०४ तृतीयः पादः

ॐ यावदधिकारमवस्थितिराधिकारिकाणाम्’ ॐ

भेदपराण्येव खलु ब्रह्मसूत्राणि तृतीयाध्याये तृतीयपादः

शाङ्करभाष्यीय तृतीयाध्याय तृतीयपादीयाधिकरणेषु (१) जीव-ब्रह्मणोरभेदप्रस्तावो वा, (२) जगतो मिथ्यात्वप्रस्तावोऽपि वा न कृतः ।

यत्र क्वचित् “सगुणं ब्रह्म निर्गुणं ब्रह्म" इति केवलं वाचा व्यवह्रियते, तस्यापि साधनार्थं न प्रयत्यते । यत्र ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ’ ( ब्र.सू. शां. ३ । १ । ११ ) इत्यत्र साधनार्थं प्रयतितं तत्र निर्गुणं ब्रह्म अप्रामाणिकं शशविषाणवन् नास्त्येवेत्युपपादितमस्माभिः ।

सप्तदशे सूत्रे एक (ब्रह्म) विज्ञानेन सर्वविज्ञानं भवतीत्यादिकं च ब्रह्मणः परिणाम्युपादानकारणत्वाभावेन निरस्तम् । ब्रह्मणो जगत्प्रति विवर्तोपादानत्वं (भ्रमाधिष्ठानत्वं ) च अद्वैतमते न सम्भवतीति च व्यवस्थापितम् । सम्भवेऽपि अधिष्ठानज्ञानेन पूर्वं विद्यमानम् अध्यस्तज्ञानं निवृत्तमेव भवतीति अद्वैतमतरीत्या अधिष्ठानब्रह्मज्ञानेन अध्यस्तज्ञानं न सम्भवतीति च अद्वैतवाक्यैरेव व्यवस्थापितम् । आरम्भणशब्दादिभ्यः जगतो यदनृतत्वं कथितं तदपि आरम्भणपदघटितश्रुतौ मिथ्यात्वबोधकपदाभावादिना निराकृतम् ।

२९,३० सूत्रयोर् गतिकारणभूतो ह्यर्थः पर्यङ्कविद्यादिषु सगुणेषूपासनेषु उपलक्ष्यते, तत्र हि पर्यारोहणं पर्यङ्कस्थेन ब्रह्मणा संवदनं विशिष्टगन्धादि - प्राप्तिश्चेत्येवमादिबहुदेशान्तरप्राप्त्यायनत्तं फलं श्रूयते, तत्रार्थवती गतिः-न हि सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति । न ह्यात्मैकत्वदर्शिनां प्राप्तकामानामिहैव दग्धाशेषक्लेशवीजानामारब्धभोगकर्माशयक्षपण-व्यतिरेकेणापेक्षितव्यं किञ्चिदस्ति । तत्रानर्थिकागतिरिति वाक्येन सगुणोपासकानां देवयानेन गमनं न त्वात्मैकत्वदर्शिनामिति यदुक्तं तत्तुच्छम् । ब्रह्म सर्वज्ञत्वाद्यनेकगुणयुक्तमेव न निर्गुणम् । तस्मिन् प्रमाणाभावेन शशविषाणायितत्वात् । निर्गुणात्मैकत्वदर्शनमपि प्रमाणाभावेन न उत्पत्तुमर्हति । प्रत्यक्षं वाऽनुमानं वा शब्दो वा ( आगमो वा ) यं कञ्चिद्धर्मवन्तमेव बोधयति न तु धर्मरहितं वस्तु । प्रत्यक्षं रूपादिमन्तम् अनुमानं व्यापकतावच्छेदकधर्मवन्तं बोधयति । यथा धूमः व्यापकतावच्छेदक-वह्नित्वादिधर्मवन्तमेव वह्निं बोधयति । शब्दोऽपि तथा यथा पाचकशब्दः पाककर्तृत्वादिधर्मवन्तं बोधयति । पाठकशब्दः पाठयितृत्वादिधर्मवन्तं दण्डीत्यादिशब्दः दण्डादिधर्मवन्तं दण्डिनम् इत्यादि । गङ्गायां घोष इत्यादिवाक्यस्थलाक्षणिकगङ्गाशब्दोऽपि शक्यप्रवाहसम्बन्धिनमेव तीरं बोधयति । सिंहो माणवक इत्यादौ गौणसिंहशब्दः सिंहवृत्तिक्रौर्यादि- गुणसदृशगुणवन्तमेव बोधयति । न किमपि प्रमाणं निर्गुणं बोधयितुमलमिति । निर्गुणं ब्रह्म प्रमाणाविषयत्वात् शशविषाणायितमिति सगुणब्रह्मर्निर्गुण-ब्रह्मभेदेन द्वैविध्यकल्पनं निर्गुणब्रह्मात्मैकत्वदर्शिनामित्युक्तिश्चायुक्ता । तत्रापि आत्मैकत्वदर्शिनामित्युक्तिरत्यन्तमयुक्ता तद्ब्राहकप्रमाणाभावात् । न हि ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादि श्रुतिजातमात्मैकत्व-ज्ञानजनकमिति वाच्यम् । शङ्कराचार्याद्यद्वैतिभिरेव तत्त्वमस्यादिवाक्यानां बोधकत्वाभावस्य बोधकत्वाङ्गीकारेऽपि अखण्डार्थबोधकत्वस्य (चिदित्येतावन्मात्रबोधकत्वस्य) अङ्गीकारेण ऐक्यबोधकतानङ्गीकाराद् इति ।

३१. सूत्रव्याख्याने ‘सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां परमात्मविद्यायां….. सगुणास्वपि विद्यासु कस्यचिद्गतिः श्रूयते’ इत्यादिना सगुणविद्या निर्गुणविद्येति विद्याभेदः प्रदर्शितः, स पूर्वोक्तदूषणेन निरस्तः, ब्रह्मद्वैविध्याभावेन विद्याद्वैविध्याभावाद् इति ।

ॐ यावदधिकारमवस्थितिराधिकारिकाणाम्’ ॐ (३.३.३२)

इति सूत्रस्य ‘निर्गुणविद्याया नापवर्गः फलं भवितुमर्हति । श्रुति-स्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते’ इति पूर्वपक्षे-

सिद्धान्तस्तु –“विद्याकर्मस्वनुष्ठानतोषितेश्वरयोदितम् ॥ अधिकारं समाप्यैते प्रविशति परं पदम् ॥” इति ।

" न च विदुषामपान्तरतमः प्रभृतीनां ततद्देहसश्चारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् । हेतुरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपाकरोति प्रतिबन्धविगमे दास्यति” इति यद्भामतीव्याख्यानं तत्तुच्छम् । तथाहि— निर्गुणं ब्रह्म अप्रामाणिकं, निर्गुणविद्याजनकं प्रमाणमपि (प्रत्यक्षमनुमान-मागमरूपं) नास्त्येव । प्रमाणसामान्यस्य धर्मवद्विषयकत्वात् । अद्वैतमते अपवर्गः फलमित्यपि न युज्यते । अद्वैतमते ऽपवर्गस्य ब्रह्मस्वरूपत्वाङ्गीकारेण जीवस्य ब्रह्मस्वरूपताया नित्यसिद्धत्वाङ्गीकारेण फलत्वासम्भवात् । न चापवर्गो ऽविद्यानिवृत्तिस्वरूपः । स च विद्यया जन्य एवेति विद्याफलत्वमविद्यानिवृत्तिरूपमोक्षस्य सम्भवतीति वाच्यम् । अनेक-दोषदुष्टत्वात् । तथाहि समानाधिकरणयोः समानविषयकयोरेव ज्ञानाज्ञानयोर् निवर्त्यनिवर्तकभावदर्शनात् । अद्वैतमते न अज्ञानं ब्रह्मविषयकम् । ब्रह्मणः स्वप्रकाशत्वाङ्गीकारेण तज्ज्ञानप्रतिबन्धस्यासम्भवेन तदावरकतद्विषयकाज्ञानासम्भवात् । अनङ्गीकाराच्च । ब्रह्मणः ज्ञेयत्व- प्रयोजकानां धर्माणां चाभावाद् अज्ञेयत्वेन (ब्रह्मणो ज्ञानविषयत्वाभावेन) ब्रह्मविषयकज्ञानासम्भवेन ज्ञानाज्ञानयोर् ब्रह्मविषयकत्वाभावेन ब्रह्माज्ञाननिवृत्तिर् ब्रह्मज्ञानेन भवति इति वक्तुमशक्यत्वेन ब्रह्मज्ञानेनब्रह्माज्ञानकल्पितबन्धरूपसंसारस्य निवृत्तिरूपमोक्षः सम्भवतीति वक्तुम-शक्यत्वात् ।

“न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्नवै मुक्तः" इत्यादिगौडपादकारिकाशङ्करभाष्यादिवाक्यैर्बन्धाज्ञानादेः शशविषाणवदसत्त्वेन शशविषाणादेरिव तस्य निवृत्तिरूपध्वंसासम्भवाच्च । ‘‘न च महावाक्याज्जायमानं ज्ञानमेव ब्रह्मेत्युक्तम् । तथा सति ज्ञानरूपस्य ब्रह्मण उत्पत्तिः स्वीकार्या स्यादिति वाच्यम् । तज्ज्ञानं नैव जायते । किन्तु तदानीं केवलं तदावरकाज्ञाननिरास एव जायते । तन्मूलक एव तदानीं ज्ञानं जायत इति व्यवहारः" इत्याद्यद्वैत्युक्तरीत्या ब्रह्मज्ञानस्यैव केनाप्यजन्यत्वेन ज्ञानेनाज्ञाननिवृत्तिर्जायते इत्युक्तेरप्ययोगात् ।

किं च अन्धकारप्रकाशयोरिव शुक्तिज्ञानतदज्ञानयोरिव च ब्रह्मज्ञानाज्ञानयोर् विरोधाद् ब्रह्मज्ञाने जाते तत्क्षण एव तद्विरोधिनोऽज्ञानस्य निवृत्त्या अद्वैतमतरीत्या अविद्याकल्पितदेहादेर् विद्योत्पत्त्यनन्तरं स्थित्यसम्भवात् । न च ’ तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छां.६-१४-२ ) इति श्रुत्युक्तप्रकारेण जातमपि मानं प्रारब्धकर्मणा प्रतिबद्धं सद् अज्ञानमनाशयदपि प्रारब्धकर्मावसाने अज्ञानम् अज्ञानकल्पितदेहादिवन्धमपि नाशयतीति विद्योत्पत्त्यनन्तरमपि प्रारब्ध- कर्मसत्ताकाले देहादीनां स्थितिः सम्भवतीति वाच्यम् । अद्वैतमते ब्रह्मातिरिक्तस्य सर्वस्य अज्ञानोपादानकत्वेन विरोधिन्या विद्यया अविद्यानाशे अविद्याकल्पितप्रारब्धकर्मणोऽपि स्थित्यसम्भवात् ।

श्रीशङ्कराचार्यैरेव ‘“उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति । इति यच्छ्रुयते शास्त्रात्तन्निराक्रियतेऽधुना ॥ ( अपरो ९० ) तत्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्यत्वाद्यथा स्वप्नः प्रबोधतः ॥ ९१ ॥

कर्म जन्मान्तरकृतं प्रारब्धमिति कीर्तितम् । तत्तु जन्मान्तराभावात् पुंसो नैवास्ति कर्हिचित् ॥ ९२ ॥ देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७ ॥” इत्यादि श्लोकैः प्रारब्धकर्मप्रतिपादकश्रुतिर् अज्ञानिजनमोहार्था । प्रारब्धं कर्मैव नास्ति । आत्मज्ञानोत्पत्त्यनन्तरं प्रारब्धकर्मसद्भावप्रतिपादनमयुक्तमिति स्पष्टमुक्तत्वेन प्रारब्धकर्मशेषाज् ज्ञानिनामप्यपान्तरतमः प्रभृतीनाम् अविद्यासत्वोक्तेर् अद्वैतमतेऽयुक्तत्वात् ।

यच्चोक्तं ‘“प्रत्यक्षफलत्वाच्चाज्ञानस्य फलविरहाशङ्कानुपपत्तिः…अनुभवारूढन्तु ज्ञानफलम् । ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. ३-४- १) इति श्रुतेः, ‘तत्त्वमसि’ (६-८-७) इति च सिद्धवदुपदेशात् । न हि ‘तत्त्वमसि’ इत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः । ‘तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. १-४ -१०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मादेकान्तिकी विदुषः कैवल्यसिद्धिः” इति तदयुक्तम् । स्वव्याहत्याद्यनेकदोषयुक्तत्वात् । तथाहि— प्रत्यक्षफलत्वाच्च ज्ञानस्येत्यस्य अद्वैतत्वज्ञानेन (साक्षात्कारेण ) जायमानं फलं प्रत्यक्षं= प्रत्यक्षज्ञानविषय इति खल्वर्थः । स च अद्वैतमते न युक्तः । ब्रह्म खल्वद्वैतमते तत्त्वम् । न तस्य साक्षात्कारः (प्रत्यक्षं) अद्वैतिभिः स्वीकृतः । तस्य प्रमाणविषयत्वानङ्गीकारेण तत्साक्षात्कारस्य शशविषाणायितत्वात् । न हि शशविषाणसदृशेन फलम् उत्पद्यते इति च वक्तुं शक्यम् ।

यच्च ‘अनुभवारूढन्तु ज्ञानफलं-यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. ३-४- १) इति श्रुतेः’ इति ज्ञानफलस्यानुभवारूढत्वे श्रुतिप्रदर्शनं, तत्तु साक्षाद् अपरोक्षाद् ब्रह्म इति शब्दश्रवणसञ्जातभ्रममूलं, नहि तस्यां श्रुतौ ज्ञानफलस्य अनुभवारूढत्वं कथ्यते स्वेनैव (शङ्कराचार्यैरेव ) तस्याः श्रुतेर् अन्यथा व्याख्यानात् । तथाहि तद्व्याख्यानम् ‘यद् ब्रह्म साक्षात्=अव्यवहितं केनचिद् द्रष्टुर् अपरोक्षात्=अगौणम्’ इति । तेन व्याख्यानेन हि द्रष्टुः केनचिद् अव्यवहितं ब्रह्म, अव्यवहितत्वं घटादिवन् न गौणं किन्तु ‘अपरोक्षात्’ = अगौणमिति ब्रह्मणो द्रष्टुः सकाशाद् व्यवधानं नास्तीत्येव सिध्यति । न हि ज्ञानफलम् अनुभवारूढमिति । तद्बोधकानां पदानामभावात् । स्वेनैव (शङ्करेणैव) तथा व्याख्यानाकरणाच्च । तथा च ज्ञानफलस्यानुभवारूढत्वे एतच्छ्रुत्युदाहरणं साक्षादित्यादिपदश्रवणजनित-भ्रममूलकं वा अज्ञजनमोहनार्थं वा इत्येतदीश्वर एव जानातु । वयन्तु ज्ञानफलम् अनुभवारूढमित्यत्र इयं श्रुतिः प्रमाणं भवितुं नार्हतीति स्पष्टं वदामः, साधयिष्यामश्च, तद्बोधकपदाभावादिभिरिति अलम् अपहसनीयप्रक्रिया निराकरणार्थकालयापनया ।

‘किं च ‘तत्त्वमसि’ (छां.६-८-७) इति च सिद्धवदुपदेशात् । न हि ‘तत्त्वमसि’ इति वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः, ’ इति वाक्यं तु ‘मम माता वन्ध्या’ इति वाक्यवत् स्वव्याहतं प्रकृतासम्बद्धं च । तथाहि अद्वैतमतरीत्या तत्त्वमसीति वाक्यं बोधकमेव न । तुष्यत्विति न्यायेन बोधकत्वाङ्गीकारेऽपि ‘चित्’ इत्येतन्मात्रबोधकत्वाङ्गीकारेण ज्ञानं वा तत्फलं वा तस्यानुभवारूढत्वं न बोधयतीति ।

तत्त्वमसीतिवाक्येन ज्ञानफलमनुभवारूढम् इति सिध्यतीति शङ्करादिभिरनुक्त्या तथा आपाततोऽपि प्रतीत्यभावेन च ज्ञानस्य फलविरहाशङ्काकर्त्रा तत्त्वमसीत्यस्य वाक्यस्य ‘तत् त्वं मृतो भविष्यसि’ इति परिणामकरणे कारणाभावान् नहि….. परिणेतुं शक्य इति वाक्यं प्रकृतासम्बद्धम् ।

किं च ‘“तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. १ ४ १०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति" इत्युक्तिरप्ययुक्तैव । तस्यां श्रुतौ वामदेवस्य ‘सर्वे देवाः परमात्मनो जाताः । परमात्मा सर्वप्रेरकः । पूर्णः, स च मदीयान्’ गर्भस्थितानरातीन् नाशयामास । अहं भूमिम् आर्याय अददाम्’ इत्यादिज्ञानसद्भावोक्त्या स्वस्माद् देवादिजीवसकाशाच्च परमात्मा भिन्न इति ज्ञानस्यैव सत्त्वावगमात् । न सर्वात्मत्वं (सर्वस्वरूपत्वं) सम्यग्दर्शनफलमित्यस्यासिद्धेः । श्रुत्यर्थ-विशेषविचारस्तु ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र.सू.१-१-३०) इति सूत्रस्य अद्वैत्यभिमतार्थखण्डने कृतो द्रष्टव्यः ।

अधिकरणम् २०

ॐ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ (३.३.३३)

इति सूत्रस्य “वाजसनेयके श्रूयते-‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्व हस्वमदीर्घ मलो हितमस्नेहम्’ (बृ. ३-८-८) इत्यादि । तथाथर्वणे श्रूयते-‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’ (मुं.१-१-५) इत्यादि । तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रह्म श्राव्यते । तत्र च क्वचित् केचिदतिरिक्ता विशेषाः प्रतिषिध्यते । तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिरुत व्यवस्थितेति संशये श्रुतिविभागाद् व्यवस्था प्राप्तावुच्यते । अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् । समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नं प्रत्यभिज्ञायते । तत्र किमित्यन्यत्र कृता बुद्धयोऽन्यत्र नस्युः ? तथा च ‘आनन्दादयः प्रधानस्य’ (ब्र.सू.३-३-११) इत्यत्र व्याख्यातम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतीषेधरूपाणीति विशेषः प्रपञ्चार्थश्चायं चिन्ताभेदः” इति ग्रन्थेन ब्रह्मणः सर्वत्र निर्विशेषत्वमेव प्रतिपाद्यते । इति व्याख्यानमत्यन्तमयुक्तम् । सर्वेषां प्रमाणानां सविशेषविषयकत्वेन निर्विशेषे ( धर्मशून्ये) प्रत्यक्षस्यानुमानस्यागमस्य वा अप्रवृत्तेः । ब्रह्मणि निषेधरूपाणां वा विधिरूपाणां वा सर्वधर्माणां केनापि प्रमाणेन निषेधासम्भवात् । विशेषविचारः ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्रहि’ इत्यादावनेकत्र कृतो द्रष्टव्यः ।

अधिकरणम् २१

ॐ इयदामननात् ॐ (३.३.३४)

इति सूत्रस्य ‘“द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति (मुं. ३-१-१) इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराइच पठन्ति । तथा कठः– ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमेपरार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥ ’ ( कठ. ३ - १ ) इति किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशयः, किं तावत् प्राप्तम् ? विद्यानानात्वमिति । कुतः? विशेषदर्शनात् । द्वा सुपर्णेत्यत्र ह्येकत्र भोक्तृत्वं दृश्यते एकस्य चाभोक्तृत्वं दृश्यते । ऋतं पिवन्तावित्यत्रो भयोरपि भोक्तृत्वमेव दृश्यते । तद्वेद्यरूपं भिद्यमानं विद्या भिंद्यादित्येवं प्राप्ते ब्रवीति विद्यैकत्वमिति । इति शङ्कराचार्याणां यद्व्याख्यानं तत्त्वद्वैतिनां प्रतिकूलम् । ‘द्वा सुपर्णा’ इत्यादि श्रुतीनां जीवब्रह्मणोर्भेदबोधकत्वात् । एतासां श्रुतीनां भेदबोधकतया शङ्कराचार्यैरत्राधिकरणेऽन्यत्र च व्याख्यातत्वात् ।

यच्चोक्तम् ‘तादात्म्यविविक्षयैव जीवोपादानं नार्थान्तरविवक्षया’ इति तदप्ययुक्तम् । जीवपरमात्मवनोरभेदग्राहकप्रमाणाभावात् । शाङ्कराचार्यैरेव ‘सर्वेशत्व जीवेशौ वह्नितुहिनाविव’ इत्यादिना विशिष्टजीव-ब्रह्मणोरभेदस्यनिषेधाच्च ।

अधिकरणम् २२

ॐ अन्तरा भूतग्रामवत्स्वात्मनः ॐ (३.३.३५)

ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॐ (३.३.३६)

इति सूत्रयोः “यत्साक्षादपरोक्षा य आत्मा सर्वान्तरः " (बृ. ३- ४-१, ३-५-१) इत्येवं द्विरुषस्तकहोलप्रश्नयोर्नैरन्तर्येण वाजसनेयिनः समामनन्ति । तत्र विद्यैकत्वं वा ( प्रतिपाद्याभेदो वा ) विद्या नानात्वं वा (प्रतिपाद्यभेदो वा) इति संशये, अभ्यास (पुनः पुनः कथन) सामर्थ्याद् अभ्यासात्कर्मभेद इव विद्याभेद इति प्राप्ते । उभयोरप्यन्तराम्नानाद् वस्तुद्वयस्य अञ्जसा अन्तराम्नानासम्भवाद् उभयोरप्येकविद्यात्वं (एकब्रह्मप्रतिपादकत्वं) भूतग्रामवत्, इति श्रुत्यन्तरं निदर्शयति । यथा ‘एको देवः सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. ६-११) इत्यस्मिन् मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्माऽऽम्नायते । एवमनयोरपि ब्राह्मणयोरित्यर्थः । तस्माद्वेद्यैक्याद्विद्यैकत्वमिति" इति यद्व्याख्यानं तत्त्वद्वैतिनां प्रतिकूलं द्वैतिनामनुकूलम् । ब्रह्मविद्यायाः सर्वान्तरत्वप्राण- चेष्टकत्वाद्यनन्तधर्मप्रतिपादकत्वोक्त्या ब्रह्मणः सर्वान्तरत्वचेष्टकत्वाद्यनन्त- धर्मवत्त्वं सिद्धमिति निर्गुण (निर्धर्मक) ब्रह्मवादिनाम् अनिष्टमिदं वाक्यं, सर्वान्तरत्वचेष्टकत्वाद्यनन्तधर्मवत्त्वसिद्ध्या सर्वान्तरत्वचेष्टकत्व - सर्वज्ञत्वाद्यनन्तधर्मवद्ब्रह्म (सगुणब्रह्म ) वादिनामनुकूलम्, सर्वभूत (जीव ) स्थितत्वोक्त्या जीवब्रह्मणोर्भेदसाधिका चेयं ‘एको देव’ इति श्रुतिः, ‘अन्तरा भूतग्रामवदिति सूत्रं च ।

अधिकरणम् २३

ॐ व्यतिहारो विशिषन्ति हीतरवत् ॐ (३.३.३७)

इति सूत्रस्य " यथा-‘तद्योऽहं सोऽसौ योऽसौ सोहम्’ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति । तथा जाबालाः ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः-किमिह व्यतिहारेणोभयरूपा मतिः कर्तव्योतैकरूपैवेति । एकरूपैवेति तावदाह ह्यत्रात्मन ईश्वरेणैकत्वं मुक्त्वाऽन्यकिञ्चिच् चितयितव्यमस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्चेश्वरात्मत्वमीश्वरस्य संसार्यात्मत्वमिति । तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मादैकरूप्यमेव मतेः । व्यतिहाराम्नायस्त्वेकत्वदृढीकारार्थ इति । एवं प्राप्ते प्रत्याह-व्यतिहारोऽयमाध्यानायाम्नायते । इतरवद् यथेतरे गुणाः सर्वात्मत्वप्रभृतय आध्यानायाम्नायन्ते तद्वत् । तथाहि विशिषन्ति समाम्नातार उभयोच्चारणेन ’ त्वमहमस्म्यहं च त्वमसि’ इति । तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति । अन्यथा हीदं विशेषेणोभयाम्नानमनर्थकं स्याद् एकेनैव कृतत्वात्” इति ग्रन्थेन अहंपदार्थस्य जीवस्य देवत्वेन (परब्रह्मत्वेन) परब्रह्मणो ऽहन्त्वेन मतिः (उपासना) कर्तव्येति यद्व्याख्यानं तदयुक्तम् । तथाहि मतेः (उपासनायाः) असदर्थविषयकत्वं वाऽभिप्रेतं सदर्थविषयकत्वं वा? नाद्यः- ‘असत्यान्यनुपास्यानि अफलत्वविपर्ययाभ्यामिति’ असदर्थ- विषयकोपासनाया अफलत्वेन विपरीतफलत्वेन च निन्दितत्वात् । अहं- ग्रहोपासनाया असदर्थविषयकत्वे उपासनाविषयीभूतस्य जीवपरमात्मनोरभेदस्यासत्त्वापत्त्या भेदस्य सत्त्वप्राप्त्या अद्वैतमतहान्यापत्तेश्च । न द्वितीयः-विशिष्टयोर्जीवेश्वरयोरभेदस्यासत्वेनाद्वैतिभिरपि विशिष्टाभेदस्यानङ्गीकृतत्वेन अहंग्रहोपासनायाः (विशिष्टाभेदोपासनायाः) सत्यार्थविषयकत्वायोगात् ।

उपासनायाः सदर्थविषयकत्वे ( उपासनाविषयीभूतस्य सत्त्वे) अद्वैतमते सर्वज्ञत्वजगत्कर्तृत्वादिगुणयुक्त (सगुण) ब्रह्मोपासनायाः सदर्थ- विषयकत्वप्राप्त्या उपासनाविषयीभूतसर्वज्ञत्वादिगुणादेरपि सत्यत्वप्राप्त्या सगुणब्रह्मणः सत्यत्वापत्तेश्च । तस्मान्नेयं श्रुतिर्जीवब्रह्मणोरभेदसाधिका भवतीति ।

किं च ‘व्यतिहारो विशिषन्ति हीतरवदिति सूत्रे व्यतिहारेण (परस्परविशेषणविशेष्यभावेन) जीवपरमात्मनोरुपासनाकर्तव्यताया वाचकस्य सूचकस्य वा पदस्याभावात् तदर्थपरतया सूत्रयो जनायाः करणे उत्सूत्रितत्वप्राप्तेः । कस्तर्हि श्रुत्यर्थ इति चेत् - ’ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्’ (ब्र.सू. २-४-१७) इति सूत्रव्याख्याने “यापि प्राणरूपतामिन्द्रियाणामभिदधाति तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयते इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम्" इति भामत्याद्युक्तरीत्या राजाधीनं राष्ट्रमित्यभिप्रायेण राजा राष्ट्रमित्यादि व्यवहारवद् अहं=जीवः, त्वं=त्वदधीनोऽस्मि, त्वं = परमात्मा, अहं =मत्स्वामी (मदन्तर्यामी) असि’ इत्याद्यनेकार्थानां श्रुत्यादिप्रमाणानुकूलानां श्रुत्याद्यविरुद्धानां सम्भवेन श्रुत्याद्यननुकूलस्य तथा श्रुत्यादिविरुद्धस्य स्वमत -(अद्वैतमत) विरुद्धस्य चार्थस्य स्वीकरणायोगादिति ।

अधिकरणम् २४

ॐ सैवहि सत्यादयः ॐ (३.३.३८)

इति सूत्रस्य ‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म’ (बृ. ५ - ४ - १ ) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तरमाम्नायते । ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः’ (बृ. ५-५ - २ ) इत्यादि । तत्र संशयः-किं द्वे एते सत्यविद्ये किं वैकैवेति । द्वे इति तावत्प्राप्तम् । भेदेन हि फलसंयोगो भवति । ‘जयतीमांल्लोकान्नू’ (बृ. ५-४- १) इति पुरस्तात् ‘हन्ति पाप्मानं जहाति च’ (‘बृ.५-५-३,४) इत्युपरिष्टात् प्रकृताकर्षणं तूपास्यैकत्वादिति । एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति । कुतः? ‘तद्यत्सत्यम्’ इति प्रकृताकर्षणात् " इति यद्व्याख्यानं तत्तु अद्वैतिनां प्रतिकूलम् । द्वैतिनाम् अनुकूलम् । तथाहि-‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्वसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म’ (बृ.५-४-१) इति मन्त्रस्य भाष्यभामतीरत्नप्रभारीत्या अर्थस्तु ‘सः यः कश्चिदधिकारी, महत्=व्यापकं, यक्षं=पूज्यं, प्रथमजं=भौतिकेषु प्रथमोत्पन्नं, सत्यं =सन् मूर्तं त्यद् अमूर्तं सच्च तत् त्यच्च सत्त्यं (मूर्तामूर्तात्मकं ब्रह्म) हिरण्यगर्भाख्यं, वेद=उपास्ते, स इमान् लोकान् जयति इनु = इत्थं, जितो ऽसौ शत्रुः, असन् भवेत्=नश्येत् । उक्तमर्थं निगमयति य एवमेतन् महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति एवं विद्वान् कस्माज्जयतीत्यत आह-सत्यं ह्येव ब्रह्म, हि यस्मात् सत्यं ब्रह्म अतस्तदुपासनात् फलोत्पादोऽपि सत्य इति । तथा च अनया श्रुत्या हिरण्यगर्भाख्यब्रह्मणः सत्यत्वं तदुपासनाजन्यफलस्य सत्यत्वम् उपासनायाः कार्याव्यवहितप्राक् क्षणवृत्तित्वरूपकारणत्वोक्त्या सत्यत्वं च सिद्ध्यति । इत्यद्वैतिनां प्रतिकूलं द्वैतिनामनुकूलम् । एतेन ‘माध्वा अहंशब्दस्य अहेयत्वादहमित्यर्थं वर्णयन्ति । सत्यमित्यादेः सत्त्वं नाशं यापयति इति निर्वचनं कृत्वा विलक्षणार्थं वर्णयन्ति’ इति वदन्तो निरस्ता वेदितव्याः । अद्वैतिभिरपि सत्यशब्दस्य सच्च तत् त्यच्च इति, अहो ऽहमित्यादिशब्दानां हन्ति पाप्मानं जहाति च य एवं वेद इत्यहंशब्दस्याहेयत्वाद्यर्थकरणात् । श्रुतावपि तथाऽर्थकरणात् । एवमनेकेषां ‘इदं पश्यतीति इदन्द्र इदन्द्रं सन्तमिन्द्रमित्याचक्षते’-‘इन्धयतीति इन्ध इन्धं सन्तमिन्द्रमित्याचक्षते । विदानाद् विद्युत्’ इत्यादिशब्दानां वेदेष्वेव विलक्षणार्थकथनादिति । तथा चेदं सूत्रं द्वैतिनामनुकूलमद्वैतिनां प्रतिकूलमेव । न च वेदोक्तफलादीनां सर्वेषां व्यावहारिकत्वात् (मिथ्यात्वात्) नाद्वैतहानिरिति वाच्यम् । बौद्धमतनिराकरणावसरे वेदादिप्रमाणानि पारमार्थिकमेव कथयन्ति न व्यावहारिकमिति प्रमाणबोध्यानां व्यावहारिकत्वं न वक्तव्यमित्यद्वैतिभिरेव खण्डितत्वादिति ।

ॐ कामादीतरत्र तत्र चायतनादिभ्यः ॐ (३.३.३९)

इति सूत्रस्य ‘एष आत्मापहतपाम्पा विजरो विमृत्युर्विशो-कोऽविजिघित्सोऽपिपासः सत्यकामः सत्यसंकल्पः’ (छां.८-१५) इत्यादि । तथा वाजसनेयिनः ‘स वा एष महानज आत्मा सोऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस् तस्मिन् शेते सर्वस्य वशी’ (बृ.४- ४-२२) इत्यादि । तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये, छान्दोग्यविद्यावाजसनेयि-विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान् निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्च अनुपसंहार इति पूर्वपक्षे च यदेतच्छान्दोग्ये कामादि=छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते, तद् इतरत्र=वाजसनेयके ‘स वा एष महानज आत्मा’ इत्यत्र सम्बध्यते ।

यच्च वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र छान्दोग्ये ‘एष आत्माऽपहतपाप्मा’ (छां. ८ - १ - १ ) इत्यत्र सम्बध्यते । कुतः ? आयतनादिभ्यः=आयतनादिसामान्यात् समानं ह्युभयत्रापि हृदयमायतनं समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं बहुसामान्यं दृश्यते इत्येवमादि यद्व्याख्यानं तदप्ययुक्तम् । विद्ययोः सगुणनिर्गुणरूपभेदस्य शशविषाणा- यितत्वात् । तथाहि– सगुणविषयकज्ञानजनिका हि सगुणविद्या निर्गुणविषयकज्ञानजनिका हि निर्गुणविद्या इति प्रतिपाद्यभेदेन हि प्रतिपादकविद्याभेदो वक्तव्यः । अद्वैतमते निर्गुणब्रह्मणः प्रत्यक्षानुमानागम- रूपप्रमाणप्रवृत्तिप्रयोजकधर्माभावेन शशविषाणवत् प्रमाणागम्यत्वान् निर्गुणविषयकज्ञानजनकविद्यैव असम्भाविता इति सर्वासां विद्यानां सगुणविषयकत्वेन सगुणविद्या निर्गुणविद्येति भेदकथनमयुक्तम् ।

एतेन “सगुणा हि ब्रह्मविद्या छान्दोग्य उपदिश्यते । ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ (छां.८-१-६) इत्यात्मवत्कामानामपि वेद्यत्वश्रवणात् । वासजनेयके तु निर्गुणमेव परं ब्रह्मोपदिश्यमानं दृश्यते ’ अत उर्ध्व विमोक्षाय ब्रूहि’ (बृ.४-३-१४) ‘असङ्गो ह्ययं पुरुषः’ (बृ. ४-३ - १५ ) इत्यादि प्रश्नप्रतिवचनसमन्त्रयात्" इत्येतदपि निरस्तम् । अद्वैतमते प्रमाणप्रवृत्तिप्रयोजकधर्माभावेन निर्गुणब्रह्मणः वेदप्रतिपाद्यत्वासम्भवात् । अद्वैतिनां सगुणविद्यात्वेनाङ्गीकृते छान्दोग्ये यथा कामादयो गुणाः कथितास्तथा निर्गुणविद्यात्वेनाद्वैतिभिरङ्गीकृतेऽपि वाजसनेयके ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिर् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारणे’ (बृ. ४-४-२२) इत्यादिवाक्यैः सर्ववशित्व-सर्वनियामकत्वसर्वाधिपतित्व-सर्वेश्वरत्वभूताधिपतित्वभूतपालत्व-धारकत्वादयो बहवो गुणाः कथिता इति शङ्कराचार्यैर् एतन्मन्त्रस्य “स च सर्वस्य ब्रह्मेन्द्रादेर्वशी सर्वो ह्यस्य वशे वर्तते । उक्तं चैतस्य वा अक्षरस्य प्रशासन इति । न केवलं वशी सर्वस्येशान ईशिता च ब्रह्मेन्द्रप्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतम् । यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति तद्वमा भूदित्याह सर्वस्याधिपतिरधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः । न राजपुत्रवदमात्यादिभृत्यतन्त्रः । त्रयमप्येतद्वशित्वादि- हेतुहेतुमद्रूपम् । यस्मात् सर्वस्याधिपतिस्ततोऽसौ सर्वस्येशानः । योहि यमधिष्ठाय पालयति स तं प्रतीष्ट एवेति प्रसिद्धम् । यस्माच्च सर्वस्येशानस्तस्मात्सर्वस्य वशीति । किं चान्यत्स एवं भूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना शास्त्रविहितेन कर्मणा भूयान् भवति । न वर्धते पूर्वावस्थानः केनचिद्धर्मेण । नो एव शास्त्रप्रतिषिद्धेनासाधुना कर्मणा कनीयानल्पतरो भवति पूर्वावस्थातो न हीयत इत्यर्थः । किं च सर्वो ह्यधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यतेऽस्यैवतु कथं तदभाव इति । उच्यते-यस्मादेव सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य तस्मान्न कर्मणा सम्बध्यते । किं चैष भूताधि- पतिर्ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम्” इत्यादिना एतदुपनिषद्भाष्ये परमात्मनः गुणप्रतिपादकत्वेन व्याख्यानाच्च । न च छान्दोग्ये ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ (छां.८- १-६) इत्यात्मवत्कामानामपि वेद्यत्वश्रवणाच् छान्दोग्यविद्या सगुणा । वाजसनेयी विद्या च वशित्वादिगुणानां वेद्यत्वाश्रवणान् निर्गुणेति वाच्यम् । श्रुत्युक्तानां गुणानामवेद्यत्वे तत्कथने प्रयोजनाभावाद् व्यावर्तकगुणं (धर्मं) अगृहीत्वा केवलवस्तुनः वेदेन इतरव्यावृत्ततया ज्ञानासम्भवात् । ‘यदा पश्यः पश्यते रुग्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ इत्यादिश्रुतिभिर्ब्रह्मणः जगत्प्रेरकत्व - जगद्भिन्नत्वरूक्मवर्णत्व चतुर्मुखादिकर्तृत्वस्वामित्वाद्यनेकगुणवत्त्वेनैव मोक्षार्थं ज्ञेयत्वोक्तेश्च वाजसनेयश्रुत्युक्तगुणानामपि छान्दोग्योक्तकामादिगुणवज् ज्ञातव्यत्वाच्च ।

एतेन “वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके सङ्कीर्त्यते तथा चोपरिष्टात् स एष नेति नेत्यात्मा (बृ.३-९-२६) इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति" इति कथनमपि निरस्तम् । वशित्वादिधर्माणां मिथ्यात्वे (असत्वे ) मिथ्याभूतार्थप्रतिपादकत्वेन अद्वैत्यभिमतवाजसनेयकविद्यायाः ( उपनिषदः) अप्रामाण्यापातात् स एष नेति नेत्यात्मा’ (बृ.३-९-२६ ) इति वाक्यं स एष परमात्मा, इति = मूर्त न (मूर्तभिन्नं) इति=अमूर्तं न ( अमूर्तभिन्नं) इति ब्रह्मणो मूर्तामूर्तात्मकप्रपञ्चविलक्षणत्वं वक्ति, न तु निर्गुणत्वम् । ‘अथ तस्य नामधेयं सत्यस्य सत्यमिति प्राण वै सत्यं तेषामेव सत्यं’ इत्युत्तरवाक्ये प्राणानां सत्यत्वप्रदत्वादिगुणानां प्रतिपादितत्वात् । एतच्छ्रुत्यर्थविशेषविचारस्तु ‘प्रकृतैतावत्त्वं हि प्रतिषेधति’ (ब्र.सू.३-२-२२) इति सूत्रशाङ्कर- भाष्यनिरासावसरे कृतो द्रष्टव्यः ।

अधिकरणम् २६

ॐ आदरादलोपः ॐ (३.३.४०)

ॐ उपस्थितेऽतस्तद्वचनात् ॐ (३.३.४१)

इति सूत्रद्वयात्मकस्याधिकरणस्य, भोजनाकरणे प्राणाग्निहोत्रं लुप्यते नवेति सन्देहे, प्राणाहुतिर्न लुप्यते इति पूर्वपक्षे, भोजनलोपे प्राणाग्निहोत्रलोप इति सिद्धान्तः (‘“न लुप्यते लुप्यते वा प्राणाहुतिरभोजने । न लुप्यतेऽतिथेः पूर्वं भुञ्जीतेत्यादरोक्तितः ॥ भुज्यर्थान्नोपजीवित्वात्तल्लोपे लोप इष्यते । भुक्तिपक्षे पूर्वभुक्तावादरोऽप्युपपद्यते ॥ " ) इत्येवं रूपं यद्व्याख्यानं तद् भोजनप्राणाग्निहोत्रादिकर्मणां सत्यत्वसाधकतया द्वैतिनामनुकूलम् । अद्वैतिनां प्रतिकूलम् ।

अधिकरणम् २७

ॐ तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॐ (३.३.४२)

इति सूत्रस्य “नित्या अङ्गाववद्धाः स्युः कर्मस्वनियता उत । पर्णवत्क्रतुसम्बन्धो वाक्यान्नित्यास्ततो मताः ॥ पृथक् फलश्रुर्तेर्नैता नित्या गोदोहनादिवत् । उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः ॥” इत्येवं रूपं यद्व्याख्यानम् ।

अधिकरणम् २८

ॐ प्रदानवदेव तदुक्तम् ॐ (३.३.४३)

इति सूत्रस्य “एकीकृत्य पृथग्वा स्याद्वायुप्राणानुचिन्तनम् । तत्वाभेदात्तयोरेकीकरणेनानुचिन्तनम् ॥ अवस्थाभेदतोऽध्यात्ममधिदैवं पृथक् श्रुतेः । प्रयोगभेदो राजादिगुणकेन्द्रप्रदानवत् ॥" इत्येवं रूपं यद्व्याख्यानम् ।

अधिकरणम् २९

ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ (३.३.४४)

इति सूत्रस्य “कर्मशेषाः स्वतन्त्रा वा मनश्चित्प्रमुखाग्नयः । कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्यार्थदर्शनम् ॥ उन्नेयविधिगालिङ्गादेव श्रुत्या च वाक्यतः । बाध्यं प्रकरणं तस्मात्स्वतन्त्रं वह्निचिन्तनम् ॥” इत्येवं रूपं यद्व्याख्यानम् ।

अधिकरणम् ३०

ॐ एक आत्मनश्शरीरे भावात् ॐ (३.३.४५)

इति सूत्रस्य ‘“आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् । भूतमेलनजं देहे नान्यत्रात्मा वपुस्ततः ॥ भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः । सैवात्मा भौतिकाद्देहादन्योऽसौ परलोक भाक् ॥’’ इत्येवं रूपं यद्व्याख्यानम् ।

अधिकरणम् ३१

ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ (३.३.४६)

इति सूत्रस्य " उक्थादिधी ः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् । सान्निध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्ठते ॥ उक्थोद्गीथादिसामान्यं तत्तच्छ्ब्दैः प्रतीयते । श्रुत्या च सन्निधेर्वाधस्ततोऽन्यत्रापि यात्यसौ ॥” इत्येवं रूपं यद्व्याख्यानम् ॥

अधिकरणम् ३२

ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॐ (३.३.४७)

इति सूत्रस्य ‘‘ध्येयो वैश्वानरांशोऽपि ध्यातव्यः कृत्स्न एव वा । अंशेषूपास्तिफलयोरुक्तेरस्त्यंशधीरपि ॥ उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम् । अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्तिनिन्दनात् ॥ इत्येवं रूपं यद्व्याख्यानम् ॥

अधिकरणम् ३३

ॐ नाना शब्दादिभेदात् ॐ (३.३.४८)

इति सूत्रस्य “न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः । समस्तोपासनश्रैष्टचाब्रह्मैक्यादप्यभिन्नता ॥ कृत्स्नोपास्तेरशक्यत्वाद्गुणैर्ब्रह्म पृथकृतम् । दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात्॥" इत्येवं रूपं यद्व्याख्यानम् ॥

अधिकरणम् ३४

ॐ विकल्पोऽविशिष्टफलत्वात् ॐ (३.३.४९)

इति सूत्रस्य " अहं ग्रहेष्वनियमो विकल्पनियमोऽथवा । नियामकस्याभावेन यथाकाम्यं प्रतीयताम् ॥ ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः ।अन्यानर्थक्यविक्षेपी विकल्पस्य नियामकी ॥" इत्येवं रूपं यद्व्याख्यानम् ॥

अधिकरणम् ३५

ॐ काम्यास्तु यथाकामं समुच्चीयेरन्नवा पूर्वहेत्वभावात् ॐ (३.३.५०)

इति सूत्रस्य ‘“प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मतिः । अहंग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ॥ देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः । याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥” इत्येवं रूपं यद्व्याख्यानम् ॥

अधिकरणम् ३६

ॐ अङ्गेषु यथाश्रयभावः ॐ (३.३.५१)

इति सूत्रस्य ‘“समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः समुच्चितत्वादङ्गानां तद्धेषु समुच्चयः ॥ ग्रहं गृहीत्वा स्तोत्रस्यारम्भ इत्यादिवन्नहि । श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥” इत्येवं रूपं यद्व्याख्यानम् एतत्सर्वम् अङ्गाश्रितोपासनानाम् अङ्गतया नित्यान्युतानित्यानि इति नित्यानि इत्यादि संशये उपासनानां नित्यत्वमिति पूर्वपक्षे अनित्यत्वमिति सिद्धान्त इत्यादि चिन्तनरूपत्वेन कर्मणां तदङ्गानां च सत्वसिद्ध्या अद्वैतिनां प्रतिकूलं द्वैतिनाम् अनुकूलम् । विशेषविचारस्य कारणाभावेनोपरम्यते इति ॥

॥ इति शाङ्करभाष्ये तृतीयाध्याय तृतीयपादखण्डनम् ॥