जयताज्जानकीजानिः कल्याणगुणवारिधिः । दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा
ॐ ॥ श्रीदिग्विजयरामो विजयते ॥
॥ अद्वैतखण्डनपूर्वक चन्द्रिकामण्डनम् ॥
मङ्गलम्
जयताज्जानकीजानिः कल्याणगुणवारिधिः ।
दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा ॥१॥
मायावादतमोव्याप्तिरञ्जसा येन वारिता ।
प्रकाशितं च तत्वं तं भजे मध्वदिवाकरम् ॥२॥
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
लभन्ते मानुषा नूनं ताञ्जयादिगुरून्भजे ॥३॥
श्रीसत्यध्यानतीर्थार्थः रामसुब्बेन मायिना ।
यया धिया प्रतिज्ञातं चन्द्रिकाचालनं मुधा ॥४॥
सा चन्द्रिकाचालनधीरमुष्य शशाङ्कसञ्चालनधीः सुतस्य ।
अङ्के शयानस्य यथा जनन्यास् तथाविधेति प्रकटीकरोति ॥५॥