ॐ पुरुषार्थोऽतश्शब्दादिति बादरायणः ॐ
भेदपराण्येव खलु ब्रह्मसूत्राणि
अथ तृतीयाध्यायचतुर्थपादीयशाङ्करभाष्यविचारः
अधिकरणम् १
ॐ पुरुषार्थोऽतश्शब्दादिति बादरायणः ॐ (३.४.१)
इति सूत्रस्य “औपनिषदमात्मज्ञानं कर्माङ्गम्, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति संशये, अतः=अस्माद्वेदान्तविहिताद् आत्मज्ञानात् स्वतन्त्रात् पुरुषार्थः भवति न तु कर्माङ्गतया । कुतः; शब्दात्=‘तरति शोकमात्मवित्’ (छां.७ - १ ३ ) स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मुं.३-२-९) ‘ब्रह्मविदाप्नोति परम् ’ ( तै. २-१-१) ’ आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्यत्स्यते’ (छां.६- १४-२) इति । ‘य आत्मापहतपाप्मा’ (छां.८-७-१) इत्युपक्रम्य ‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति’ (छां. ८- ७-१) इति । ‘आत्मावाऽरे द्रष्टव्यः’ (बृ.४-५-६) इत्युपक्रम्य ‘एतावदरे खल्वमृतत्वम्’ (बृ.४ - ५ - १५ ) इत्येवंजातीयकायाः केवलविद्यायाः पुरुषार्थहेतुत्ववोधकश्रुतेः” इति यद्व्याख्यानं शाङ्करीयं तत्तु अद्वैतिनां प्रतिकूलं, द्वैतिनामनुकूलम् । तथाहि—
१. ’ तरति शोकमात्मवित्’ (छां. ७-१-३) इति श्रुतिर् आत्मविदित्यनेन परमात्मनः ज्ञेयत्वेन जीवस्य ज्ञातृत्वेन जीवपरमात्मनोर्भेदं बोधयति । ज्ञातृज्ञेयभावः जीवपरमात्मनोर्भेदव्यवस्थापक इति श्रीशङ्कराचार्यैरपि स्वीकृतः ।
२. शोकतरणं प्रत्यात्मज्ञानस्य हेतुत्वोक्त्या कार्याव्यवहित-प्राक्क्षणवृत्तित्वरूपं सत्वं, शोकतरणस्य कार्यत्वोक्त्या कारणोत्तरकालवृत्तित्वरूपं सत्त्वं च सिध्यति । तच्च अद्वैत्यभिमतत्रिकालावृत्तित्वरूपमिथ्यात्वस्य विरोधि ।
३. ब्रह्मणः (आत्मनः) ज्ञेयत्वोक्त्या सगुणत्वं च सिध्यति । निर्गुणस्याज्ञेयत्वात् शोकनाशक ज्ञानविषयस्य ब्रह्मणः सगुणत्वं निर्गुणवादिनामनिष्टम् ।
‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मुं.३-२-९) इति श्रुतिरपि परमं ब्रह्म वेदेति ज्ञातृज्ञेयभावबोधनेन, ब्रह्म भवति=ब्रह्म प्राप्नोति इति प्राप्यप्राप्तृभावबोधनेन च जीवब्रह्मणोर्भेदं, ज्ञानप्राप्त्योः कार्यकारणभावोक्त्या तयोः सत्यत्वं च बोधयति ।
न च ब्रह्मैव भवतीति वाक्येन ब्रह्माभेदोक्तेरिदं वाक्यमद्वैतिनामनुकलं द्वैतिनां प्रतिकूलमिति वाच्यम् । ब्रह्म भवतीत्यस्य ब्रह्म प्राप्नोति इत्यर्थकत्वात् । तथाहि ‘परात्परं पुरुषमुपैति दिव्यम्’ (मुं.३-२-८) इति पूर्वमन्त्रोक्तब्रह्मप्राप्तिरूपफलस्य श्रेयसामनेकविघ्नवत्त्वेन विघ्नेन कस्यचिद् ब्रह्मज्ञानिनः ब्रह्मप्राप्तिरूपं फलं न भवतीत्याशङ्कय, ब्रह्मज्ञानी ब्रह्म प्राप्नोत्येव नान्यां गतिं गच्छतीति मुण्डकभाष्ये “ननु श्रेयस्यनेके विघ्नाः प्रसिद्धा अतः क्लेशानामन्यतमेनान्येन वा देवादिना च विघ्नितो ब्रह्मविदपि अन्यां गतिं मृतो गच्छति न ब्रह्मैव । न विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वाद् देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुं” इत्यादि वाक्यैश्शङ्कराचार्यैरेव ब्रह्मैव भवतीत्यस्य ब्रह्म प्राप्तोत्येवेत्यर्थकताया उक्तत्वेन ब्रह्मैव भवतीति वाक्यं प्राप्यप्राप्तृभावेन जीवपरमात्मनोर्भेद- बोधकमेवेति ।
‘ब्रह्मविदाप्नोति परं’ (तै. २-१-१) इति वाक्यमपि ज्ञातृज्ञेयभावेन प्राप्यप्राप्तृभावेन च जीवपरमात्मनोर्भेदमेव बोधयति ।
‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ- संपत्स्यते’ (छां.६-१४-२)इत्येतद्वाक्यमपि, ‘पुरुषो वेद’ इति ज्ञातृज्ञेयभावेन, अथ संपत्स्यते’ इति प्राप्यप्राप्तभावेन जीवपरमात्मनोर्भेदं, कार्यकारणभावेन ज्ञानस्य ब्रह्मप्राप्तेश्च सत्यत्वं यावन्न विमोक्ष्ये इति ब्रह्मज्ञानानन्तरमणि प्रारब्धकर्मणः सत्वोक्त्या सत्यत्वं (अज्ञानकल्पितत्वाभावं) च बोधयति ।
‘सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति’ (छां.८-७-१) इति श्रुतिरपि आत्मानम् अन्विष्य विजानाति इति ज्ञातृज्ञेयभावोक्त्या भेदम् । सर्वलोकावाप्तेः सर्वकामावाप्तेर् ज्ञानफलत्वोक्त्या च लोकानां कामानां सत्वं ज्ञानस्य कारणत्वोक्त्या च सत्वं ज्ञानानन्तरं लोकानां कामानां च सत्वोक्त्या अज्ञान- कल्पितत्वरूपमिथ्यात्वाभावं च गमयतीति ।
‘आत्मा वाऽरे द्रष्टव्यः’ (बृ. ४-५-६ ) इति श्रुतिरपि आत्मनो दर्शनकर्मत्वं जीवस्य दर्शनकर्तृत्वं वदन्ती जीवपरमात्मनोर्भेदमेवावगमयति इति द्वैतिनामनुकूलम् । नात्र श्रुतौ सूत्रे वा अभेदवाचकं वा ज्ञापकं वा पदमस्ति इत्यद्वैतिनां प्रतिकूलमेवेति ।
ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ (३.४.२)
इत्यारभ्य ‘नियमाच्चे’ति सप्तमसूत्रपर्यन्तं षट्सूत्राणि पूर्वपक्षसूत्रतया व्याख्यातानीति न किञ्चिदर्थसाधकानि न वा कस्यचिदर्थस्य बाधकानीति नात्र विशेषविचारस्यावसरः । तथापि किंचिद्विचार्यते ।
यथाऽन्येषु द्रव्यसंस्कारकर्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्यादिफलश्रुतिरर्थवादस् तथा आत्मज्ञानस्य कर्माङ्गत्वेऽपि ‘तरति शोकमात्मविदि’ति फलश्रुतिरर्थवाद इति आत्मज्ञानस्य कर्माङ्गत्वमिति जैमिनिर्मन्यते इति ।
ॐ आचारदर्शनात् ॐ (३.४.३)
ज्ञानिनामपि कर्माचारदर्शनाज् ज्ञानस्य कर्माङ्गत्वमेव । केवलाच्चज्ज्ञाना- त्पुरुषार्थसिद्धिः स्यात् । किमर्थमनेकायाससमन्वितानि कर्माणि कुर्युः ? ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायाद् आत्मज्ञानं कर्माङ्गमिति ।
ॐ तच्छ्रुतेः ॐ (३.४.४)
“यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ ( छां. १-१-१०) इति च कर्मशेषत्व श्रवणाद्विद्याया न केवलायाः पुरुषार्थहेतुत्वम्” इति ।
ॐ समन्वारम्भणात् ॐ (३.४.५)
“तं विद्याकर्मणी समन्वारभेते’ (बृ. ४-४-२) इति च विद्याकर्मणोः फलारम्भे सहकारित्वदर्शनान्न स्वातन्त्र्यं विद्यायाः " इति ।
ॐ तद्वतो विधानात् ॐ (३.४.६)
“आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः ’ (छां. ८-१५- १ ) इति चैवजातीयका श्रुतिः समस्तवेदार्थज्ञानवतः कर्माधिकारं दर्शयति । तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम्” इति ।
ॐ नियमाच्च ॐ (३.४.७)
“कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।’ (ई. २) इति, तथा ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा’ इत्येवंजातीयकान्नियमादपि कर्मशेषत्वमेव विद्याया” इति षड्भिः सूत्रैर् जैमिनिमतावष्टम्भेन पूर्वपक्षे, तन्निरासार्थं प्रवृत्ततया अवतारितस्य ।
ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ (३.४.८)
इति सिद्धान्तसूत्रस्य ‘“यदुक्तम्– ‘शेषत्वात्पुरुषार्थवादः’ ( ब्र.सू. ३-४-२ ) इति, तनोपपद्यते, कस्मात्, अधिकोपदेशात् । यदि संसार्येवात्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषूपदिष्टस्स्यात्ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् । अधिक (भिन्न) स्तावच्छरीरादात्मनोऽसंसारीश्वरः कर्तृत्वादिसंसारिधर्म रहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु । न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्युच्छिनत्तीति वक्ष्यति ‘उपमर्दं च’ (ब्र.सू.३-४-१६) इत्यत्र । तस्मात् ‘पुरुषार्थोऽतरशब्दात् ’ (ब्र.सू.३-४-१) इति यन्मतं भगवतो वादरायणस्य तत्तथैव तिष्ठति, न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते । तथाहि— तमधिकं (भिन्नं) शारीरादीश्वरमात्मानं दर्शयन्ति श्रुतयः - ‘यः सर्वज्ञः सर्ववित्’ (मुं.१- १-९) ‘भीषाऽस्माद्वातः पवते’ (तै.२-८-१) ‘महद्भयं वज्रमुद्यतं’ (कठ.६- २) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. ३-८-९) ‘तदैक्षत बहुस्यां प्रजायेयेति, ‘तत्तेजोऽसृजत’ इत्येवमाद्याः " इति यद्व्याख्यानं तद्युक्तमेव । तथा हि शारीरो जीवः कर्तृत्वभोक्तृत्वशरीरभिन्नत्वमात्रेण वेदान्तेषूपदिष्टः स्यात्तदा आत्मज्ञानस्य कर्माङ्गत्वप्राप्त्या फलश्रुतेरर्थवादत्वं स्यात् । न हि तथा उच्यते किन्तु शारीराज् जीवाद् भिन्नो ऽसंसारी ईश्वरः कर्तृत्वादिधर्मरहितो ऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु । नैतादृशमीश्वरज्ञानं कर्माङ्गं भवति प्रत्युत कर्म उच्छिनत्ति इति आत्मज्ञानादेव पुरुषार्थो भवतीति वादरायणस्य मतमेव समीचीनम् । न आत्मज्ञानस्य कर्माङ्गत्वम् । यतः ‘यः सर्वज्ञः सर्ववित्’ (मुं.१-१- ९) ‘भीषाऽस्माद्वातः पवते’ ( तै. २ -८-१) ‘महद्भयं वज्रमुद्यतं’ (कठ. ६- २) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ.३-८-९) ‘तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत’ (छां.६-२-३) इत्येवमाद्याभिः श्रुतिभिर्जीवपरमात्मनोर्भेदकथनात् । इति यत्, “यस्य महतो भूतस्य निश्वसितमेतद्यद्दृग्वेदः” (बृ. २-४- १०) ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ (बृ.३-५-१) परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छां.८-१२-३) इत्येवमादिभिर्वाक्यशेषैर् अधिकोपाधिविवक्षायां सत्यां, ‘आत्मनस्तु कामाय सर्वं प्रियं भवति आत्मा वाऽरे द्रष्टव्यः’ (बृ.२-४-५ ) इति यः प्राणेन प्राणिति स ते आत्मा सर्वान्तरः’ (बृ.१-४-१) इत्येवमादिना यत् प्रियादिसंसूचितस्य संसारिण एवात्मनो वेद्यतया अनुकर्षणं तदत्यन्ताभेदाभिप्रायम्” इति वाक्येन उत्तरवाक्यशेषे भेदविवक्षायां सत्यामेव पूर्ववाक्यैर् आत्मा वाऽरे द्रष्टव्य इत्यादिपूर्ववाक्यैर् अत्यन्ताभेदविवक्षेति शाङ्करकथनं तदत्यन्तमयुक्तम् । उत्तरवाक्ये भेदप्रतिपादनं पूर्ववाक्ये अभेदप्रतिपादनमिति स्वप्रतिपाद्यार्थ - विरुद्धार्थकत्वकथनस्य प्रमाणभूतायाः श्रुतेरयोगात् । न हि श्रुतिर्व्याहतभाषिणीति वैदिकैर्वक्तुं शक्यते । आत्मनस्तु कामाय सर्वं प्रियं भवति ….आत्मा वाऽरे दृष्टव्यः’ इत्यादिश्रुतेर्जीवपरमात्मनोरभेदप्रतिपादकत्वाभावाच्च ।
किं च “परमेश्वरमेव शारीरस्य पारमार्थिकं स्वरूपम् उपाधिकृतं शारीरत्वं ‘तत्त्वमसि’ नान्यदतोऽस्तिद्रष्ट्र’ (बृ. ३-८-११ ) इत्यादिश्रुतिभ्यः सर्वं चैतद्विस्तरेणास्माभिः पुरस्तात्तत्र तत्र वर्णितम्’ इति वाक्येन परमात्मा एक एव तस्य जीवत्वमुपाधिकल्पितमिति श्रुतिभ्यः पूर्वमेव वर्णितमिति यदुक्तं तद् अस्माभिरपि जीवः परमेश्वराद्भिन्नः, न हीश्वरस्य कदापि जीवभावः जीवस्य वा ब्रह्मभावः प्रमाणाभावात् । तत्त्वमस्यादिवाक्यानि जीवब्रह्मणोरभेदं न वर्णयन्तीति पूर्वमेव तत्र तत्र प्रदर्शितम् । तत एव विज्ञेयम् ।
‘नान्यदतोऽस्ति द्रष्टृ’ इति वाक्यं शासकाक्षरस्य प्रधानत्वशङ्कायां साङ्ख्येन कृतायां शासकमक्षरं द्रष्टृ, प्रधानं न द्रष्टृ इति शासकाक्षरस्य प्रधानत्वनिरासकमिदं वाक्यम् इति शङ्करेणैव उपनिषद्भाष्ये व्याख्यातमिति तद्विरुद्धार्थविषये अत्र एतच्छ्रुतेरुदाहरणस्यायुक्तत्वादिति ।
ॐ तुल्यं तु दर्शनम् ॐ (३.४.९)
यत्तूक्तमाचारदर्शनात्कर्मशेषो विद्येति- तुल्यमाचारदर्शनमकर्म शेषत्वेऽपि विद्याया इति ।
ॐ असार्वत्रिकी ॐ (३.४.१०)
‘यदेव विद्यया करोति’ (छां. १-१-१०) इत्येषा श्रुतिर्न सर्वविद्याविषया । प्रकृतविद्याभिसम्बन्धात् । प्रकृता चोद्गीथविद्या ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छां. १- १ - १ ) इत्यत्र ।
ॐ विभागश्शतवत् ॐ (३.४.११)
यदप्युक्तम्–‘तं विद्याकर्मणी समन्वारभेते’ (छां.४-४-२) इत्येतत्समन्वारम्भवचनमस्वातन्त्र्ये विद्याया लिङ्गमिति, तत्प्रत्युच्यते । यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वद् विभागः=विद्या अन्यं पुरुषमन्वारभते अनुसृत्य गच्छति, कर्म अन्यं पुरुषमन्वारभते इति – विद्याया न स्वातन्त्र्यमिति निषेधस्त्व युक्त इति ।
ॐ अध्ययनमात्रवतः ॐ (३.४.१२)
‘आचार्यकुलाद्वेदमधीत्य’ (छां. ८-१५-१) इत्यत्राध्ययनमात्रस्य श्रवणात् तन्मात्रवतः (अध्ययनप्रभवकर्मज्ञानवतः) कर्मविधानं न तु औपनिषदात्मज्ञानवतः कर्मविधानं ब्रूम इति-
ॐ नाविशेषात् ॐ (३.४.१३)
‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (ईशा. २) इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति’ इति न ब्रह्मज्ञानिनः कर्मनियम इति–
इत्येवं तुल्यं तु दर्शनमित्यादिपञ्चसूत्राणि शङ्करव्याख्यानरीत्या ज्ञानिनामपि कर्मकरणाद्युक्त्या कर्मादीनां सत्यत्वं (अज्ञानाकल्पितत्त्वं) प्रतिपादयन्तीति अद्वैतिनां प्रतिकूलानि, द्वैतिनामनुकूलान्येवेति ।
ॐ स्तुतयेऽनुमतिर्वा ॐ (३.४.१४)
यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति सम्बध्येत, तथापि विद्यास्तुतये कर्मानुष्ठानमेतद्रष्टव्यम्, ‘न कर्म लिप्यते नरे’ (ईशा. २) इति हि वक्ष्यति । एतदुक्तं भवति यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति व्याख्यानमपि विद्यास्तुतये आत्मज्ञानानन्तरमपि कर्मकरणाद्युक्त्या कर्मादीनां सत्यत्वं (अज्ञानाकल्पितत्वं) बोधयति ।
ॐ कामकारेण चैके ॐ (३.४.१५)
इति सूत्रस्य ‘एतद्धस्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. ४ - ४ - २२ ) इति श्रुत्या विद्यावतां प्रजादिषु प्रयोजनाभावकथनेन विद्यायाः स्वतन्त्रफलत्वं न कर्माङ्गत्वमिति व्याख्यानमपि विद्याया फलस्य च कार्यकारणभावोक्त्या सत्वसाधकमेवेति ।
ॐ उपमर्दं च ॐ (३.४.१६)
" अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामर्थ्यात्स्वरूपोपमर्दमामनन्ति – ‘यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्’ (बृ.२-४-१४) इत्यादिना । वेदान्तोदितात्मज्ञानपूर्विका तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत । तस्मादपि स्वातन्त्र्यं विद्यायाः” इत्येतत्सूत्रव्याख्यानमयुक्तम् । ‘विश्वं सत्वं’ इति श्रुतिव्याख्याने सत्यमिति पदस्य अनारोपितम् इत्यर्थस्य वेदभाष्यकर्त्रा विद्यारण्येन कृतत्वात् । अज्ञानकल्पितत्वस्यासम्भावाच्च प्रपञ्चस्याविद्याकृतत्वाभावेन ज्ञानेन अद्वैत्यभिमतनिवृत्तिरूपोपमर्दाभावात् । ‘यत्र वा अस्य सर्वमात्मैवाभूत्’ इति श्रुतिर्न जगतो ऽविद्याकल्पितत्वं बोधयति, प्रत्युत यत्र = मोक्षावस्थायां सर्वमात्मैवाभूद् आत्मातिरिक्तं किमपि न स्यात्, तदा केनेन्द्रियेण कं पश्येदित्यादिना मोक्षे ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’ इत्यादिश्रुतिसिद्धानां जक्षणक्रीडनरमणादीनाम् अभावप्रसङ्गमापाद्य मोक्षे जक्षणक्रीडनरमणाभावस्त्व- निष्टस्तस्मान् मोक्षे सर्वम् आत्मस्वरूपं न भवति इति तर्कप्रदर्शनद्वारा पदार्थानां सत्वमेव गमयतीति नानया श्रुत्या सर्वस्य स्वरूपनाशो वक्तव्या इति । उपमर्दशब्दस्य स्वरूपनाशार्थकत्वाभावाच्च ।
ॐ ऊर्ध्वरेतस्तु च शब्दे हि ॐ (३.४.१७)
ऊर्ध्वरेतस्तु चाश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते कर्माभावाद् इति यत् कर्माभाववचनं तदयुक्तम् ।तेषामग्निहोत्रादिकर्माभावेऽपि इतरकर्मणां प्रवचनादिकर्मणां सत्त्वात् सन्यासिभिः शङ्कराचार्याद्यैः प्रवचनग्रन्थकरणादिरूपकर्मणः कृतत्वादिति ।
अधिकरणम् २
ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ (३.४.१८)
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ (३.४.१९)
ॐ विधिर्वा धारणवत् ॐ (३.४.२० )
इत्येतैस्त्रिभिः सूत्रैर् ऊर्ध्वरेता अस्ति न वेति सन्देहे विधानाभावान् नास्तीति पूर्वपक्षे अस्तीति सिद्धान्तः कृतः-अत्र द्वैताद्वैतसम्बन्धिविशेष विचाराभावान् न युक्तायुक्तचिन्ता क्रियते । अत्रापि आश्रमादीनां तद्विहितकर्मणां सत्त्वोक्त्या अद्वैतिनां प्रतिकूलमेवेदमधिकरणम् ।
‘अथ परिव्राट् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति’ (जावा. ५) इति श्रुतिगतस्य ब्रह्मभूयाय इति पदस्य ब्रह्मसाक्षात्काराय इत्यर्थस्य रत्नप्रभान्यायनिर्णयव्याख्यानयोः कृतत्वेन ‘ब्रह्म भूयाय कल्पते’ ( गी. १८/५३ ) इत्यादिस्थले ब्रह्मभूयाय =ब्रह्मत्वाय कल्पते=समर्थो भवति इत्युक्तत्वेन जीवस्य ब्रह्मत्वं सिद्धं भवतीति निरस्तम् । ब्रह्मभूयपदस्य ब्रह्मसाक्षात्कारार्थकत्वेन ब्रह्मसाक्षात्काराय भवति इति ज्ञातृज्ञेयभावेन भेदस्यैव सिद्धेः ।
अधिकरणम् ३
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ (३.४.२१)
ॐ भावशब्दाच्च ॐ (३.४.२२)
इति सूत्रद्वयात्मकमधिकरणं ’ स एष रसानां रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः’ (छां.१-१-३) इत्यादिश्रुतयः किमुद्गीथादेः स्तुत्यर्था आहोस्विदुपासनाविध्यर्था इति संशये स्तुत्यर्था इति पूर्वपक्षे विध्यर्था इति सिद्धान्तः कृत इति व्याख्यातं शाङ्कराचार्यैर् इति इदमधिकरणं पूर्वाधिकरणानीव उद्गीथादीनां सत्यत्वं ज्ञापयति इत्यद्वैतिनां प्रतिकूलमेव ।
अधिकरणम् ४
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ (३.४.२३)
ॐ तथा चैकवाक्यतोपबन्धात् ॐ (३.४.२४)
इति सूत्रद्वयात्मकमधिकरणम् “अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च (बृ. ४-५- १) ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ (कौषी.३-१) ‘जानश्रुतिर्हपौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’ (छां. ४-१-१) इत्येवमादिषु वेदान्तपठितान्याख्यानानि पारिप्लवप्रयोगार्थानि आहोस्वित् सन्निहित- विद्याप्रतिपत्त्यर्थानि इति संशये आख्यानश्रुतयः पारिप्लवार्था इति पूर्वपक्षे सन्निहितविद्याप्रतिपत्त्यर्था इति प्रतिपादयति" इति व्याख्यानमपि पदार्थानां सत्वव्यवस्थापकतया पूर्ववदेवाद्वैतिनां प्रतिकूलमिति ।
अधिकरणम् ५
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ (३.४.२५)
इति सूत्रस्य “अत एव च विद्यायाः पुरुषार्थहेतुत्वाद् अग्नीन्धनादीनि आश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानि " इति शङ्कराचार्यैर्व्याख्यातत्वेन पुरुषार्थानां ज्ञानस्य च कार्यकारणभावोक्त्यादिना ब्रह्मातिरिक्तस्य सत्यत्वं सिध्यतीति अद्वैतिनां प्रतिकूलमेव ।
अधिकरणम् ६
ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ (३.४.२६)
इतीदं सूत्रं “विद्याया अत्यन्तम् अग्निहोत्रादिकर्मानपेक्षा उत काचिदपेक्षा इति संशये यथा स्वार्थसिद्धौ कर्मानपेक्षा एवमत्यन्तानपेक्षेति प्राप्ते, विद्या सर्वाण्याश्रमकर्माण्यपेक्षत एव नात्यन्तमनपेक्षा । न च विद्या कर्माणि अपेक्षते नापेक्षते, स्वोत्पत्तौ अपेक्षते इति अविरोधात् । कुतः यज्ञादि श्रुतेः= ’ तमेतं वेदानुवचनेन ब्राह्मणा विवदिषन्ति यज्ञेन दानेन तपसानाशकेन’ (वृ. ४-४-२२) इति यज्ञादीनां विद्यासाधनत्व- श्रुतेः । अश्ववत्, यथा अश्वः लाङ्गलाकर्षणे न युज्यते, युज्यते च रथचर्यायामिति व्याख्यातम्-
ॐ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ (३.४.२७)
इतीदमपि सूत्रं विद्योत्पत्तौ शमदमादीनामन्तरङ्गसाधनत्वं यज्ञादीनां बहिरङ्गसाधनत्वमिति व्यवस्थापकमिति व्याख्यातमिति एते द्वे सूत्रे पूर्ववत् शमदमादीनां यज्ञादीनां च कारणत्वं विद्यायाः कार्यत्वमिति कार्यकारण- बोधनद्वारा सत्यत्वबोधके इत्यद्वैतिनां प्रतिकूले एव ।
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ (३.४.२८)
इत्यस्य सूत्रस्य “न ह वा एवंविदि किञ्चनानन्नं भवति (छां.५- २-१) इत्यादिश्रुतौ सर्वप्राणस्यान्नमिति ध्यानं कुर्वतः किश्चन अनन्नं (अभक्ष्यं) न हि भवति, इति किं सर्वान्नभक्षणविधिर् उत स्तुतिरिति संशये सर्वान्नभक्षणविधिरिति पूर्वपक्षे, अत्र विधेरश्रवणाद् अनन्नं (अभक्ष्यं) न हि भवति इत्यर्थवाद एवेति सिद्धान्तः" इति यद् व्याख्यानम् ।
ॐ अबाधाच्च ॐ (३.४.२९)
इति सूत्रस्य ‘“सर्वभक्षणस्य विध्यनङ्गीकारादेव आहारशुद्धौ सत्त्वशुद्धिरित्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितम् भविष्यति" इति च यद् व्याख्यानम् ।
ॐ अपि स्मर्यते ॐ (३.४.३०)
इति सूत्रस्य “सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्” इति स्मर्यते वर्जनमन्नस्य इति सुरापानादिनिषेधकतया यद् व्याख्यानम् ।
ॐ शब्दश्चातोऽकामकारे ॐ (३.४.३१)
इति सूत्रस्य ‘“अकामकारे =यथेष्ट प्रवृत्त्यभावे ( स्वेच्छानुसारेण प्रवृत्तिर्न कार्येत्यस्मिन् विषये शब्दश्च= ‘तस्माद्ब्राह्मणः न सुरां पिवेत्’ इति सुरापाननिषेधकः शब्दश्च वर्तते । अतः किञ्चनानन्नं भवति’ इत्यादयोऽर्थवादा एव न विधय इति च यद्द्व्याख्यानं तत्सर्वं द्वैतिनामनुकूलम् । विधीनां निषेधानां पुण्यपापादीनां सत्त्वव्यवस्थापकत्वात् । सर्वमिथ्यात्ववादिनाम् (सर्वासत्त्ववादिनां ) अद्वैतिनां प्रतिकूलमेवेति ।
अधिकरणम् ८
ॐ विहितत्वाच्चाश्रमकर्मापि ॐ (३.४.३२)
ॐ सहकारित्वेन च ॐ (३.४.३३)
ॐ सर्वथाऽपि त एवोभयलिङ्गात् ॐ (३.४.३४)
ॐ अनभिभवं च दर्शयति ॐ (३.४.३५)
एतान्यपि सूत्राणि, अमुमुक्षोर् आश्रममात्रनिष्टस्य विद्यामकामयमानस्य आश्रमकर्माणि अनुष्ठेयानि, उताहो नेति संशये अननुष्ठेयानीति प्राप्ते आश्रममात्रनिष्ठस्यापि अमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, यावज्जीवमग्निहोत्रं जुहुयादिति विहितत्वादिति शाङ्करव्याख्यानानुसारेण आश्रमकर्मादीनां सत्यत्वं बोधयन्तीति सर्वमिथ्यात्ववादिनाम् अद्वैतिनां प्रतिकूलानि । द्वैतिनामनुकूलानीति ।
अधिकरणम् ९
ॐ अन्तरा चापि तु तद्द्दृष्टेः ॐ (३.४.३६)
इति सूत्रस्य विधुरादीनां द्रव्यादिसम्पद्रहितानां चान्यतमाश्रम प्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति किं वा नास्तीति संशये आश्रमकर्मणां विद्याहेतुत्वावधारणादाश्रमकर्मासम्भवाच्च एतेषां ब्रह्मविद्यायामधिकारो नास्तीति पूर्वपक्षे ।
अन्तरा चापि तु अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । (इति सिद्धान्तः) तद्द्दृष्टेः रैक्कवाचक्नवीप्रभृतीनामेवं भूतानामपि ब्रह्म वित्त्वश्रुत्युपलब्धेर् इति ।
ॐ अपि स्मर्यते ॐ (३.४.३७)
संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यते इतिहासे इति ।
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तं, का नु खलु प्राप्तिरिति साऽभिधीयते ।
ॐ विशेषानुग्रहश्च ॐ (३.४.३८)
तेषामपि च विधुरादीनामविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवास देवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवति । तथा च स्मृतिः ‘“जप्येनैव तु संसिद्धयेद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो तु ब्राह्मण उच्यते” इत्यसम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति । जन्मान्तरानुष्ठितैरपि चाश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः । तथा च स्मृतिः-“अनेकजन्मसंसिद्धस्ततो याति परां गतिं (गी. ६.४५ ) इति जन्मान्तरसंचितानपि संस्कारविशेषाननुग्रहीतृन्विद्यायां दर्शयति, तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते, इति ।
ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ (३.४.३९)
अतस्त्वन्तरालवर्तित्वाद् इतरद् आश्रमवर्तित्वं ज्यायो विद्यासाधनं श्रुतिस्मृतिसंदृष्टत्वात् । श्रुतिलिङ्गात् स्मृतिलिङ्गादिति च, शङ्कराचार्याणां यद्द्व्याख्यानं तेनापि पूर्वोक्तरीत्या वर्णाश्रमाणां वर्णाश्रमधर्माणां धर्मविद्ययोः कार्यकारणभावस्य जन्मान्तरस्य च पारमार्थिकत्वं सिध्यतीति इदमधिकरणम् एतदधिकरणोक्त श्रुतिस्मृत्यादयश्च अद्वैतिनां प्रतिकूलाः, द्वैतिनामनुकूला इति ।
अधिकरणम् १०
ॐ तद्भूतस्य च नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ (३.४.४० )
इति सूत्रं, सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् । तान् आश्रमान्, प्राप्तस्य कथंचित्ततः (आश्रमात् ) प्रच्युतिरस्ति न वेति संशये पूर्वकर्म- स्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् । विशेषाभावादिति, पूर्वपक्षे च तद्भूतस्य प्रतिपन्नोर्ध्वरेतोभावस्य न कथंचिदप्यतद्भावस् ततः प्रच्युतिः स्यान् नियमातद्रूपाभावेभ्यः= अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् (छां.२.२३.१) इति, अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषद् इति, ‘“आचार्येणाभ्यनु ज्ञातश्चतुर्णामेकमाश्रमम् । आविमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि” इत्येवं जातीयकान् नियमाद् अतद्रूपात्=यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत् ’ ( जा. ४) इति चैवमादीन्यारोहरूपाणि वचांसि उपलभ्यन्ते नैवं प्रत्यवरोहरूपाणि इति, (आरोहणतुल्यत्वाभावाद् अवरोहणस्य) अभावात्=एवमवरोहणविषयकशिष्टाचाराभावाद् इति जैमिन्याचार्योऽपि एवं मन्यते इति, यद्व्याख्यानं शङ्करभाष्ये तद् आश्रमाणां तदुक्तधर्माणां सत्यत्व- व्यवस्थापकत्वेन अद्वैतिनाम् अननुगुणं, द्वैतिनाम् अनुगुणमेवेति ।
अधिकरणम् ११
ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ (३.४.४१)
इति सूत्रं, नैष्ठिको ब्रह्मचारी प्रमादाद् अवकीर्येत (व्यभिचरेत्) तस्य “ब्रह्मचार्यवकीर्णी नैर्ऋतं गर्दभमालभेत" इत्येतत्प्रायश्चित्तं स्यादुत नेति संशये तस्य अवकीर्णिनः-नैष्ठिकब्रह्मचारिण आधिकारिकं=अधिकारलक्षणे निर्णीतं प्रायश्चित्तं " अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्” (जै.सू.६.८.२१) इति, तदपि न भवितुमर्हति । पतनानुमानात्= ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुद्धयेत्स आत्महा” इति अप्रतिसमाधेयपतनस्मरणात्, तदयोगात्=छिन्नशिरस इव प्रतिक्रियानुपपत्तेर् उपकुर्वाणस्य तु=उपपातकं कुर्वाणस्य ताद्दृक्पतनस्मरणाभावाद् उपपद्यते तत्प्रायश्चित्तम् इति ।
ॐ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॐ (३.४.४२)
इति सूत्रं, एके आचार्याः, उपपूर्वं=उपपातकमेवेति मन्यन्ते यन्नैष्ठिकस्य गुरुदारादिभ्योऽन्यन्न ब्रह्मचर्यं विशीर्येत न तन्महापातकं भवति, गुरुतल्पादिषु महापातकेष्त्रपरिगणनात् । तस्मादुपकुर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषादवकीर्णित्वाविशेषाच्च । अशनवद् यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्चैवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति तेषां ब्रह्मचार्यवकीर्णीत्येतदविशेषश्रवणं मूलम् । तस्माद्भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे ‘समा विप्रतिपत्तिः स्यात्’ (जै.सू.१.३.८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै.सू.१.३.७) इति यद्व्याचक्रुः शङ्कराचार्यास् तद्व्याख्यानमपि ब्रह्मातिरिक्तजगतः पूर्ववदेव भेदस्य, आश्रमाणां, पापादीनां च सत्यत्वसाधकत्वाद् अद्वैतिनां प्रतिकूलम् । द्वैतिनाम् अनुकूलमेवेति ।
अधिकरणम् १२
ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ (३.४.४३)
इति सूत्रस्य “यद्यूर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकं यदि वोपपातकमुभयथापि शिष्टस्ते वहिष्कर्तव्याः । " आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा” इति " आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्वद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत् । " इति चैवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च । न हि यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः” इति यद्व्याख्यानं तद् द्वैतिनां मतरीत्या युक्तमेव । पापस्य प्रायश्चित्तस्य ग्रहणस्य यज्ञाध्ययनविवाहादीनां सर्वस्य चासत्ववादिनाम् अद्वैतिनां मतरीत्या अयुक्तम् । (अद्वैतिनां प्रतिकूलमेव )
अधिकरणम् १३
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ (३.४.४४ )
इति सूत्रेण, अङ्गेषु उपासनेषु किं तानि यजमानकर्माणि आहोस्विद् ऋत्विक्कर्माणीति संशये, यजमानकर्माणि यजमानस्य फलश्रुतेरिति आत्रेयमतावष्टंभेन पूर्वपक्षे-
ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॐ (३.४.४५)
इति सूत्रेण, ऋत्विक्कर्माण्येतानि स्युर् इति औडुलोमिराचार्यो मन्यते, तस्मै=सांगाय कर्मणे यजमानेन ऋत्विजः परिक्रीतत्वाद् इति ।
ॐ श्रुतेश्च ॐ (३.४.४६)
इति सूत्रेण च “यां वै कांचन यज्ञे ऋत्विज आशिषमाशासते इति यजमानायैव तामाशासत इति होवाचेति । तच्च ऋत्विक्कर्तृकस्य यजमानगामिफलं दर्शयति । तस्मादङ्गोपासनानाम् ऋत्विक्कर्मत्वसिद्धि” रिति यः सिद्धान्तः कृतः शङ्कराचार्यैः, तेन ऋत्विजः यजमानेन भेद उपासनानां फलानां च कार्यकारणभावोक्त्या असतः कार्यकारणभावासम्भवात्, प्रमाणगृहीतानाम् असति वाधके पारमार्थिकत्वावश्यकत्वात् प्रकृते च बाधकाभावात् पारमार्थिकसत्यत्वं च सिध्यति इति शशविषाणादिवद् उत्पत्तिनाशोपासनाफलानाम् असत्वं वदताम् अद्वैतिनां प्रतिकूलमेव ।
यजमानऋत्विग्भेदोपासना फलतत्प्रतिपादनादीनां सूत्रस्य सर्वस्य असत्वे शून्यवादिवत् (अवैदिकत्वप्राप्त्या वैदिका अद्वैतिन इति मत्वा) असम्भाषणीया एवेति वेदार्थभूतब्रह्मसूत्रव्याख्याने अनधिकृता एवेति ।
अधिकरणम् १४
ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ (३.४.४७)
इति सूत्रस्य ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः (बृ. ३.५.१ ) इति बृहदारण्यके उक्ते मौने विधीयते नवेति संशये न विधीयते इति पूर्वपक्षे, सहकार्यन्तरविधिः = विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद् विधिर् आश्रयितव्यो ऽपूर्वत्वात् । पाण्डित्यशब्देन मौनस्यावगतत्वात् कथं विधिरित्याक्षेपे तृतीयं = बाल्यपाण्डित्यापेक्षया तृतीयमिदं ज्ञानातिशयरूपं तद्वतः=ज्ञानवतः संन्यासिनः विधीयते ।
ननु सति विद्यावत्वे प्राप्नोत्येव तत्रातिशयः किं मौनविधानेनेति शङ्कायां पक्षेणेति । यस्मिन् पक्षे भेददर्शनप्राबल्यान प्राप्नोति तस्मिन्नेष विधिरिति विध्यादिवत्= यथा-" दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्ये- वजातीयके विध्यादौ सहकारित्वेनान्यन्वाधानादिकर्माङ्गजातं विधीयते । एवमविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ इति यदुद्व्याख्यानम् ।
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारः ‘“अभिसमावृत्य कुटुम्बे" (छां.८.१५.९) इत्यत्र, तेन ह्युपसंहरंस्तद्विषयमादरं दर्शयतीति शङ्कायां प्रवृत्तमिति अवतारितस्य,
ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ (३.४.४८)
इति सूत्रस्य ‘“गृहिणः=गृहस्थाश्रमिणः कृत्स्नभावात्=बहुलायाससाध्यबह्वाश्रमकर्मणां कर्तव्यतया उपदिष्टत्वाद् उपसंहारः" इति यद्व्याख्यानम् ।
ॐ मौनवदितरेषामप्युपदेशात् ॐ (३.४.४९)
इति सूत्रस्य “यथा मौनं गार्हस्थ्यं चैतावाश्रमौ श्रुतिमन्तौ एवमितरावपि वानप्रस्थगुरुकुलवासौ श्रुतिप्रतिपाद्यौ तयोरप्युपदेशादि’’ति व्याख्यानं च वर्णानां वर्णाश्रमधर्माणां यज्ञादीनाम् इन्द्रियसंयमनादीनां सत्वव्यवस्थापकतया ‘न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यान- योगादयोऽपि । न पुण्यं न पापं ‘न माता पिता वा न देवा न लोका यज्ञा न वेदा न तीर्थं ब्रुवन्ति’ न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः’ इत्यादीनां वर्णवर्णाश्रमादीनां सर्वेषाम् असत्वं वदताम् अद्वैतिनां प्रतिकूलान्येवेति ।
अधिकरणम् १५
ॐ अनाविष्कुर्वन्नन्वयात् ॐ (३.४.५०)
इति सूत्रस्य ‘‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य वाल्येन तिष्ठासेत्” ( ब्र. ३.५.१) इति श्रुतौ अनुष्ठयेतया श्रुतं बाल्यं कामचारवाद भक्षणत्व- तिष्ठन्मूत्रत्वादिवालकर्म वा भावशुद्धिर्दम्भदर्पादिरहितत्वं वा इति संशये, लोके बाल्यशब्दस्य कामचारवादभक्षणत्वादिव्यापारे प्रसिद्धेः कामचारवादत्वादिरूपं बाल्यं विधीयते इति पूर्वपक्षे- अनाविष्कुर्वन्=बालः यथा अप्ररूढेन्द्रियतया न परेषाम् आत्मान- माविष्कर्तुम् ईहते यथा ज्ञान्यपि ज्ञानाध्ययनधार्मिकत्वादिभिर् आत्मानम् अविख्यापयन् दम्भदर्पादिरहितो भवेत्, एवं कृतौ विद्योपकारकत्वेन “बाल्यस्यान्वयात्” (सम्बन्धात्) इति यद्व्याख्यानं तदपि अनेकपदार्थानां सत्वसाधकतया अद्वैतिनां प्रतिकूलमिति ।
अधिकरणम् १६
ॐ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ( ३.४.५१)
इति सूत्रस्य “विद्यासाधनस्य फलीभूता विद्या किमिहैव जन्मनि सिध्यति उत कदाचिदमुत्रापि इति संशये, अस्मिन्नेव जन्मनि विद्या सिध्यतीति पूर्वपक्षे कठश्रुतिस्मृत्युदाहरणेन साधनेन जायमाना विद्या अस्मिन्नेव जन्मनि भवति प्रारब्धकर्मप्रतिबन्धाभावे । प्रारब्धकर्मप्रतिबन्धकसत्वे जन्मान्तरे विद्या सिध्यति " इति यद्व्याख्यानं तत्तु युक्तमेव द्वैतमते । अद्वैतमते ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्याद्यद्वैतिवाक्यैर् उत्पत्त्यादेः सर्वस्यापि असत्वाङ्गीकारावगमात्, विद्योत्पत्तेरेवाभावात् तस्या अस्मिन् जन्मनि उत्पत्तिर्वा जन्मान्तरे उत्पत्तिर्वा इति शङ्कायाः, अस्मिन्नेव जन्मनि उत्पत्तिरिति पूर्वपक्षस्य चानवतारात्, तस्या विद्यायाः प्रारब्धप्रतिबन्धाभावे अस्मिन् जन्मनि उत्पत्तिः, प्रतिबन्धकप्रारब्धकर्मसत्त्वे जन्मान्तरे उत्पत्तिरिति समाधानस्य चायोगात्, उत्पत्त्यादिकथनानुपपत्त्या ज्ञानस्य ज्ञानसाधनस्य च सत्त्वं (कल्पितत्वाभावः ) पारमार्थिकत्वं च सिध्यति इति इदम् अधिकरणम् अद्वैतिनां प्रतिकूलमेव ।
यच्च ‘गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तर सञ्चितात् साधनाज् जन्मान्तरे विद्योत्पत्तिं दर्शयति । न हि गर्भस्थस्यैहिकं किंचित्साधनं सम्भाव्यते, इति वाक्येन पूर्वजन्मकृतेन साधनेन जन्मान्तरे (गर्भस्थित्यवस्थायामेव) ज्ञानं जायते इत्युक्तं तत्सत्यमेव । परन्तु ब्रह्मभावपदस्य ब्रह्मज्ञानार्थकत्वे (ब्रह्मणः भावं ज्ञानम् इत्यर्थकत्वे) गर्भस्थ एव वामदेवः ब्रह्मज्ञानं प्राप्तवानित्यर्थसिध्या जन्मान्तरकृतसाधनेन जन्मान्तरे ज्ञानम् उत्पद्यते इत्यस्मिन् विषये तादृशश्रुतिः प्रमाणं भवितुमर्हति । ब्रह्मभावमित्यस्य ‘“ब्रह्मणो भावः धर्मः ब्रह्मत्वं प्रतिपेदे, (ब्रह्मैवाभूत्) इत्यर्थकत्वे जन्मान्तरकृतज्ञानसाधनस्य जन्मान्तरे ज्ञानजनकत्वम् इत्यस्मिन् विषये अस्या उदाहरणमसङ्गतं भवति । तादृशश्रुतौ वामदेवेन ब्रह्मत्वस्य (ब्रह्माभेदस्य) च अश्रवणात् प्रत्युत जीवब्रह्मणोः प्रेर्यप्रेरकभावेन भेदस्य वामदेवस्य ब्रह्मणा भेदज्ञानवत्वस्यैव श्रवणात् । एतच्छ्रुत्यर्थविचारः “शास्त्रदृष्ट्या तूपदेशो वामदेववत्, (ब्र.सू. १.१.२९) इति सूत्रविचारे कृतो द्रष्टव्यः ।
अधिकरणं १७
ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ (३.४.५२)
इति सूत्रस्य " यथा विद्यालक्षणे फले साधनवीर्य विशेषाद् ऐहिकत्वामुष्मिकत्वलक्षणो विशेष ः एवं मुक्तिलक्षणे फले उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमो ऽस्ति न वेति सन्देहे मुक्तिः सविशेषा फलत्वाद् विद्यावदिति अनुमानेन मुक्तिः सविशेषा इति पूर्वपक्षे, एवं मुक्तिफलानि यमः=न खलु मुक्तिरूपे फले कश्चिदेवंभूतः विशेषप्रतिनियमोऽस्ति, कुतः, तदवस्थावधृतेः । मुक्त्यवस्था हि सर्ववेदान्तेषु एकरूपैवावधार्यते । ब्रह्मैव हि मुक्त्यवस्था । न च ब्रह्मणोऽनेकाकारयोगोऽस्ति । एकलिङ्गत्वावधारणात् । ‘अस्थूलमनणु’ (बृ. ३.८.८ ) (स एष नेति नेत्यात्मा’ (बृ.३.९.२६) ‘यत्र नान्यत्पश्यति’ (छां.७.२४.१) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मुण्ड. २.२.११) ‘इदं सर्वं यदयमात्मा’ (बृ. २४.६) ‘स वा एष महानज आत्माऽजरोऽमृतोऽमरोऽभ्यो ब्रह्म’ (बृ.४.४.२५) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ.४.५.१५) इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात्स्वफल एव विद्यायां कश्चिदतिशयमासंजयेन्न विद्याफले मुक्तौ तद्ध्यसाध्यं, नित्यसिद्ध- स्वभावमेव विद्ययाधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनि कर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावादुत्कृष्टैव हि विद्या भवति, तस्मात्तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन्भवेत् । न तु मुक्तौ कश्चिदतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत्, न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्तीति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छां.३.१४.२) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् । तथा च लिङ्गदर्शनम् - ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायां गुणाभावात्, तथा च स्मृतिः “न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ इति यद्व्याख्यानं तदत्यन्तमप्रामाणिकम्, प्रमाणविरुद्धं च । तथा हि-
तदवस्थावधृतेरित्यस्य मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैवावधार्यते । ब्रह्मैव हि मुक्त्यवस्था, न च ब्रह्मणोऽनेकाकारयोगोस्ति, एकलिङ्गत्वाव- धारणात्, अस्थूलमित्यादिश्रुतिभ्य इति यदुक्तं तत्तावदप्रामाणिकं प्रमाणविरुद्धं च । ब्रह्मैव मुक्त्यवस्था इत्यस्मिन् विषये प्रमाणाभावात्, प्रत्युत “ब्रह्मविदाप्नोति परं” (तै) परात्परं पुरुषमुपैति दिव्यं (आ) परंज्योतिरूपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाणः” इत्यादिभिर् मुक्तस्य ब्रह्मभिन्नत्वग्राहकप्रमाणैर् ब्रह्मणः मुक्त्यवस्थाभिन्नत्वोक्तेः ।
न च अस्थूलमनणु इत्यादिश्रुतिभ्यः ब्रह्मणः मुक्त्यवस्थात्वमुक्तमिति वाच्यम् । तत्र ब्रह्मणः स्वरूपस्य उक्तत्वेन ब्रह्मणः मुक्त्यवस्थात्वानुक्तेः ।
तथा हि-अस्थूलमनणु इति वाक्यं गीताभाष्ये शङ्कराचार्योक्तरीत्या अप्राकृतस्थौल्यादिमत्वं वक्ति न तु सामान्यतः स्थौल्याद्यभावम् । अणीयान् व्रीहेर्वा इत्यादिश्रुतौ अणुत्वस्थूलत्वाद्युक्तेः । तुष्यत्विति न्यायेन स्थौल्यादीनां सामान्यतो ऽभावमेव बोधयतीत्यङ्गीकारेऽपि सर्वज्ञत्व- प्रशासकत्व-सर्वोत्तमत्व-द्रष्ट्रत्वाद्यनेकधर्माणां तदुत्तरवाक्ये कथनेन अनेकाकारत्व (अनेकधर्मवत्व) निषेधासिद्धेः ।
" स एष नेति नेति" इति वाक्यं तु स एषः परमात्मा इति न=पूर्वोक्तमूर्तं न इति, इति न=पूर्वोक्तामूर्तं न इति मूर्तीमूर्तादिवैलक्षण्यं बोधयति न तु ब्रह्मणः मुक्त्यवस्थात्वम् । विशेषविचारः “प्रकृतैतावत्वम्” इति सूत्रविचारे कृतो द्रष्टव्यः । स वा एष महानज इति वाक्यं ब्रह्मणः महत्वाजरत्वामृतत्वाभयत्वादिधर्मान् वदद् ब्रह्मणो ऽनेकाकारत्वमेवावगमयति । यत्र त्वस्येति वाक्यं मोक्षावस्थायामपि अनेकपदार्थानां सत्वं जीवपरमात्मनोर्भेदं कथयति, न तु मुक्त्यवस्थाया ब्रह्मरूपत्वम् ।
“अपि च विद्यासाधनं स्ववीर्यविशेषात्स्वफल एव विद्यायां कश्चिदतिशयमासञ्जयेन्न विद्याफले मुक्तौ तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्ययाधिगम्यत इत्यसकृदवादिष्म" इति वाक्येन मुक्तिरूपफलस्य नित्यसिद्धब्रह्मस्वरूपत्वेन असाध्यत्वं विद्यया अधिगम्यते इति च बहुवारम् उक्तमिति यदुक्तं तद् अस्माभिरपि बहुवारं निराकृतम् । प्रकृतेऽपि किञ्चिन्निराक्रियते । तथा हि ब्रह्मैव मुक्त्यवस्था इत्युक्त्वा तस्य साध्यत्वं नास्ति इति स्वीकारे किमर्थ ज्ञानरूपं साधनम् । ज्ञानमपि ब्रह्मरूपं निर्विषयकम् इति अद्वैतिभिः स्वीकृतत्वेन ब्रह्मरूप- ज्ञानस्यापि नित्यत्वेन अजायमानत्वेन ब्रह्मरूपज्ञानार्थं यत्नोऽपि व्यर्थ एवाद्वैतिनां मते ।
न च अज्ञाननिरासार्थं यत्न इति वाच्यम् । यथा शुक्त्यज्ञानं शुक्तिज्ञानेन निवर्तते तथा ब्रह्माज्ञानमपि ब्रह्मणः ज्ञानेन निवर्तनीयम् । न चास्ति ब्रह्मविषयकं ज्ञानम् । अद्वैतमते ब्रह्मणो ऽज्ञेयत्वाङ्गीकाराद् इत्यादि दोषाः पूर्वोक्ता न विस्मर्तव्या इति ।
यच्चोक्तं ‘तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यते’ इति । तत्र अधिगम्यते इत्यस्य ज्ञायते इत्यर्थो वा प्राप्यते इत्यर्थो वा । नाद्यः ब्रह्मणः ज्ञानाविषयत्वात् । नापि द्वितीयः । अप्राप्तस्य खलु प्राप्तिः । अद्वैतमतरीत्या ब्रह्मस्वरूपस्य सदा विद्यमानत्वेन विद्यया प्राप्यते इत्यस्यायोगात् ।
यत्तु ‘न हि मुक्तिसाधनीभूताया विद्यायाः कर्मणामिव भेदोऽस्तीति विद्याभेदाभावात् तत्फले भेदः सगुणासु विद्यासु ‘मनोमयः प्राणशरीरः ’ इत्याद्यासु गुणावापोद्वापवशाद् भेदोपपत्तौ सत्याम् उपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् । तथा च लिङ्गदर्शनं - ‘तं यथा यथोपास्ते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायां गुणाभावात् । तथा च स्मृतिः -’ न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यतां, इति तदप्ययुक्तम् । तथा हि रूढियोगान्यतरशक्यतावच्छेदकगुण (धर्म) योगे हि मुख्यवृत्या, शक्यसम्बन्धे सति वा शक्यगुणसदृशगुणे वा सति अमुख्यवृत्या पदार्थविषयको बोधो जायते । अद्वैत्यभिमते निर्गुणे ब्रह्मणि मुख्यवृत्यमुख्यवृत्तिभ्यां शब्दप्रवृत्तिप्रयोजकानां धर्माणाम् अभावेन निर्गुणं ब्रह्म शब्दप्रमाणविषयो न भवति । तथैव रूपादिगुणाभावेन ऐन्द्रियको न भवति । निर्धर्मके अनुमानस्याप्यप्रवृत्या अनुमेयोऽपि न भवतीति प्रमाणागम्यतया शशविषाणवद् असत्वेन विषाणं द्विविधं शशविषाणं गोविषाणमितिवद् ब्रह्म द्विविधं निर्गुणं सगुणं चेति द्वैविध्यकल्पनमयुक्तमेव ।
प्रमाणेन सविशेषस्यैव (सगुणस्यैव ) प्रतीतेश्च । विशेषविचारः ‘न स्थानतोऽपि’ (ब्र.सू.३.२.१२) इति सूत्रार्थविचारे कृतो द्रष्टव्यः । तथा सगुणविद्या निर्गुणविद्या इति विभागोऽपि असन् । ‘पृथगात्मानं प्रेरितारं च मत्वा’ इति श्रुत्या भिन्नत्वगुणेन प्रेरकत्वगुणेन च ब्रह्मणः बोधनात् । एवं ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इत्यदि सर्वश्रुतिभिः रूक्मवर्णत्व कर्तृत्व स्वामित्व पूर्णषड्गुणत्व चतुर्मुखकारणत्वादिधर्मवत्वेन ब्रह्मणः बोधनात् ।
‘आकाशस्तल्लिङ्गात्’ ‘सर्वधर्मोपपत्तेः’ इत्याद्यनेकसूत्रैः सगुण ब्रह्मण एव व्यवस्थापनात्, ‘वेदैश्च सर्वेरहमेव वेद्यः वेदान्तकृद्वेदविदेव चाहं " ‘यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः । । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” इत्यादि गीता- वाक्यैरपि गुणविशिष्टब्रह्मण एव प्रतिपादनात् । वेदसूत्र गीतारूपप्रस्थानत्रयरूपप्रमाणजन्या ब्रह्मविद्या गुणविषयैवेति गुणावापोद्वापवशाद् भेदोपपत्तौ सत्यां ‘तं यथायथोपासते तदेव भवति’ इति श्रुत्यनुसारेण उपपद्यते यथास्वं फलभेदनियमः कर्मफलवदिति ।
न च मोक्षस्य ब्रह्मस्वरूपत्वेन तत्र भेदोऽनुपपन्न इति वाच्यम् मोक्षस्य ब्रह्मस्वरूपत्वे प्रमाणाभावात् । ज्ञानसाध्यत्वासम्भवाच्च प्रत्युत मोक्षे जीवब्रह्मणोर्भेदोक्तेः ।
न च मोक्षस्यानन्दानुभवरूपत्वेऽपि मुक्तानन्दस्यैकरूपत्वान् न तत्र तारतम्यं (उत्कर्षनिकर्षात्मकोऽतिशयः) सम्भवतीति वाच्यम् । तैत्तिरीय बृहदारण्यकश्रुत्यादौ मुक्तमनुष्यमारभ्य मुक्तचतुर्मुखपर्यन्तम् आन्दतारतम्यस्य कथनात् ।
न च मुक्तानन्दतारतम्यम्, आनन्दपरिमाणापकर्षोत्कर्षनिमित्तकं किं वा आनन्दगतसंख्यान्यूनाधिकनिमित्तकम् । (एकस्य मुक्तस्य एक आनन्दः, अन्यस्य द्वौ अपरस्य त्रय एवं संख्यान्यूनाधिकनिमित्तकम्) नाद्यः-सर्वेषां जीवानामणुत्वेन जीवस्वरूपभूतानन्दस्यैकस्याणुत्वे अपरस्य महत्त्वमिति परिमाणकृततारतम्यायोगात् । न द्वितीयः । आनन्दस्य जीवस्वरूपत्वेन तत्रदेकजीवस्वरूपभूतानन्दस्य द्वित्वत्रित्वादीनामयोगाद् इति वाच्यम् । यथा एकस्य वज्रस्य अन्यवज्रापेक्षया परिमाणतारतम्या- भावेऽपि प्रकाशस्वरूपत्वेपि एकस्य वज्रस्य प्रकाशः न्यूनो ऽन्यस्य अधिक इति तरतमभावो ऽनुभवसिद्धः यथा च नीरपानजानन्दात् क्षीरपानजानन्दो ऽधिक इति अनुभवसिद्ध तथा एकमुक्तस्वरूपभूतानन्दस्य अन्यमुक्तस्वरूपानन्दाद् अतिशयस्य शास्त्रसिद्धत्वादिति ।
यत्तु “नैवं निर्गुणायां विद्यायां गुणाभावात् तथा च स्मृतिः “न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ इति वाक्येन निर्गुणविद्याया गुणविषयत्वाभावे स्मृत्युदाहरणं तदपि मन्दम् । निर्गुणविद्याया एवाप्रामाणिकत्वात् । स्मृतौ निर्गुणविद्यायास् तस्या गुणविषयकत्वाभावस्य चाश्रवणात् । स्मृत्यर्थस्तु आधिक्यप्रयोजकगुणा (धर्मा) भावे कस्यचित् पुरुषस्य गतिः फलम् अधिका नास्ति । हि प्रसिद्धम् । सति विद्यमाने हि गुणे = आधिक्यप्रयोजके धर्मे फलस्य अतुल्यतां=न्यूनाधिकभावं कथयन्ति इति न्यूनाधिकगुण (धर्म) निमित्तकएव फले न्यूनाधिकभाव इत्येतत् हि =प्रसिद्धमिति ।
रत्नप्रभान्यायनिर्णययोः स्मृतिस्थस्य कस्यचिद् इति पदस्य निर्गुणविद इत्यर्थकरणं न शब्दमर्यादानुसारि, किन्तु स्वाग्रहमूलकमेवेत्युपेक्षणीयम् । निर्गुणवस्तुनो ऽभावात्, निर्गुणज्ञानस्य तज्ज्ञानवतश्च अभावादिति ।
तस्माद् ब्रह्मणः मुक्त्यवस्थारूपत्वाभावाद् अधिकाधिकतरज्ञानानुसारेण मुक्तौ अधिकाधिकतरानन्दानुभवरूपवत्वविशेषः मुक्त्यवस्थायाम् अस्तीति सिद्धम् ।
। इति शाङ्करभाष्यखण्डने तृतीयाध्यायस्य चतुर्थः पादः ।