ॐ सम्पद्याविर्भावः स्वेन शब्दात् ॐ
भेदपराण्येव खलु ब्रह्मसूत्राणि
अथ ब्रह्मसूत्रचतुर्थाध्यायीयचतुर्थपादशाङ्करभाष्यविचारः
अधिकरणं १
ॐ सम्पद्याविर्भावः स्वेन शब्दात् ॐ (४.४.१)
इति सूत्रस्य ‘“एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रूयते । तत्र संशयः किं देवलोकाद्युपभोगस्थानेष्विवागन्तुकेन केनचिद्विशेषेणाभिनिष्पद्यते, आहोस्विदात्ममात्रेणेति । किं तावत्प्राप्तम् ? स्थानान्तरेष्विवागन्तुकेन केनचिद्रूपेणाभिनिष्पत्तिः स्यात् । मोक्षस्यापि फलत्वसिद्धेः । अभिनिष्पद्यत इति चोत्पत्तिपर्यायत्वात् स्वरूपमात्रेण चेदभिनिष्पत्तिः पूर्वास्वप्यवस्थासु स्वरूपानपायाद्विभाव्येत । तस्माद्विशेषेण केनचिदभिनिष्पद्यत इति । एवं प्राप्ते ब्रूमः-केवलेनैवात्मनाऽऽविर्भवति न धर्मान्तरेणेति । कुतः ? स्वेन रूपेणाभिनिष्पद्यत इति स्वशब्दात् । अन्यथा हि स्वशब्देनेति विशेषणमनवक्लृप्तं स्यात् । नन्वात्मीयाभिप्रायः स्वशब्दो भविष्यति, न, तस्यावचनीयत्वात् । येनैव हि केनचिद्रूपेणाभिनिष्पद्यते तस्यैवात्मीयत्वोपपत्तेः स्वेनेति विशेषणमनर्थकं स्यात् । आत्मवचनतायां त्वर्थवत्, केवलेनैवात्मरूपेणाभिनिष्पद्यते नागन्तुकेनापररूपेणापीति" इति यद् व्याख्यानरूपं शाङ्करभाष्यं तत्तु द्वैतमतानुकूलम् अद्वैतमतविरोधि च ।
एतद्भाष्यतद्व्याख्येयसूत्रगृहीतायां परं ज्योतिरूपसम्पद्य’ इति श्रुतौ परं ज्योतिः परमात्मानं सम्पद्य इति कर्तृकर्मभावनिर्देशेन, तथा ‘स तत्र पर्येति’ इत्युत्तरवाक्येऽपि अधिकरणाधिकर्तव्यनिर्देशेन च जीवपरमात्मनोर्भेदबोधनात् । तस्य च भेदस्य अविद्यानिवृत्तिरूपमोक्षावस्थागतत्वेन अविद्याकल्पितत्वरूपव्यावहारिकत्व शङ्काऽविषयतया पारमार्थिकत्वाच्च ।
न च स्वेन रूपेण परमात्मस्वरूपेण अभिनिष्पद्यते इत्युक्त्या मुक्तस्य परमात्मस्वरूपत्वमेवोक्तं मुक्ताविति वाच्यम् । परं ज्योतिः=परमात्मानम् उपसम्पद्य इति प्राप्यप्राप्तृभावोक्त्या भेदस्य स्फुटं कथनेन जीवः स्वेन रूपेण=स्वकीयरूपेणैव अभिनिष्पन्नो भवतीति आवरक (बन्ध) निवृत्त्या स्वस्वरूपा (जीवस्वरूपा) विर्भावस्यैव सिद्धेः ।
अद्वैतमते अज्ञाननिवृत्तेरेव मोक्षत्वाङ्गीकारेण तस्य (अज्ञाननिवृत्ति- रूपमोक्षस्य) ज्ञाने जाते देशकालगमनाद्यनपेक्षत्वेन अस्माच्छरीरात्समुत्थायेति शरीरादुत्क्रमणस्य परंज्योतिरूपस्सम्पद्येति परमात्मप्राप्तेश्चानपेक्षणात् ।
यत्तु भाष्यरत्नप्रभायां ‘आदौ अभ्यर्हितपरविद्याप्राप्यं निर्विशेष- ब्रह्मभावमाह’ इति अवतरणं दत्तमेतत्सूत्रस्य । तत्तुच्छम् । ‘सम्पद्याविर्भावः स्वेन शब्दात्’ इति सूत्रे जीवस्य ब्रह्मभाव (ब्रह्मत्व) बोधकपदाभावाज् जीवब्रह्मणोर्भेदबोधकपदस्य सत्त्वाच्च । तथा हि-‘सम्पद्याविर्भावः स्वेन शब्दात्’ इति सूत्रस्य ‘परं ज्योतिरुपसम्पद्य’ इति श्रुत्यनुसारेण परं ज्योतिर् इति पदसंयोजने परं ज्योतिः=परमात्मानं, सम्पद्य=प्राप्य, स्वेन रूपेणाविर्भवति शब्दादित्यर्थः सम्भवति । नह्येतेन सूत्रेण जीवस्य ब्रह्मभावः (ब्रह्मत्वं) कथ्यते । प्रत्युत प्राप्यप्राप्तृभावेन भेद एव कथ्यते इति । कः पुनर्विशेषः पूर्वास्ववस्थासु इह च स्वरूपानपायसाम्ये सतीत्यत आह ।
ॐ मुक्तः प्रतिज्ञानात् ॐ (४.४.२)
इति सूत्रस्य योऽत्राभिनिष्पद्यत इत्युक्तः स सर्वबन्धविनिर्मुक्तः शुद्धेनैवात्मनाऽवतिष्ठते । पूर्वत्र त्वन्धो भवत्यपि रोदितीव विनाशमेवापीतो भवतीति चावस्थात्रयकलुषितेनात्मनेत्ययं विशेषः । कथं पुनरवगम्यते मुक्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याह तथा हि-‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छां. ८.९.३/८.१०.४/८.११.३) इत्यवस्थात्रयदोषविहीनमात्मानं व्याख्येयत्वेन प्रतिज्ञाय ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत ः ’ (छां.८.१२.१) इति चोपन्यस्य ‘स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छां.८.१२.३) इति चोपसंहरति । तथाऽऽख्यायिकोपक्रमेऽपि य आत्मा अपहतपाप्मा’ (छां.८.७.१) इत्यादिमुक्तात्मविषयमेव प्रतिज्ञानम् । फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा नापूर्वोपजननापेक्षा यदप्यभिनिष्पद्यते इत्युत्पत्तिपर्यायत्वं, तदपि पूर्वावस्थापेक्षम् “यथा रोगनिवृत्ताव- रोगोऽभिनिष्पद्यत इति तद्वत् । तस्माददोषः " इति यद् व्याख्यानं तदपि मुक्तौ जीवस्य सर्वबन्धविनिर्मुक्ततया दुःखदायकप्राकृतशरीरराहित्येन स्वस्वरूपेण परमात्मभिन्नतया स्थितिकथनेन श्रुत्याद्यनुसारितया युक्तमेव, परन्तु अद्वैतमतस्य विरुद्धम् ।
ॐ आत्मा प्रकरणात् ॐ (४.४.३)
इति सूत्रस्य, “कथं पुनर्मुक्त इत्युच्यते, यावता परं ज्योतिरुपसम्पद्यत (छां.८.१२.३) इति कार्यगोचरमेवैतं श्रावयति । ज्योतिश्शब्दस्य भौतिके ज्योतिषि रूढत्वात् । न चानतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति । विकारस्यार्तत्वप्रसिद्धेरिति । नैष दोषः । यत आत्मैवात्र ज्योतिश्शब्देनावेद्यते, प्रकरणात् । ‘य आत्माऽपहतपाप्मा विजरो विमृत्युः’।( छ. ८.७.१) इति हि प्रकृते परस्मिन्नात्मनि नाकस्माद्भौतिकं ज्योतिश्शक्यं ग्रहीतुम् । प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । ज्योतिश्शव्दस्त्वात्मन्यपि दृश्यते ‘तद्देवा ज्योतिषां ज्योतिः’ (बृ. ४. ४.१६ ) इति । प्रपञ्चितं चैतत् ‘ज्योतिर्दर्शनात्’ इत्यत्र’” इति व्याख्यानमपि समीचीनं श्रुत्याद्यनुकूलत्वात् । तेन व्याख्यानेन ज्योतिश्शब्दस्य भौतिकज्योतिःपरत्वमाशंक्य ‘तद्देवा ज्योतिषां ज्योतिः’ (बृ.४.४.१६) इत्यादि प्रमाणप्रदर्शनपूर्वकं परमात्मपरत्वं समर्थ्य मुक्तस्य परमात्मप्राप्तिकथनद्वारा मुक्तावपि जीवपरमात्मनोर्भेदकथनेन जीवपरमात्मनोर्भेदस्य तत्पारमार्थिकत्वस्य च सिद्धेर् द्वैतमतानुकूलम्, अद्वैमतविरुद्धं च ।
अधिकरणं २
ॐ अविभागेन दृष्टत्वात् ॐ (४.४.४)
इति सूत्रस्य शङ्कराचार्यकृतभाष्यस्थदोषान् प्रदर्श्य जीवेशाभेदपरत्वं निराकृत्य भेदपरताया आरम्भ एवोक्तत्वान् नेह पुनर्विचार्यते ।
अधिकरणं ३
ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ (४.४.५)
इति सूत्रस्य, ‘“स्थितमेतत् ’ स्वेन रूपेण’ (छां.८.३.४) इत्यात्रात्ममात्ररूपेणाभिनिष्पद्यते नागन्तुकेनापररूपेणेति । अधुना तु तद्विशेषवुभुत्सायामभिधीयते । स्वमस्य रूपं ब्राह्ममपहतपाप्मत्वादिसत्य- सङ्कल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेणाभिनिष्पद्यते इति जैमिनिराचार्यो मन्यते । कुतः ? उपन्यासादिभ्यस्तथात्वावगमात् । तथा हि ‘य आत्माऽपहतपाप्मा’ (छां.८.७.१) इत्यादिना ‘सत्यकामस्सत्यसङ्कल्पः’ (छां.८.७.१) इत्येवमन्तेनोपन्यासेनैवमात्मैकतामात्मनो बोधयति । तथा स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ (छां.८.१२.३) इत्यैश्वर्यरूपमावेदयति । ‘तस्य सर्वेषु लोकेषु कामचारो भगति । (छां.७.२५.२ ) इति च ’ सर्वज्ञः सर्वेश्वरः’ इत्यादि व्यपदेशाश्चैवमुपपन्ना भविष्यन्ति’ इति व्याख्यानेन यन् मुक्तस्य अपहतपाप्मत्वादिविशिष्ट हारूपत्वाभिधानं तदयुक्तम् । ‘य आत्माऽपहतपाप्मा’ ‘सत्यकामः सत्यसङ्कल्पः’ इत्याद्युपन्यासे (वेदे) ब्रह्मणोऽपहतपाप्मत्वादिधर्मोक्तावपि मुक्तस्यापहतपाप्मत्वादिधर्मवद्- ब्रह्म स्वरूपताऽनभिधानात् । ‘परं ज्योतिरूपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते’ स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इति मुक्तस्य जक्षणक्रीडनाद्युक्तावपि ब्रह्मस्वरूपताऽनभिधानात् । प्रत्युत ‘परं ज्योतिरुपसम्पद्य’ इति प्राप्यप्राप्तृभावेन जीवब्रह्मणोर्भेदस्यैव कथितत्वाच्च । शङ्कराचार्यैरपि उपसम्पद्यत इति प्राप्यप्राप्तृभावेन भेदः कथ्यत इति स्त्रीकृतत्वाच्च । ‘तस्य सर्वेषु लोकेषु कामचारो भवति’ (छां.७.२५.२) इति व्यपदेशेऽपि, ब्रह्मज्ञानिनो लोकसञ्श्चरगणोक्तावपि परमात्माऽभेदानुक्तेः । प्रत्युत ज्ञातृज्ञेयभावेन भेदस्यैवोक्तेः ।
किं च अद्वैतमते सत्यकामत्वसत्यसङ्कल्पत्वादिविशिष्टस्य ब्रह्मणो मिथ्यात्वेन मिथ्याभूतब्रह्मणा जीवस्य ऐक्यायोगात् ।
ॐ चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ (४.४.६)
इति सूत्रस्य यद्यप्यपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते; तथापि शब्दविकल्पजा एवैते । पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते । चैतन्यमेव तस्यात्मनः स्वरूपमिति तन्मात्रेण स्वरूपेणाभिनिष्पत्तिर्युक्ता । तथा च श्रुतिः ‘एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव (बृ.४.५.१३) इत्येवञ्जातीयकाऽनुगृहीता भविष्यति । सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते सत्याः कामा अस्येति; तथाप्युपाधिसम्बन्धाधीनत्वात्तेषां न चैतन्यवत्स्वरूपत्वसम्भवः । अनेकाकारत्वप्रतिषेधात् । प्रतिषिद्धं हि ब्रह्मणो अनेकाकारत्वं ‘न स्थानतोऽपि परस्योभयलिङ्गम् (ब्र.सू. ३.२.११) इत्यत्र । अत एव च जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायम् । स्तुत्यर्थमात्मरति- रित्यादिवत् । न हि मुख्यान्येव रतिक्रीडामिथुनान्यात्मनि शक्यन्ते वर्णयितुं द्वितीयविषयत्वात्तेषाम् । तस्मान्निरस्ताशेषप्रपश्चेन प्रसन्नेनाव्यपदेश्येन बोधात्मनाऽभिनिष्पद्यते इत्यौडुलोमिराचार्यो मन्यते इति यद् व्याख्यानं तदयुक्तम् । निर्विशेषस्य वस्तुनः प्रमाणागम्यत्वेन शशविषाणवद् असत्त्वाज् जीवस्य ब्रह्मणश्च निर्विशेषचिद्रूपत्वाङ्गीकारेण प्रमाणागम्यत्वात् । चिन्मात्ररूपमेवासदिति । जीवः परं ज्योतिः परमात्मानं प्राप्तः स्वेन रूपेण अभिनिष्पद्यते इत्यस्य निर्विशेषचितिस्वरूपेणाभिनिष्पद्यत इति उक्तेरत्यन्तमसङ्गतत्वात् ।
न च पापाभावादिरूपाणाम् अपहतपाप्मादीनामभावरूपत्वेऽपि मिथ्याभूतप्रतियोगिसापेक्षत्वेन मिथ्यात्वं, सर्वज्ञत्वादिभावधर्माणां तु स्वयं मिथ्यात्वमिति धर्माणामेव अभावेन (असत्त्वेन) ब्रह्मणः सर्वधर्माभावे चितिस्वरूपत्वमङ्गीकरणीयमिति वाच्यम् । मानाधीना मेयसिद्धिरिति नियमान् निर्विशेषचैतन्ये प्रमाणाप्रवृत्तेः प्रमाणाभावेन निर्विशेषचितिमात्रस्य असिद्ध्या शशविषाणवदसत्त्वात् । मानाभावेऽपि वस्तुसिद्ध्यङ्गीकारे शशविषाणादेः सिद्धिप्रसङ्गः । यदि स्वप्रकाशत्वाच् चिद्रूपब्रह्मसिद्धिस् तर्हि शशविषाणमपि स्वप्रकाशत्वात्सिध्येत् । शशविषाणं प्रमाणाभावेन स्वप्रकाशं नेति चेत्, ब्रह्मणोऽपि प्रमाणाभावेन स्वप्रकाशत्वाभाव एव । यदि परप्रकाशत्वाभावः (परप्रकाश्यत्वं) स्वप्रकाशत्वं ब्रह्मप्रकाशकस्यान्यस्याभावेन परप्रकाश्यत्वरूपप्रतियोग्यनुपलम्भरूपप्रमाणादेवपरप्रकाश्यत्वाभावरूपस्वप्रकाशत्वसिद्धिः, तर्हि शशविषाणप्रकाशकस्यान्यस्याभावेन परप्रकाश्यत्वरूपप्रतियोग्यनुपलम्भरूप प्रमाणादेव शशविषाणस्य परप्रकाश्यत्वाभावरूपस्वप्रकाशत्वसिद्धिः समा । यदि शशविषाणस्य प्रमाणाविषयत्वेन परप्रकाश्यत्वरूपप्रतियोग्यनुपलम्भरूप प्रमाणेन परप्रकाश्यत्वाभावरूपस्वप्रकाशत्वस्य शशविषाणे न सिद्धिः, तर्हि ब्रह्मणोऽपि प्रमाणाविषयत्वेन परप्रकाश्यत्वाभावरूपप्रतियोग्यनुपलम्भरूप प्रमाणेन परप्रकाश्यत्वाभावरूपस्वप्रकाशत्वस्य ब्रह्मणि सिद्ध्यभावोऽपि तुल्य इति आस्तां प्रसक्तानुप्रसक्तचिन्ता । प्रकृतमनुसरामः ।
यदुक्तं ‘न स्थानतोऽपि परस्योभयलिङ्ग’ मित्यत्र प्रतिषिद्धं हि ब्रह्मणो अनेकाकारत्व (सविशेषत्व) मिति तत् ’ यः सर्वज्ञः स सर्ववित्’ ‘एतस्य वाऽक्षरस्य प्रशासने गार्गि, सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्याद्यनेकेषां श्रुतिसूत्रगीतारूपप्रमाणानां परमात्मनो धर्मबोधकानां सत्त्वाद् एतच्छ्रुतिबोधितानां धर्माणां कस्यामपि श्रुतौ सूत्रे गीतायामनिषिद्धत्वाद् अयुक्तमिति व्यवस्थापितं ‘न स्थानतोऽपि ’ इति सूत्रविचारावसरे, तत्रैव द्रष्टव्यम् । अत एव जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायमिति यदुक्तं तदप्ययुक्तम् । दुःखाभावस्यापि मिथ्याभूतदुःखप्रतियोगिकत्वेन त्वन्मतरीत्या मिथ्यात्वाद् अविद्यानिवृत्तिरूपमोक्षे अविद्याकल्पितपदार्थानां सत्त्वायोगेन तत्प्रतिपादकस्य वेदस्य अविद्यमानार्थप्रतिपादकत्वरूपाप्रामाण्यप्रसङ्गो दुर्वार एवेति । तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यते इत्यौड़लोमिरित्युक्तिः ।
‘एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ।
मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः’ इतिवद् व्याहतैव । नन्वेतौ अर्थौ सूत्रयोः पूर्वपक्षतया शङ्कराचार्यैर् उक्ताविति तदुक्तार्थयोः खण्डनं संमतमेवाद्वैतिनाम् इति चेन्न एवमप्युपन्यासादिति (७) सिद्धान्ततया अद्वैत्यभिमते सूत्रे अर्थद्वयस्यापि पक्षभेदेन व्यवस्थापितत्वेन तादृशार्थद्वयखण्डनस्य अद्वैतिनामनुमतत्वायोगात् ।
ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ (४.४.७)
इति सूत्रस्य यद् एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्याप्युपन्यासादिभ्योऽवगतस्य ब्राह्मस्यैश्वर्यरूपस्या- प्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते इति व्याख्यानं तदपि न समीचीनम् । निर्विशेषचिन्मात्रे प्रमाणानां प्रवृत्त्यसम्भवेन तस्य शशविषाणादिवदप्रामाणिकत्वस्य पूर्वसूत्रार्थखण्डने स्पष्टमुपपादितत्वेन निर्विशेषचिन्मात्रस्त्ररूपताया एव अभ्युपगन्तुमशक्यत्वेन तत्पारमार्थिकतायाः कफोणिगुडायितत्वात् । अपहतपाप्मत्वादीनां श्रुत्यादिप्रमाण- प्रमितानां प्रत्याख्यानासम्भवेऽपि ब्राह्मण जैमिनिरिति सूत्रशाङ्करभाष्यखण्डनावसरे उक्तरीत्या श्रुत्याद्यप्राप्तानां मुक्तस्य सर्वज्ञत्वादिधर्माणां प्रत्याख्यानस्यावश्यकत्वाच्च मुक्तस्य निवृत्ताविद्यत्वेन तत्र त्वन्मतरीत्याऽपि व्यावहारिकाणां (आविद्यकानां ) धर्माणामङ्गीकर्तुमशक्यत्वेन व्यवहारापेक्षयेत्याद्युक्तेरप्यसङ्गतत्वाच्च ।
ॐ सङ्कल्पादेव तु तच्छ्रुतेः ॐ (४.४.८)
इति सूत्रस्य ‘“हार्दविद्यायां श्रूयते-स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छां.८.२.१) इत्यादि-तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुरुत निमित्तान्तरसहित इति । तत्र सत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षता युक्ता । यथा लोकेऽस्मदादीनां सङ्कल्पाद्गमनादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् । एवं दृष्टविपरीतं न कल्पितं भविष्यति । सङ्कल्पादेवेति तु राज्ञ इव सङ्कल्पितार्थसिद्धिकरी साधनान्तरसामग्रीं सुलभामपेक्ष्योच्यते । न च सङ्कल्पमात्रसमुत्थानाः पित्रादयो मनोरथविजृंभितवच्चलत्वात्पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति । एवं प्राप्ते ब्रूमः-सङ्कल्पादेव तु केवलात्पित्रादिसमुत्थानमिति । कुतस् तच्छ्रुतेः ‘सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति (छां. ८. २.१) इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत । निमित्तान्तरमपि तु यदि सङ्कल्पानुविधाय्येव स्याद्भवतु, न तु तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमितीष्यते । प्राक्तत्सम्पत्तेर्वन्ध्यसङ्कल्पत्व- प्रसङ्गात् । न च श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते । सङ्कल्पवलादेव चैषां यावत्प्रयोजनं स्थैर्योपपत्तिः । प्राकृतसङ्कल्प- विलक्षणत्वान्मुक्तसङ्कल्पस्य इति यद् व्याख्यानं शङ्कराचार्याणां तत्तु मुक्तौ जीवा निरस्तप्रतिबन्धास्सन्त ईश्वरानुग्रहेण ईप्सितफलानुभवं कुर्वन्तः सामगानादिना ईश्वरमाराधयन्तस्तिष्ठन्ति इत्यर्थप्रतिपादकश्रुतिसूत्रादि- प्रमाणानुकूलत्वाद् युक्तमेव ।
परन्तु भाष्यरत्नप्रभायां ‘एवं परविद्याफलमुक्तम् । इदानीम् अपरविद्याफलं प्रपञ्चयति सङ्कल्पादेवेति’ इति वाक्येन तथा आनन्द- गिरीयन्यायनिर्णये - ‘पूर्वाधिकरेणेषु परविद्याफलमभिधाय अपरविद्याफलं प्रपञ्श्चयितुमधुना उपक्रमते - सङ्कल्पादिति’ इति वाक्येन परविद्या अपरविद्या इति विद्याद्वयं स्वीकृत्य पूर्वमुक्तं परविद्याफलं (निर्गुणविद्याफलं) इदानीम् अपरविद्या (सगुणविद्या) फलमुच्यते इत्युभाभ्यां कथनमयुक्तम् । निर्गुणब्रह्मणश्शशविषाणवद् अप्रामाणिकत्वेन अज्ञेयत्वेन च तस्य (ब्रह्मणः) विद्याया एव असम्भवाच्च । अद्वैतिभिः परस्य ब्रह्मणो विद्याविषयत्वानङ्गीकारात् । एतत्सूत्रशाङ्करभाष्ये सूत्रे वेदे च सगुणब्रह्मनिर्गुणब्रह्मभेदेन विद्याभेदस्यानुक्तत्वाच्च ।
ॐ अत एव चानन्याधिपतिः ॐ (४.४.९)
इति सूत्रस्य ‘“अत एव चावन्ध्यसङ्कल्पत्वादनन्याधिपतिर्विद्वान् भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थः । न हि प्राकृतोऽपि सङ्कल्पयन्नन्य- स्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयति-’ अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति’ (छां.८.१.६) इति" इति यद् व्याख्यानं शङ्कराचार्याणां तदयुक्तम् । एतत्सूत्रोदहृतायां ‘तद्य इहात्मानमननुविद्य व्रजन्ति एतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु अकामचारो भवति, अथ च इह आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवतीति छान्दोग्यश्रुतौ परमात्मानं परमात्मसम्बन्धिसत्यकामत्वादिगुणांश्च अज्ञात्वा ये गच्छन्ति तेषां सर्वलोकेषु यथेष्टाचरणं न भवति ईश्वरज्ञानाभावात् । ये परमात्मानं परमात्मसम्बन्धिनः सत्यभूतान् कामान् गुणान् ज्ञात्वा व्रजन्ति, तेषां परमात्मज्ञानाद् यथेष्टाचरणं भवति इति ईश्वरज्ञानेन फलसिध्युक्त्या ईश्वरो ऽधिपतिरिति सिध्यतीति तच्छ्रुत्यनुसारेण अत एव परमेश्वरानुग्रहादेव मुक्तो ऽनन्याधिपतिर् अन्यः स्वोत्तमादन्यः स्वाधमः पतिर्नास्ति यस्य सः भवति । यथा बद्धावस्थायां स्वाधमा अपि स्वं नियमयन्ति न तथा मुक्त्यवस्थायां स्वोत्तमादन्यो ऽधमो नियन्ता भवति इत्यर्थकत्वस्यैव वक्तव्यत्वेन, सामान्यतो ऽधिपतिरेव मुक्तानां नास्ति इत्यर्थकरणायोगात् । अद्वैतमतरीत्याऽप्यस्य सगुणमोक्षपरत्वाङ्गीकारेण ईश्वरस्य मुक्तेन भेदसद्भावेन नियम्यनियामकभावसद्भावेन च ईश्वराधिपतित्वस्यावर्जनीयत्वाच्च । किं च अन्यः स्वोत्तमादन्यः स्वाधमः पतिर्यस्य नास्ति न विद्यते सस् तादृशः भवतीत्येवार्थः स्वीकरणीयः सूत्रस्य, नत्वधिपतिरेव नास्तीति । तथात्वे अनधिपतिरित्येव ब्रूयात् । लाघवात् । न विद्यते अधिपतिर्यस्येत्युक्तिमात्रेण । अधिपतिसामान्याभावसिद्धेरिति ।
ॐ अभावं बादरिराह ह्येवम् ॐ (४.४.१०)
मुक्तौ मुक्तस्य शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते ।
ॐ भावं जैमिनिर्विकल्पामननात् ॐ (४.४.११)
जैमिन्याचार्यस्तु ‘स एकधा भवति त्रिधा भवति (छां. ७.२६.२) इति श्रुतौ मुक्तस्य अनेकधा भावविकल्पाम्नानात् (बहुरूपत्वकथनात्) अनेकविधतायाश्शरीरभेदमन्तरा असम्भवाद् देहसद्भावं मुक्तस्य मन्यते ।
ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ (४.४.१२)
बादरायणाचार्यो मुक्तस्य देहसद्भावं देहाभावं च मन्यते । न च विरोधः, यदा सशरीरतां सङ्कल्पयति तदा सशरीरः, यदा अशरीरतां सङ्कल्पयति तदा अशरीरो भवतीति कालभेदेन सशरीरत्वा- शरीरत्वयोरङ्गीकारदिति ।
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ (४.४.१३)
देहाभावे स्वप्नवदस्पष्टभोगमनुभवन्ति मुक्ताः ।
ॐ भावे जाग्रद्वत् ॐ (४.४.१४)
देहसत्त्वे यथा जाग्रदवस्थायां भोगस्तथा मुक्तस्यापि भोग इतीमानि सूत्राणि यद् व्याचक्रुः शङ्कराचार्यास् तदपि युक्तमेव । श्रुत्याद्यनुकूलत्वात् । अनुमतत्वाच्च । परन्तु अद्वैतिनां मोक्षरूपं फलं सगुणमोक्षरूपं निर्गुणमोक्षरूपमिति द्विधा विभज्य सगुणमोक्षस्तु सगुणब्रह्मज्ञानेन द्वैतविषयकेण भवति । मोक्षेऽपि जीवेश्वरयोर्भेदो ऽनेकभोगभोक्तृत्वम् । निर्गुणमोक्षे तु केवलमखण्डचिद्रूपनिर्विशेषब्रह्मरूपेणावस्थानं, न तत्र भोगादिकं किंचित्, सुखानुभवश्च तत्र नास्ति, नापि कस्यचिद्वस्तुनो ज्ञानम् एवं रूपं शशविषाणसोदरम् अप्रामाणिकं मोक्षं, ज्ञाता, ज्ञानं ज्ञेयमित्यादि-त्रिपुट्यास् तत्राभाव इति च कल्पयित्वा कयाचिद्विद्यया सगुणमोक्षः कयाचिद्विद्यया निर्गुणमोक्ष इति च प्रकल्प्य ‘यत्र नान्यत्पश्यति नान्यच्छ्रुणोति नान्यद्विजानाति स भूमा’ इति श्रुत्युक्तभूमविद्याया निर्गुणविद्यात्वं, तस्य फलं निर्गुणब्रह्मभावरूपमोक्षः, मोक्षे च एकधाभवनादिरूपव्यापारो नास्तीति यत्स्वीकरणं, मोक्षे देहो वर्तत इति जैमिनिर्मन्यते, नास्तीति बादरिः, इच्छानुसारेण उभयसद्भावं बादरायणाचार्यो मन्यते इति विचारविषयस्य मोक्षस्य निर्गुणभूमविद्याफलत्वेन तत्र एकधाभवनद्विधाभवनरूपव्यापारो नास्त्येवेति च यत्स्वीकरणं तदयुक्तम् ।
सगुणविद्या निर्गुणविद्या इति विद्याविभागस्य शशविषाणायितत्वात् । तथाविभागश्चेद् अद्वैतिभिर्निर्गुणविद्याफलत्वेन कथ्यमाने मोक्षे सगुणविद्याफलत्वेनोच्यमानम् एकधाभवनद्विधाभवनस्वेच्छासञ्चरणादिकम् उक्तं कथं सञ्जाघटीति इत्याद्यनुपपत्तयः प्राप्नुवन्ति । एतद्दोषप्रसङ्गभिया सम्भ्रान्तचेतसा शङ्कराचार्येण तदनुयायिना भामतीकारेण च ।
‘यद्यपि निर्गुणविद्यायामप्ययम् अनेकधाभावविकल्पः पठ्यते तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यत इत्यतः सगुणविद्याभावेनोपतिष्ठते’ (भाष्यम्) इति’यद्यपि निर्गुणायामिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणविद्या स्तूयते’ (भामती) इत्याद्यद्वैतिग्रन्थेष्वेवोक्तमिति चेत् स्तुतिरूपत्वोक्तेरयुक्तत्वात् । तथा हि-स्तुतिर्नाम अल्पफलसाधनतया प्रमितस्य महाफलसाधनत्वकथनं, (अल्पफलकस्य महाफलकत्वकथनं ) । यथा अल्पपापादिनिवृत्तिफलकस्य वैशाखस्नानस्य ज्ञानसाध्यमोक्षरूपमहाफलवत्त्वकथनम् । प्रकृते च अल्पसगुणविद्याफलीभूतस्य एकधाद्वेधाभवनादेर्महाफलभूतनिर्गुणविद्या- फलत्वेन कथनं कथं स्तुतिः स्यात् । स्वापेक्षया महासाधनेन सिध्यत्फलं स्वेन (साधनेन ) सिध्यतीत्युक्तौ स्तोत्रं स्यात्, न तु स्वापेक्षया अल्पसाधनेन सिध्यत्फलं महासाधनेन सिध्यतीत्युक्तौ । प्रकृते अल्पया सगुणविद्यया साध्यमेकत्वादिभवनं महत्या निर्गुणभूमविद्यया भवतीत्युक्तौ महत्या निर्गुणविद्याया निन्दैव स्याद् इति ।
ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ (४.४.१५)
अस्य सूत्रस्य ‘भावं जैमिनिर्विकल्पामननात् ’ ( ब्र.सू. ४.४.११) इत्यत्र सशरीरत्वं मुक्तस्योक्तम् । तत्र त्रिधाभावादिष्वनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्राणीव सृज्यन्ते, किं वा सात्मकान्यस्मदादिशरीरवदिति भवति वीक्षा । तत्र चात्ममनसोर्भेदानुपपत्तेरेकेन शरीरेण योगाद् इतराणि शरीराणि निरात्मकानीति । एवं प्राप्ते प्रतिपद्यते - प्रदीपवदावेश इति । यथा प्रदीप एकोऽनेकप्रदीपभावमापद्यते विकारशक्तियोगात् । एवमेकोऽपि सन् विद्वानैश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति । कुतः । तथा हि शास्त्रमेकस्यानेकभावम् - स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’ (छां. ७.२६.२) इत्यादि इति यद् व्याख्यानं तद्युक्तमेव । मुक्तानामिच्छया अनेकाप्राकृतदेहग्रहणसम्भवात्, स एकधा भवतीत्यादिश्रुतिसिद्धत्वाच्च ।
यच्चोक्तं पूर्वाधिकरणे स एकधा भवतीति श्रुतिः सगुणमोक्षावस्थायाम् अनेकदेहवत्त्वं प्रतिपादयतीति तन्न युक्तम् । निर्गुणमोक्षः सगुणमोक्ष इति मोक्षद्वैविध्यस्याप्रामाणिकत्वात् । अद्वैतमतरीत्या निर्गुणभूमविद्यासाध्यमोक्षावस्थायामेव बहुभावस्य कथितत्वात् ।
कथं पुनर्मुक्तस्यानेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते? यावता ’ तत्केन कं विजानीयात् । (बृ. ४.५.१५), न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ’ (बृ.४.३.३०) ‘सलिल एको द्रष्टाऽद्वैतो भवति । (बृ. ४.३.३२) इति चैवंजातीयका श्रुतिर्विशेषविज्ञानं वारयतीत्यत उत्तरं पठति ।
ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ (४.४.१६)
स्वाप्ययः सुषुप्तम् ‘स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते’ (छां. ६.८.१) इति श्रुतेः । सम्पत्तिः कैवल्यम्, ‘ब्रह्मैव सन् ब्रह्माप्येति’ (बृ. ४.४.६ ) इति श्रुतेः । तयोरन्यतरामवस्थामपेक्ष्यैतद्विशेषसंज्ञा- भाववचनम् । क्वचित्सुषुप्तावस्थामपेक्ष्योच्यते कचित्कैवल्यावस्थाम् । कथमवगम्यते? यतस्तत्रैवैतदधिकारवशादाविष्कृतम् । एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति’ (बृ.२.४.१४) ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (वृ.२.४.१४) ‘यत्र सुप्तो न कञ्चन कामं कामयते न कश्चन स्वप्नं पश्यति’ (बृ. ४.३.१९) (माण्डू.५) इत्यादिश्रुतिभ्यः सगुणविद्याविपाकावस्थानं त्वेतत्स्वर्गादिवदवस्थान्तरं यत्रैतदैश्वर्यमुपवर्ण्यते तस्माददोष इति वाक्येन मुक्त्यवस्थायां ‘तत् केन कं विजानीयात्’ ‘न तु तद् द्वितीयमस्ति’ ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इत्यादिश्रुतिभिः सर्वविशेषप्रतिषेधात् कथमिच्छया अनेकदेहग्रहणमिति शङ्का । तादृशश्रुतीनां सुषुप्तिमोक्षविषयत्वाद् अनेकदेहादिभोगस्तु सगुणोपासकस्येति भिन्नविषयत्वान्न विरोध इति समाधानं च यदुक्तं तदुभयमपि न युक्तम् ।
’ तत्केन कं विजानीयात्’ (बृ) इति श्रुतिर्मोक्षावस्थायाम् अद्वैत्यभिमतं ज्ञानाद्यभावं निराकृत्य ज्ञानादिसद्भावं व्यवस्थापयतीति तदनन्यत्वाधिकरणशाङ्करभाष्यखण्डनावसरे व्यवस्थापितत्वान् नेयं श्रुतिर्मोक्षे अनेकदेहेच्छाग्रहणादिरूपैश्वर्यस्य विरोधिनीति अनेकदेहग्रहणेच्छाद्यैश्वर्यं सगुणमोक्षावस्थाकालीनम् इति भिन्नविषयत्वेन विरोधपरिहारकरणमयुक्तम् ।
ॐ जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॐ (४.४.१७ )
इति सूत्रस्य ‘ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहमिति संशयः किं तावत्प्राप्तम् ? निरङ्कुशमेवैषामैश्वर्यं भवितुमर्हति ‘आप्नोति स्वाराज्यम् (तै.१.६.२) सर्वेऽस्मै देवा वलिमावहन्ति (तै.१.५.३) तेषां सर्वेषु लोकेषु कामचारो भवति (छां. ७.२५.२.८.१.६) इत्यादिश्रुतिभ्य इति । एवं प्राप्ते पठति जगद्व्यापारवर्जमिति । जगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यदणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमहति, जगद्व्यापारस्तु नित्यसिद्धस्यैवेश्वरस्य । कुतः ? तस्य तत्र प्रकृतत्वादसन्निहितत्वाच्चेतरेषाम् । पर एव हीश्वरो जगद्व्यापारेऽधिकृतस् तमेव प्रकृत्योत्पत्त्याद्युपदेशात्, नित्यशब्दनिबन्धनत्वाच्च । तदन्वेषणविजिज्ञासनपूर्वकं त्वितरेषामणिमाद्यैश्वर्यं श्रूयते । तेनासन्निहितास्ते जगदुव्यापारे । समनस्कत्वादेव चैतेषामनैकमत्ये कस्यचित्स्थित्यभिप्रायः कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित् स्यात् । अथ कस्यचित्सङ्कल्पमन्त्रन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत, ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते इति यद्व्याख्यानं तद्युक्तमेव । परन्तु ‘ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यम्’ इत्यत्र सगुणब्रह्मोपासनाप्रयोज्यं मनसा सह ईश्वरसायुज्यम् उक्तं तदयुक्तम् । सगुण (सर्वज्ञत्वाद्यनन्तकल्याणगुणपूर्ण ) ब्रह्मातिरिक्तस्य ब्रह्मणोऽप्रामाणिकत्वेन शशविषाणायितत्वात् । निर्गुणब्रह्मव्यावृत्त्यर्थं सगुणमिति ब्रह्मणः विशेषणदानस्य अयुक्तत्वात् ।
अस्मिन् सूत्रभाष्ये पूर्वोत्तरसूत्रभाष्येषु द्वैताद्वैतविषयविचारा आगताश्चेद्विचार्यते । पञ्चम्यर्थषष्ठ्यर्थान्वयादिविचारो न क्रियते इत्यवगन्तव्यम् ।
ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ (४.४.१८)
इति सूत्रस्य " अथ यदुक्तम् ’ आप्नोति स्वाराज्यम् (तै.१.६.२) इत्यादि प्रत्यक्षोपदेशान्निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति’ तत्परिहर्तव्यम् अत्रोच्यते- नायं दोषः ; आधिकारिकमण्डलस्थोक्तेः । आधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववास्थितः पर ईश्वरस्तदायत्तैवेयं स्वाराज्यप्राप्तिरुच्यते । यत्कारणमनन्तरम् ’ आप्नोति मनसस्पतिम् ’ (तै.१.६.२) इत्याह । यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरस्तं प्राप्नोतीत्येतदुक्तं भवति । तदनुसारेणैव चानन्तरं वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतीत्याह । एवमन्यत्रापि यथासम्भवं नित्यसिद्धेश्वरायत्तमेवेतरेषामैश्वर्यं योजयितव्यम्” इति यदुव्याख्यानं तदपि समीचीनमेव । जीवस्य मोक्षे श्रुतिसूत्रगीताप्रमाणैर् ईश्वरभेद ईश्वरायत्त - भोगवत्त्वयोः प्रतिपादनात् ।
ॐ विकारावर्ति च तथा हि स्थितिमाह ॐ (४.४.१९)
विकारावर्त्यपि च नित्यमुक्तं परमेश्वरं रूपं ? न केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् । तथा ह्यस्य द्विरूपां स्थितिमाहाम्नाय ः ‘एतावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ (छां.३.१२.६) इत्येवमादिः । न च तन्निर्विकारं रूपमितरालम्बनाः प्राप्नुवन्तीति शक्यं रूपमनवाप्य सगुण एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् । इति वाक्येन परमेश्वररूपं विकारावर्ति (निर्विकारं ) विकारवर्ति (सविकारं ) इति द्विविधम् । ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि’ इति श्रुतिस् तावानस्य महिमेति पूर्ववाक्येन परमात्मनो विकारवर्तिरूपं वक्ति । ततो ज्यायांश्च पुरुष इत्युत्तरवाक्येन परमात्मनो निर्विकाररूपं वक्ति । पादोऽस्य विश्वा भूतानीति पूर्ववाक्येन परमात्मनो विकारवर्तिरूपं वक्ति, त्रिपादस्यामृतं दिवीत्युत्तरवाक्येन परमात्मनो निर्विकाररूपं वक्ति । तथा च यथा एवं द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रह (समस्त) मैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति परमेश्वरस्य रूपद्वयं तत्र तावानस्येति श्रुतेः प्रमाणत्वोक्तिः सम्पूर्णैश्वर्याप्राप्तौ निर्विकारब्रह्मा- प्राप्तिदृष्टान्तकथनं च श्रुतिसूत्रादिविरुद्धम् । तथा हि ब्रह्मणः सविकार- रूपवत्त्वस्य ‘निर्विकारोऽक्षरश्शुद्ध इत्यादि श्रुत्या निषेधात् ।
“तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वाभतानि त्रिपादस्यामृतं दिवि । ॥ ( पुरु.३) इति वाक्यघटकं ‘तावानस्य महिमा’ ‘पादोऽस्य’ इत्येतद्वाक्यद्वयं न ब्रह्मणः सविकारत्वं वक्ति तत्र तद्बोधकपदाभावात् । परमात्मनो निर्विकारत्वेऽपि ‘ततो ज्यायांश्च पुरुष ः ’ ‘त्रिपादस्यामृतं दिवि’ इति वाक्यद्वयं न परमात्मनो निर्विकारत्वं बोधयति तत्र तद्बोधकपदाभावात् । प्रत्युत अद्वैतोक्तरीत्या एकपादरूपस्य सविकारत्वोक्तौ त्रिपाद्रूपस्य तदपेक्षया अत्यन्तं विकारित्वस्यैव प्राप्तेः । एकमन्त्रे प्रथमतृतीयपादौ सविकारत्वबोधको द्वितीयचतुर्थपादौ निर्विकारत्व- बोधकावित्यस्य ज्ञापकाभावेनायोगाच्च ।
सावग्रहैश्वर्यस्य निरवग्रहैश्वर्यस्य तद्विशिष्टरूपस्य च मिथ्यात्वेन=नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वेन (असत्त्वेन) सावग्रहैश्वर्यप्राप्तेर् निरवग्रहैश्वर्यप्राप्तेश् चासम्भवेन निरवग्रहैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्ते इत्युक्तेः शशविषाणमप्राप्य नरविषाण एवावतिष्ठन्ते’ इत्युक्तिवद् व्याहतत्वात् । तस्मान् निरवग्रहैश्वर्यमप्राप्य सावग्रहैश्वर्यप्राप्तौ दृष्टान्तकथनमयुक्तम् । ‘विकारावर्ति च तथा हि स्थितिमाह’ इति सूत्रे एतदर्थबोधकपदानामभावात् । अलमधिकमसम्बद्धनिराकरणेन ।
ॐ दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ (४.४.२०)
इति सूत्रस्य " दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिषः श्रुतिस्मृती । “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः " ( कठ.५.१५. श्वे. ६.१४ मुण्ड. २.२.१० ) इति न तद्भासयते सूर्यो न शशाङ्को न पावकः’ (गी. १५.६) इति च तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसिद्धमित्यभ्रिपायः” इति यद् व्याख्यानं तदप्ययुक्तम् । सूत्रे तदर्थबोधकपदाभावात् । न तत्रेति श्रुतिस् तत्र=परमात्मविषये सूर्यो न भाति न प्रकाशते । चन्द्रतारकं न प्रकाशते । इमा विद्युतः न प्रकाशन्ते अयमग्निः कुतो भाति ? न कुतोऽपीति । यथा दीपस्य अतिप्रकाशयुक्तसूर्यविषये न भासकत्वम् अल्पप्रकाशत्वात् तथा सूर्यादयः परमात्मप्रकाशापेक्षया अत्यन्ताल्पप्रकाशत्त्वेन परमात्मविषये न प्रकाशं कुर्वन्ति इत्यर्थकत्वेन परमात्मनो निर्विकाररूपसद्भावे न प्रमाणं भवितुमर्हति । एवं श्रुतिसमानार्थका गीताऽपि परमात्मनः विकारावर्तिरूपे (निर्विकारे रूपे) न प्रमाणं भवितुमर्हतीति ।
ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ (४.४.२१)
इति सूत्रस्य " इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यं यस्माद्भोग- मात्रमेवैषामनादिसिद्धेनेश्वरेण समानमिति श्रूयते तमाहापो वै खलु मीयन्ते लोकोऽसौ इति स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति’ तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ.१.५.२३) इत्यादि भेदव्यपदेशलिङ्गेभ्यः” इति व्याख्यानमप्ययुक्तम् । भाष्योदाहृतासु श्रुतिषु भोगमात्रमेवैषामनादिसिद्धेनेश्वरेण समानमिति एवकारो न श्रूयत इति न तेन विकारालम्बनानां निरङ्कुशमैश्वर्यं जगत्सर्जनादिजगद्व्यापारः नास्तीति वक्तुमशक्यत्वाद् इदं सूत्रं तदुदाहृताश्च श्रुतयः जगद्व्यापाराभावे न प्रमाणं भवितुमर्हन्ति । द्वैतिनोऽपि मुक्तस्य जगद्व्यापारः सर्जनादयः न सन्तीति कथयन्ति परम् अद्वैतमते निर्गुणब्रह्मातिरिक्तस्य सर्वस्य जगद्व्यापारादेः ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्नवै मुक्तः’ इत्यादिना अद्वैतिकृतग्रन्थैः शशविषाणवदसत्त्वाङ्गीकारेण सगुणं ब्रह्म नास्ति, तस्य जगज्जन्मादि- कर्तृत्वरूपाद्यैश्वर्यं नास्ति, सगुणज्ञानं नास्ति, सगुणमोक्षो नास्ति, तत्प्राप्तिर् नास्ति । कस्यचिदप्यैश्वर्यस्य प्राप्त्यभावात् समग्रैश्वर्यप्राप्तिशङ्का तन्निराकरणं चायुक्तम् ।
ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ (४.४.२२)
पूर्वं परमेश्वरं प्राप्तानामपि मुक्तानां तस्माद्वे युक्ती निरूपिते, जगदुद्व्यापारराहित्यं भोगमात्रसाम्यं चेति । तथा सति तदैश्वर्ये सातिशयत्वस्य तत एवान्तवत्त्वस्य च प्राप्त्या तेषामावृत्तिः प्रसज्येतेत्यत उत्तरं भगवान् बादरायणः पठतीत्येवं प्रकारेणैतदधिकरणमवतार्य शङ्कराचार्यैः सूत्रं व्याख्यातम् “देवयानेन ब्रह्मलोकं गतानां न चन्द्रलोकादि वा वृत्तिस् तेषां न पुनरावृत्तिः (वृ) ‘न च पुनरावर्तते’ (छां) इत्यादिशब्देभ्य" इति । एवं तद्व्याख्यानेनैवेदमपि सूत्रं भेदपरमेव । चन्द्रलोकगतानामावृत्तिर्न पुनर्ब्रह्मलोकगतानामिति वर्णनेन लोकानां तद्गतानां च परस्परं भेदः,एवमितरदेवता ‘प्राप्तावविद्यमानस्यानावृत्तिलक्षणातिशयस्य परमेश्वरप्राप्तौ वर्णनेनेतरदेवताभ्यः परमेश्वरस्य भेद इत्येवं जडजीवेश्वेराणां भेदस्य स्फुटमवगमात् ।
यत्तु पुनरत्रोक्तं नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिरिति श्रुतिसूत्रेषु तदवर्णनमिति तदयुक्तम् । श्रुतिसूत्रेष्ववर्णनेनैव निर्गुण- परायणानामनावृत्तेरप्रामाणिकत्वात् । विना प्रमाणैरपि तत्सिद्धौ वन्ध्यासुतप्राप्तिरपि मुक्तिरिति कुतो न सिध्यति । नित्यसिद्धत्वे तस्याः शास्त्रफलत्वानुपपत्तेश्च । यदि पुनः सगुणप्राप्तेरनावृत्तित्वकथनेन निर्गुणप्राप्तेस्तथात्वं कैमुत्येन सिद्ध्यतीत्याशयः सोऽप्यसारः । सगुणाद्भिन्नस्य निर्गुणस्यैवाप्रामाणिकत्वेनाभावात् । विष्णुसहस्रनामसु ‘मुक्तानां परमा गतिः’ इति नाम्नो व्याख्याने शङ्कराचार्यैः ‘प्रकृष्टा गन्तव्या देवता । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते इति भगवद्वचनादिति सगुणस्यैव विष्णोर्गन्तव्येषु प्रकृष्टत्वं गीतासम्मतिप्रदर्शनपूर्वकं समर्थितम् । एवं ‘यत्र हि द्वैतमिव भवति’ इति श्रुतिव्याख्यानावसरे विष्णुप्राप्तिरेव परममोक्ष इत्यङ्गीकृतम् । अन्यथा तत्र जक्षन् क्रीडन्नित्याद्युक्तभोग- वर्णनस्यानुपपत्तिमाशङ्कय तस्यानुवादपरत्वरूपसमाधानोक्तिस्तेषामसङ्गता स्यात् । एवं सगुणप्राप्तेरेव परममुक्तित्वं स्वयं सोपपत्तिकं समर्थ्यात्र निर्गुणप्राप्तेस्तथात्वोक्तिः स्ववचनविरोधादयुक्तैव ।
एवं सगुणशरणानामनावृत्तिरेवैतत्सूत्रे समर्थितेति निरूपयद्भिर् निर्गुणब्रह्मभावरूपमुक्तेर् असूत्रितत्वं तत एव तद्वर्णनपरस्य स्वभाष्यस्योत्सूत्रत्वं च स्वयमेवोररीकृतमिति कृतमेतादृशस्वव्याहतनिर्मूलभाष्यनिरासप्रयासेन ।
तथा च सर्वाण्यपि ब्रह्मसूत्राणि न केवलमस्मद्रीत्या किं नाम पररीत्यापि भेदपराण्येवेति विभावनीयं सुधीभिरिति ।
इति दुर्वादध्वान्तदिवाकर श्रीचन्द्रिकामण्डनादिविद्वन्मान्यनैक प्रौढप्रवन्धप्रणेतृ - सर्वतन्त्रस्वतन्त्र - पदवाक्यप्रमाणपारावारपारीण अभिनवानन्दतीर्थजगद्गुरुश्रीमन्मध्वाचार्यमूलमहासंस्थानश्रीमदुत्तरादिमठाधीश विद्वत्कुलचक्रवर्ति श्री श्रीमत्सत्यध्यानतीर्थमुनिवर्यविरचिते ब्रह्मसूत्राणां भेदैकपरत्वप्रतिपादके ‘“भेदपराण्येव खलु ब्रह्मसूत्राणि” इति नाम्नि प्रबन्धे चतुर्थाध्यायचतुर्थपादः समाप्तः ।
समाप्तोऽयं ग्रन्थः ।
॥ श्री कृष्णार्पणमस्तु ॥