्तरासम्भवाच्च । प्रलयकाले द्वितीयवस्त्वभावस्यैवासिद्धेः । ब्रह्मणो ऽद्वितीयत्वस्यानुपपन्नत्वात् ।

“एको गोत्रे " इति पाणिनिसूत्रव्याख्यानावसरे कैय्यटे " एक शब्दोऽयम् अन्यः प्रधानासहाय सङ्ख्या, प्राथम्य, समानवाची” इत्युक्तत्वेन “एकः " सुपर्णः” इति मन्त्रव्याख्यावसरे, “एको ऽसहायः " इति विद्यारण्योक्त्या च “एकमेवाद्वितीयं” इति श्रुतिगतस्य एकपदस्य प्रधानाद्यनेकार्थत्वसम्भवात्, द्वितीयशब्दस्य ‘असिद्वितीय इति असिसहायः’ इति महाभाष्ये सहायपरतया व्याख्यानात्, “अस्य गोर् द्वितीयोन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वा” इति शाङ्करभाष्ये महाभाष्ये च सजातीयद्वितीयवस्तु परतया उक्तत्वाच्च श्रौताद्वितीयपदस्य सहकारिवस्तुरहितः सजातीय द्वितीय वस्तुरहित इत्याद्यर्थकत्वसम्भवेन, ‘एकमेवाद्वितीयं’ इति श्रुतेः सामान्यतः द्वितीय वस्त्वभावपरत्वस्यानिर्णयात् तथा ब्रह्मणो ऽद्वितीयत्वासिद्धेः ॥

‘एकमेवाद्वितीयं’ इति वाक्यव्याख्यावसरे-‘एकमिति स्वकार्यपतितम् अन्यन्नास्तीत्येकमेवेत्युच्यते’ इति ब्रह्मातिरिक्तब्रह्मकार्यभूत वस्त्वभावबोधस्य अद्वितीयमिति, मृद्व्यतिरेकेण मृदोयथान्यद् घटाकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं निषिध्यते । अद्वितीयमिति इति सहकारिभूत द्वितीयवस्त्वभावबोधस्य च एकाद्वितीयपदाभ्यां जायमानतया शङ्कराभ्युपगतत्वेन द्वितीयवस्तुसामान्याभावस्य तद्व्याख्यानरीत्याप्यसिद्धेश्च ॥

‘सदेव सौम्येदमग्र आसीत्’ इति पूर्ववाक्ये अग्र इति पदेन कालस्य बोधनात्, अद्वितीयमित्यादिपदेन त्वदुक्तरीत्यैव द्वितीयस्त्वभावसत्त्वबोधनात् सामान्यतः द्वितीयवस्त्वभावबोधनासम्भवाच्च ! । एकमिति प्राधान्यादिधर्माणाम् आसीदिति सत्तारूपविशेषस्य, ऐक्षतेति ईक्षणक्रियाया असृजतेति सर्जनक्रियाया अनुप्रविश्येति प्रवेशस्य चोक्त्या निविशेषब्रह्मपरत्वस्याप्यसम्भवात् ॥ " तद्धास्य विजज्ञौ” इत्युपसंहारवाक्यस्यापि ‘तद् ब्रह्म विजज्ञौ-ज्ञातवान्’ इति ब्रह्मविषयकज्ञानमात्रप्रतिपादकत्वेन ब्रह्मणोऽद्वितीयत्वनिर्विशेषत्वाप्रतिपादकत्वात् प्रत्युतविजज्ञाविति ज्ञानकर्मत्वरूपविशेषस्य ज्ञातृज्ञेयभावेन जीवब्रह्मभेदस्य च तत्पदेन सर्वज्ञत्वादि रूपविशेषस्य च प्रतिपादितत्वेन ब्रह्मणोऽद्वितीयत्वनिर्विशेषत्वयोः प्रतिकूलत्वाच्च ॥

‘एकमेवाद्वितीयं’ ‘तद्धास्य विजज्ञौ’ इत्युपक्रमोपसंहारयोरेव अद्वितीय ब्रह्मनिर्विशेषविषयकत्वासम्भवेन तत्प्रतिकूलत्वेन च तन्मध्यपतितस्य निर्विशेषविषयत्वावगमस्य दूरापास्तत्वात् ॥ “स आत्मातत्त्वमसि " इतिवाक्यस्य जीवत्वब्रह्मत्वोपलक्षितचिन्मात्रे तात्पर्यासिद्धेः । जीवब्रह्मैक्यप्रमाणभङ्गे अस्मदुक्तरीत्या जीवस्य ब्रह्माधारत्वब्रह्मजन्यत्वादी जीवब्रह्मणोर्भेदे च तात्पर्य सिद्धेश्च ॥ भेदग्राहक प्रत्यक्षस्यातत्वा वेदकत्वेन तेन मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानान्तरविरोधाभावेन विशिष्टयोर्भेदगीक्रियमाणे श्रुतेर्मुख्यार्थत्वप्राप्तेश् चिन्मात्रे भेदस्याप्रसक्त्या चिन्मात्रयोरभेदकथने उक्तश्रुतेर् अप्रसक्तनिषेधकत्व प्राप्तेश्च निर्दोषया श्रुत्या विशिष्ठयोरेव जीवेश्वरयोस् तात्विकाभेदबोधनसम्भवेन अध्यासवर्णनमन्तरापि ऐक्यरूपविषयसिद्ध्या ‘यतः कर्तृत्वादेर्मिथ्यात्वे विषयादिसिद्धिर् अत एव भाष्ये अध्यासवर्णनम् इति विवरणाभिप्रायोसङ्गत इति चन्द्रिकोक्तदूषणस्य विशिष्ठयोरभेदे तात्पर्याभावोक्त्याऽनिवारणात् ॥

यदुक्तं सेतुज्ञानस्य इत्यादि तदपि तव विवरणकारस्य च श्रुति सूत्रार्थाज्ञानकल्पकमेव ॥ " तमेवं विद्वानमृत इह भवति " " तरति शोकमात्मवित्” इत्यादि श्रुतौ " अथातो ब्रह्मजिज्ञासा” इति सूत्रे च ब्रह्मज्ञानेन बन्धसम्बन्धवियोगरूपमोक्षस्य प्रतिपादनेऽपि उपादानेन सह कार्यनिवृत्तिरूपबाधस्याप्रतिपादनाद् अप्रामाणिक निवृत्तिसिद्धयर्थम् अध्यासवर्णनोक्तेरयुक्तत्वात् ॥ दाहाद् उपादानकारणीभूततन्तुनासह पटरूपकार्य नाशदर्शनेन ज्ञानादपि उपादानेन सह सत्यभूतकार्यस्यापि निवृत्तौ बाधकाभावेन तदर्थम् अध्यासवर्णनोक्तेरसङ्गतत्वाच्च ॥ अद्वैतिनां मते ब्रह्मणो निर्विशेषत्वेन अद्वितीयत्वेन च लोके अध्यासकारणतया दृष्टानां सामान्यधर्मविशेषधर्मारोप्यमाण सादृश्यतद्ज्ञानाज्ञानतदाश्रयाणामसम्भवेन अध्यासायोगाच्च ॥ " विस्तरस्तु अद्वैतखण्डनभागे द्रष्टव्यः ॥

रामसुब्ब_२२

( रा. ८१.) यदुक्तं विवरणमतानुवादावसरे प्रपञ्चस्तु मिथ्यैव । अत एव भाष्ये अध्यासवर्णनम् । मिथ्यात्वन्तु आरम्भणाधिकरणे स्फुटी भविष्यति’ इति ॥

खण्डनं_२२

( खं . ) तत्तुच्छम् । अद्वैतिनां मते अध्यासस्यासम्भवेन प्रपञ्चस्य मिथ्यात्वासम्भवात् ॥ “नेह नानास्ति किञ्चन” ‘अतोऽन्यदातं’ इत्यादि श्रुतीनाम् अन्यार्थत्वेन विश्वं मिथ्या दृश्यत्वाद् इत्याद्यनुमानानां दुष्टत्वेन प्रपञ्च मिथ्यात्वविषये प्रमाणाभावात् । प्रत्युत प्रपञ्चसत्यत्वग्राहकाणां " यथा वृक्षोवनस्पतिस् तथैव पुरुषोऽमृषा” “विश्वं सत्यं" " याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः " " तदेतत्सत्यं" इत्यादि श्रुतीनां ‘घटः सन् पटः सन्’ इत्यादि प्रत्यक्षाणां विश्वं सत्यम् अर्थक्रियाकारित्वाद् इत्याद्यनुमानानां च सत्यात् ॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

राजन् कार्यस्य मिथ्यात्वं नैर्गुण्यं परमात्मनः ॥ “मायावादम सच्छास्त्रं”

इत्यादिषु जगन्मिथ्यात्वनिन्दाश्रवणाच्च ॥ आरम्भणाधिकरणस्य

(* अध्यासवाद मङ्गे, 1 बृहदारण्योपनिषच्छाङ्करभाष्य ( ३०८-१) ‘अमषा सत्यं’ इति व्याख्यातम् ॥ )

जगन्मिथ्यात्वाप्रतिपादकत्वात् ॥ यथा आरम्भणाधिकरणस्य न मिथ्यात्वप्रतिपादकत्वं तथोपपादितमद्वैतखण्डनभागे ॥ १ ॥

चन्द्रिकानुवादः_३

( चं ३१. ) अत्र वेदार्थनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रम् अनारम्भणीयमुतारम्भणीयमिति चिन्ता । तदर्थं न्यायानुसन्धानरूपविचारो न कर्तव्य उत कर्तव्य इति । तदर्थं विचारविधेर् विषयादिकं न सम्भवत्युत सम्भवतीति ॥ तदर्थं विषयीभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव उत तदन्यदिति ॥ यदि ब्रह्म प्रत्यगर्थ एव तदा तस्य निश्चितत्वेन विषयाद्यसम्भवात् शास्त्रमनारम्भणीयमिति पूर्वपक्षे फलफलिभावः । यदि तु ब्रह्म प्रत्यगर्थादन्यत् तदा प्रत्यगर्थस्य जीवस्य निश्चितत्वेऽपि ब्रह्मणो विषयत्वसम्भवाच्छास्त्रमारम्भणीयमिति सिद्धान्ते फल-फलिभावः पूर्वपक्षस्तु ॥

( पूर्वपक्षसङ्ग्रहः ) जीवान्यब्रह्मणोऽभावात्तस्य च स्वप्रभत्वतः । तद्ज्ञानान्मुक्त्यभावाच्च जिज्ञासा नावकल्पते इति न शास्त्रमारम्भणीयं न्यायानुसन्धानात्मक विचाररूपजिज्ञासाया एवाकर्तव्यत्वात् । तदकर्तव्यत्वञ्च निर्विषयत्वादिहेतुभ्यः ॥ तत्र तावद्विषयत्वेनाभिमतं ब्रह्म न जीवचैतन्याद्भिन्नं मानाभावात् । कर्मकाण्डस्य कर्मपरत्वात् । वेदान्तश्चोपक्रमादिभिर् अद्वैतिरीत्या अखण्डप्रत्यगात्ममात्रप्रत्यायनात् । तस्य चाहमिति स्वप्रकाशतया भासमानत्वात् । अन्यस्य च सत्यस्याभावात् ॥ नापि जिज्ञासायाः प्रयोजनमस्ति । प्रत्यग्रूपे ब्रह्मणि अहमिति ज्ञायमानेऽपि मोक्षानुपलम्भात् ॥ विषयाद्यभावादेव नाधिकारी ॥ नापि सम्बन्ध अतस् तद्विजिज्ञासस्व इत्यादि वेदान्ता न विचारविधायकाः । अप्रमाणं चेति ॥ एवं पूर्वपक्षे प्राप्ते सिद्धान्तितं भगवता सूत्रकारेण ॥

ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥

(१. जगन्मिथ्यात्वनिराकरणप्रकरणे, )

इति सिद्धान्तस्तु –

जिज्ञास्यं ब्रह्मशब्देन गुणपूर्त्यभिधायिना ।

अपूर्णत्वेनानुभूताज्जीवद्भिन्नं प्रतीयते ॥

जिज्ञास्यमेव ब्रह्म । " तद्विजिज्ञासस्य तद्ब्रह्म" इत्यादि श्रुतेः श्रीब्रह्मशब्दोक्त्या गुणपूर्त्या अल्पगुणत्वेनानुभूयमानाज्जीवाद्भिन्नत्वेन सन्दिग्धत्वाच्च ॥

निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

गुणवर्त्यल्पगुणते मिथ्येति च न युज्यते ॥

न केवलं “अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः” इति श्रुत्या गुणपूतिर्ब्रह्मशब्दार्थः । किन्तु ब्रह्मशब्दावयवशक्त्याऽपि । अपरिछेदे हि तस्यावयवशक्तिः परस्यापि सम्मता । गुणापरिछेदोऽपि चापरिछेद एव । न च सङ्कोचे हेतुरस्ति । अन्यथा कालमात्र परिच्छेदस्तदर्थ स्यात् ॥ तथाच ब्रह्मणो जीवाद्भिन्नत्वेन अहमिति ज्ञानस्य ब्रह्माविषयकतया ब्रह्मज्ञानत्वाभावेन तेन मोक्षानुपलम्भेऽपि ब्रह्मज्ञानमोक्षयोः ‘तमेवं विद्वानमृत इह भवति’ इत्यादि श्रुतिसिद्ध कार्यकारणभावस्य निर्बाधत्वेन ब्रह्मज्ञानेन मोक्ष सम्भवाद् विषयप्रयोजनयोः सतोः प्रयोजनेच्छया विषयजिज्ञासोरेवाधिकारित्वाद् यथायोग्यं सम्बन्धस्य च विद्यमानत्वाद् ब्रह्म जिज्ञास्यम् । तद्विजिज्ञासस्व इत्यादि विचारविधायका वेदान्ताः प्रमाणमिति ॥

रामसुब्ब_३१

रा ( ८२ . ) तन्न । मध्यमते पूर्वपक्षो नोपपन्नः । तत्र हि वेदान्तानां जीवब्रम्हैक्यपरत्वं मिथ्यावाद्युक्तरीत्या निश्चित्य शास्त्रानारम्भ उपपादितः ॥

(१. चं ४२.)

तत्राद्वैतस्य " सिद्धत्वे न वेदान्तस्य गोचरः ।

सिद्धोऽपि यदिवेदान्तगोचरस्तर्हि गोचरः ॥

विचारस्य कथं न स्यादद्वैते न च सिद्धता ।

नितान्तन्तु विचारस्य गोचर स्याद्यथातथम् ॥

अद्वैतवाक्यनिचयः कर्मशेषो भवेत्तदा ।

निष्प्रत्यूहैर्भेदवाक्यं स्तदाभेदः सुनिष्ठितः ॥ इति ॥

खण्डनं_३१

(खं) तत्तुच्छम् । अस्मदीयपूर्वपक्षे ब्रम्हण एव विचाराविषयत्ववेदान्तविषयत्वयोः कथितत्वेन अद्वैतस्य विचाराविषयत्ववेदान्तविषयत्वयोरनुक्त्वा अद्वैतस्य सिद्धत्वासिद्धत्वपक्षयोर् दूषणोक्तेर् अस्मदीय पूर्वपक्षाज्ञानविज्रुम्भितत्वात् ॥ किञ्च एतदधिकरणपूर्वपक्षस्य वेदान्ताप्रामाण्यपर्यन्ततया वेदान्तानां पूर्वपक्षिणा अप्रामाण्यप्रयोजक सिद्धजीव ब्रह्मैक्यविषयकत्वाङ्गीकारसम्भवेऽपि असन्दिग्धे न्यायानवतारेण न्यायानुसन्धानात्मक विचारस्य सिद्धजीवब्रह्मैक्यविषयत्वाङ्गीकारासम्भवेन सिद्धोऽपि यदि वेदान्तगोचरस्तर्हि गोचरः । विचारस्य कथं न स्याद् इत्याक्षेपस्यात्यन्तमसङ्गतत्वात् ॥ एतेन सिद्धब्रह्मणः वेदान्तविषयत्वे विचाराविषयत्वासम्भवशङ्कापि परास्ता ॥ ‘अद्वैतवादयनिचयः कर्म शेषो भवेत्तदा । निष्प्रत्यूहैर्भेदवाक्यंस्तदाभेदः सुनिष्ठितः । इति वाक्यं तु स्वप्रतिज्ञातपूर्वपक्षानुपपन्नत्वासाधकत्वाद् असम्बद्धप्रलपनरूपमेवेति ।

रामसुब्ब_३२

( रा. ८२ . ) सिद्धान्तोऽप्यनुपपन्नः । सर्वेषां वेदान्तवाक्यानां निविशेष चैतन्यरूपे ब्रह्मणि तात्पर्यमाश्रित्य कृतस्य पूर्वपक्षस्य निरासाय ‘तद्विजिज्ञासस्वे ‘ति विचारविधिवाक्यगतो ब्रह्मशब्दः मध्वमते स्थापितः । नचैको ब्रह्मशब्दः सर्वानपि वेदान्तान् उपक्रमादिदृढन्यायैर् निर्णीताद्वैतस् तात्पर्यात् प्रच्यावयितुं शक्तः ॥ ‘विप्रतिषेधे भूयसां स्यात् स्वधर्मत्वं’ इति प्रसङ्गलक्षणन्यायाद् अद्वैते उपक्रमाद्यभाव एव सिद्धान्तहेतुर्वाच्यः । तमनुक्त्वा ब्रह्मशब्दस्य हेतुत्वकथनमयुक्तमिति ॥

(तत्पुस्तके ‘स्यासिद्धत्वे’ इतिस्यवर्णः दीर्घो मुद्रितोऽस्ति । स चात्यन्तासङ्गत इति स्थवर्णो ह्रस्वोऽनूदितः ॥)

खण्डनं_३२

( खं. ) तत्तुच्छम् अल्पगुणत्वपूर्ण गुणत्वरूप विरुद्धधर्माधिकरणत्वरूपयुक्त्या जीवब्रह्मणोर्भेदस्य साधितत्वेन अद्वैते उपक्रमादिषु बलिष्टतमयुक्तिविरोधस्य अर्थात् तदभावस्य च सिद्धान्तिभिः प्रदर्शितत्वेन अद्वैते उपक्रमाद्यभावरूपत्वकथनोक्तेश् चन्द्रिकावाक्यतात्पर्याज्ञानविजृम्भितत्वाद् उक्तं हि चन्द्रिकायाम् ॥

जिज्ञास्यब्रह्मशब्देन गुणपूर्त्यभिधायिना ।

अपूर्णत्वेनानुभूताज्जीवद्भिन्नं प्रतीयते ॥ इति,

अखण्डे ब्रह्मणि अद्वैते वा तात्पर्यप्रत्यायकतया अद्वैतिप्रदर्शितोपक्रमादेश्च तत्तात्पर्यव्यवस्थापकत्वाभावस्य प्रत्युत तत्प्रतिकूलताया जीवब्रह्मैक्यप्रमाणभङ्गे उपपादितत्वेन अखण्डे ब्रह्मणि अद्वैते वा वेदान्तानां तात्पर्यस्य अनिर्णयाद् एकोऽपि निरवकाशः ब्रह्मशब्दो ऽद्वैत्युत्पादितभ्रम विषयात् तात्पर्याद् वेदान्तान् प्रच्यावयितुं समर्थः किम् ब्रह्मशब्देन उपलक्षणतया सूत्रकृद्भिर्गृहीतानि प्रत्यक्षानुमानकर्मकाण्डसृष्ठ्यादि प्रतिपादक भेदग्राहकाणि प्रमाणानि । स्वीकृतञ्च कर्मकाण्डानां सृष्ठ्यादिप्रतिपादकोपनिषदां प्रत्यक्षानुमानानाञ्च भेदग्राहकत्वं त्वद्भाष्यकर्त्रा १ “शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानां च निष्ठा साकं सर्वैः प्रमाणः स्मृतिनिकर महाभारतादि प्रबन्धैः ॥ तत्रैव व्याससूत्राण्यकुटिल विधयाभान्ति तात्पर्यवन्ति प्रत्नैराचार्यरत्नैरपि परिजगृहे शङ्करार्यैः स चापि इति विष्णुतत्वरहस्यविवरणे त्वया सर्वेषां प्रमाणानां भेदतात्पर्यकत्वं तथा शाङ्कराभिप्रेतत्वञ्च उपपादितं च निपुणतरं भेदसाधकत्वं तस्मिन्नेव ग्रन्थे । एवञ्च अमेदग्राहकप्रमाणस्यैव त्वन्मतरीत्याऽभावाद् इतराद्वैतिमरीत्या अभेदप्रतिपादकतयाङ्गीकृतानां तत्वमस्यादि पञ्चषाणां भेदप्रतिपादकवाक्यापेक्षया अल्पत्वाद् विप्रतिषेधे भूयसां स्याद् सधर्मत्वम् इति प्रसङ्गलक्षणन्यायस् त्वत्प्रतिकूल एवेति ॥

चन्द्रिकानुवादः_४

( चं. २८ . ) एतेन प्रथमसूत्रस्य समन्वयाद्यशेषविचार-

(बृहदारण्ये २०, १२० ः मे मन्त्रव्याख्याने.)

हेतुत्वात् ॥ शास्त्रप्रथमाध्यायप्रथमपादसङ्गतय इति कल्पतरूक्तं निरस्तं द्वितीयाध्यायतो व्यावृत्तस्य शास्त्रसङ्गत्यतिरिक्तस्य प्रथमाध्यायादिना सङ्गतिविशेषस्यानुक्तत्वेनाध्यायपादपीठत्वमात्रस्य न्याय्यत्वादिति ॥

रामसुब्ब_४१

( रा. ७४ . ) तन्न “प्रथमाध्यायवद् द्वितीयाध्यायादिसङ्गतत्वादस्याधिकरणस्य द्वितीयाध्याये सङ्घटनापत्तिः” इति भवदभिप्रायो वक्तव्यः । सचासङ्गतः । सङ्गतैः साधारणत्वेऽपि प्रथमातिक्रमे कारणाभावात् प्रथमाध्याय एव सङ्गत्या एतदधिकरणसङ्घटनस्य युक्तत्वादिति ॥

खण्डनं_४१

(खं . ) तत्तुच्छम् । चन्द्रिकानभिमतं वाक्यादप्रतीयमानं चाभिप्रायं कल्पयित्वा दूषणोक्तेश् छलोत्तरत्वात् । तथाहि चन्द्रिकाभिप्रायः । समन्वयाद्यशेषविचार हेतुत्वात् शास्त्र प्रथमाध्यायप्रथमपादसङ्गतय इति प्रकृतचतुरध्यायात्मकशास्त्रं प्रति अस्य सूत्रस्य प्रयोजकत्वोक्त्या उपोद्धात सङ्गतेरेव भवता उक्तप्रायत्वेन शास्त्रारम्भे सिद्धे प्रथमाध्यायो मास्तु प्रथमपादो मास्तु इति विशेषाशङ्कायाः प्रथमसूत्रेणानिवृत्तेः । शास्त्रत्वेन रूपेण प्रथमाध्यावादोनामपि सङ्गत्युक्तो द्वितीयतृतीयसूत्राणां शास्त्रत्वेन रूपेण सङ्गतविद्यमानत्वात् शास्त्रप्रथमाध्यायप्रथमपादद्वितीय-तृतीय सूत्र सङ्गतय इत्यपि वक्तव्यत्वापाताद् इति । नतु द्वितीयाध्याये सङ्घटानापत्तिरिति । उपोद्घातसङ्गतेः सङ्घटनां प्रत्यप्रयोजकत्वात् ॥

चन्द्रिकानुवादः_५

( चं. २८.) एतेनैव " श्रोतव्यादिवाक्यानां स्वार्थे समन्वयस्य तद्वारेण विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयस्य च निमित्तत्वादाद्यसूत्रं समन्वयेन सङ्गतं " इति विवरणोक्तं निरस्तम् । तद्वाक्यस्य स्वार्थे समन्वयप्रतिपादनमात्रेण समन्वयाध्यायसङ्गतौ तृतीयाध्यायादेरपि समन्वय सङ्गतिप्रसङ्गात् । विचार कर्तव्यताप्रतिपादनेन ब्रह्मणि समन्वयनिमित्तत्वस्येवाविरोधादिनिमित्तत्वस्यापि सत्वेन द्वितीयादितो व्यावृत्तस्य प्रथमेन सङ्गतिविशेषस्यासिद्धेश्च ॥ पादसङ्गत्यनुक्तेश्चेति ॥

रामसुब्ब_५१

( रा. ८४ .) तन्न । द्वितीयाध्यायादेर् ब्रह्मणि वेदान्त समन्व हेतुभूतसमन्वयपरत्वाभावेन तदीयाधिकरणानां समन्वयाध्यायसङ्गतत्वाभावात् । जिज्ञासाधिकरणस्य येन समन्वयेन द्वारभूतेन अविरोधहेतुत्वं तत्रैव सङ्गतत्वेन अविरोधाध्याय सङ्गतत्वाभावात् । उपोद्घातरूपस्याधिकरणस्य स्पष्टब्रह्मलिङ्गवाक्यविचाररूपत्वस्यातिस्फुटत्वात् प्रथमपाद-सङ्गत्यनुक्तिरित्यलमिति ॥

खण्डनं_५१

(खं. ) तत्तुच्छम् । वाक्यप्रतिपाद्येऽर्थे भासमानबाधक परिहारेण तादृशार्थपरत्वसमर्थनं हि श्रोतव्यादिवाक्यानां स्वार्थे समन्वयः । तस्य चाद्यसूत्रे क्रियमाणत्वात् तत्सूत्रं यथा समन्वयाध्यायसङ्गतं तथा ‘आत्मन आकाशः सम्भूत इत्यादि वाक्यानामपि तत्प्रतिपाद्येऽर्थे बाधकपरिहारेण स्वार्थपरत्वसमर्थनरूपसमन्वयस्य द्वितीयाध्यायीयाधिकरणः क्रियमाणतया विरोधनिरासद्वारा ब्रह्मणि वेदान्तसमन्वय हेतु समन्वयपरत्वेन तेषामधिकरणानामपि समन्वयाध्याय सङ्गत्यापत्तेरवारणात्। स्वार्थे समन्वयस्य ब्रह्मणि वेदान्तसमन्वयं प्रतीव अविरोधं प्रत्यपि हेतुत्वेन समन्वयपरे अध्याये सङ्गतिर् न त्वविरोधपरे अध्याये सङ्गतिरित्यस्यार्धजरतीयन्यायेनानुपपत्तेः ॥ श्रोतव्यादिवाक्यानां स्वार्थे समन्वयद्वारा विचार्यमाण-वेदान्तवाक्यानां ब्रह्मणि समन्वयहेतुत्वोक्त्या अत्र ब्रह्मणि पदानां समन्वयाप्रतिपादनस्य भवता अङ्गीकृतत्वेन समन्वेतव्य पदस्यैवाभावेन श्रोतव्यादिवाक्यानाम् आनन्दमयाधिकरणे भवता परिष्क्रियमाणेन जडजीवमात्रधर्मतया झटिति प्रतीयमानसमन्वेतव्यपदार्थवृत्तिधर्मासमभिव्याहृतत्वरूपस्पष्टत्वेनोपेतब्रह्मलिङ्ग वाक्यरूपत्वस्यैवाभावेन स्पष्टब्रह्मलिङ्गवाक्यविचाररूपत्वस्यातिस्फुटत्वादित्युक्तेर् अज्ञान मूलत्वाच्च ॥

चन्द्रिकानुवादः_६

( चं ५९.) अत्र परेषां भाष्यं “ तत्राथशब्द आनन्तर्यार्थः परिगृह्यते । नाधिकारार्थः । ब्रह्मजिज्ञासाया अनधिकार्यत्वात्" इति।तन्न। इच्छाया आरभ्यत्वासम्भवेऽपि विवरणरीत्याजिज्ञासाशब्दस्य विचारलक्षकत्वेन तस्यारभ्यत्वसम्भवादिति ॥

रामसुब्ब_६१

( रा. ८५ . ) तन्न । लक्ष्यार्थस्यारभ्यत्वेऽपि शक्यार्थवादायैवाचार्यैरनारभ्यत्वोक्तेरिति ॥

खण्डनं_६१

(खं. ) तत्तुच्छम् । लक्षणया वा शक्त्या वा पदतात्पर्यविषयीभूत एव पदार्थान्तरान्वययोग्यतायोग्यते नित्ये । नतु तात्पर्याविषयभूते शक्य एवार्थे पदार्थान्तरान्वययोग्यता विचारणीया । अन्यथा गङ्गायां घोष इति वाक्येऽपि घोषपदार्थभूतायाः पत्याः, तात्पर्याविषयीभूते गङ्गापदशक्ये प्रवाहे अन्वययोग्यताभावाद् घोषपदार्थता न स्यात् । तथा च प्रकृते विवरणरीत्या जिज्ञासापदलक्ष्ये विचारे आरभ्यत्वान्वययोग्यतायाः सम्भवाद् ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति शाङ्करभाष्यस्य विवरणव्याख्यानरीत्या अयुक्तताया अपरिहारात् ॥

चन्द्रिकानुवादः_७

(चं. ६४.) अन्येषां भाष्येतु-“मङ्गलस्य च वाक्यार्थे समन्वयाभावात्” इत्युक्तम् । तन्न । अपदार्थत्वहेतौ समन्वयाभावे भामत्यां " पदार्थ एवहि वाक्यार्थे समन्वीयते । स च वाच्यो लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा " इत्युक्तस्यापदार्थत्वस्य हेतुत्वेनान्योन्याश्रयापातादिति ॥

रामसुब्ब_७१

( रा. ८५ ) तन्न । वाक्यार्थानन्वितस्यापि घट इत्येकपदमात्र प्रयोज्यस्मृतिविषयस्य घटरूपार्थस्य पदार्थत्वसम्प्रतिपत्या अन्योन्याश्रयासम्भवादिति ॥

खण्डनं_७१

(खं. ) तत्तुच्छम् । नहि चन्द्रिकाकृतां वाक्यार्थानन्वितस्य पदार्थत्वमेव नास्तीत्यभिप्रायः । किन्तु ‘मङ्गलस्य च वाक्यार्थे समन्वायाभावादिति’ शाङ्करभाष्येण ‘मङ्गलस्य वाक्यार्थे समन्वयाभावात् पदार्थ एवहि वाक्यार्थे समन्वीयते स च वाच्यो लक्ष्यो वा न चेह मङ्गलम् अथशब्दवाच्यं लक्ष्यं वा । किन्तु मृदङ्गशङ्खध्वनिवद् अथ शब्दश्रवणमात्रकार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थ" इति भामत्या च “मङ्गलम् अथशब्दार्थो न भवति वाक्यार्थसमन्वयाभावात् ।, “मङ्गलं वाक्यार्थे समन्वयाभाववद् अथशब्दवाच्यलक्ष्यान्यतरत्वाभावाद् इत्यनुमाने सूचिते भवतः । तत्र अथशब्दवाच्यलक्ष्यान्यतरत्वाभावरूपहेतु सिद्धौ वाक्यार्थसमन्वयाभावरूप हेतुसिद्धिर् वाक्यार्थे समन्वयाभावरूपहेतु सिद्धौ अथशब्दार्थत्वाभावरूप हेतुसिद्धिरिति परस्परज्ञप्त्यधीनज्ञप्तिकत्वेन अन्योन्याश्रय इति । एतादृशान्योन्याश्रयस्य वाक्यार्थानन्वितस्य घटरूपार्थस्य पदार्थत्वसम्प्रतिपत्तिकथनमात्रेणापरिहारात् । वाक्यार्थानन्वितस्यापि घट इत्येकपदमात्र प्रयोज्यस्मृतिदिषयस्य घटरूपार्थस्य पदार्थत्वसम्प्रतिपत्येतिवदता त्वयैव वाक्यार्थसमन्वयाभाव पदार्थत्वाभावयोर् घट एव व्यभिचारस्य दर्शितत्वेन समन्वयाभावरूपहेतुनाऽपदार्थत्वं साधयतो भाष्यकारस्याकौशल्यख्यापनाच्च ॥

चन्द्रिकानुवादः_८

( चं ६० ) नापि “नतावज्जिज्ञासायां मङ्गलं कर्त्रादिभावेन वैय्यधिकरण्येनान्वेति कर्त्रादिभावे मानाभावात् कर्त्राद्यन्तरभावाच्च । नापि सामानाधिकरण्येन जिज्ञासामङ्गलमित्यर्थवादत्व प्रसङ्गा"दिति विवरणोक्तो हेतुः सधूमो गिरिः साग्निक इतिवद् ईक्षतेर्नाशब्दमित्यत्र त्वत्पक्षेऽशब्दमितिवच्च मङ्गलत्वात्कर्तव्येति हेतुत्वेनान्ययोपपत्तिरिति ॥

रामसुब्ब_८१

( रा. ८६ ) तन्न जिज्ञासाया मङ्गलकरत्वेऽपि मङ्गलत्वाभावेन तस्य तत्र हेतुत्वेनान्वयासम्भवात् । मङ्गलकर एवाथशब्दार्थ इति चेन्न लक्षणापत्तेरिति ॥

खण्डनं_८१

(खं) तत्तुच्छं विवरणकारेणैव जिज्ञासामङ्गलमित्यन्वये अर्थवादत्वप्रसङ्गादिति वदता जिज्ञासाया मङ्गलरूपत्वमङ्गीकृतम् । शाङ्करसूत्र-भाष्यव्याख्यात्रा आनन्दगिरिणाऽपि ‘नच ब्रह्मजिज्ञासा मङ्गलमितिसामानाधिकरण्यं प्रशंसात्वेन सूत्रस्यार्थवादत्वापत्तेस् तन्माङ्गल्यस्य च प्रसिद्धत्वादिति स्पष्टं जिज्ञासाया मङ्गलरूपत्वमङ्गीकृतमिति ॥ जिज्ञासाया मङ्गल करत्वेऽपि मङ्गलवाभावेनेत्युक्तेर् विवरणादिस्वीयग्रन्थानवलोकनिबन्धनत्वात् तथाच मङ्गलस्य वाक्यार्थे समन्वयाभावादिति शाङ्करभाष्यं विवरणरीत्या अयुक्तमेवेति चन्द्रिकाकृदुक्तदूषणं वज्रलेपायितमेवेति ॥

चन्द्रिकानुवादः_९

(चं ६५) पूर्वप्रकृतापेक्षायाश्च फलतआनन्तर्याव्यतिरेकाद् इति परेषां भाष्यं तस्य भामत्यनुसारेणाथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वाशङ्कानिरासायानन्तर्यार्थ इव पूर्वप्रकृतापेक्षार्थत्वेऽपि जिज्ञासाहेतुभूतस्य पूर्वप्रकृतस्य लाभात् फलाभेदाव्यर्थ आनन्तर्यार्थेत्वाग्रहोऽस्माकमिति यद्यर्थस् तर्हि भाष्ये आनन्तर्यार्थ इत्युक्त्ययुक्तिः । सूत्रे कल्पान्तरानुपन्यासेन पूर्वप्रकृतापेक्षार्थत्वमशक्यशङ्कञ्च । किञ्च किं नित्यः शब्दोऽथानित्य इत्यादि कल्पान्तरोपन्यासेऽपि सामानाधिकारण्यार्थमनुषक्तस्य धर्मिणोऽनित्य इत्यत्रापेक्षायामपि नासावथशब्दार्थो ऽन्यथा उतानित्य इत्यादावुतादेरपि पूर्वप्रकृतापेक्षार्थत्वं स्यादिति ।

रामसुब्ब_९१

( रा. ८६ ) तन्न आनन्तर्यार्थ इति व्याख्यानपदस्य पूर्वप्रकृतापेक्षार्थ इति व्याख्यानपदापेक्षया अल्पाक्षरत्वलाघवाद् आनन्तर्यार्थः परिगृह्यते इत्युक्तेः सुसङ्गतत्वाद् इति ॥

खण्डनं_९१

( खं) तत्तुच्छं " कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा नचेह कल्पान्तरोपन्यास " इति भामत्यां पूर्वप्रकृतापेक्षार्थत्वस्य सयुक्तिकं निरासात् पूर्वप्रकृतापेक्षार्थत्वमङ्गीकृत्य पूर्वप्रकृतापेक्षार्थ इति व्याख्यानपदापेक्षयाल्पाक्षरत्वलाघवाद् इति कथनस्य भामत्यनवलोकननिबन्धनत्वाद् भामतीग्रन्थमनवलोक्य तद्व्यवस्थापनाय प्रवृत्तस्य साहसमुपहासास्पदमिति ॥

किञ्च पूर्वप्रकृतापेक्षार्यानन्तर्यार्थयोरविशेषेऽपि स्वोक्तौ शब्दलाघवगौरवमात्रस्य भाष्यकृतोऽभिप्रेतत्वे ‘पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्’ इति अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वाङ्गीकारसूचकाग्रिमगुरुभूतवाक्यापेक्षया अथशब्द आनन्तर्यार्थः परिगृह्यत इत्यत्रैव आनन्तर्यार्थः पूर्वप्रकृतापेक्षार्थी वा इति लघुभूतवाक्यविन्यासस्याकरणेनाकुशलत्वापत्तेश्च । चन्द्रिकोक्तानां दूषणान्तराणामपरिहाराच्च ॥

रामसुब्ब_९२

( रा. ८६) सूत्रे कल्पान्तरानुपन्यासेनेत्युक्तिरसङ्गता नित्यानित्यवस्तुविवेकादिमुमुक्षुत्वतस्य तद्यथेह कर्मचित इत्यादि वेदसित्धस्यब्रह्मजिज्ञासापदघटकीभूत परब्रह्मार्थकब्रह्मशब्देन वेदस्तत्वं तपोब्रह्म इति रीत्या उपस्थापित वेदस्यापि परामर्शिना सौत्रातः शब्देन तद्यथा इत्यादि विवेकादिबोधक वेदेन पूर्वमुपस्थापितत्वाद् अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेर् भामती कल्पतरूपतातः शब्दार्थरीत्या सिद्धत्वादिति ॥

खण्डनं_९२

(खं.) तत्तुच्छं भामत्यामेवकल्पान्तरोपन्यासे पूर्वप्रकृतापेक्ष न चेह कल्पान्तरोयन्यास इति पारिशेष्यादनन्तर्यार्थम् एवेति युक्तमिति स्पष्टं कल्पान्तरोपन्यासाभावस्योक्तत्वेन अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेर्भामतीकल्पतरुक्तातः शब्दार्थरीत्या सिद्धत्वादित्युक्तेर् भामतीग्रन्थानवलोकननिमित्तत्वाद् अथशब्दानन्तरवर्तिना अतः शब्देन त्वदुक्तरीत्या नित्यानित्यविवेकादिमुमुक्षान्तस्य उपस्थितत्वेऽपि कल्पान्तरोपन्यासाभावेन पूर्वमुपस्थितत्वाभावेन च ‘पूर्वमुपस्थितत्वाद् अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वोपपत्तेर् भामतीकल्पतरूक्तातः शब्दार्थरत्या सिद्धत्वाद् इत्यस्यात्यन्तमयुक्तत्वाच्च ॥

चन्द्रिकानुवादः_१०

(चं. ६५) नापि प्रकृतादर्थादर्थातरत्वाशङ्कानिरासाय अर्थातरत्वं हि यतः कुतश्चित्प्रकृताच्चेद्व्यर्थं पुष्कल कारणाच्चेदानन्तर्याभिधानं विना कारणत्वासिद्धिर् आनन्तर्याभिधाने च प्रकृतादर्थाद् अर्थान्तरत्वस्यान्तर्णीततया सिद्धिरिति विवरणोक्तोऽभिप्राय आनन्तर्याभिधानेऽपि वैय्यर्थ्यपरिहारार्थमेव प्रकृतस्य हेतुत्वसिद्धेर् अन्यथा आनन्तर्यार्थत्वे तत्प्रतियोगिनो हेतुत्वासिद्धिः पूर्वप्रकृतादर्थान्तरत्वाभिधानेप्यानन्तर्यार्थस्यान्तर्णीततया सिद्धेश्चेति ॥

रामसुब्ब_१०१

( रा. ८७.) तन्न परमानन्ददो मोक्षः ज्ञानं तु सम्पादनीयम् इत्यत्र ज्ञानात्पूर्वं प्रकृतस्य ज्ञानजन्यत्वसम्प्रतिपत्तेर् वैय्यर्त्यपरिहारार्थं प्रकृतस्य हेतुत्वसिद्धिरिति भवद्वचनस्य तत्र व्यभिचाराद् आनन्तर्याभिधाने तु आनन्तर्यप्रतियोगिनः प्रकृतस्य फलत्वासम्भवेन हेतुत्वं सिध्यतीति विवरणाभिप्रायाद् इति ॥

खण्डनं_१०१

(खं. ) तत्तुच्छम् ॥ यत्र यत्र पूर्वप्रकृतत्वं तत्र तत्र वैय्यर्थ्यानुपपत्या हेतुत्वमिति नियमोनाभिप्रेतश्चन्द्रिकाकृतां किन्तु प्रकृतादर्थादर्थान्तरस्याथशब्दादिना बोधने पूर्वप्रकृतार्थस्य वैय्यर्थ्यानुपपत्या हेतुत्वं बोध्यते इत्येवाभिप्रेतं परमानन्दो मोक्षः ज्ञानं तुसम्पादनीयमित्यत्र पूर्वप्रकृतादर्थादर्थातरत्वबोधकपदाभावात् परमानन्दो मोक्ष इत्यस्य ज्ञानफलबोधकतया सार्थक्येन वैयर्थ्याभावाच्च तत्र व्यभिचारबोदनस्य चन्द्रिकार्थाज्ञानविजृम्भितत्वात् ॥

चैत्रागमनान्तरं नेत्रो गतः कृत्तिकोदयानन्तरं रोहिण्युदय इत्यादौ अकार्यकारणयोरपि आनन्तर्यतत्प्रतियोगित्वयोर् दृष्टत्वेन आनन्तर्यप्रतियोगितयोक्तस्यापि वैय्यर्थ्यानुपपत्यैव कारणत्वस्य वक्तव्यतया समानयोगक्षेमत्वेन पूर्व प्रकृतस्य हेतुत्वबोधनार्थम् आनन्तर्यार्थत्वमेवाथशब्दस्य वक्तव्यं नतु पूर्वप्रकृतादर्थान्तरपत्वमिति विवरणकृतः शाङ्करभाष्याभिप्राय वर्णनस्यायुक्तत्वाच्च ॥

चन्द्रिकानुवादः_११

( चं ६२) भामती रीत्या जिज्ञासाशब्दस्येच्छा वाचकत्वेप्याथिकार्थेन विचारेणात्ध्याहृतकर्तव्यपदस्येव श्रुतस्याधि कारार्थाथशब्दस्याप्यन्वयोऽस्तु यथोक्तं कल्पतरौ आर्थिकेयचास्मिन्नर्थे कर्तव्यपदाध्याहार इतीति ॥

रामसुब्ब_१११

( रा. ८७.) तन्न श्रूयमाणस्य श्रूयमाणजिज्ञासापदेनान्वये सम्भवति तत्परित्यज्याक्षिप्तेनान्वयापादनस्यायुक्तत्वात् । कर्तव्यत्वस्य जिज्ञासायामन्वेतुमयोग्यत्वेन आक्षिप्तविचारान्वयः स्वीकृतो भामत्याम् इति ॥

खण्डनं_१११

(ख) तस्तुच्छम् अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति शाङ्करभाष्ये अथ शब्दस्याधिकारार्थत्वाभावे ब्रह्मजिज्ञासाया अनधिकार्यस्वरूपो हेतुः प्रतिपादितः स चायुक्तः विवरणरीत्या जिज्ञासापदस्य विचारार्थत्वेन विचारस्यचारभ्यत्वरूपाधिकार्यत्वसम्भवेन हेतोरसित्धेः ॥

भामतीरीत्या जिज्ञासपदबोध्येच्छाया अनारभ्यत्वेऽपि जिज्ञासाक्षिप्तविचारेऽध्याहुतकर्तव्यपदस्येषाधिकारार्थकाथशब्दस्याप्यन्वय सम्भवेन अथ शब्दस्याधिकारार्थत्वाभावे जिज्ञासाया अनारभ्यत्वरूपोक्त हेतोरप्रयोजकत्वान्न तेन अथशब्दस्याधिकारार्थत्वाभावसिद्धिरित्येव च चन्द्रिकाकृतामभिप्रेतत्वेन तैर् आक्षिप्त विचारेऽन्वयस्यानापादित्वाद् इत्थञ्च तद्दृषणमाशयानवबोधनिमित्तमेवेति ॥

यस्त्वित्यादिना चन्द्रिकानुवादावसरे ‘आनन्तर्यार्थिक श्रुताथशब्दस्याप्याक्षिप्तविचारान्वयः स्यात्’ इत्यनुवादस्तु प्रमादमूल एवेति ॥

चन्द्रिकानुवादः_१२

(चं ६८.) नापि परेषां भाष्योक्तात् ‘नित्यानित्यवस्तुविवेक इहामुत्रार्थ फलभोगविरागः शमदमादिसम्पत्तिर्मुमुक्षुत्वञ्चे ’ ति साधनचतुष्टय सम्पद्रूपादधिकारात् । तथाहि । नित्यानित्यविवेको नाम किं ब्रह्मैव नित्यमन्यदनित्यमिति विवेकः

किंवात्मानात्मसमुदाये नित्यत्वानित्यत्वे स्तो धर्मै तयोश्च धर्मिभ्यां भवितव्यमिति निश्चयः यद्वाऽनित्यस्य सम्सारस्य किचिदधिष्ठानमस्तीति निश्चयो नतु ब्रह्मेति । नाद्यः ज्ञातव्यस्य प्रागेव ज्ञाततया विचारवैफल्यात् । नच सगुण निर्गुणविवेकाखण्ड समन्वयाद्यर्थं शास्त्रमितियुक्तम् । भामत्यां नित्यानित्यशब्दयोः सत्यानृतपरत्वेनोक्ततया ब्रह्मैव सत्यमन्यदनृतमिति विवेकस्य प्रागेव सिद्धौ तदर्थस्य सगुणनिर्गुणविवेकादेरप्यनपेक्षितत्वात् । नहि श्रुतितात्पर्यधीः स्वरूपेणापेक्षिता । किन्तु ज्ञेयनिश्चायकतया न चोक्तादन्यन्मुमुक्षुज्ञेयमस्ति । जीवब्रह्मभेदस्यापि ब्रह्मातिरिक्ततया तन्मिथ्यात्वस्य तदभेदस्यापि ब्रह्ममात्रतया तत्सत्वस्यापि तेनैव निश्चितत्वाच्च । न द्वितीयस् तन्मात्रेणानात्मग्रहाणेनात्मविचारे प्रवृत्ययोगात् । ऐहिकामुष्मिकभोगविरागायोगाच्च । नान्त्यः ब्रह्मशब्दार्थत्वादेः प्रकारस्याज्ञानेऽपि वस्तुतो ब्रह्मणोऽनात्माधिष्ठानस्य शास्त्रवेद्यस्य ज्ञातत्वेन शास्त्रवैय्यर्थ्याद् इति ॥

रामसुब्ब_१२१

( रा . ) तन्न प्रथम विकल्पस्य भामतीकल्पतर्वोरनुक्तत्वाद् अनात्मानां प्रायेणानित्यत्वविकारवत्वादिदोषवत्वदर्शनेन तत्प्रहाणेनात्म विचारप्रवृत्तेरुचितत्वाद् वैषयिकफलवैराग्यस्य सम्भवेन द्वितीयविकल्पस्य दोषविकलत्वाज् जीवत्वोपलक्षितज्ञानेश्वरत्वोपलक्षितज्ञानोत्तरकालीनजीवत्वेश्वरत्वोभयोपलक्षिताखण्डचैतन्यज्ञानस्य शास्त्रतात्पर्यविषयत्वेन तस्य जीवेश्वरस्वरूपविचारमन्तरेणालब्धसत्ताकतया संसाराधिष्ठानं किचिदस्तीति वज्जीवेश्वरविचारमन्तरेणाप्युत्पद्यमानं ज्ञानं तद्विलज्ञणतया च तृतीयपक्षे दोषाभावाद् इति ॥

खण्डनं_१२१

(खं) तत्तुछं भवदभिमत द्वितीयतृतीयपक्षयोरुक्तदोषाणां त्वयाऽनुत्धारात् । तथाहि । आत्मानात्मसमुदाये नित्यत्वानित्यत्वे स्तो धर्मौ तयोश्च धर्मिभ्यां भवितव्यमिति निश्वय इति हि द्वितीयः पक्ष एतादृशनिश्चये वैषयिकफले वैराग्यायोग एवम् अनात्मप्रहाणेनात्मविचारे प्रवृत्तेरप्ययोग इति नच अनात्मनां प्रायेणानित्यत्वविकारवत्वादिदोषदर्शन सहकृतत्वस्य तादृशनिश्चये विशेषणदानेऽपि अनित्यत्व विकारत्वादि दोषविषयीभूत अनात्मनि वैराग्यं स्यान् नतु सर्वेष्वनात्मसु आत्मविचारे प्रवृत्तिस्त्वसङ्गतैव तत्कारणीभूतस्यात्मज्ञानफलनित्यताज्ञानस्याभावाच् चन्द्रिकानुक्ते किंवा नित्यत्वतदाश्रययोरनित्यत्वतदाश्रययोश्च धर्मधर्मिणोः परस्परं विवेक इति त्वदुक्तद्वितीयविकल्पेऽपि पूर्वोक्तदोषाणामनपगमात् ॥

जीवत्वोपलक्षितेश्वरत्वोपलक्षितज्ञानोत्तरकालीन जीवत्वेश्वरत्वोभयोपलक्षिताखण्ड चैतन्यस्याप्रामाणिकत्वेन तद्ज्ञानस्य शास्त्रतात्पर्य विषयत्वासम्भवात् त्वया तस्य शास्त्रतात्पर्यविषयत्वे प्रमाणानामनुदाहृतत्वाद् अभावाच्च । शास्त्रेण शक्यतावच्छेदकलक्ष्यतावच्छेदकाद्यन्यतमाविषयकधर्मिविषयक ज्ञानस्याजननाच्च । तादृशज्ञानस्य शास्त्रतात्पर्यविषयत्वकल्पनं शास्त्रप्रयोजनत्वकथनमत्यन्तासङ्गतमेव । अनित्यस्य संसारस्य किचिदधिष्ठानमस्तीति ज्ञानेन संसारे वैराग्योत्पत्तावपि आत्मविचारे प्रवृत्ययोगश्च ॥

चन्द्रिकानुवादः_१३

(चं ६९) न च विवरणरीत्या ध्वंसप्रतियोग्य प्रतियोगिपरौतथाच ब्रह्मज्ञानफलं स्थायि कर्मादिफलन्त्वस्थायीति विवेको नित्यानित्यविवेक इति युक्तम् । प्रतिपन्नोपाधावत्यन्ताभावप्रतियोगित्वरूपबाध्यत्ववतोऽनात्मनो ध्वंसप्रतियोगित्वायोगात् । पारमार्थिकत्वाकारेणात्यन्ताभावः स्वरूपेण तु ध्वंस इति चेन्न । पारमार्थिकत्वस्याबाध्यत्वरूपत्वेनान्योन्याश्रयात् । तथात्यन्ताभावस्य निराकारे ब्रह्मण्यपि सम्भवाच्च । अतात्विके शुक्तिरूप्यादावनित्यत्वाव्यवहाराच्च । ‘गौरनाद्यन्तवती एषोश्वत्थः सनातन’ इत्यादि श्रुत्यनुसाराय मोक्षेप्यतात्विकी अनुवृत्तिनिवृत्तिस्तु तात्विकी इति ॥

रामसुब्ब_१३१

( रा ८८) तन्न पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वस्य स्वरूपेण ध्वंसप्रतियोगित्वेनाविरोधात् पारमार्थिकत्वं तु ज्ञानानिवर्त्यत्वं न तुक्तात्यन्ताभावाप्रतियोगित्वमिति नान्योन्याश्रय इति ॥

खण्डनं_१३१

(खं.) तत्तुच्छं प्रतिपन्नोपाधावत्यन्ताभावप्रतियोगिनः ध्वंसप्रतियोगित्वासम्भव इति दूषयित्वा पुनः पारमार्थिकत्वाकारेणात्यन्ताभावः स्वरूपेण तु ध्वंस इति तत्परिहारमाशङ्क्य पारमार्थिकत्वस्याबाध्यत्वरूपत्वेन अबाध्यत्वेनात्यन्ताभावप्रतियोगित्वम् बाध्यत्वमित्युक्तं स्यात् तथाच बाध्यत्वशरीरे अबाध्यत्वस्य प्रवेशेन अबाध्यत्वज्ञानमन्तरा बाध्यत्वज्ञानं न सम्भवति अबाध्यत्वस्य बाध्यत्वाभावरूपतया बाध्यत्वज्ञानमन्तरा अबाध्यत्वज्ञानं न सम्भवतीति परस्परज्ञप्त्यधीनज्ञप्तिकत्वेनान्योन्याश्रयदोषोऽभिहितस् तत्परिहारार्थं पारमार्थिकत्वस्य ज्ञानानिवर्त्यत्वरूपत्वकथनमयुक्तमेव तथाहि ज्ञाननित्यत्वस्य ज्ञानजन्यध्वंसप्रतियोगित्वरूपत्वेन कर्मफलादेर् ध्वंसप्रतियोगित्वेन ध्वंसाप्रतियोगित्वाभावाद् ध्वंसाप्रतियोगित्वेन अत्यन्ताभावप्रतियोगित्वं सम्भवतीत्यत्र पर्यवसानेन ध्वंसप्रतियोगित्वं प्रति ध्वंसप्रतियोगित्वस्य प्रयोजकत्वादात्माश्रयापातात् । ज्ञाननिवर्त्यत्वस्यापित्वन्मते मिथ्यात्वरूपतया तत्घटितगुरुभूतमिथ्यात्वनिर्वचनायास वैय्यर्थ्याच्च शाङ्करभाष्यगाम्भीर्य निर्णयाख्यग्रन्थे ब्रह्मसाक्षात्कारान्नमायाया नापि तत्प्रयुक्तानां स्वरूपतो नाशः किन्तु मायाकार्यस्य मनुष्योहमित्यध्यासस्येत्यादिना महता प्रबन्धेन तत्तदधिकरणीयशाङ्करभाष्यमुल्लिख्य मायादीनां ज्ञाननाश्यत्वाभावस्य शङ्कराभिमतत्वं त्वयैवोपपादितमिति पारमार्थिकत्वप्राप्त्या अप्रसिद्धान्ताच्चेति ॥

रामसुब्ब_१३२

( रा. ८८) पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वस्य निराकारे ब्रह्मण्यपि सम्भवाच्चेति चन्द्रिकोक्तदोषपरिहारार्थं यदुक्तं निराकारे उक्तात्यन्ताभावप्रतियोगित्वरूपाकारस्याप्यसम्भवादिति ॥

खण्डनं_१३२

i ) तत्तुच्छं निराकारत्वरूप हेतुः प्रतियोगित्वाभावरूप साध्यभावाभावाभ्यां व्याघातप्राप्तेस् तथाङ्गीकर्तुमशक्यत्वात् ॥

चन्द्रिकानुवादः_१४

(चं. ७० ) अतात्विके रूप्यादावनित्यत्वाव्यवहाराच्चेति ॥

रामसुब्ब_१४१

( रा . ) तन्त्र मूलाज्ञानाकार्यशुक्तिरूप्यादेरुत्तरावस्थाभावेन स्वरूपेण ध्वंसप्रतियोगित्वं नास्ति मूलाज्ञानपरिणामरूपे प्रपञ्चे तदस्त्येव अतो घटादावनित्यत्वव्यवहारः न तु शुक्तिरूप्यादाविति विवेक इति ॥

खण्डनं_१४१

(खं.) तत्तुच्छम् असदेव रजतं प्रत्यभादित्यनुभवेन रजतस्यासत्व सिद्धेः कार्यत्वाभावात् त्वन्मतरीत्या मूलाज्ञानकार्यत्वस्य मूलाज्ञानपरिणामित्वातिरिक्तस्य दुर्वचत्वेन मूलाज्ञामपरिणामिघटादिप्रपञ्चस्य स्वरूपेण ध्वंसः शुक्तिरूप्यस्य तु नेति विशेषस्य वक्तुमशक्यत्वेन घटादाविव शुक्तिरूप्यादावप्यनित्यत्वव्यवहारापत्तेर्दुर्वारत्वात् ॥

चन्द्रिकानुवादः_१५

(चं. ७०) गौरनाद्यन्तवती एषोऽश्वत्थः सनातन इत्यादि श्रुत्यनुसाराय मोक्षेप्यतात्विकी अनुवृत्तिर् निवृत्तिस्तु तात्विकीमुक्तेर्बन्धाद्वैषम्यं तात्विकनिवृत्तिमत्तामात्रेणेत्यापाताच्चेति ॥

रामसुब्ब_१५१

( रा. ८८ ) नन्न सनातनपदस्यापेक्षिकनित्यत्वपरत्वेन मोक्षदशाभावित्वागमकत्वाद् अन्यथा अतोन्यदार्तमिति श्रुतिविरोधापत्तेरिति ॥

खण्डनं_१५१

(खं.) तस्तुच्छम् आर्तशब्दस्य दुःख्यर्थकत्वेन योगरूढयन्यतरवृत्यापि अनित्यार्थत्वाभावेन ‘अतोन्यदार्त’ इति श्रुतिविरोधाभावात् सनातनपदस्यापेक्षिक नित्यत्वरूपगौणार्थङ्गीकारस्यानुचितत्वात् ॥

शाङ्करभाष्यगाम्भीर्य निर्णयाख्यग्रन्थे त्वयैव प्रकृत्यादीनां मायाया मुख्यनित्यत्वस्योक्तत्वेन अपसिद्धान्ताच्च ॥

चन्द्रिकानुवादः_१६

(च) विवेको भेदस्य तद्व्याप्तस्य वा ज्ञानं तस्य च भ्रमत्वे ब्रह्मविचारो न नित्यफलकस्स्यात् प्रमात्वे तु भेदः सत्यः स्यात् तस्मात्परमते नित्यानित्यवस्तुविवेको न युक्त इति ॥

रामसुब्ब_१६१

( रा . ) तन्न ब्रह्मज्ञानबाध्यार्थविषयकत्वरूप भ्रमत्वस्य व्यवहारदशाऽबाध्य विषयकत्त्वरूपप्रमात्वाविरुद्धत्वेन ब्रह्मविचारस्य नित्य फलकत्वोपपत्तेरिति ॥

खण्डनं_१६१

(खं.) तत्तुच्छं वस्तुनो ऽतात्विकत्वे बाध्यत्वमात्रस्य प्रयोजकत्वेन इदानोन्तनबाधविषयत्वस्य तदानीन्तनबाधाविषयत्वस्य वाऽप्रयोजकत्त्वेन ब्रह्मज्ञानफलं नित्यम् अन्यफलमनित्यमित्यादि ज्ञानरूपस्य विवेकस्य ब्रह्मज्ञानबाध्यार्थ विषयकत्वरूप भ्रमत्त्वाङ्गीकारे ब्रह्मज्ञानफलनिष्ठनित्यताया बाध्यत्त्वेनातत्त्वतया तद्विरुद्धब्रह्मज्ञानफलानित्यतायास् तत्त्वताप्राप्त्या ब्रह्मविचारो ऽनित्त्यफलकः स्याद् इतिदोषस्यापरिहाराद् अन्यथा इदं रजतमिति ज्ञाननिष्ठस्यापि नेदं रजतमितिज्ञानबाध्यार्थविषयकत्वरूप भ्रमत्त्वस्य इयं रजतमिति भ्रमदशाऽबाध्यार्थविषयकत्वरूपप्रमात्वाविरुद्धतेन रजतस्य घटादिवत् सत्यत्वं तद्ज्ञानाज्जायमानप्रवृत्तेः सफलत्त्वञ्च स्यादिति ॥

चन्द्रिकानुवादः_१७

(च) विवरणे विषयैरपि नित्यमात्मस्वरूप सुखमेवाभिव्यज्यते नतु जन्यसुखमस्तीति वैषयिकसुखस्य ब्रह्मरूपत्वोक्त्या तस्यैव प्राप्यत्त्वेन तत्र वैराग्यायोगात् स्वरूपसुखरूपमोक्षे रागवतस् तत्त्वतस् ततो भेदहीनभोगे विरागायोगाच्चेति इहामुत्रार्थ भोगविरागस्य परमते अधिकारिविशेषणत्वपक्षे दूषणमुक्तम् ॥

रामसुब्ब_१७१

( रा . ) तन्न शिखी ध्वस्त इत्यादाविव विषयविनाशेन विषयाभिव्यक्तत्वविशिष्ठ ब्रह्मरूपसुखस्य स्वरूपतोऽनाशिनोऽपि विशिष्टरूपेण विनाशसम्भवेन तत्र वैराग्योपपत्तेरिति ॥

खण्डनं_१७१

(खं. ) तत्तुच्छं विवरणकृता विषयः नित्यसुखं ब्रह्मवाभिव्यज्यत इत्युक्तं न तु विषयाभिव्यक्तत्व विशिष्ट ब्रह्मरूपसूखमिति तस्माद् विशिष्टसुखस्याभिव्यक्त्यनङ्गीकाराद् विशिष्टरूपेण विनाशसम्भवेन तत्र वैराग्योपपत्तेरिति समाधानस्यायुक्तत्वात् । किञ्च विशिष्टरूपेण नाशेऽपि अपेक्षितस्य स्वरूपसुखस्य स्वरूपतोऽनाशिनोपीति त्वयैव नित्यत्वेनाङ्गीकृतत्वात् तत्र वैराग्यायोगो ऽन्यथा अपेक्ष्यमाणात्मस्वरूपरूप मोक्षस्य पूर्वमेव सिद्धत्वेऽपि अविद्यानिवृत्त्युपलक्षितात्मस्वरूप मोक्षस्यासिद्धत्वेन तत्रेच्छायाः सम्भवादिति त्वदुक्तेर् असाङ्गत्यापत्तेर् अविद्या निवृत्युपलक्षितत्वविशिष्टात्मस्वरूपरूपमोक्षस्य स्वरूपतोऽनाशिनोऽपि विशिष्ट रूपेण नाशसम्भवेन तत्रापि वैराग्यापत्तेर् दुर्वारत्वात् ॥

चन्द्रिकानुवादः_१८

(चं . ) परमते शमदमादिरित्यत्रादिशब्दो न युक्तस् तेन तितिक्षादेरेव ग्रहणं नतु विवेकादेरिति नियम हेतोस् तितिक्षाद्य नुगतस्य विवेकादिव्यावृतस्य चोपसङ्ग्राहकधर्मस्याभावादिति ग्रन्थेन तितिक्षावद् विवेकादेरपि आदिपदेन गृहीतुं शक्यत्वाद् विवेकादेः स्वशब्देन ग्रहणं तितिक्षाया आदिपदेन ग्रहणमयुक्तमिति दूषणमुक्तम् ॥

रामसुब्ब_१८१

( रा . ) तन्न पदानुपात्तस्यैव आदिपदग्राह्यत्वेन विवेकादेस्तत्पदेनैव गृहीतत्वेन तस्यादिपदेन ग्रहणापादनासाङ्गत्यादिति ॥

खण्डनं_१८१

(खं.) तत्तुच्छं विवेकादेः स्वशब्द गृहीतत्वेन आदिपदेन ग्रहणापादनासाङ्गत्यकथनस्य आदिपदेन तितिक्षादेर्ग्रहणमिव विवेकादेरपि गृहीतं शक्यत्वेन विवेकादेः स्वशब्देन ग्रहणं कुत इति चन्द्रिकोक्ताक्षेपापरिहारकत्वात् तदाक्षेपाज्ञानज्ञापकत्वाच्च ॥

चन्द्रिकानुवादः_१९

(चं) मुमुक्षा च परमते न युक्ता मोक्षस्य नित्यसिद्धात्ममात्रत्वेन तत्रेच्छाऽयोगाद् वृत्त्युपलक्षितस्याप्यात्मनो वृत्तेः पश्चादिव पूर्वमपि सत्वाच्चेति ॥

रामसुब्ब_१९१

( रा . ) उन्न अविद्यानिवृत्त्युपलक्षितात्मस्वरूपरूपमोक्षस्यासिद्धत्वेन तत्रेच्छायाः सम्भवान् न चाविद्यानिवृत्तेः पूर्वम् आत्मनोऽविद्यानिवृत्त्युपलक्षितत्वं सम्भवति भूतस्योपलक्षणत्वसम्प्रतिपत्तिवद् भाविन उपलक्षणत्वस्य क्वाचित्कतया सार्वत्रिकत्वासम्प्रतिपत्तेरिति ॥

खण्डनं_१९१

(खं.) तत्तुच्छं तदुपलक्षितत्वं नाम यदाकदाचित् तद्विशिष्टत्वम् अविद्यानिवृत्तेर् इदानीम् अभावेऽपि उत्तरकालभावितया इदानीं यदाकदाचिद् अविद्यानिवृत्तिविशिष्टत्वरूप तदुपलक्षितत्वस्य च सिद्धत्वात् “भाविन उपलक्षणत्वस्य क्वाचित्कतया सार्वत्रिकत्वासम्प्रतिपत्तेरि” ति त्वयैव भाविनोऽपि उपलक्षणत्वस्य अङ्गीकृतत्वाच्च भाविन उपलक्षणत्वव्यवहारस्य क्वाचित्कत्वेऽपि उपलक्षणतायाः सार्वत्रिकत्वेन तत्रासम्प्रतिपत्त्युद्भावनस्यासङ्गतत्वाच्च अविद्यानिवृत्त्युपलक्षितत्वविशिष्टात्मनः मोक्षरूपत्वे विशिष्टरूपेण विनाशित्वप्राप्त्या त्वद्रीत्या विशिष्टरूपेण विनाशिनि विषयाभिव्यक्तत्व विशिष्टात्मस्वरूपसुख इव रागानुदयापाताच्च ॥


ॐअथातो ब्रह्मजिज्ञासा ॐ

चन्द्रिकानुवादः_२०

(चं.) किञ्च अहं मुक्तः स्यामितीच्छा परमते न सम्भवति तन्मते अहमर्थस्य मुक्त्यनन्वयादिति ॥

रामसुब्ब_२०१

( रा . ) तन्न अद्वैत सिद्धान्ते प्रमाणबलेन अन्तःकरणावच्छिन्नस्यापि चैतन्यस्य अहमालम्बनत्वस्वीकारेण अन्तःकरणस्य मुक्तावभावेऽपि चैतन्यस्य मुक्तावन्वयसम्भवेन ‘अहं मुक्तःस्यां’ इति मुमुक्षोपपत्तेर् अन्यथाशरीर विशेष विशिष्टस्याहं स्वर्गीस्यामिति कामनया यागकरणानापत्तेर् ब्राह्मणादिशरीररूपविशेषणस्य स्वर्गानन्वयाद् विशेषणस्यानन्वयेऽपि विशेष्यस्यान्वय इतिचेत् प्रकृतेऽपि अन्तःकरणस्य विशेषणस्यानन्वयेऽपि चैतन्यस्यान्वय इति तुल्यमिति ॥

खण्डनं_२०१

( खं. ) तत्र अन्तःकरणावच्छिन्नस्य चैतन्यस्य प्रमाणबलेन अहमालम्बनत्वस्वीकारेणेत्ययुक्तम् अन्तःकरणावच्छिन्नस्य चैतन्यस्य अहमर्थत्वे प्रमाणानाम् अनुपन्यासाद् अभावाच्च अहं स्वर्गे स्यामितीच्छाविषयत्वं चेतनस्य त्वन्मतरीत्या अन्तःकरणावच्छिन्नस्य वा न तु शरीरविशेषविशिष्टस्य तस्याहमर्थत्वाभावाद् अतः ब्राह्मणादिशरीरस्य स्वर्गानन्वयेऽपि इच्छाविषयस्य स्वर्गान्वयेन अहं स्वर्गो स्यामितीच्छ्या यागकरणं सम्भवत्येव प्रकृते च अन्तःकरणस्य मुक्तावनन्वयेन त्वदभिमतान्तः करणावच्छिन्न चैतन्यरूपाहम्पदार्थस्य मुक्तावनन्वयप्राप्त्या तदिच्छाया असम्भव एवेति ॥

चन्द्रिकानुवादः_२१

( चं.) साधनचतुष्टये पूर्वपूर्वस्योत्तरोत्तरहेतुत्वेन मुमुक्षैवाधिकारिविशेषणम् अन्यत् तद्धेतुभूतमिति भामतीव्याख्यानं शङ्कराभिमतं स्यात् तर्हि स्वभाष्ये ‘यदनन्तरं ब्रह्मजिज्ञासा इति स्वकृताशङ्काया उच्यते मुमुक्षुत्वं तस्मिन्सति प्रागपि धर्मजिज्ञासाया ऊर्ध्वञ्च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च न विपर्यये तस्मादथशब्देन मुमुक्षानन्तर्यमुपदिश्यते इत्येव वक्तव्यं स्यान् न तु नित्यानित्यवस्तुविवेक इहामुत्रार्थभोगविरागः शमदमादिसाधनसम्पन् मुमुक्षुत्वञ्च तेषु सत्सु तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते इति न वक्तव्यं स्यात् तस्मात्तद्भाष्यस्य भामतिव्याख्यानम् असङ्गतमेवेति ॥

रामसुब्ब_२११

( रा.) तन्न भामतीमते मुमुक्षानन्तर्यमेवाथशब्दार्थः विवेकाद्यानन्तर्यन्तु मुमुक्षाद्वारैवेति सिद्धान्तादिति ॥

खण्डनं_२११

(खं. ) तत्तुच्छं भामतीरीत्या मुमुक्षानन्तर्यस्यैव अथशब्दार्थत्वे तस्मादथशब्देन यथोक्तसाधनसम्पत्यानन्तर्यमुपदिश्यते इति भाष्ये नित्यानित्यवस्तुविवेकादिचतुष्टयानन्तर्योक्तेर् असङ्गतत्वापातान् न च विवेकाद्यानन्तर्यं मुमुक्षाद्वारैवेत्यभिप्रायेण चतुष्टयानन्तर्योक्तिरिति वाच्यं तथासति यज्ञादेरपि मुमुक्षादिद्वारा आनन्तर्यप्रतियोगितापत्तेः ॥

रामसुब्ब_२१२

( रा . ) यदपि “कर्मणा बध्यते जन्तुविद्यया च विमुच्यते ।

तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः " ॥

इति मोक्षधर्मवचनेन “सन्यस्य श्रवणं कुर्यात् " इति स्मृतिवचनेन ब्रह्मविचाराख्यवेदश्रवणे यज्ञादिकर्मसन्यासस्य हेतुत्वोक्त्था तत्प्रतियोगिनः कर्मण आनन्तर्य प्रतियोगित्वासम्भव इति ॥

खण्डनं_२१२

(खं.) तत्तुच्छं " यज्ञार्थात्कर्मणोन्यत्र लोकोऽयं कर्मबन्धनः ।

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर” ॥

इत्यादिगीतावचनेन " कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति इत्यादि श्रुत्या च निष्काम भगवदुद्द्देश्यककर्मणः ज्ञानं प्रति कारणत्वोक्तेर् मोक्षधर्मवचनस्य सकामकर्मविषयत्वात् ‘सन्यस्य श्रवणं कुर्यात्’ इति स्मृतेर् यज्ञादिकर्मत्यागवत एव श्रवणाधिकारिताबोधकत्वे गृहाश्रमिणां श्रवणनधिकारापत्तेः “काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः” इति गीतानुसारेण सन्यस्येत्यस्य काम्यकर्म परित्यज्येत्यर्थकत्वेन कर्मसामान्यत्यागपरत्वाभावाच्च निष्कामस्य स्वस्ववर्णाश्रमोचितकर्मणो ऽन्तःकरणशुध्यादिद्वारा ब्रह्मविचारं प्रति कारणत्वेन विवेकादेरिव आनन्तर्य प्रतियोगित्वस्य युक्तत्वात् ॥

रामसुब्ब_२१३

( रा . ) न च यस्य यस्य यद्धेतुत्वं तस्य तस्य तद्गतानन्तर्य प्रतियोगित्वम् अध्ययनेन वसति इत्यादौ व्यभिचारात् किन्तु आनन्तर्य प्रतियोगित्वयोग्यताकस्यैव गुरूपगमनमपि नानन्तर्यप्रतियोगि सदानिकटस्थ गुरुकपुरुषविषये तदसम्भवादिति ॥

खण्डनं_२१३

(खं . ) तत्तुछं ’ यस्य यस्य यद्धेतुत्वं तस्य तस्य तद्गतानन्तर्यप्रतियोगित्वम् इत्याशङ्कायाः प्रकृतानुपयुक्तत्वात् कारणत्वस्यानन्तर्य प्रतियोगित्वनिरूपितव्याप्तौ अध्ययने व्यभिवारोद्भावनस्यायुक्तेश्च अध्ययनस्य वासं प्रति कारणत्वाभावात् तद्‌गतानन्तर्याप्रतियोगिनस् तं प्रत्यकारणत्वनियमेन उक्तव्याप्तेर् ध्रौव्याच्च सदानिकटस्थगुरुकस्यापि पुरुषस्य तद्विज्ञानार्थं सगुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इत्यादि श्रुतिस्मृतिप्रमाणानुरोधेन श्रवणार्थं नियमविशेषविशिष्टगमतस्यावश्यकत्वाच्च तथाच यज्ञगुरूपगमनेम् अपि श्रवणगतानन्तर्यप्रतियोगिनो एवेति तयोरपि भामतीरीत्या आनन्तर्यप्रतियोगितया शाङ्करभाष्ये अवश्यं वक्तव्यतया पारम्पर्यविवक्षयाविवेकादीनामेव आनन्तर्य प्रतियोगितया ग्रहणं यज्ञ गुरूपगमनादीनाम् आनन्तर्यप्रतियोगितया अग्रहणं भामतीव्याख्यानरीत्या भाष्यस्यायुक्तताख्यापकं भवत्येवेति भामतीरीत्या शाङ्करभाष्ये मुमुक्षानन्तर्यमेवाथशब्दार्थः न चतुष्टयानन्तर्यम् इति चन्द्रिकोक्तदूषणस्य दुरुद्धरतेति ॥

चन्द्रिकानुवादः_२२

(चं.) मुमुक्षावद् विवेकादेरपि अधिकारिविशेषणत्वं शाङ्करभाष्यस्याभिप्रेतमिति विवरणैकदेशमतेऽपि किं विवेकादेर्विशेषणत्वं सामर्थ्यादेरिवान्वयव्यतिरेकाभ्यां गम्यं किंवा गृहदाहादेरिव शास्त्रात् । नाद्यः शमाद्यभावेऽपि मुमुक्षामात्रेण विचारदर्शनान् ननु सविचारः शूद्रयागवन् न फलपर्यन्तस् तत्पर्यन्तस्तु शमाद्यभावे नास्तीति चेन्न तथापि विरागशमदमादि मुमुक्षासु सतीषु विवेकाभावेन फलपर्यन्तविचाराभावादर्शनादिति ॥

रामसुब्ब_२२१

( रा . ) तन्न विवरणैकदेशिमते विवेकवैराग्याद्यभावेऽपि केवलमुमुक्षामात्रेण प्रवृत्तविचारस्य शिथिलत्वापत्त्या नित्यानित्यविवेकादीनां मध्ये पूर्वपूर्व हेतुसहितेष्वेव उत्तरोत्तरेषु सत्स्वेव अशिथिलविचारप्रवृत्तेर् उक्तचतुष्टयानन्तरमेव निष्पत्या उक्तचतुष्टयस्यैवानन्तर्य प्रतियोगित्वमित्यभिप्रायादिति ।

खण्डनं_२२१

(खं.) तत्तुच्छं विरागशमदमादिमुमुक्षासु सतीषु विवेकाभावेन फलपर्यन्त विचाराभावादर्शनादिति चन्द्रिकोक्ततदूषणस्यापरिहारात् ॥

चन्द्रिकानुवादः_२३

(चं . ) भामत्यान्तु ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितो ऽत इति परामृश्यते । स च योग्यत्वात् ‘तद्यथेह ’ इत्यादिस् तथा च ब्रह्मज्ञानकर्मणोर्नित्यानित्य फलत्वप्रतिपादकादागमाद् इहामुत्रफलभोगविरागादि ततश्च ब्रह्मजिज्ञासा एवञ्च नातः शब्देन जिज्ञासाम्प्रति साधनकलापस्य हेतुतोच्यते येन पौनरुक्त्यं किन्तु तत्स्वरूपालाभपरिहारोऽभिधीयते इत्युक्तं तन्न । हेतोविचारकर्तव्यत्वादिरूपसाध्यान्वयत्यागेन विरागादि साधनान्वयायोगाद् अथशब्दार्थानन्तर्योपसर्जनस्य विरागस्य अतः शब्दोक्त हेत्वन्वया योग्यत्वाच्च अथशब्दोपस्थापितविरागेणैव स्वजनकस्य तद्यथेत्यादेर्वाक्यस्य साक्षादेवोपस्थापनसम्भवे ब्रह्मशब्देन परम्परयोपस्थापनोक्त्ययुक्तेश्च विरागहेतुत्वेन त्वदभिप्रेते सत्यानृतविवेके ‘नेहनानास्ति किञ्चन’ इत्यादेरेव हेतुतया वक्तव्यत्वेन ‘तद्यथा’ इत्याद्युक्त्ययुक्तेश्चेति ॥

रामसुब्ब_२३१

( रा . ) तन्न विचार कर्तव्यत्वस्य मुमुक्षामात्रसिद्धिकत्वेन मुमुक्षोपपादकवैराग्यासिद्धौ तदसित्ध्यापत्या वैराग्यहेतोरेव वक्तव्यत्वावश्यकत्वेन तदर्थं ‘तद्यथेह ’ इतिवाक्यस्य अतः शब्देन ग्रहणौचित्यात् । अपेक्षितान्वयस्यैव न्याय्यत्वेनानपेक्षितान्वयापादनायोगाच्च । अथ शब्दानन्तर्य प्रतियोगिनि वैराग्ये अतः शब्दोक्त ‘तद्यथेह ’ इति वाक्यस्य स्वजन्यप्रतीतिद्वारा जनकत्वरूप हेतुतया अन्वयस्येष्टत्वात् । अतइति सर्वनाम्ना ब्रह्मशब्दोपस्थापितवाक्यग्रहणे न्यायतः सम्भवतिसति वैराग्यरूपार्थोपस्थापितवाक्यत्वेन वाक्यग्रहणस्यान्याय्यतया तदापादनोक्त्ययोगाच्च । ‘नेह नानास्ति’ इतिवाक्यस्य कृत्स्नप्रपञ्चमिथ्यात्वावगमद्वारा जन्य सुखवैराग्य हेतुत्वेऽपि ‘तद्यथेह ’ इति वाक्यस्य कण्ठतः कर्मफलानित्यवत्बोधनेन साक्षादेव वैराग्यजनकत्वेन अतः शब्देन ‘तद्यथेह ’ इति वाक्यस्यैव ग्रहणौचित्यादिति ॥

खण्डनं_२३१

(खं.) तत्तुच्छं विचारकर्तव्यत्वस्य मुमुक्षातदतिरिक्तानेक पदार्थसिद्धिकत्वेन मुमुक्षामात्र सिद्धिकत्वेनेत्युक्तेर् अयुक्तत्वात् । अतः- शब्दस्य साधनस्वरूपासिद्धिपरिहारत्वाङ्गीकारे वैराग्यासिद्धौ मुमुक्षाद्यसिद्ध्या वैराग्यहेतोर् वक्तव्यत्वस्येव ‘तद्यथेह ’ इत्यादि वेदस्य प्रामाण्यापौरुषेयत्व सिद्धपदार्थबोधकत्वादीनां पुरुषस्य शाब्दबोधप्रयोजकवाच्यवाचक सम्बन्धज्ञानरूप व्युत्पत्यादीनां च असिद्धो ‘तद्ययेह’ इत्यादि वाक्ये नापि स्वजन्यशाब्दबोधप्रमाजननद्वारा वैराग्यासिद्ध्या वेदप्रामाण्यादीनामपि वक्तव्यत्वस्यावश्यकत्वेन तदकथनप्रयुक्तन्यूनतापत्तेश्च ॥

मुमुक्षावैराग्यादि साधनासिद्धौ विचारकर्तव्यताया असम्भव इव “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति न्यायेन प्रयोजनाभावे विचारकर्तव्यताया असम्भवेन विचारेण जनिष्यमाणफलस्य अवश्यं कथनीयत्वेन अतः शब्दे तदर्थकत्वस्य विचार कर्तव्यतारूपसाध्यस्य तदर्थनान्वयस्य अत्यन्तमपेक्षिताच्च ॥

‘हेतोर् विचारकर्तव्यत्वादि रूपसाध्यान्वयत्यागेन विरागादि साधनान्वयायोगात्’ इति चन्द्रिकावाक्येन प्रधानसाध्येन स्वारसिकाकाङ्क्षा त्यागो न युक्त इत्यभिहितत्वेन अन्वयस्य अनापादितत्वाच्च ॥ उपसर्जनीभूतवैराग्ये जनकत्वरूप हेतुतया ‘तद्यथेह ’ इत्यादि वाक्यान्वयस्य तवेष्टत्वेऽपि पशुपदार्थोपसर्जने पशुत्वे अपश्वभेदतात्पर्येण ‘पशुरपशुः’ इत्यादि प्रयोगापत्या पदार्थोपसर्जने पदार्थान्तरान्ययस्य उत्सर्गतः कैरपि वादिभिर् अस्वीकारेण अतः शब्दोक्तस्य ‘तद्यथेह ’ इत्यादि वेदस्य वैराग्ये अन्वया योग्यत्वाच्च ॥

‘ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितो ऽत इति परामृश्यते’ इति भामत्युक्तेर् न शक्त्या ब्रह्मशब्दस्य वेदोपस्थापकत्वम् । किन्तु शक्त्या ब्रह्मरूपार्थोपस्थितौ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेन एकब्रह्मरूपार्थोपस्थितौ अपरस्य ज्ञापकत्वरूपसम्बन्धवतः वेदस्य स्मरणमिति अर्थद्वारैव ब्रह्मशब्देन वेदस्मरणस्याभिप्रेतत्वम् अवगम्यते । अन्यथा ‘ब्रह्मशब्देन वेद उपस्थापित’ इत्येवोच्येत । न तु ‘ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितः’ इति ॥ एवञ्च ब्रह्मशब्दाथशब्दाभ्याम् अर्थद्वारेव वेदस्योपस्थितेर् ब्रह्मशब्देन सामान्यतः वेदस्योपस्थितौ वेदत्वेन ‘तद्यथेह ’ इति वेदविशेषस्य उपस्थिति स्वीकारापेक्षया अथ शब्देनोक्तवैराग्येणैव जनकतासम्बन्धेन साक्षात् ‘तद्यथेह ’ इति वेदस्यैवोपस्थितिसम्भवेन तथैव ग्रहणस्य न्याय्यतया ब्रह्मशब्देन परम्परयोपस्थापनोक्त्ययुक्तेः समञ्जसत्वात् ॥ आपादनस्याकृतत्वेन ‘तदापादनोक्त्ययोगाच्च’ इत्युक्तेर् असङ्गतत्वाच्च ॥

वैराग्यम्प्रति हेतुतयोक्तनित्यानित्यविवेकस्य सत्यानृतविवेकतया भामतिकारेण व्याख्यातत्वात् सत्यानृतविवेकस्य वैराग्यप्रयोजकत्वेन तदभिमत्यवगत्या तस्य त्वन्मतरीत्या “नेहनानास्ति किञ्चन” इत्यादि श्रुत्यैव सम्भवेन कृत्स्नप्रपञ्च मिथ्यात्वावगमिकायास् तस्या एव ग्रहणौचित्यम् । न तु कर्मफलानित्यत्वप्रतिपादकस्य ‘तद्यथेह ’ इत्यादि वेदवाक्यस्य । कर्मफलानित्यत्वज्ञानस्य वैराग्यहेतुताया भामतिकारेणानुक्तत्वादिति ॥

चन्द्रिकानुवादः_२४

(चं.) विवरणे तु अथशब्दगृहीताया एव साधनकलापस्य ब्रह्म विचारहेतुताया “अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं " इत्यादिना अपवादशङ्कायां प्राप्तायां तन्निराकरणं पुनरथशब्दोक्तहेतुत्वाभिधायिना अतः शब्देन क्रियते इत्युक्तम् ॥ तदपि न । अथशब्दोक्तानधिकाभिधायिना अपवादशङ्काया निरासे अथशब्देनैव तन्निरासप्रसङ्गात् ॥ हेतुत्वसाधकहेतोः कथन एवापवादशङ्कानिरासः । न तूक्तस्यैव हेतुत्वस्य पदान्तरेण कथन इति ॥

रामसुब्ब_२४१

( रा . ) तन्न एकतन्तुबन्धनाद् द्वितन्तुबन्धने दाढर्यदर्शनेन अथ शब्द सिद्धहेतुत्वस्यैव अतः शब्देनाप्युक्तौ हेतुत्वदाढर्यसिद्धेर् उक्तापवाद निराकरणसाधकत्वमक्षुण्णम् अतः शब्दस्येति युक्तमेवोक्तं विवरणकृद्भिरिति ॥

खण्डनं_२४१

(खं.) तत्तुच्छम् एकतन्तुबन्धनापेक्षया द्वितन्तुबन्धने दाढर्यदर्शनेऽपि दृष्टान्ते तन्तुद्वयस्येव अथशब्द सिद्धहेतुत्वस्यैव अतः शब्देनाप्युक्तौ दार्ष्टान्तिके हेतुद्वयाभावेन अतः शब्दस्योक्तापवादनिराकरणसाधकत्वाभावात् ॥

रामसुब्ब_२४२

(रा.) विवेकवैराग्यादिगत हेतुत्वस्य दाढयञ्ञ्च “अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं” इत्यादि वाक्यस्य आपेक्षिकामृतत्वसूचक ‘यत्कृतकं तदनित्यं’ इतिन्यायोपबृंहित “ तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिवाक्यजन्यप्रतीत्यधीनविवेकवैराग्यादि वृत्तित्वमिति ॥

खण्डनं_२४२

(खं . ) तदपि तुच्छम् । चन्द्रि कोष तदूषणपरिहारानुपयुक्तत्वात् ॥ सुकृतमित्यादिवाक्यस्येत्यस्य आपेक्षिकामृतत्वे अन्वयबाधेन अन्वीयमानपदार्थान्तरस्य वाक्यादनुपस्थितेर् असङ्गतपदार्थान्वयकं चेत्युपेक्ष्यमेव ॥

चन्द्रिकानुवादः_२५

(चं.) भामत्यां तु ‘निश्चिते जिज्ञासायोगात् सन्दिग्धत्वेन ब्रह्मैव विषयः ज्ञानमेवेच्छाविषयत्वेन प्रयोजनमिति जिज्ञासापदेनैव विषयप्रयोजने सूचिते’ इत्युक्तम् । तन्न । नहि पूर्वपक्षिणा ब्रह्मज्ञानेच्छामङ्गीकृत्य तद्विचार आक्षिप्तः । किन्तु विषयाद्यभावेन इच्छेव नोदेतुं युक्तेत्याक्षिप्तम् । नच तं प्रति इच्छया विषयादि साधनं युक्तमिति ॥

रामसुब्ब_२५१

( रा ) तन्न ब्रह्मज्ञानसाध्यो मोक्ष इति महद्भ्य उपश्रुत्य तत्वबुभुत्सुना साङ्गवेदाध्ययनजन्यजीव ब्रह्मैक्य विषयकापातप्रतीतेरहमिति ज्ञानस्य ब्रह्मज्ञानत्वनिश्चयाद् उक्तज्ञानसत्वेपि मोक्षादर्शनेन जीव ब्रह्मैक्यरूपविषयांशे तद्ज्ञानप्रयोजनरूपमोक्षांशे च सन्देहवता पूर्वपक्षिणा ब्रह्मज्ञानेच्छामङ्गीकृत्य विचारस्याक्षिप्तत्वादिति ॥

खण्डनं_२५१

(खं.) तस्तुच्छम् । तद्ज्ञानप्रयोजनरूपमोक्षांशे सन्देहसत्वे तद्ज्ञानेच्छाया एवासम्भवेन ‘पूर्वपक्षिणा ब्रह्मज्ञानेच्छामङ्गीकृत्य विचारस्याक्षिप्तत्वात्’ इत्युक्तेरसङ्गतत्वात् ॥ " न च सार्वजनीनाहमनुभवसिद्ध-आत्मा सन्दिग्धो वा सप्रयोजनो वा । येन जिज्ञास्यस्सन् विचारं प्रयुञ्जीत ।” इति भामत्यां जिज्ञासाक्षेपपूर्वं विचारस्याक्षिप्तत्वाद् ब्रह्मज्ञानेच्छामङ्गीकृत्येत्युक्तेर् भामतीविरुद्धत्वाच्च ॥

चन्द्रिकानुवादः_२६

(चं.) विवरणे तु ‘अथशब्देनाधिकारी जिज्ञासापदेनेच्छाविषयत्वेन ब्रह्मज्ञानं प्रयोजनम् अर्थादधिकारिविशेषणं मोक्षो ब्रह्मज्ञानफलं विषयश्च सूचितः’ इत्युक्तम् । तदपि न । त्वन्मते जिज्ञासापदस्य विचारलक्षकत्वेन इच्छापरत्वस्याभावात् ॥ नहि ‘विषं बुभुक्षते कूलं पिपतिषति’ इत्यनेन विषभक्षणादेरिष्टत्वसिद्धिः । प्रतीतस्यापि मुख्यार्थस्यत्यक्तत्वात् । पूर्वपक्षिणा इच्छानङ्गीकाराच्च ॥ त्वन्मते ज्ञानेच्छाऽसम्भवस्योक्तत्वाच्च ॥ मुमुक्षाया अधिकारिविशेषणत्वनिरासाच्च ॥ विषयसूचनं तु असन्दिग्धादन्यसूचनं विना न शक्यम् । अन्यथा शास्त्रारम्भसामार्थ्यादेव वा कर्तव्यतोक्तिसामर्थ्यादेव वा तत्प्रयोजकविषयादि सूचनसम्भवाज् जिज्ञासापदादिना तत्सूचनोक्त्ययुक्तिरिति ।

रामसुब्ब_२६१

( रा . ) तन्न । आक्षेप्यस्य कर्तव्यस्य अकरणे प्रत्यवायजनकस्य नित्यकर्मणः कर्तव्यत्वस्येव प्रयोजनाद्यव्याप्यत्वेन तत्सूचकत्वानियमादिति ॥

खण्डनं_२६१

(खं.) तत्तुच्छम् । चन्द्रिकायां ‘शास्त्रारम्भसामर्थ्यादेव वा कर्तव्यतोक्तिसामर्थ्यादेव वा तत्प्रयोजकविषया दिसूचनसम्भवात्’ इत्युक्तत्वेन कर्तव्यत्वमाक्षिप्य तेनाक्षेप्येण कर्तव्यत्वेन प्रयोजनादि सूचनानुक्तेरनुक्तोपालम्भनत्वात् ॥

सन्ध्यामुपासते ये तु सततं शंसितव्रताः ।

ब्रह्मलोकमतिक्रम्य तेऽपि यान्ति परां गतिम् ॥

इत्यादिना नित्यकर्मभूत सन्ध्याया उत्तमगतिप्राप्तिरूपफलस्य “सूर्यश्च मामन्युश्च” इत्यादि सन्ध्यामन्त्रेण अनेकपापपरिहारादि फलस्य श्रवणाद् अन्ततः प्रत्यवायपरिहाररूप प्रयोजनस्याप्यङ्गीकार्यत्वाच्च नित्यकर्मकर्तव्यत्वस्यापि प्रयोजनादि व्याप्यत्वेन आक्षेपविचारकर्तव्यत्वेनापि प्रयोजनादिसूचनसिद्धेर् निष्प्रत्यूहत्वाच्च शास्त्रारम्भसामर्थ्यादेव विषयादि सूचनसम्भवादित्युक्तदोषस्यापरिहाराच्च ॥

चन्द्रिकानुवादः_२७

(चं.) ब्रह्मशब्दश्च " अथ कस्मादुच्यते ब्रह्मेति । ब्रहन्तोह्यस्मिन् गुणाः” इत्यादिश्रुतिबलाद् गुणपूर्त्यर्थः । गुणपूर्त्यर्थः । परपक्षे अखण्डस्य ब्रह्मपदलक्ष्यस्यैव जिज्ञास्यत्वात् श्रुतिसूत्रस्थब्रह्मपदस्यैव मुख्यार्थत्याग इति ॥

रामसुब्ब_२७१

(रा.) तन्न ब्रह्मपदशक्यतावच्छेदकजगत्कारणत्वादि रूपविशेषणांशस्य त्यागेऽपि अखण्डस्य विशेष्यस्य ब्रह्मपदेन शक्त्यैव ग्रहणसम्भवाद् ब्रह्मपदे लक्षणामुख्यार्थत्यागयोरप्रसक्तेः ॥ पदनिरूपित वृत्तिविशेष्यस्यापि शक्यत्वात् । अन्यथा ‘गौरनित्या’ इत्यादौ गोपदस्यव्यक्तौ लक्षणापत्तेः । तत्र गोत्वस्य विधेयानित्यत्वानन्वयेन विशेषणतया विवक्षाभावाद् इति ॥

खण्डनं_२७१

(खं.) तत्तुच्छम् । भावप्रधान निर्देशस्थले विशेषणस्य शक्तिविषयत्वेऽपि विशेष्याविषयक विशेषणविषयक बोधार्थं सर्वेर्लक्षणयाः स्वीकृतत्वेन तद्वदेव विशेषणाविषयक विशेष्यविषयक बोधार्थ लक्षणाया अङ्गीकार्यत्वात् ॥ विष्णुतत्व रहस्य विवरणे ‘न च तत्वमसीति वाक्यमेव विशेषणांशत्यागेन विशेष्यैक्ये प्रमाणमिति शङ्क्यं तत्वम्पदयोर्द्वयोविशेष्ये लक्षणापत्तेर् विशिष्टयोरेव सर्वज्ञत्वक चित्ज्ञत्वरूपविरूद्धधर्मक्रान्तयोरभेदस्तत्वमसीत्यनेन बोध्यत इति न शक्यते वक्तुम् अनुप्रवेशनिमित्तकाभेदे तु जीववाचकपदस्यैकस्यैव जीवानुप्रविष्टपरत्वं न तु पदद्वयलक्षणोति लाघवं ’ इति वदता त्वयैव लक्षणां विना विशेष्यमात्रविषयक बोधासम्भवस्योक्तत्वाच्च । “तत्वमसि " इत्यादि श्रुतौ तत्वमादिपदानां विशेष्यमात्र विषयकबोधार्थं मधुसूदन ब्रह्मानन्दादिभिर् भवत्प्राचीनैर् लक्षणायाः सहस्रकृत्वः स्वीकृत्वात् । लक्षणानङ्गीकारे अपसिद्धान्तापत्तेश्च ॥ तथाहि तद्वचनानि

ब्रह्मण्यवाच्ये यो विद्वान् वाच्यतामधिगच्छति ।

स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥

दृष्टा गुणक्रियाजाति सम्बन्धाशब्दहेतवः ।

नात्मन्यन्यतमोह्येषां तेनात्मा नाभिधीयते ॥ "

‘ब्रह्मणोऽशब्दवाच्यता’ ‘ब्रह्म आनन्दादिपदलक्ष्यं’ इत्यादीनि ॥

‘गौरनित्या’ इत्यादौ गोपदेन शक्तया गोत्वविशिष्टगोविषयकबोधेन गोत्वस्य अनित्यत्वान्वयितावच्छेदकत्वेऽपि अनित्यत्वानन्वयित्वेन गोपदेन गोत्वविशिष्टगोबोधं बाधकाभावेन गोत्वाविषयकगोविषयकबोधस्यानावश्यकत्वात् ॥ धर्माविषयकधर्मविषयकोपस्थितेः शक्त्या लक्षणया वा शब्दाज्जननस्य अनुभवविरुद्धत्वाच्च ॥

चन्द्रिकानुवादः_२८

(चं.) यच्चपरैः ‘ब्रह्मणो जीवाद्भेदे तद्रूपविकलत्वेन अल्पत्वं स्यादिति निरङ्कुशमहत्वासिद्धेस् त्रिविधपरिच्छेदाभावरूपमहत्वार्थेन ब्रह्मपदेनैव जीवाभेदसिद्धिः’ इत्युक्तम् । तन्न । तेनैव घटाद्यभेदप्रसङ्गादिति ॥

रामसुब्ब_२८१

( रा .) तन्न । वस्तुपरिच्छेदाभावस्य ब्रह्मणि तत्तद्वस्तुरूपत्वस्य स्वीकारेऽपि घटादिरूपत्वप्रयुक्तजडत्वाप्रसक्तेरिति ॥

खण्डनं_२८१

(खं.) तत्तुच्छम् । चन्द्रिकायां ‘घटाद्यभेदप्रसङ्गात्’ इति घटादिरूपत्वस्यैवापादनेन तत्प्रयुक्तजडत्वस्य अनापादनेन तत्प्रसञ्जकाभावोपपादनस्य अनुक्तोपालम्भरूपत्वात् ॥

रामसुब्ब_२८२

(रा.) ब्रह्मणि घटादिरूपत्वस्य घटाद्याकारेण परिणममानात्मज्ञानविषयत्वरूपत्वेन घटादिगतजडत्वाप्रसञ्जकत्वात् । अन्यथा ‘यद्रजतं सा शुक्तिः’ इत्यादि प्रतीतिसिद्धशुक्तिनिष्ठरजतरूपत्वेन शुक्तेः रजतवत् ‘प्रातिभासिकत्वादि प्रसङ्गात्’ इति यज्जडत्वप्रसञ्जकाभावोपपादनम् ॥

खण्डनं_२८२

(खं.) तदपि तुच्छम् । ‘यद्रजतमित्यभात् सा शुक्तिः’ इत्येवप्रतीतेः सर्वानुभवसिद्धत्वेन ‘यद्रजतं सा शुक्तिः’ इति प्रतीतेरेवाभावात् शुक्तौ रजतरूपताया एवासिद्धेः । ब्रह्मणो जडभूतघटादिरूपत्वे जडत्वापादनवत् शुक्तेः प्रातिभासिकरजतरूपत्वाङ्गीकारे प्रातिभासिकत्वापादनस्यास्मदिष्टत्वेन ब्रह्मणो जडभूतघटादिरूपत्वाङ्गीकारे जडत्वापादने बाधकत्वाभावात् ॥ ब्रह्मणि घटादिरूपत्वस्य घटाद्याकारेण परिणममानात्मज्ञानविषयत्वरूपत्वेन घटादिगतजडत्वाप्रसङ्गोक्तिरपि न युक्ता । तथाहि परिणममानात्मज्ञानविषयत्वरूपत्वेनेत्यत्र परिणममानत्वं किमात्मनो विशेषणं ज्ञानस्य वा । नाद्यः । आत्मनः निर्विकारत्वेन परिणामासम्भवात् । परिणामाङ्गीकारेऽपि जडरूपघटाद्यात्मना परिणममानत्वस्य जडरूपत्वाप्रसञ्जकत्वाभावात् । प्रत्युत जडरूपत्वप्रसञ्जकत्वाच्च । न द्वितीयः । आत्मज्ञानस्य घटाद्यात्मना परिणामस्य त्वत्प्राचीनैः कैरपि अद्वैतिभिरस्वीकारेण अपसिद्धान्तापत्तेः । आत्मज्ञानस्य घटाद्यात्मना परिणामाङ्गीकारेण घटाद्यात्मना परिणममानज्ञानविषयत्वस्य ब्रह्मनिष्ठत्वेऽपि भवदभिलाषितघटादिरूपत्वासम्भवाच्च ॥ आत्मज्ञानयोः परस्परं भिन्नत्वेन अन्यस्य तदात्मना परिणामो ऽन्यस्य तद्रूपतासम्पादको नहि दृष्ट इति ॥

यद्यपि घटाद्याकारेण परिणममानात्मज्ञानविषयत्वरूपत्वेन’ इत्येव रामसुब्बमुद्रापित पुस्तके वर्तते । तथापि ‘घटाद्याकारेण परिणममानात्माज्ञानविषयत्वरूपत्वेनेति पाठो मदभिमतः । आत्मवर्णस्य दीर्घाभावो मुद्रापकदोषायत्त इति कथञ्चित्कल्प्येत तस्मिन्पक्षेऽपि अज्ञानतद्विषयीभूतात्मनोर्भेदेन घटाद्याकारेण परिणममानाज्ञानभिन्नात्मनो घटादिरूपत्वासम्भवरूपदोषः प्रागुक्तो दूरुद्धर एवेति ॥

रामसुब्ब_२८३

(रा.) जीवत्वविशिष्टे चैतन्ये चैतन्यांशस्य अविद्याधीनत्वाभावेऽपि जीवत्वस्याऽऽविद्यकतया तद्विशिष्ट चैतन्यस्य जीवस्य विशिष्टरूपेणाऽऽविद्यकत्वाद् विशिष्टचैतन्याकारेण परिणममानाऽऽविद्याविषयत्वरूपजीवत्वस्य ब्रह्मणि सम्भवेन ब्रह्मपदेन जीवब्रह्माभेदबोधनसम्भवादिति ॥

खण्डनं_२८३

(खं.) तत्तुच्छम् ।

" जीवईशो विशुद्धा चिद् भेदस्तस्यास्तयोर्द्वयोः ।

अविद्यातच्चितोर्योगः षडस्माकमनादयः " ॥

इति त्वत्प्राचीनैः षण्णामनादित्वस्योक्तत्वेन अनादिभूत विशिष्टि चैतन्यरूपजीवस्य अविद्यापरिणामत्वासम्भवेन विशिष्टचैतन्याकारेण परिणाममानाविद्या विषयत्वस्यापि ब्रह्मण्यसम्भवात् । ‘तुष्यतु दुर्जनः ’ इति न्यायेन विशिष्ट चैतन्याकारेण परिणममानाविद्याविषयत्वस्य ग्रह्मण्यङ्गीकारेऽपि अविद्यातद्विषयीभूतात्मनोर्भेदेन विशिष्ट चैतन्यरूपेण परिणममानाविद्यान्यात्मनो विशिष्टचैतन्यरूपताऽसम्भवरूपदोषस्य अपरिहार्यत्वात् । विशिष्टचैतन्याकारेण परिणममानाविद्या विषयत्वरूपपारिभाषिकजीवरूपतायाः श्रीमदानन्दतीर्थ भगवत्पादाचार्यानुयायिभिरङ्गीकृतजीवब्रह्मभेदाविरुद्धत्वेन तत्सामानाधिकरण्यस्य सम्भवेन अस्मदप्रतिपक्षत्वात् । जीवत्वस्य आविद्यकताया भामतीकारेणैव सूत्रभाष्यव्याख्यानावसरे दूषितत्वाच्चेत्यलं विस्तरेण ॥

चन्द्रिकानुवादः_२९

(चं.) किञ्च निरङ्कुशमहत्वार्थं ब्रह्मणः सर्वात्मकत्वे अल्पदेशादधिकदेशे अल्पगुणादधिकगुणे च महत्वबुद्धिवद् एकात्मकाद्गगनादितो ऽनेकात्मकराश्यादौ महत्वबुद्धिः स्यादिति ॥

ब्रह्मसू १.४. ३.

रामसुब्ब_२९१

(रा.) तन्न । ब्रह्मणोऽनेकात्मकत्वस्य अनेकात्मना परिणममानाविद्याविषयत्वरूपत्वान् माषराशौ तदभावेन निरतिशय महत्वबुद्ध्यापादनासाङ्गत्यादिति ॥

खण्डनं_२९१

(खं.) तत्तुच्छम् । अविद्यात्मनोभिन्नत्वेन अनेकात्मना परिणममानाविद्याविषयत्वस्य आत्मनोऽनेकात्मकत्वासम्पादकत्वादिति पूर्वोक्तदोषलङ्घनाजङ्घालुत्वात् ॥

चन्द्रिकानुवादः_३०

(चं.) किञ्च परमते अपरिच्छेदस्य ब्रह्मानन्यत्वे बृंहति धात्वर्थस्य भावेऽपि प्रत्ययार्थाभावेन अपरिच्छिन्नत्वासिद्धिब्रह्मण इति ॥

रामसुब्ब_३०१

( रा . ) तन्न । अपरिच्छेद्यत्वस्य ब्रह्मानन्यत्वमेव । बृहधातूत्तर प्रत्ययस्यापि आश्रय एवार्थः । अत्यन्तामेदे आश्रयाश्रयिभावः “स्वे महिम्नि प्रतिष्ठितः” इत्यादाविव सम्भवतीति सिद्धान्ते दोषाभावादिति ॥

खण्डनं_३०१

(खं.) तत्तुच्छम् । लोके घटे घटाधारत्वादर्शनेन अभेदेऽपि आश्रयाश्रयिभावनिर्वाहार्थं वस्तुस्वभावरूपविशेषस्याङ्गीकार्यत्वप्राप्त्या निर्विशेषब्रह्मेतिमतस्य हानेंः ‘मध्वमते ब्रह्मण इव ज्ञानानन्दादिगुणैर्जीवस्य अत्यन्ताभेदस्वीकारान् मुक्तिदशायां ज्ञानानन्दादिगुणानां मुक्तस्य च आश्रयाश्रयिभावानुपपत्या ब्रह्मवन्मुक्तोऽपि निर्गुणः स्यात्’ इत्यादिभिर् अत्यन्ताभेदे आश्रयाश्रयिभावनिषेधकैः स्वीयवाक्यैरेव विरुद्धत्वाच्च ॥

चन्द्रिकानुवादः_३१

(चं.) किञ्च वस्तुतोऽल्पे सत्येव तन्निरूपितमहत्वस्य वास्तवत्वमिति ब्रह्मशब्देनैव सद्वितीयत्वमिति ॥

रामसुब्ब_३११

( रा . ) तन्न । महत्वनिरूपकतावच्छेदकं च अल्पत्वमात्रम् । न तु पारमार्थिकत्वविशिष्टाल्पत्वम् । गौरवात् । तथाच अपारमार्थिकाल्पत्वमादायापि महत्वं बोधयता पारमार्थिकद्वितीयरूपनिरूपकासिद्धया ब्रह्मणः सद्वितीयत्वापादनासम्भवादिति ॥

खण्डनं_३११

(खं.) तत्तुच्छम् । महत्वनिरूपकतावच्छेदकत्व अल्पत्वमात्रमिति वदता त्वयापि अल्पद्वितीयवस्तुज्ञापकत्वं ब्रह्मशब्दस्याङ्गीकृतमेव । अल्पत्वविशिष्टवस्तुनः कल्पनामात्रेण ततो महत्वाङ्गीकारे अत्यन्ताणुत्वेन स्वीकृतानां भूतसूक्ष्मादीनामपि कल्पिताल्पत्वविशिष्टवस्त्वपेक्षया महत्वंस्यादिति महत्वनिरूपकस्य सत्वमावश्यकमेव ॥

न च ब्रह्मभूतसूक्ष्मोभयगतमहत्वनिरूपकत्वेनाभिमतयोर् अल्पवस्तुनोर् व्यावहारिकत्वप्रातिभासिकत्वाभ्यां वैलक्षण्यान् नोक्तातिप्रसङ्ग इति वाच्यम् । व्यावहारिकस्यापि ज्ञानबाध्यत्वाज्ञानकल्पितत्वादिना प्रातिभासिकवैलक्षण्याभावात् । प्रकारान्तरेण वैलक्षण्यस्य उक्तातिप्रसङ्गावारकत्वात् ॥ इत्यञ्च महत्वनिरूपके पारमार्थिकसत्वस्यैवावश्यकत्वेन तेन पारमार्थिकसत्ता सद्वितीयत्वापत्तेर्दुर्वारत्वादिति ॥

चन्द्रिकानुवादः_३२

(चं.) अद्वैतीनां मते ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति कर्मणि षष्ठीसमासानुपपत्तिः । विचारजन्यज्ञानाकर्मणो ब्रह्मणः विचारकर्मत्वायोगाद् विचारजन्यज्ञानविषयत्वाङ्गीकारे तद्व्यापकफलव्याप्यत्वस्यापि प्राप्त्या फलव्याप्यत्वरूपदृश्यत्वस्य मिथ्यात्वाभाववति ब्रह्मणि विद्यमानत्वेन दृश्यत्वानुमानस्य व्यभिचारापत्तेर् ब्रह्मणो निवर्तमानं फलव्याप्यत्वं स्वव्याप्यं विचारजन्यज्ञानकर्मत्वं व्यावर्तयद् विचारकर्मत्वमपि व्यावर्तयतीति ॥

रामसुब्ब_३२१

( रा.) फलविषयत्वाभावेऽपि ब्रह्मणि विचाराख्यवृत्तिविषयत्वाङ्गीकारात् । न च ब्रह्मणोऽपरोक्षवृत्तिविषयत्वेन तादृशवृत्यवच्छिन्न चैतन्यरूपफलविषयत्वमापादयितुं शक्यम् । स्वात्मनि क्रियाविरोधेन चैतन्यरूपे ब्रह्मणि उक्तचैतन्याख्यफलविषयत्वायोग्यतया तदापादनासङ्गतेः ॥ न च तहि व्यापकं फलविषयत्वं निवर्तमानंस्वव्याप्यं वृत्तिविषयत्वमपि ब्रह्मणि व्यावर्तयतीति शङ्क्यम् । ब्रह्मणि व्यभिचारेण व्यापकत्वस्यैवासिद्धेरिति ॥

खण्डनं_३२१

( खं . ) तत्तुच्छम् । विचाराख्यवृत्तिविषयत्वाङ्गीकारे तद्व्यापकफलविषयत्वापत्तेदुर्वारत्वेन ‘फलविषयत्वाभावेऽपि ’ इत्याद्युक्त्यसङ्गतेः ॥

रामसुब्ब_३२२

( रा . ) न च स्वात्मनि क्रियाविरोधेन चैतन्यरूपे ब्रह्मणि उक्तचैतन्याख्य फलविषयत्वायोग्यतया ब्रह्मणोऽपरोक्षवृत्तिविषयत्वेन तादृशवृत्यवच्छिन्न चैतन्यरूपफलविषयत्वापादनासङ्गतिरिति वाच्यम् ॥

खण्डनं_३२२

(खं.) “स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम” इति गीतातद्भाष्ययोरेकस्यैव स्ववेत्तृत्वस्ववेद्यत्वस्ववेदनसाधनत्व निर्देशदर्शनेन ज्ञानरूपस्याप्यात्मनो ज्ञानक्रियाश्रयत्वं सम्भवति ॥ १ ‘कर्मकर्तृव्यपदेशाच्च’ इति सूत्रन्तु ज्ञानक्रियाव्यतिरिक्तक्रियानिरूपितकर्तृकर्मणोर् भेदपरम् ॥ ‘अन्यथा उदाहृतगीतातद्भाष्यविरोधापत्तेः’ इति शाङ्करभाष्यगाम्भीर्यनिर्णयाख्ये स्वकृतग्रन्थे स्वेनैव स्वात्मनि क्रियाया अङ्गीकारात् ॥ ब्रह्मणोऽपरोक्षवृत्तिविषयत्वेन तादृशवृत्यवच्छिन्न चैतन्यरूपफलविषयत्वापादनस्य सुशकत्वेन फलविषयत्वस्याभावाङ्गीकारे तद्व्याप्याया अपरोक्षवृत्तिविषयताया अभावस्यावश्यकत्वेन विचाराकर्मत्वोक्तेर्युक्तत्वात् ॥

न च ‘ब्रह्मणि व्यभिचारेण फलविषयत्वापरोक्षवृत्तिविषत्वयोर् व्याप्यव्यापकभावाभावेन फलव्याप्यत्वं ब्रह्मणो व्यावर्तमानम् अपरोक्षवृत्तिविषयत्वं न व्यावर्तयति’ इति वाच्यम् । ब्रह्मण्येव फलविषयत्वस्य आपाद्यतया आपाद्यधर्मिणि व्यभिचारचोदनस्य तर्कस्वरूपाज्ञानविजृम्भितत्वात् ॥

रामसुब्ब_३२३

रा.) यत्तु कर्मणि षष्ठीपक्षे प्रमाणादि परिकरविशिष्टब्रह्मणो जिज्ञासाकर्मत्वसम्भवेन प्रमाणादि जिज्ञासानामपि शाब्दत्वसम्भवाद् आर्थिकत्वोक्तिरयुक्तेति । तन्न । जिज्ञासाकर्मसमर्पक ब्रह्मशब्देन शक्त्या केवलब्रह्मस्वरूपस्यैव बोधनेन प्रमाणादिविशिष्टब्रह्मबोधकत्वे लक्षणापत्त्या च स्वरूपस्यैव जिज्ञास्यत्वेन प्रतिज्ञातत्वावगतेः प्रमाणादि प्रतिज्ञाया आर्थिकत्वोक्तेरेव युक्तत्वादिति ॥

खण्डनं_३२३

(खं. ) तत्तुच्छम् । अनुक्तोपालम्भरूपत्वात् ॥

चन्द्रिकानुवादः_३३

(चं .) यत्तु पञ्चपादीविवरणयोरुक्तम् अवयवशक्त्या ज्ञानेच्छावाचिनो जिज्ञासाशब्दस्य विचारे लक्षणया प्रयोगप्रत्ययोरूपपत्तौ न शक्त्यन्तरकल्पनम् । अनन्यथा सिद्धकार्यान्तराभावादिति जिज्ञासाशब्दो विचारे लाक्षणिको न तु रूढ इति । तन्न । यतः ॥

जिज्ञासाशब्दतो हीच्छामज्ञात्वैव विजानते ।

विचारं लौकिकास्तेन तत्रायं रूढ इष्यते ॥

अन्यथा मण्डपादीनां गृहादौ स्यान्न रूढता ।

गङ्गाशब्दात्तु तीरादि तद्धीपूर्वं प्रकाश्यते ॥

तथाहि–जिज्ञासाशब्दान् मीमांसाशब्दादिव इच्छा-प्रतीत्यभावेऽपि विचारः प्रतीयते । अन्यथा बुभुत्सापदादपि विलम्बेन तद्धीसम्भवान् नियमेन विचारे जिज्ञासापदं न प्रयुज्येत। स्वीकृतश्च त्वयाऽपि ‘विचारसाध्यज्ञानेच्छा जिज्ञासाशब्दात्प्रतीयते । नोपदेशमात्रसाध्यज्ञानविषया’ इति वदता विचारप्रतीतेर् इच्छाप्रतीतिपूर्वकत्वाभावः ॥ एवञ्च तद्विजिज्ञासस्व’ इत्यादौ अस्मिंश्च सूत्रे विधौ न लक्षणा । अन्यथा लोके मण्डपशब्दस्य मण्डपानकर्तृत्वरूपयौगिकार्थ सम्बन्धाद्गृहविशेषे प्रवीणकुशलादिशब्दानाञ्च प्रकृष्टवीणावदादिगतप्रागल्भ्यरूपगुणयोगादेव निपुणे वाजिशब्दस्य च वाजशब्दवाच्यान्नवत्सम्बन्धादेवाश्वजातौ प्रयोगसम्भवाद्रूढिर्न स्यात् ॥ वेदे च ‘अपरिमितं देयं’ इत्याधानप्रकरणे श्रुतस्य अपरिमितशब्दस्य परिमितान्यरूपमुख्यार्थनिष्ठानेकत्वगुणयोगादेव बहुत्ववति प्रयोगसम्भवाद्रूढिर्न स्यात् । उक्ता च रूढिः षष्ठे ॥

न च प्रवीणादिशब्दे इष्टापत्तिः । यौगिकार्थप्रतीत्यभावेऽपि नैपुण्यप्रतीतेः ॥ न चैवं “वैश्वदेवेन यजेत” इत्यादौ “वैश्वदेवीमामिक्षां” इति वाक्यविहितयागे यौगिकस्य वैश्वदेवशब्दस्य वैश्वदेवावैश्वदेवसमुदाये गङ्गापदादेस्तीरादौ लक्षणा न स्यात् । किन्तु रूढिरेव स्यादिति वाच्यम् । तत्र मुख्यार्थप्रतीतिपूर्वकमेव इतरप्रतीतेः प्रकृते च तदभावादित्युक्तत्वात् । किञ्च त्वन्मते ज्ञानसामान्येच्छायाः काप्यभावाद् अपरोक्षेच्छायां च जिज्ञासाशब्दस्य अवयवशक्त्यभावात् समुदायशक्तेः कल्प्यत्वाविशेषे विचारे समुदायशक्तिर् अपरोक्षेच्छायां च लक्षणा इत्येव किं न स्यात् । एतेन ‘जिज्ञासाशब्दवाच्यया इच्छया आक्षिप्तो विचार इह विधीयते’ इति विवरणाभिप्रेतं मतान्तरं निरस्तम् ॥ विचाराक्षेपस्य भामतीनिरासावसरे निराकरिष्यमाणत्वाच्च ॥ तस्माज्जिज्ञासाशब्दो विचारे रूढ एवेति ॥

रामसुब्ब_३३१

( रा .) तन्न शक्तिग्राहककोशव्याकरणादिप्रमाणेषु जिज्ञासाशब्दस्य विचारे शक्त्यनुक्तेः ॥ माध्वव्यतिरिक्तप्रामाणिकमहाजनानां विचारे जिज्ञासाशब्दस्य प्रयोगप्राचुर्याभावेन तत्र शक्त्यसिद्धेश्चेति ॥

खण्डनं_३३१

खं .) तत्तुच्छम् । विचारे जिज्ञासाशब्दस्य ‘अथातो धर्मजिज्ञासा’ ‘अथातो ब्रह्मजिज्ञासा’ ‘जिज्ञासितं सुसम्पन्नं’ इत्यादिषु महाजनाग्रेसराणां प्रयोगेण तस्य शक्तिग्राहकप्रमाणान्तर्गत्या शक्तिग्राहक-प्रमाणाभावादित्युक्तेरसङ्गतत्वात् । जिज्ञासाशब्दावयवशक्तेर् अर्थान्तरेसम्भवमात्रेण विचाररूपार्थेऽनेकत्र प्रयोगेऽपि लक्षणास्वीकारे मण्डप, प्रवीण, कुशल वाज्यादि शब्दानामपि मण्डपानकर्तरि प्रकृष्टवीणावति कुशच्छेत्तरि अन्नवति अवयवार्थमभवेन मण्टपादिरूपार्थे शक्तिर्न स्याद् इत्यादि चन्द्रिकोक्तदूषणानां दुरुद्धारत्वाच्च ॥

चन्द्रिकानुवादः_३४

(चं.) भामत्यां तु न जिज्ञासा नाम विचारः । इच्छायां सन्विधानात् । न च शास्त्रप्रवृत्त्यङ्गविषयप्रयोजनसूचनेन स्वार्थपरत्वोपपत्तेर् विचारे लक्षणा युक्ता । एवञ्च मुमुक्षानन्तरं ब्रह्मजिज्ञासा भवितुं युक्तेत्येव श्रौतोऽर्थः । विचारस्त्वार्थिकोऽर्थः । ज्ञातुमिच्छा हि सन्दिग्धे विषये निर्णयाय भवति । निर्णयश्च विचारसाध्य इति इच्छानिमित्तेन विचाराक्षेपात् ॥ आर्थिकेचास्मिन्नर्थे कर्तव्यपदाध्याहाराद् इत्युक्तम् । तदपि न । विचारे रूढेरुक्तत्वात्॥ व्याकरणस्य च साधुत्वमात्रपरत्वात् । उक्तं हि

यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते ।

स्वरसंस्कारमात्रार्था तत्र व्याकरणस्मृतिः ॥ इति

भवतीत्यध्याहारस्य स्वतः सिद्धत्वेऽपि अनुवादत्वप्रसङ्गात् । ‘तद्विजिज्ञासस्व’ इति श्रुत्यनुसारिणा च सूत्रेण इच्छाया अविधेयत्वेन लक्षणयाऽपि विचारस्य विधेयत्वात् । विषयाद्यभावाद् इच्छाभावं वदन्तं प्रति इच्छया विषयाविसूचनोक्त्ययुक्तेश्च । किचैवंसति तावन्मात्रेण नैराकाङ्क्ष्यान् नार्थिकविचारकर्तव्यतापरता युक्ता । शास्त्रारम्भवत्वस्य फलत्वेनैव सिद्धेः । कथञ्च विचारं विना इच्छाया अनुपपत्तिः ॥ येन विचाराक्षेपकता । नहि कारणस्य कार्यं विना अनुपपत्तिः ॥ नचेच्छा विचारसामग्री । फलेच्छायां सत्यामपि साधनाननुष्ठानदर्शनात् ।तस्माद्भामत्युक्तमयुक्तमिति ॥

रामसुब्ब_३४१

( रा . ) तन्न जिज्ञासापदे विचारशक्तत्वस्य पूर्वमेव निराकृतत्वात् । आक्षेपमात्रेण विचारलाभे विचारे जिज्ञासापदलक्षणोक्त्यसम्भवात् । आक्षेपलब्धस्य विचारस्य आपातप्रतीतार्थनिर्णायकतया सिद्धस्य विद्ध्ययोग्यत्वत् । विचारकर्तव्यत्वस्य अनवधाननिवृत्यर्थत्वेन विचारावधानपर्यवसायिनः सूत्रस्य अनुवावकत्वाप्रसक्तेः । जिज्ञासापदस्य विषयसूचकत्वेन सफलतया विचारकर्तव्यताया अनवधाननिवृत्तिप्रयोजनकत्वेन विचारकर्तव्यत्वतात्पर्यकत्वस्यावश्यकत्वादिति ॥ .

खण्डनं_३४१

(खं . ) तत्तुच्छम् पूर्वमेव जिज्ञासाशब्दे विचारशक्तेः साधितत्वात् । शक्त्यनङ्गीकारेऽपि लक्षणया विचारपरत्वोपपत्तेः । आक्षिप्तस्य वाक्यार्थेऽनन्वयेन जिज्ञासायाः कर्तव्यताबोधके ‘तद्विजिज्ञासस्व’ इति श्रुत्यनुसारिसूत्रे इच्छायाः कर्तव्यत्वासम्भवेन शक्त्या वा लक्षणया वा जिज्ञासापदेन विचारबोधस्यावश्यकत्वात् ॥

यत्वित्यादिग्रन्थे किञ्च विचारे कर्तव्यत्वाध्याहारस्यानुवादत्वप्रसङ्गः । तस्मिन् कर्तव्यत्वस्य स्वत एव सिद्धत्वात्’ इत्ययमनुक्तानुवादः । चन्द्रिकायाम् अस्य वाक्यस्य वा एतादृशार्थप्रतिपादकवाक्यान्तरस्य वा अभावात् । अत एव तन्नेत्यादिग्रन्थे ‘आक्षेपलब्धस्य’ इत्यादिः ‘विचारकर्तव्यत्वतात्पर्यकत्वस्यावश्यकत्वात्’ इत्यन्तो ग्रन्थो ऽनुक्तोपालम्भरूपत्वादुपेक्ष्य इति ॥

रामसुब्ब_३४२

(रा.) यत्तु विषयाभावाद् विचारेच्छा नोत्पत्तुमर्हतीति वदन्तं प्रति विचारेच्छया विषयसूचनोक्त्ययोगेऽपि ब्रह्मज्ञानेच्छया तत्सूचनोक्त्युपपत्तेः ॥ सर्वत्र कारणत्वावच्छेदेन कार्याक्षेपकत्वनियमाभावेऽपि जिज्ञासायां जातायां विचारस्य सर्वत्र क्रियमाणत्वप्रतीतेर् जिज्ञासारूपकारणविशेषस्य विचारविशेषरूपकार्याक्षेपकत्वस्य अप्रत्यूहत्वात् । अत

एवोक्तसाधनचतुष्टयवत्पुरुषनिष्ठ ब्रह्मजिज्ञासा ब्रह्मविचारं प्रति पुष्कलकारणमेव । उक्तविशिष्टच्छासत्वे विचारस्य नियमेनोपलब्धेः’ इति ॥

खण्डनं_३४२

( खं .) तदपि तुच्छम् । मोक्षांशे सन्देहसत्वे तद्ज्ञानेच्छाया एवासम्भवेनेत्यादिना पूर्वं ब्रह्मज्ञानेच्छाया असम्भवस्योक्तत्वात् । भामतीकृता जिज्ञासाक्षेपपूर्वं विचारस्याक्षिप्तत्वादित्युक्तत्वाच्च । कारणसत्तामात्रेण कार्यनियमाभावाज् जिज्ञासारूपकारकसद्भावेऽपि केवलाया उक्तसाधनचतुष्टयवत्पुरुषनिष्ठ जिज्ञासायाः सामग्रीत्वाभावेन जिज्ञासायां जातायां विचारस्य नियमेन क्रियमाणत्वाप्रतीतेः सर्वानुभवसिद्धत्वाच्च जिज्ञासाया विचाराक्षेपकत्वं न सम्भवत्येव । सम्भवे वा शक्त्या लक्षणया वा पदबोध्यस्यैव वाक्यार्थेऽन्वयस्य शास्त्रे दृष्टत्वेन, शब्दकार्यस्य वा शब्दज्ञाप्यस्य वा वाक्यार्थे अन्वयस्यादृष्टत्वेन, जिज्ञासाया ज्ञाप्यविचारस्य वाक्यार्थे अन्वययोग्यताया एवाभावेन, वाक्यार्थेऽनुप्रविष्टार्थबोधक कर्तव्यपदाध्याहारस्यायुक्तेर् मुमुक्षानन्तरं ब्रह्मजिज्ञासा भवितुं युक्तेत्यनेनैव नैराकाङ्क्ष्यात् कर्तव्येत्यादिपदाध्याहारप्रयोजकाकाङ्क्षाया अभावाच्च ॥

चन्द्रिकानुवादः_३५

(चं.) एतेन, कौमुद्यां-” यस्मादधिकारिणां ब्रह्मज्ञानेच्छा सम्पन्ना तस्माद्ब्रह्मविचारः कर्तव्य इति अवान्तरवाक्ये श्रुत्या इच्छापरत्वेऽपि, महावाक्ये लक्षणया विचारपर इति उभयपरो जिज्ञासाशब्दो ऽतएव विचारे लाक्षणिकोऽपि विषयादिसूचकः” इति यदुक्तं तदपि निरस्तम् । युगपद् वृत्तिद्वयप्रसङ्गात् ॥ उक्तरीत्या विषयप्रयोजनयोर् अन्यथैव सूचनसम्भवेन, जिज्ञासाशब्दस्येच्छापरत्वे मानाभावाच्च ॥ अध्याहारसापेक्षावान्तरवाक्यभेदादिकल्पनानुपपत्तेश्च ॥ तस्माज्जिज्ञासाशब्दो विचारपरः । नेच्छापर इति ॥

रामसुब्ब_३५१

( रा . ) तन्न । “अथातो धर्मजिज्ञासा” इत्यत्र धर्मशब्दस्य धर्मे शक्तिः, अधर्मे लक्षणा च स्वीकर्तव्या उपादानार्थं धर्मस्य जिज्ञासावत्, परिहारार्थम् अधर्मस्यापि जिज्ञास्यत्वावश्यकत्वात्" इति कोमारिलवार्तिकरीत्या युगपदवृत्तिद्वयस्वीकारस्य सति प्रयोजने अदुष्टत्वात् । लोकेऽपि ‘गङ्गायां मत्स्यघोषौ’ इत्यादौ वृत्तिद्वयस्य सम्प्रतिपत्तेः ॥ युगपद्वृत्तिद्वयस्वीकारे दोषोक्तिस्तु युगपदेकजातीयवृत्तिद्वयविषया ॥ तथा च ज्ञानेच्छारूप हेतोर् विचारकर्तव्यत्वस्य च लाभार्थम् अध्याहारस्यावश्यकत्वेन अध्याहारेऽनुपपत्त्यभावात् ॥ ज्ञा धातोर्ज्ञानार्थे सन् प्रत्ययस्य च इच्छार्थे व्याकरणस्यैव प्रमाणत्वेन मानाभावादित्युक्त्यसङ्गतेरिति ॥

खण्डनं_३५१

(खं. ) तत्तुच्छं युगपद्वृत्तिद्वयस्वीकारस्य सति प्रयोजनेऽदृष्टत्वादिति भवदुक्तरीत्यैव, प्रयोजने सत्येव युगपद्वृत्तिद्वयस्य स्वीकार्यत्वेन उक्तरीत्या विषयफलयोरन्यथैव सूचनसम्भवेन’ प्रयोजनान्तरस्य चाभावेन युगपद्वृत्तिद्वयस्वीकारस्य दुष्टत्वात् ‘इच्छापरत्वे मानाभावात्’ इति वाक्येन इच्छातात्पर्यकत्वे ज्ञापकाभाव उक्तः । न तु अवयवशक्त्यभावे प्रमाणाभावः । अन्यथा ‘इच्छावाचकत्वे’ इत्यनुक्त्वा, इच्छातात्पर्यकत्वार्थकायाः ‘इच्छापरत्वे’ इत्युक्तेः, ‘विषय फलयोरन्यथैव सूचनसम्भवेन’ इति हेतुक्तेश्च असाङ्गत्यापत्तेः । अतः ‘ज्ञाधातोर्ज्ञानार्थे सन् प्रत्ययस्य च इच्छार्थे व्याकरणस्येव प्रमाणत्वेन मानाभावादित्युक्त्यसङ्ङ्गतेर् इत्युक्तेश् चन्द्रिकावाक्यार्थाज्ञानविजृम्भितत्वात् ॥ त्वन्मते ज्ञानेच्छाया असम्भवस्योक्तत्वात्, ज्ञानेच्छारूप हेतुलाभस्यानावश्यकत्वाच्च अध्याहारस्यानावश्यकत्वेन अध्याहारसापेक्षावान्तरवाक्य भेदादिकल्पनापत्तेर्दुर्वारत्वाच्च ॥

चन्द्रिकानुवादः_३६

( चं) यत्तु परैर् अस्य शास्त्रस्य पूर्वतन्त्रेण गतार्थत्वमाशङ्क्य ‘तत्र कार्यनिष्ठो वेदभागो विचारितः । इह तु वस्तुतत्वनिष्ठो विचार्यते’ इति अगतार्थत्वमुक्तम् । तन्न । इह अतत्वभूतोपास्य स विशेषब्रह्मविचारस्य उपासनापादे तद्विधिविचारस्य चायोगात् । न चोपासना मन्मत इव त्वन्मते मोक्षसाधनम् । येन फलसाधनादियुक्तब्रह्मविचारप्रतिज्ञानात् तद्विचारः सङ्गच्छेत ॥ त्वन्मते ह्युपासनाया मानसत्वेन विद्यासाम्येऽपि अनित्यफलत्वात् हेयत्वाच्च तद्वाक्यानाम् अतत्वावेदकत्वाद् उद्गीथाद्युपासनानां कर्माश्रितत्वाच्च ‘समुद्रं मनसा ध्यायीत’ इत्यादिवाक्यविहितसमुद्रध्यानादिवत् कर्मकाण्ड एव उपासनायाविचारो युक्तः । निर्विशेषज्ञानार्थत्वादुपासनाया इह विचारे च यागादिनित्यकर्मणामपि तदर्थत्वात्, मानस सङ्कल्परूपतया उपासनावद् विद्यासाम्याच्च तद्विचारोपीहैव स्यात् ॥ तस्मात्सर्वस्यापि वेदस्य ब्रह्मपरत्वात् सर्वोपीहैव विचार्यः । कर्मदेवमीमांसयोर् वेदैकदेशावान्तरतात्पर्यविषय कर्मदेवताविचार इति ॥

रामसुब्ब_३६१

( रा . ) तन्न । ब्रह्मज्ञानवद् उपासनस्य मानसत्वाविशेषात् सङ्गतिविशेषलोभेन अस्मिन् शास्त्रे उपासनाविधिविचारोपपत्तेरिति ॥

खण्डनं_३६१

(खं. ) तत्तुच्छम् । ‘समुद्रं मनसा ध्यायीत’ इति ध्यानविशेषस्य पूर्वतन्त्रे विचारितत्वेन ब्रह्मोपासनस्यापि ध्यानविशेषतया मानसत्वरूपव्यापकधर्मेण ब्रह्मज्ञानाद् उपासनस्य अविशेषापेक्षया, मानसत्वादपि व्याप्येन ध्यानत्वरूपधर्मेण समुद्रध्यानादितो ऽविशेषस्य सद्भावेन ब्रह्मोपासनस्य पूर्व तन्त्रे अत्यन्त सङ्गतिसम्भवात् तत्रैव विचारस्यावश्यकत्वापत्तेः ॥ वस्तुतत्वनिष्ठवेदभागस्य इह विचार्यत्वे सविशेषभूतातत्वरूप ब्रह्मचारायोगादिति दोषस्यापरिहाराच्च ॥

रामसुब्ब_३६२

( रा . ) नच, ‘अस्मिन् शास्त्रे मानसस्य ब्रह्मज्ञानस्य प्राधान्येन प्रतिपादनवत् पूर्वतन्त्रे बृहतिप्रस्तूयमाने ‘समुद्रं मनसा ध्यायीत’ इत्युक्तध्यानस्य प्राधान्येनाप्रतिपादनात् प्राधान्येन प्रतिपादितब्रह्मज्ञानेन मानसत्वसामान्याद् ब्रह्मोपासनस्यात्रैव सङ्गतेर्न्याय्यत्वादिति वाच्यम् ॥

खण्डनं_३६२

खं . ) एतच्छास्त्रे प्रधानप्रतिपाद्येन ब्रह्मज्ञानेन साधारणेन मानसत्वरूपैकधर्मेण साम्याद् उपासनस्य एतच्छास्त्रे प्रतिपाद्यत्वे, पूर्व तन्त्रे प्रधानप्रतिपाद्येन कर्मविचारेण अतत्वविषयत्वानित्यफलकत्वादिबहुधर्मेण साम्यसम्भवात् सविशेषब्रह्मविचारस्य उपासनाविधिविचारस्य च पूर्वतन्त्रे अतितरां सङ्गतत्वेन तत्रैव प्रतिपादनप्रसङ्गस्य दुरुद्धरत्वात् ॥ एतच्छास्त्रप्रतिपाद्यत्वेन तात्पर्याविषयाणाम् अनेकेषाम् अत्र प्रतिपाद्यात् कैश्चिद्धर्मैरविशेषेण तेषामपि एतच्छास्त्रे प्रतिपादनप्रसक्तेश्च ॥

रामसुब्ब_३६३

(रा.) यत्तु न च पुनरावर्तते’ इत्यादि श्रुतिसिद्धम् अपुनरावृत्तिरूपमोक्षविशेषं प्रति साक्षादेव दहराद्युपासनस्य हेतुत्वान् मोक्षशास्त्रे अस्मिन्नेव प्रधानभूतफलांशमादाय सङ्गत्युपपत्त्या अत्रैव ब्रहमोपासना विचारस्य न्याय्यत्वाद् उद्गीथाद्युपासनम् उपासनत्वसाम्याद् आनुषङ्गिकतया अत्र विचार्यत इति ॥

खण्डनं_३६३

(खं) तदपि तुच्छम् । ‘तमेवं विद्वानमृत इह भवति, इत्यादि श्रुत्या, ज्ञानस्यैवापुनरावृत्तिरूपमोक्षं प्रति कारणत्वावगमेन शाङ्करे मते उपासनस्य साक्षान्मोक्षजनकत्वानङ्गीकारेण च प्रधानभूतफलांशमादाय मोक्षशास्त्रे सङ्गत्युक्तयसम्भवात् ॥ उद्गीथाद्युपासनविचारस्य एतच्छास्त्रासङ्गतत्वस्य त्वया स्वीकृतप्रायत्वेन अत्र कथनस्यायुक्तत्वात् ॥ दहराद्युपासनाया एव अत्रासङ्गतत्वेन तादृशवहराद्युपासनासाम्येन उद्गोथोपासनायाः सङ्गतत्वकथनस्यात्यन्तमयुक्तत्वात् ॥ प्रमेयत्वसाम्येन आनुषङ्गिकतया सर्वस्यापि अत्रैव विचार्यता प्रसङ्गाच्च ॥

“सर्वे वेदा यत्पदमामनन्ति” “वेदैश्च सर्वेरहमेव वेद्यः” “सर्वे वेदाः सर्वे धोषा एकैव व्याहृतिः प्राण एव प्राणऋच इत्येव विद्यात् ॥ इत्यादिश्रुतिस्मृत्यादिभिर् ब्रह्मण एव सर्ववेदप्रतिपाद्यत्वावगमात् ‘कार्यनिष्ठो वेदभागः पूर्वमीमांसायां विचारितः वस्तुतत्वनिष्ठवेदभाग इह विचार्यते’ इति विभागेन गतार्थताशङ्कानिराकरणस्यायुक्तत्वाच्च ॥ अद्वैत्यभिमते निर्गुणे ब्रह्मणि पदानां शक्त्यभावेन शक्यसम्बन्धितया स्वरूपेण च ज्ञात एव लक्षणाप्रवृत्तेर् असङ्गस्य ब्रह्मणः शक्यसम्बन्धित्वाभावेन अज्ञेयत्वेन स्वरूपेण च ज्ञातत्वाभावाद् लक्षणावृत्तेरपि अप्रसक्त्या वेदान्तानां वस्तुतत्वनिष्ठत्यासम्भवाच्य ॥