०४ द्वितीयः पादः

ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ

भेदपराण्येव खलु ब्रह्मसूत्राणि द्वितीयाध्याये द्वितीयः पादः

ब्रह्मसूत्रशाङ्करभाष्यस्य द्वितीयाध्यायीय द्वितीयपादपरामर्शः

यद्यपि मुमुक्षूणां मोक्षसाधनत्वे सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तं, परद्वेषकरपरपक्षनिराकरणं न युक्तं, तथापि महाजनपरिगृहीतानि सांख्यादिशास्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मदमतीनां " एतान्यपि सम्यग्दर्शनायोपादेयानी”त्यपेक्षा तथा युक्तिगाढत्वसम्भवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु इत्यतस् तदसारतोपपादनं वीतरागेणापि कर्तव्यमिति शङ्कराचार्येणैवोक्तत्वाद् अस्माभिरपि शाङ्करमतस्य असारता (परमतनिरासप्रकारस्य स्वमत- साधनप्रकारस्य च प्रमाणविरुद्धता स्वव्याहत्वादिकं च) प्रदर्श्यते ।

अस्मिनूपादे शाङ्करभाष्यरीत्या अष्टाधिकरणानि पञ्चचत्वारिंशत्सूत्राणि ।

१) तत्र दशसूत्रात्मकं सांख्यमतनिरासकं प्रथमाधिकरणम् ।

२) चेतनस्य ब्रह्मणो जगत्कारणत्वे अभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् ।

तदर्शनान् न चेतनं ब्रह्म जगत्कारणमिति वैशेषिकाणाम् आक्षेपस्य वैशेषिकप्रक्रिययैव निरासकमेकसूत्रात्मकं द्वितीयाधिकरणम् ।

३) वैशेषिकमतनिरासकं सप्तसूत्रात्मकं तृतीयाधिकरणम्

४) वैनाशिकसमय (वैभाषिकसौत्रान्तिकसमय) निरासकं दशसूत्रात्मकं चतुर्थाधिकरणम् ।

५) विज्ञानवादिबौद्धमतनिरासकं पञ्चसूत्रात्मकं पञ्चमाधिकरणम् ।

६) सत्स्याद् असत्स्यादिति सप्तभंगिजैनमतनिरासकं चतुःसूत्रात्मकं षष्टाधिकरणम् ।

७) केवलाधिष्ठात्री श्वरकारणवादनिरासकं पञ्चसूत्रात्मकं सप्तमाधिकरणम् ।

८) भागवतमतनिरासकं चतुस्सूत्रात्मकमष्टमाधिकरणम् ।

तत्र यद्यपि सांख्यादिसप्तमतं शङ्कराचार्यैर् निरस्तम् । अस्माकमपि तन्निरासः संमत एव । तथापि शङ्कराचार्यैर् उक्तः यः विज्ञानवादिबौद्धमतनिरासप्रकारातिरिक्तषडधिकरणनिरासप्रकारः सः स्वव्याहतः प्रमाणविरुद्धश्च इति किञ्चित्प्रदर्शयामः ।

विज्ञानवादिमतनिरासकपश्चसूत्रात्मकपञ्चमाधिकरणनिरासप्रकारः युक्त एव । परन्तु स च निरासप्रकारपिशाचः स्वमतमपि (अद्वैतमतमपि ) ग्रसति (अद्वैतमतनिरासकोऽपि भवति ) । अद्वैतमतस्य निरसिष्यमाण- विज्ञानवादि (शून्यवादि) बौद्धमताभ्यां साम्याद् इति प्रदर्शयिष्यामः ।

अष्टमाधिकरणस्य भागवतमतनिरासकतया व्याख्यानं तु सर्वप्रमाण- विरुद्धत्वाद् अयुक्तमिति च प्रदर्शयिष्यामः । तथाहि-

रचनानुपपत्तेर्नानुमानमिति सूत्रव्याख्याने “इदं जगद् अखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं वाह्यम् । आध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भावितमैः शिल्पिभिर् मनसाऽप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् । लोष्ठपाषाणादिष्वदृष्टत्वात् । मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु निशिष्टाकारा रचना दृश्यते । तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः । न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयं न बाह्यकुम्भकारादिव्यपाश्रयेणेति किञ्चिन्नियामकमस्ति । नचैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते चेतनकारणसमर्पणात् । अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति” इति सांख्यमते यद्दूषणमुक्तं तद्दृषणमद्वैतमतेऽपि समम् । तथाहि-अद्वैतमते हि निर्गुणं निष्क्रियं ब्रह्म एकं सत्यं, सत्वासत्त्वाभ्यां वक्तुमशक्या च अविद्या त्वपरा । ब्रह्म तु निर्विशेषं शशविषाणवत् किञ्चिदपि कर्तुमशक्तम् । उक्तं हि शङ्कराचार्यैः ‘निर्विशेषस्य… कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन्’ इति (ब्र.सू.भा. २.२.३६) तस्य रचनाऽनुपपन्नैव । अविद्या तु प्रधानवद् अचेतनेति रचनानुपपत्तेरेव हेतोर् न जगत्कारणं भवितुं युक्तमिति सांख्यमतोपरि उक्तदूषणस्याद्वैतमतेऽपि सत्त्वात् ।

२. प्रवृत्तेश्च

इति सूत्रव्याख्याने ‘रचनासिध्यर्था या प्रवृत्तिः साऽपि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते मृदादिषु रथादिषु चादर्शनात् । नहि मृदादयो रथदयो वा स्वयमचेतनाः सन्तश् चेतनैः कुलालादिभिर् अश्वादिभिर्वा अनधिष्ठिता विशिष्टकार्याभिमुस्वप्रवृत्तयो दृश्यन्ते । अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणम् अनुमातव्यं भवति" इति यदूषणं सांख्यमते प्रदर्शितं तदद्वैतमतेऽपि समम् । अद्वैत्यभिमतं निष्क्रियं ब्रह्म किंचिदपि कर्तुं न शक्तमिति न तस्याधिष्ठातृत्वं, अन्यद् अधिष्ठातृ च नास्त्येवेति केनाप्यनधिष्ठिताया जडभूताया अविद्यायाः कुलालाद्यनधिष्ठितमृदादिवत् प्रवृत्त्यनुपपत्तेर्नाचेतना अविद्या जगत्कारणमनुमातव्यं भवति इति दोषस्य समत्वाज् जगतो ऽनुत्पत्तिरेवेति ।

ननु सांख्यमते जगतः सत्त्वाङ्गीकारात् तस्य (सत्यभूतजगतः) उत्पत्तेः कारणाद्यावश्यकम् । तदभावे उत्पत्त्याद्यसम्भवो दोषः । ननु अस्मन्मते (अद्वैतमते) “न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ॥ न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ स्वप्नमाये यथादृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विवक्षणैः” । (गौड.का.) द्वैतस्यासत्त्वं सिद्धं सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतश्शशविषाणादेः (गौ. का. शां) बाधितस्य कालत्रयेऽपि सत्त्वाभावात् ( आनन्दगिरि) इत्यादि गौडपादकारिकातच्छाङ्करभाष्याद्युक्तरीत्या सर्वस्यासत्त्वान् मायिकस्य सर्वस्य अनुपपत्तेर्भूषणत्वाच्च कारणापेक्षाया एव अभावेन रचनाप्रवृत्त्याद्यनुप- पत्तयोऽस्माकमलङ्कारा एवेति युष्माभिर्या या अनुपपत्तयः प्रदर्शितास् तास्सर्वा अस्माकम् अलङ्कारभूता एवेति दूषणदातृर्भियुष्माभिरस्माकं साहाय्यमाचरितमिति चेत् सर्वान् दोषानलङ्कारतया स्वीकुर्वतस् तव देवानांप्रियस्येव वादिप्रतिवादित्वयोरसम्भवाद् उदासितव्य एवति न प्रतिपक्षीकर्तव्य इति ।

महद्दीर्घवद्वाह्रस्वपरीमण्डलाभ्यामिति द्वितीयाधिकारणं

कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते । शुक्लेभ्यस्तन्तुभ्यश्शुक्लपटस्य प्रसवदर्शनात् तद्विपर्ययादर्शनाच्च । तस्माच्चेतनस्य ब्रह्मणः जगत्कारणत्वेऽभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् । तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति परमाणु- कारणवादिकृताक्षेपस्य परिहारार्थम् महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् इति सूत्रं प्रवृत्तमिति मनसि निधाय “यथा परमाणोः परिमण्डलात्सतोऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घश्च त्र्यणुकादि न परिमण्डलम् । यथा द्व्यणुकादणोर्हस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणुनो ह्रस्वम् ।

एवं चेतनाद् ब्रह्मणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे किं तव च्छिन्नम् " इति वाक्येन चेतनाद् ब्रह्मणोऽचेतनस्य जगत उत्पत्तिः समर्थिता ।

तादृशाशङ्कैवायुक्ता । समाधानं च सुतरामयुक्तम् । तथा हि ब्रह्म वितर्तोपादानकारणं वा निमित्तकारणं वा नोभयमपि, अद्वैतमते निर्गुणे निष्क्रिये शशविषाणायिते ब्रह्मणि कारणत्वस्यैवासम्भवात् । तुष्यत्विति न्यायेन कारणत्वाङ्गीकारेऽपि समवायिकारणगुणप्राप्तेः क्वचित्सम्भवेऽपि अद्वैतमतरीत्या चैतन्यस्य ब्रह्मगुणत्वाभावेन कार्ये जगति चैतन्यप्राप्त्यापादनस्यायोगात् । समाधानं चायुक्तम् । ‘चेतनाद् ब्रह्मणो ऽचेतनं जगज्जनिष्यते’ इति समाधानस्य निष्क्रियब्रह्मवादिनामद्वैतिनां मतेऽयोगाद् इत्यादि ।

परमाणुवादनिरासके तृतीयेऽधिकरणे “अपि चाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वाऽनुभयस्वभावा वाऽभ्युपगम्यन्ते गत्यन्तराभावात् । चतुर्धाऽपि नोपपद्यते । प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात् प्रलयाभावप्रसङ्गः । निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः । उभयस्वभावत्वं च विरोधादसमञ्जसम् । अनुभय- स्वभावत्वे तु निमित्तवशात्प्रवृत्ति निवृत्योरभ्युपगम्यमानयो रहष्टादेर्निमित्तस्य नित्यसन्निधानान् नित्यप्रवृत्तिप्रसङ्गात् । अतन्त्रत्वेऽप्यदृष्टादेर्नित्या- प्रवृत्तिप्रसङ्गात् । तस्मादप्यनुषपन्नः परमाणुकारणवादः” इति यदूषणं परमाणुकारणवादे दत्तं तदद्वैतमतेऽपि समम् । अद्वैतमते ह्यद्वितीयस्य ब्रह्मणः कारणत्वं वक्तव्यम् । तच्च ब्रह्म प्रवृत्तिस्वभावं वा निवृत्तिस्वभावं वा उभयस्वभावं वा अनुभयस्वभावं वा अभ्युपगमनीयं गत्यन्तराभावात् । चतुर्धाऽपि नोपपद्यते । प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात् प्रलयाभावप्रसङ्गः । निवृत्तिस्वभावत्वेऽपि नित्यमेव प्रवृत्तेर्भावात्सर्गाभावप्रसङ्गः । उभयस्वभावत्वं विरोधादसमञ्जसम् । अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादे र्निमित्तस्य नित्यसन्निधानान् नित्यप्रवृत्ति प्रसङ्गात् । अतंत्रत्वेऽप्यदृष्टादे र्नित्याप्रवृत्तिप्रसङ्गात् । तस्माद् ब्रह्मकारणतावादोऽप्यनुपपन्न इति दूषणस्य दातुं शक्यत्वाद् इत्यादि स्वव्याघातकरदूषणदानमयुक्तमेवेति ।

तस्मिन्नेवाधिकरणे ‘अपरिग्रहाच्चात्यन्तमनपेक्षा’ (२७) इति सूत्र- व्याख्याने-“प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः । अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः” इति यदूषणमुक्तं तदपेक्षया अद्वैतमते अधिकं दूषणमाया स्यति अद्वैतमते वेदस्य तत्प्रामाण्यादेः सर्वजगतो ऽसत्त्वाङ्गीकारेण ब्रह्मणश्चाग्राह्यत्वाङ्गीकारेण अद्वैतिभिरेव कोऽप्यंशो न गृहीतः । अन्यैर्मन्वादिभिस्तु ग्राह्योंऽशो नास्तीति किमु वक्तव्यम् । ‘न मीमांसकादेर्मतं वा’ इत्यादिना स्वीयमद्वैतमतमेव मिथ्येति नादृतं शङ्कराचार्यैरिति अन्यैरनादरणीयत्वं किं वक्तव्यमिति ।

यथा असारतरतर्कसन्दृब्धत्वाद् ईश्वरकारणवादश्रुतिविरुद्धत्वात् श्रुतिप्रवणैश्च शिष्टर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षाऽस्मिन् परमाणुकारणवादे कार्या श्रेयोऽर्थिभिः, तथा तदपेक्षया अधिका चानपेक्षाकार्या अद्वैतवादे । शान्तं पापम्! पदार्थसत्त्वे खलु अपेक्षाप्रसक्तिः । अद्वैतवादस्य सत्त्वे खल्वपेक्षाप्रसक्तिस् तस्यैवासत्त्वाद् अपेक्षाप्रसक्तेरेवाभावाद् अपेक्षा न कार्येत्युक्तिरयुक्तैवेति ।

परमाणुकारणवादे

१. असारतरतर्कसंदृब्धत्वेऽपि तदुक्तानां तर्काणां सत्वमस्ति ।

२. ईश्वरस्य कारणत्वाङ्गीकाराद् ईश्वरस्य कारणत्वप्रतिपादकश्रुति- विरोधो । नास्ति इति श्रुतिप्रवणैः परिग्रहणयोग्यताऽस्त्यंशे परमाणुकारणत्वादस्य ।

अद्वैतवादे

१. अद्वैत्युक्तानां तर्काणां सत्वमेवनास्ति । सारासारतरत्वादिकं तु दूरे ।

२. अद्वैतमते ईश्वरस्य तत्कारणत्वस्याप्यसत्वं तत्प्रतिपादकश्रुतेरपि असत्वमित्यङ्गीकारेण श्रुतिप्रवणैः (श्रुतिप्रामाण्यवादिभिः) परिग्रहणयोग्यत्वासम्भव एवाद्वैतवादस्य ।

चतुर्थाधिकरणे निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन् । न चैवं दृश्यते इति वाक्येन निर्विशेषस्याभावस्य कारणत्वासम्भवरूपं यद्दूषणं बौद्धमतोपरि दत्तम् अद्वैतमतोपर्यपि ब्रह्मणो निर्विशेषत्वाङ्गीकाराज् जगत्कारणत्वानुपपत्तिरूपं तद्दृषणं सममित्याद्यनेकदोषाः सन्ति । प्रकृतानुपयुक्तत्वान्न विचार्यते ।

विज्ञानवादिवौद्धमतनिरासकं पञ्चमाधिकरणं तु बौद्धमतनिरासकवद् अद्वैतमतनिरासकं मतद्वयस्य साम्यात् । तथाहि-

२८. नाभाव उपलब्धेः

“एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते । केषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते । सत्यपि बाह्येऽर्थे बुध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात् । कथं पुनरवगम्यतेऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाह्योऽर्थोऽस्तीति । तदसम्भवात् स्वप्नादिवच्च द्रष्टव्यम् । यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरराहित्यप्रत्यया विनैव वाह्येनार्थेन ग्राह्य- ग्राहकाकारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते प्रत्ययत्वाविशेषात्” इत्यादिग्रन्थेन ज्ञेयं ज्ञानातिरेकेण असत् तदतिरेकेणासम्भवान् नरशृङ्गवत् । जागरितगोचराः स्तम्भादिप्रत्यया निरालम्बनाः ( अविद्यमानविषयका ः ) प्रत्ययत्वात् स्वप्नादिप्रत्ययवत् (स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्ययवत् ) इत्याद्यनुमानेन जगत्प्रत्ययस्य निरालम्बनत्वं (जाग्रत्प्रत्ययविषयाणां स्तम्भादीनामसत्त्वं) बोधयद्वौद्धमतमनूद्य तन्निरासार्थं प्रवृत्तस्य नाभाव उपलब्धेर् इति सूत्रस्य व्याख्यानभूतेन “न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । कस्मात् । उपलब्धः । उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः स्तम्भः कुड्यं घटः पट इति । न चोपलभ्यमानस्यैवाभावो भवितुमर्हति । यथाहि कश्चिद् भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति । तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थं नाहमुपलभे न च सोऽस्तीति ब्रुवन् कथमुपादेयवचनः स्यात्” इति वाक्येन शङ्कराचार्या जगतो ऽभावः=(असत्त्वं) न वक्तव्यम् उपलभ्यमानत्वात् । अन्यथा अनुभवापलापापत्तेर् इति निराचक्रुः । तदुपरि बौद्धेन “नाहमेवं ब्रवीमि न कश्चिदर्थमुपलभ इति किं तूपलब्धिव्यतिरिक्तं नोपलभे इति ब्रवीमि " इत्युक्तौ, “बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य । न तु युक्त्युपेतं ब्रवीषि । यत उपलब्धिव्यतिरेकोऽपि वलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते । उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन् सर्वे लौकिका उपलभन्ते” इति वाक्येन घटपटादीनामुप- लब्धिव्यतिरेकोऽपि स्वीकार्यः । सर्वे लौकिका उपलब्धिविषयत्वेनैव स्तम्भकुड्यादीनुपलभन्ते न तूपलब्धिरूपत्वेनेति घटपटादीनामुपलब्धि- व्यतिरिक्तत्वं (ज्ञानातिरिक्तत्वमपि ) स्वीकरणीयमित्यादिदूषणेन बौद्धमतं निराकृतम् । तदद्वैतमतेऽपि समम् । अद्वैतिभिरपि प्रज्ञानव्यतिरेकेण स्वाप्नजगारितयोर्न कश्चिद्विशेषः गृह्यते । तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् (शां. बृहद्भा.२.४.७) इति ।

कारणं परं ब्रह्म, (ज्ञानरूपं) तस्मात् कारणात् (ज्ञानरूपाद्ब्रह्मणः) अनन्यत्वं=व्यतिरेकेणाभावः कार्यस्यावगम्यते इति ( ब्र. सू. शां. २.४.१४) इत्यादिवाक्यैर् ज्ञानव्यतिरेकेण जगतो ऽभावः (असत्त्वं) अङ्गीक्रियते इति ज्ञायते इति ज्ञानव्यतिरेकेण जगतो ऽभावाङ्गीकारे बौद्धमतोपरि यद्यद्दूषणमुक्तं तन्मायावाद्यद्वैतमतेऽपि वज्रलेपायितमिति बौद्धमत्तवन् मायावाद्यद्वैतमतं प्रमाणविरुद्धत्वेन दुष्टत्वादनुपादेयम् ।

स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति, बाह्यार्थापलापिना बौद्धेनोक्तौ तन्निराकरणार्थं प्रवृत्तं सूत्रं—

ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ (२.२.२५)

इति तस्य व्याख्यानभूतैः “न स्वप्नादिप्रत्ययवज् जागरितप्रत्यया भवितुमर्हन्ति । कस्मात् ? वैधर्म्यात् । वैधर्म्यं हि भवति स्वाप्नजागरितयोः । किं पुनर्वैधर्म्यम् ? बाधावाधाविति ब्रूमः । वाध्यते हि स्वप्नोपलब्धं वस्तु, प्रतिबुद्धस्य मिथ्या मया उपलब्धो महाजनसमागम ‘इति, नह्यस्ति मम महाजनसमागमो निद्राग्लानं तु मे मनो बभूव येनैषा भ्रान्तिरुद्बभूवे ‘ति,एवं मायादिष्वपि भवति, यथायथं वाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदवस्थायां बाध्यते” इति वाक्यैः स्वाप्नप्रत्ययस्य बाधकसद्भावेन तस्य अविद्यमानविषयकत्वेऽपि जाग्रत्प्रत्ययस्य कस्यामप्यवस्थायां बाधाभावाज् जाग्रत्प्रत्ययः विद्यमानविषयक एव न असद्विषयकः (ज्ञानविषयीभूतं जगत् सत्यमेव न मिथ्या) इति बौद्धाभिमतं जगतः मिथ्यात्वं निराकृत्य, सत्यत्वं व्यवस्थापयद्भिः शंकराचार्यैर् विमतं जगन् मिथ्या दृश्यत्वात् (ज्ञानविषयत्वात् ) स्वप्नवद् इत्याद्यनुमानैर् जगतः मिथ्यात्वबोधकं (असत्त्ववोधकं) अद्वैतमतमपि निराकृतम् । अद्वैतिभिरपि विज्ञानवादिबौद्धवज् जाग्रत्प्रत्ययस्य असद्विषयत्वाङ्गीकारात् । तथाहि- जगत्प्रत्ययस्यासद्विषयकत्वपराणि तद्वाक्यानि–‘ज्ञानमात्रं पारमार्थिकम् । तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवतापि संगृहीतमित्याशङ्कयाहेति”, (आनंदगिरीयम्) ‘यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना चाद्वयवस्तु सामीप्यमुक्तं ’ (शां.भा.)

‘वस्तुतः ’ ब्रह्मभिने शून्यवादिभिरस्माकं साम्यमिष्टमित्यपि बोध्यम् । (अद्वै.सि.व्याख्या)

ननु सर्वस्यापि वियदादिप्रपञ्चस्य स्वप्नतुल्यत्वे तद्वद्विज्ञानात्मकमेव सर्वं वक्तव्यम् । ततश्च विज्ञानवादिसमयप्रवेशापत्तिरिति शङ्कते - ‘ननु शाक्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः । यदि बाह्यवस्तु वितथं नु कथं समयाविमौ विसदृशौ भवतः (संक्षेपशारीरक ) इत्यादीनि ॥

उक्तं च भास्कराचार्येण शङ्कराचार्यसमकालीनेन “ये तु बौद्धमतावलम्बिनो मायावादिनस्तेऽप्यनेन न्यायेन सूत्रकारेणैव निरस्ता वेदितव्याः” इति । भामत्यामपि, ‘वैधर्म्याच्च न स्वप्नादिवद् बाधाबाधौ वैधर्म्यं स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चावाधितः । त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयम् । तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते, जाग्रत्प्रत्ययस्य तु वाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत्, न हि बाध्यमेव बाधकं भवितुमर्हति । तथाच न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात् स्वप्नवदिति । तस्माद्वाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्व (असद्विषयकत्व) मध्यवसातुं’ इति वाक्यैर् जगत्प्रत्ययस्य निरालम्बनत्वं (जगतः स्वप्नवन् मिथ्यात्वं) वदद्बौद्धमतं निराकुर्वद्भिर् भामतीकारैर् जगदसत्त्ववादिमायावादिमतमपि निराकृतम् ।

(भामती) अपि च स्वतः प्रमाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धम् । नानेनानुमानेन (स्तम्भादिप्रत्यया निरालम्बनाः प्रत्ययत्वात् । स्वाप्नप्रत्ययवद् इत्यनुमानेन ) अन्यथयितुं शक्यम् । अनुभवविरोधे तदनुत्पादात् । अवाधितविषयतापि अनुमानोत्पादसामग्री । न च कारणाभावे कार्यमुत्पत्तुमर्हति इत्याशयवानाह ॥ अपि चानुभवविरोधप्रसङ्गादिति ॥

“अपि चानुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुं (कथं ) इष्यते । न च यो यस्य स्वतो धर्मो न सम्भवति सोऽन्यस्य साधर्म्यात्तस्य सम्भविष्यति । न ह्यग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति । दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः” इति (भाष्यम्)

(रत्नप्रभा) ‘अपि चेति । वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण । प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन । बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयाऽनुमातुमारब्धम् । तथापि बाधो न मुञ्चतीत्यर्थः ’ ।ननु प्रत्यक्षादिप्रतीतिर्भ्रमरूपा भविष्यति युक्तिवाधितत्वादिति चेन् न प्रत्यक्षादिविरोधयुक्तीनामेवाभासत्वोपपत्तेर् इति

( ब्र. वि. भरणे ) इति भाष्य भामती रत्नप्रभा ब्रह्मविद्याभरणवाक्यैः स्तम्भादिजाग्रत्प्रत्यया असदालम्बनाः (मिथ्यापदार्थविषयकाः) प्रत्ययत्वात् स्वाप्नप्रत्ययवद् इत्यनुमानस्य जागरितप्रत्ययानां सदालम्बनत्वग्राहकानुभवविरोधेन बाधितत्वान् न तेनानुमानेन जाग्रत्प्रत्ययानां निरालम्बनत्वं सिध्यतीति जाग्रत्प्रत्ययानाम् अनुभवानुसारेण सदालम्बनत्वं (सत्यपदार्थविषयकत्वं = जगतः सत्त्वं) अङ्गीकरणीयमिति बौद्धमतं निराकुर्वद्भिः शङ्कराचार्यप्रभृतिभिर् विमतं (जगत्) मिथ्या दृश्यत्वादित्याद्यनुमानेन जगतः मिथ्यात्वबोधकाद्वैतमतमपि निराकृतम् । प्रत्यक्षादिप्रमाणविरोधेन युक्तीनाम् आभासत्वात् ।

ॐ न भावोऽनुपलब्धेः ॐ (२.२.३०)

विनाऽप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्प्यते इति यद्वौद्धैरुक्तं तस्य “न भावो वासनानामुपपद्यते त्वत्पक्षेऽनुपलब्धेर्बाह्यानामर्थानाम् । अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति । अनुपलभ्यमानेषु त्वर्थेषु किं निमित्ता विचित्रा वासना भवेयुः " इति वाक्येन अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं वासाना भवन्ति । बाह्यानामर्थानामनुपलब्धेर्वासनाया उत्पत्तिरेव न सम्भवति इति शङ्कराचार्योक्तदूषणोपरि बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनावलाद् उत्तरोत्तरविज्ञानवैचित्र्यमस्तु वीजाङ्कुरवदनादित्वादिति बौद्धेन परिहारे शङ्किते, ‘अनादित्वेऽप्यन्ध- परम्परान्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यान्नाभिप्रायासिद्धिर् इति यद्दूषणमुक्तं तदद्वैतमतेऽपि समम् ।

तथाहि-अध्यासभाष्ये ‘अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः ’ इति शाङ्करभाष्यम् । तस्य व्याख्या भामती- ‘स्यादेतद् आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः, समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह- नैसर्गिक इति । स्वाभाविकोऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता । ततश्च पूर्वपूर्व- विज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वाद् बीजाङ्कुरवन् न परस्पराश्रयत्वमित्यर्थ इति भाष्यतद्व्याख्यानभामतीग्रन्थाभ्यां विज्ञानवादिबौद्धवद् बाह्यपदार्थानां सत्यानामभावेऽपि पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासं प्रति कारणत्वोत्त्या अन्धपरंपरान्यायेन (यथा एकेन नीलं पय इत्युपदिष्टे कथं त्वया पयसो नैल्यमवगतमिति पृष्टे ममान्धान्तरेणोपदिष्टमिति तं प्रति पृष्टे तेनाप्यन्धान्तरेणैवोपदिष्टमित्येवमन्धपरम्परान्यायेन ) जगद्भ्रम एव न सिध्यति । उक्ता च भ्रमस्यानुपपत्तिः ४.१.३ ब्रह्मसूत्रभाष्यव्याख्यानभामत्यां ‘निरंशस्यापि चानाद्यनिर्वाच्याविद्यातद्वासनासमारोपितविविधप्रपञ्चात्मनः सांशस्येव कस्यचिदंशस्याग्रहणाद् विभ्रम इव’ इति वाक्येन पूर्वपूर्वभ्रमेण उत्तरोत्तरभ्रमो जात इवावभासते इति प्रदर्श्य अन्धपरंपरान्यायेन भ्रमो न सम्भवतीति बौद्धमतोपर्युक्तं दोषं स्मृत्वा “परमार्थस्तु न विभ्रमो नाम कश्चित्, न च संसारो नाम, किन्तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेना- निर्वचनीयं ( वक्तुमशक्यं ) इति युक्तमुत्पश्यामः" इति वाक्येन जगद्भ्रमासम्भवः स्वीकृतः ।

स्वोक्तभ्रमासम्भवविषये तदनेनाभिसंधिनोक्तं ’ यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रतिबोध’ इति वाक्येन शङ्कराचार्याणां संमतिरपि दर्शिता ।

अन्येऽप्याहुः=भ्रमासम्भवेन द्वैतस्य प्रसत्तत्यभावेन द्वैतध्वंसरूपे अद्वैते यदि न तोषोऽस्ति सर्वदा त्वं मुक्त एवासि द्वैतरूपवन्धाभावादित्यर्थकं ’ यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदा’ इति प्राचीनाचार्याणां वाक्यमुदाहृत्य भ्रमासम्भवः प्रदर्शित इति अद्वैतमतेऽपि जगद्भ्रमस्यासम्भव एवेति । तथा च बौद्धान् प्रति उक्तं दूषणमद्वैतमतेऽपि सममिति ‘न भावोऽनुपलब्धेः ’ इति सूत्रं शङ्करभाष्यरीत्या यथा बौद्धमतनिरासकं तथा अद्वैतमतनिरासकं तयोर्मतयोर् वैषम्याभावात् ।

शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपन्होतुम् । अपवादाभावे उत्सर्गप्रसिद्धेरिति शून्यवादिमतनिरासकं २.२.३१ शाङ्करभाष्यं भामतीकारा एवं व्याचक्रुः… “अर्थज्ञाने सत्त्वेन तावद्विचारं न सहते, नाप्यसत्त्वेन असतो भासनायोगात्, नोभयत्वेन विरोधात्सदसतोरेकत्रानुपपत्तेः, नाप्यनुभयत्वेन एकनिषेधस्येतर- विधाननान्तरीयकत्वात् । तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम्” । यथाहुः ‘इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथाऽर्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥’ इति न क्वचिदपि पक्षे व्यवतिष्ठन्त इत्यर्थः । तदेतन्निराचिकीर्षुराह ॥ “शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते । लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोच विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते” इति वाक्यैः सत्त्वेन तावद्विचारं न सहते (सन्न भवति) नाप्यसत्त्वेन विचारं सहते । नोभयत्वेन विरोधात् । नाप्यनुभयत्वेन एकनिषेधस्येतरविधाननान्तरीयकत्वाद् विचारासहत्वमेव तत्त्वं वस्तूनामिति बौद्धमतमयुक्तम् । सदसतोच विचारासहत्वस्य सर्वप्रमाणविप्रतिषिद्धत्वादिति बौद्धमतोपरि यद्दषणमुक्तं तदद्वैतमतेऽपि समम् । अद्वैतिभिरपि पदार्थानां सत्त्वाद्यभावस्याङ्गीकृतत्वादिति अद्वैतमतमपि बौद्धमतवदेवाप्रामाणिकं प्रमाणविरुद्धं च ।

‘तात्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथा च भिन्नविषयत्वान् न सर्वप्रमाणप्रतिषेध इति बौद्धेन मन्मते निषेध्यमानं सत्त्वं पारमार्थिकं प्रमाणेन गृह्यमाणं सत्त्वं सांव्यवहारिकमिति निषेध्यपारमार्थिकसत्त्वस्य प्रमाणग्राह्यव्यावहारिकसत्त्वेन भिन्नत्वात् पारमार्थिकसत्त्वनिषेधकस्यास्मन्मतस्य व्यावहारिकसत्त्व- विषयकेण प्रमाणेन न विरोध इति नास्मन्मतं प्रमाणविरुद्धमिति बौद्धेनोक्तौ तन्निराकरणार्थं प्रवृत्तं " न ह्ययं सर्वप्रमाणसिद्धो लोक-व्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम्” इति भाष्यमित्थं व्याचक्रुर्भामतीकाराः…" प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्त्विकत्त्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते । बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि । तद्वदिहापि समस्तप्रमाणगोचरविपरीत तत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयम् । न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितम्" इति ।

तस्य चायमभिप्रायः-

प्रमाणानि स्वविषयाणां पारमार्थिकसत्त्वमेव गृण्हन्ति न व्यावहारिक- सत्त्वं, बाधके सति तद्विषयस्यापारमार्थिकत्वमवगन्तव्यम् । इदं रजतमित्यादिरूपस्य रजतादेः पारमार्थिकसत्त्वं गृह्णतः ज्ञानस्य शुक्तिकेयं न रजतमित्यादिज्ञानेन बाधितत्वाद् अपारमार्थिक ( मिथ्या ) विषयकत्वावगमवत्, प्रकृते च जगतः पारमार्थिकत्वावगमनकप्रमाणस्य बाधकं नोपलभ्यत इति न जगतः पारमार्थिकत्वनिषेधः व्यावहारिकत्वाङ्गीकरणं च युक्तमिति । तथा च जगतः विचारासहत्वं=व्यावहारिकत्वं=पारमार्थिकसत्त्वाभावं स्वीकुर्वद्वौद्धमतस्य सर्वप्रमाणविरोधो दुष्परिहर एवेति यद्दूषणमुक्तं यद्दृषणं जगतः प्रत्येकं सदसत्वाभ्यां विचारपदवीं न यत् । गाहते तदानर्वाच्यमाहुर्वेदान्त वेदिनः ॥ इति चित्सुखी विचारासहत्त्वं=व्यावहारिकसत्त्वं=मिथ्यात्वं प्रमाणानि विषयीकुर्वन्ति, वयं प्रमाणसिद्धं व्यावहारिकसत्त्वमङ्गीकृत्य पारमार्थिकसत्त्वं निषेधाम इति नास्मदीयमतस्य प्रमाणविरोध इति वदतामद्वैतिनां मतेऽपि सममिति अद्वैतिमतस्य जगतः पारमार्थिकसत्यत्वग्राहकसर्वप्रमाणविरोधः बौद्धमतस्येव दुर्वारः ।

किञ्च ‘विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद् बाधकं, (प्रमाणं) अतात्विकत्वं प्रमाणानां दर्शयति’ इति बौद्धेन पारमार्थिकसत्वग्राहकप्रमाणस्य बाधो वर्तत इति जगतः पारमार्थिकत्वं न ग्राह्यमित्युक्तौ “किं पुनरिदं विचारासहत्वं वस्तूनां यत्तत्वमभिमतं किं तद्वस्तु परमार्थतस्सदादीना- मन्यतमत् केवलं विचारं न सहते । अथ विचारासहत्वेन निस्तत्त्वमेव । तत्र परमार्थतः सदादीनामन्यतमद् विचारं न सहत इति विप्रतिषिद्धम् । न सहते चेन्न सहादीनामन्यतमद् अन्यतमच्चेत् कथं न विचारं सहते । अथ निस्तत्वं चेत्, कथमन्यतमत्तत्वमव्यवस्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तत्वं भावानाम् । तथा सति हि तत्त्वाभावः स्यात्, सोऽपि च विचारं न सहते इत्युक्तं भवद्भिः” इति वाक्येन विकल्पपूर्वकं बौद्धमते यद्दषणमुक्तं तदद्वैतमतेऽपि समम् ।

“अपि चारोपितं निषेधनीयम् । आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः-न चेत् किश्चिदस्ति तत्वं कस्य कस्मिन्नारोपः” इति वाक्यैर् बौद्धमते तत्वभूताधिष्ठानाभावेन भ्रमासम्भव उक्तः-स (भ्रमासम्भवो) न युक्तः । शून्यवादिनामपि शून्यताया एव सत्यत्वात् (शां.भा.भाम.१.१.१) इति भामतीवाक्येन ।

**द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना । **

लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥

इत्यादिबौद्धवाक्यैश्च शून्यवादिबौद्धमते शून्यस्य तत्त्वताङ्गीकारावगमात् तस्यैव भ्रमाधिष्ठानत्वसम्भवात् । न च शून्यं तत्त्वमित्यस्मिन्विषये प्रमाणाभावात् कथं शून्यस्य तत्त्वताङ्गीकार इति वाच्यम् । अद्वैतमतेऽपि ब्रह्मणो ऽज्ञेयत्वाङ्गीकारेण निर्गुणं ब्रह्म तत्त्वमित्यस्मिन् विषये प्रमाणाभावेन निर्गुणं ब्रह्म तत्त्वमित्यङ्गीकारस्याप्ययोगात् । न च शून्यस्याज्ञेयत्वे निर्धर्मकत्वे च अधिष्ठानत्व (भ्रमविशेष्यत्व) प्रयोजकानां सामान्यज्ञानविशेषज्ञानसामान्यधर्मविशेषधर्मारोप्यसादृश्यानामभावेन शून्ये जगदारोपासम्भव इति वाच्यम् । अद्वैत्यभिमते निर्गुणे ब्रह्मण्यपि निर्धर्मकत्वेनाज्ञेयत्वेन च अधिष्ठानत्वप्रयोजकानां सामान्यज्ञानादीनामसम्भवेन भ्रमासम्भवस्य तुल्यत्वात् । तथा च “तस्मान्निष्प्रपञ्चं परमार्थसद्ब्रह्म अनिर्वाच्यप्रपश्चात्मना आरोप्यते” इत्युक्तिर् अयुक्तैवेति ॥ ’ तच्च तत्वं व्यवस्थाप्य अतात्विकत्वेन सांव्यवहारिकत्वं प्रमाणानां बाधकेनोपपद्यते इत्युक्तेरसम्भवेन यथा शून्यवादिमते जगतः पारमार्थिकसत्त्वग्राहिप्रमाणस्य बाधासम्भवेन जगत् पारमार्थिकं न व्यावहारिकमिति त्वयोक्तं तथा अद्वैतमतेऽपि जगतः पारमार्थिकसत्त्वग्राहिप्रमाणस्य बाधासम्भवेन जगत्पारमार्थिकमेव न व्यावहारिकमिति सिध्यतीति बौद्धमतवद् अद्वैतमतमपि सर्वप्रमाणविप्रतिषिद्धमेवेति ।

“शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्धस् तन्निराकरणाय नादरः- क्रियते" इति ( ब्र.शां.भा.२.२.३१) वाक्यमिदं ब्रह्मविद्याभरणकाराः ‘शून्यपदेन सर्वप्रपञ्चातीतं भावरूपं किञ्चित्तत्त्वं विवक्षितमुताभावरूपम् । नाद्यः । तथा सति वाचोयुक्त्यन्तरेण ब्रह्मवाद एवाश्रितः । यदि द्वितीयः पक्षस् तदा सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभावस् तत्त्वमिति निरूपयितुमशक्यमिति दूषणस्य स्फुटतया तन्निराकरणाय न सूत्रकृता सूत्राण्यारचितानि ’ इति व्याचक्रुः ।

तत्र शून्यं भावरूपमिति प्रथमकल्पे वाचोयुक्त्यन्तरेण शून्यवादिबौद्धैर् ब्रह्मवाद एवाश्रित इति शून्यवादिनौद्धमतसाम्यमद्वैतमतस्य अद्वैतिभिरेवाङ्गीकृतमिति नाद्वैतमतनिराकरणमस्माभिः प्रत्येकं कार्यं बौद्धमतनिराकरणेनैव तन्निरासात् । बौद्धैः शून्यं प्रपञ्चाभावरूपमिति द्वितीयपक्षाङ्गीकारे प्रपञ्चस्य प्रमाणैरुपलभ्यमानत्वेन प्रपञ्चाभाव एव तत्त्वमिति पक्षस्य साधयितुमशक्यत्वमिति यदूषणं बौद्धमतोपरि अद्वैतिभिरुक्तं तदद्वैतमतेऽपि समम् । तैरपि ब्रह्मणः प्रपश्चाभावरूपत्वाङ्गीकारात् । तथाहि तद्वाक्यानि

‘प्रपञ्चनिषेधाधिकरणीभूतब्रह्मस्वरूपत्वान् निषेधस्य तात्विकत्वेऽपि नाद्वैतहानिकरत्वम्’ (अद्वैतसिद्धिः)

‘भावेऽप्यभावानतिरेकस्वीकारादेवाद्वैतव्याघातो ऽस्माभिरपि ब्रह्मव्यतिरिक्ताभावानङ्गीकारान् नाद्वैतव्याघात इति । (खण्डनखण्डखाद्यम्) एतेन यत् कैश्चिदुक्तं सांख्यादिमतनिराकरणार्थं भगवता बादरायणेन यथा सूत्राण्यारचितानि तथा अद्वैतमतनिराकरणार्थं सूत्राणि न रचितानि अतः सूत्रकारणामद्वैतमतं संमतमिति तदपि निराकृतम् ।

अद्वैतभिर्ब्रह्मणः प्रपञ्चाभावरूपत्वाङ्गीकारेण “सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभाव एव तत्त्वमिति निरूपयितुमशक्यमिति दूषणस्य स्फुटत्वेन तन्निराकरणाय न सूत्रकृता सूत्राणि रचितानीति शून्यवादि- बौद्धमतनिरासकसूत्राणामरचनमिव अद्वैतमतनिरासकसूत्राणामरचनसम्भवात् ।

ननु ‘प्रत्यक्षादिप्रतीतिर्भ्रमरूपा भविष्यति युक्तिवाधितत्वात्’ इति वाक्येन प्रत्यक्षादिप्रतीतेर् भ्रमत्वेन तया सिध्यत् पारमार्थिकत्वं नाङ्गीकारार्हमिति बौद्धाक्षेपस्य प्रत्यक्षादिप्रमाणविरोधे युक्तीनामेवाभासत्वोपपत्तेर्

इति (ब्र.वि.भ.) वाक्येन प्रत्यक्षबाधकत्वं युक्तेर्न सम्भवतीति जगत् सदित्येवाङ्गीकरणीयमिति यन् निराकरणं कृतं तस्याद्वैतमतेऽपि साम्येन बौद्धवदद्वैतिभिरपि जगतः सत्त्वमङ्गीकरणीयमेवेति । बौद्धाद्वैतमतयोस्साम्याद् अद्वैतिनां बौद्धमतोपरि यद्दूषणं तदद्वैतमतेऽपि प्राप्नोति । यः परिहारो ऽद्वैतिनां, स परिहारो बौद्धमतेऽपि सम इति बौद्धमतनिरासकानि सूत्राणि अद्वैतमतनिरासकानीति अद्वैतमतं बौद्धमतवत् सकलप्रमाणविरुद्धमिति बौद्धमवद् अद्वैतमतमपि सकलप्रमाणविरुद्धत्वादास्तिकैर्न ग्राह्यमेवेति ।

ॐ सर्वथाऽनुपपत्तेश्च ॐ (२.२.३२)

" किं बहुना सर्वप्रकारेण यथा यथाऽयं वैनाशिकसमय उपत्तिमत्त्वाय परीक्ष्यते तथा तथा सिकताकूपवद्विदीर्यत एव न काञ्चिदप्यत्रोपपत्तिं पश्यामः । ततश्चानुपपन्नो वैनाशिकतन्त्रव्यवहार ः" इति उपपत्त्युपलब्ध्यभावेन अनुपपन्नत्वरूपं यद्दूषणमुक्तं बौद्धमतोपरि शङ्कराचार्यैः, तदद्वैतमतेऽपि समम् अद्वैतमतस्यानुपपन्नत्वात् । अद्वैतिभिः कण्ठत एव स्वमतस्यानुपपन्नतायाः (उपपत्तिविरुद्धताया) अङ्गीकृतत्वेन अस्माकम् अनुपपन्नता ( उपपत्तिविरुद्धता) प्रदर्शनपरिश्रमभारस् तैरेव अवरोपितः । तथाहि अद्वैतमतस्य उपपत्तिविरुद्धतानुमोदनपराणि तद्वाक्यानि -

**(अद्वैतसिद्धिः) **’ तस्य मायिकत्वेन मायायाश्र… सर्वानुपपत्तेर्भूषणत्वात्’ इति ।

( ब्रह्मानन्दी) भूषणत्वादिति । उक्तं हि खण्डने)

**अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः । **

अद्वैतिनां ते सुहृदः प्रपचे तत्प्रसञ्जकाः ॥ इति ।

सत्तां निघ्नन्ति= सत्ताभावं ज्ञापयन्ति । तत्प्रसञ्जकाः=सत्वाभावज्ञापकाः ।

(भामती) अस्तु वा अनुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् । अनुपपत्तिर्हि मायामुपोद्बलयति अनुपपद्यमानार्थत्वान्मायायाः (ब्र.सू. १.४.२२)

( कल्पतरुपरिमले ) मायायामनुपपत्तिरलङ्कार इति न मायावादे अत्यन्तमुपपादनार्थं प्रयतितव्यमिति ( ब्र.सू.१.४.२२)

(भामती) परमार्थस्तु-न भ्रमो नाम कश्चिन् नापि संसारो नाम - किन्तु सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीयमिति युक्तमुत्पश्यामः "

दुर्घटत्वमविद्याया भूषणं न तु दूषणम् ।

कथञ्चिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति ।

इत्याद्यद्वैतिवाक्यानि स्वमतस्यानुपपन्नतां (उपपत्तिराहित्यं=उपपत्तिविरुद्धतां च ) दर्शयन्ति ।

किश्च बौद्धमतोपरि ‘अपि च वाह्यार्थविज्ञानशून्यवादत्रयमितरेतर-विरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसम्बद्धप्रलापित्वं” इति वाक्येन इतरेतरविरुद्धोपदेशकर्तृत्वेन सुगतस्यासम्बद्धप्रलापित्वरूपं यद्दूषणमुक्तं तद् अद्वैतमतोपरि समम् । १. परिणामवादविवर्तवादद्वैतोपशान्तिवादत्रयं २. जीवाभासतानाभासतावादद्वयं ३. जीवैकत्वानेकत्ववादद्वयं, ४. तत्त्वमसीत्यादिवाक्यानां जीवब्रह्मैक्यबोधकत्वचिन्मात्रबोधकत्वबोधकत्वा- भावरूपवादत्रयम् एवमेवानेकवादान् परस्परं विरुद्धान् उपदिशता अद्वैतिनाऽपि आत्मनोऽसम्बद्धप्रलापित्वस्य स्पष्टीकृतत्वात् ।

ननु भगवतः शङ्करस्य पुराणेषु शङ्कराचार्यत्वप्रसिद्धेस् तस्य कथम् असम्बद्धप्रलापित्वमिति शङ्करविषये आक्षेपः सर्वज्ञस्य भगवतो वासुदेवस्येतिहासपुराणयोर्बुद्धत्वप्रसिद्धेस्तस्यासम्बद्धप्रलापित्वं कथमिति बुद्धविषये आक्षेपेण समानः ।

बुद्धविषये प्रद्वेषो वा प्रजासु (वैदिकपथविरुद्धप्रजासु) विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति यत् शाङ्करं समाधानं तच्छङ्करविषयेऽपि समम् ।

**द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । **

**दैवो विस्तरशः प्रोक्त आसुरी पार्थ मे श्रुणु । **

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ॥ ( गीता )

इत्यादिषूक्तवैदिकपथविरुद्धप्रजासु विरुद्धार्थप्रतिपत्त्या= ‘ईश्वरोऽहं ’ ‘असत्यमप्रतिष्टं ते जगदाहुरनीश्वरं ’ इत्यादिगीतासु आसुरमतत्वेनोक्तः यो ऽहमीश्वरः (जीवो ब्रह्मैव नापरः ) जगन्मिथ्या इत्यादिर्वेदविरुद्धोऽर्थस् तस्य प्रतिपत्त्या विमुह्येयुरिमास् तामसाः प्रजा इति प्रद्वेषेण विरुद्धोपदेशकरणाद् इति ।

तथा च शङ्करोक्तयुक्तिभिर् यथा सर्वथाऽप्यनादरणीय एवायं सुगतसमयः श्रेयस्कामैरिति सिध्यति तथा सर्वथाऽप्यनादरणीय एव अद्वैतसमयः श्रेयस्कामैरित्यपि सिध्यति । एवमिदमधिकरणं शङ्करभाष्याद्युक्त- रीत्या बौद्धमतस्येव अद्वैतमतस्य प्रमाणविरुद्धत्वादिकथनद्वारा श्रेयस्कामैरनादरणीयत्वं बोधयतीति अद्वैतमतमनुपादेयमेवेति ।

स्याद्वादिमतनिरासके षष्ठेऽधिकरणे, “न चैषां पदार्थानामवक्तव्यत्वं सम्भवति । अवक्तव्याश्चेन्नोच्येरन् । उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धमित्यादिदूषणं यत्स्याद्वादिमतोपरि दत्तं तद्दृषणं पदार्थानामनिर्वाच्यत्ववादिनामद्वैतिनामपि समम् । तैरपि पदार्थानामनिर्वाच्यत्व (अवक्तव्यत्व) मुत्क्का पुनः पदार्थानां कथ्यमानत्वाद् इत्याद्यनेकानि दूषणानि स्याद्वाद्याद्युपरि उक्तानि अद्वैतिमते सम्भवन्ति । ग्रन्थगौरवभयाद् उपरम्यते इति ।

ॐ पत्युरसामञ्जस्यात् ॐ (२.२.३७)

इति सूत्रभाष्ये “इदानीं केवलाधिष्ठात्री श्वरकारणवादः प्रतिषिध्यते । तत्कथमवगम्यते । ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ’ ‘अभिध्योपदेशाच्च’ (ब्र.सू.१.४.१३, १४ ) इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् । यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभि- व्याहारस्सूत्रकार इत्येतदापद्येत” इति वाक्येन सूत्रकार ईश्वरस्य प्रकृतित्वं ( उपादानकारणत्वं ) निमित्तकारणत्वं च ‘प्रकृतिचे त्यादि (१.४.२३, २४) सूत्रैर् अवदत् । तद्विरुद्धमीश्वरस्य केवलनिमित्तकारणत्वं निषेधत्यस्मिन्नधिकरणे इति यदुक्तं तदयुक्तम् । तद्बोधकानां पदानाम- विद्यमानत्वेन ‘निर्विकारोऽक्षरश्शुद्धः’ इत्यादिश्रुत्या निर्विकारत्वेन सिद्धस्य ब्रह्मण उपादानकारणत्वानुपपत्त्यादिना च सूत्रकारैर्ब्रह्मण उपादानकारणत्वं प्रकृत्यधिकरणे नोक्तमिति तत्सूत्रभाष्यखण्डनावसरे समर्थितत्वात् ।

केवलं निमित्तकारणमीश्वर इत्येष पक्षः वेदान्तविहितब्रह्मात्मैकत्व- पक्षप्रतिपक्षत्वाद् यत्नेनात्र प्रतिषिध्यते इति च यदुक्तं तपप्यसाधु । अद्वैतबोधकतयाऽङ्गीकृतानां तत्त्वमस्यादिवाक्यानां बोधजनकत्वस्यैवाद्वैति- भिरनङ्गीकृतत्वेन बोधकत्वाङ्गीकारेऽपि चिदित्येतावन्मात्रवोधकत्वां (अखण्डार्थबोधकत्वां) गीकारेण । निर्गुणे (सकलधर्मरहिते) असङ्गे चिदूपे ब्रह्मणि शब्दप्रवृत्तिप्रयोजकानां रूढियोगलक्षणागौणीवृत्तीनां मध्ये कस्या अपि वृत्तेरसम्भवात् केनापि शब्देन चिदूपब्रह्मोपस्थितेरसम्भवेन च तत्त्वमस्यादिवाक्यैर् ब्रह्मैकत्वप्रतिपत्तेरेवाद्वैतमते अयोगात् । ब्रह्मैकत्वस्य वेदान्तविहितत्वाभावेन “केवलं निमित्तकारणमीश्वर इत्येष पक्षः वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद् यत्नेन प्रतिषिध्यते” इत्युक्तेरसम्भवात् ।

यथाऽन्येषां मतानि क्वचित्क्वचिद्विषये अप्रमाणानि प्रमाणविरुद्धान्यपि न ह्यद्वैतिमतवत् सर्वांशे अप्रमाणानि प्रमाणविरुद्धानि स्वव्याहत्याद्यशेषदोषयुक्तानि च । अद्वितीयस्य निर्विकारस्य उदासीनस्य ( कर्तृत्वादिरहितस्य ) शशविषाणसोदरस्य अप्रामाणिकस्य अद्वैत्यभिमतब्रह्मणः प्रकृतित्वम् अधिष्ठातृत्वं वददद्वैतमतम् अप्रमाणं प्रमाणविरुद्धं स्वव्याहत्यादिसकल- दोषयुक्तं च स्वीकृतमद्वैतिभिरेव अस्मन्मतं ( अद्वैतिमतं ) स्वव्याहत्यादि - दोषयुक्तमनुपपन्नमिति ।

‘पत्युरसामञ्जस्याद् इति सूत्रस्य पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते । कस्मात् । असामञ्जस्यात् । किं पुनस्सामञ्जस्यम् ? हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागदेषादिदोष-प्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत’ इति यद्व्याख्यानं तदप्ययुक्तमेव । अद्वैतिनां पक्षे हीनमध्यमोत्तमभावेन प्राणिभेदान्विदधत ईश्वरस्य रागादिदोषप्रसक्तेः ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति’ (व्र.२.१.३४ ) इत्यादिसूत्र ः कर्मापेक्षत्वेन परिहारवत् केवलाधिष्ठात्री श्वर- कारणवादेऽपि दोषस्य परिहर्तुं शक्यत्वात् ।

ननु केवलाधिष्टात्रीश्वरकारणवादे प्राणिकर्मापेक्षत्वाद् वैषम्यनैर्घृण्यादिदोषपरिहारः कर्तुं न शक्यते । इतरेतराश्रयदोषात् । अनादित्वाङ्गीकारे अन्धपरम्परान्यायापत्तेरिति चेत् तर्हि एवमेव ब्रह्मणः कारणत्ववादिनाम् अद्वैतिनां पक्षे ‘वैषम्यनैर्धृण्ये’ इति सूत्रेण कृतस्यापि दोषपरिहारस्यायुक्तत्वापत्तेस् तत्र बीजांकुरन्यायेनोपपत्तेर्न कश्चिद्दोषोऽस्तीति यत्समाधानं तत्समाधानस्य ईश्वरस्य केवलं कर्तृत्ववादिनां मतेऽपि समत्वात् । तथाच ईश्वरस्य कर्तृत्वं वदतां सेश्वरसांख्यादीनां मतेषु ईश्वरस्य कारणत्वनिरासे अद्वैत्युक्तप्रकारो न युक्तः ।

ॐ सम्बन्धानुपपत्तेश्च ॐ (२.२.३८)

इति सूत्रस्य भाष्ये “पुनरप्यसामञ्जस्यमेव । न हि प्रधान- पुरुषव्यतिरिक्त ईश्वरोऽन्तरेण सम्बन्धं प्रधानपुरुषयोरीशिता । न तावत्संयोगलक्षणः सम्बन्धः सम्भवति प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च । नापि समवायलक्षणः सम्बन्ध आश्रयाश्रयिभावानिरूपणात् । नान्यः कश्चित्कार्यगम्यः सम्बन्धः शक्यते कल्पयितुं कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात्” इति यद् दूषणं तदद्वैतमतेऽपि समम् । निर्विशेषस्य ‘असङ्गो ह्ययं पुरुष’ इति श्रुत्या असङ्गस्य ब्रह्मणः प्रकृतिशब्दवाच्यया अविद्यया सम्बन्धानुपपत्तेः-

न च तादात्म्यलक्षणसम्बन्धेनोपपत्तिरिति वाच्यम् । असङ्गस्य निर्विशेषस्य ब्रह्मणः केनापि कस्यापि सम्बन्धस्यानुपपत्तेः । प्रकृतीश्वरयोः सत्यत्ववादीश्वरवादिमतापेक्षया अद्वैतमते सत्यभूतब्रह्मणो मिथ्याभूतेन त्रिकालेऽप्यसता शशविषाणायितेन जगता तादात्म्यसम्बन्धा (अभेदा) नुपपत्तिरूपाधिकदोषाच्च ।

ननु “अपि च आगमबलेन ब्रह्मवादी (अद्वैती) कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्ति । परस्य तु दृष्टान्तबलेन कारणदिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः " इति चेन्न । ब्रह्मवादिना ( अद्वैतिना) ब्रह्मातिरिक्तस्य सर्वस्य जगतश्शशविषाणवन्नास्ति नासीन्न भविष्यतीति बोध्यमानत्रैकालिकनिषेधप्रतियोगित्वाङ्गीकारेण जगदन्तर्गत कारणादि- स्वरूपस्यापि मिथ्यात्वेन तद्विषये आगमस्य प्रामाण्यासम्भवात् ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः’ इति गौडपादोक्तरीत्या उत्पत्त्यादेरेव शशविषाणवदसत्त्वेन तत्कारणताया ब्रह्मणि वक्तुमशक्यत्वाच्च । ईश्वरवादिनामपि जगत्कारणत्वबोधकानां सर्वज्ञ- प्रणीतागमानां सद्भावाच्च ।

न च आगमप्रत्ययात्सर्वज्ञत्वसिद्धिः सर्वज्ञप्रत्ययाच्चागमसिद्धिरितीतरेतरा- श्रयत्वप्रसङ्गस्तार्किकेश्वरवादे इति वाच्यम् । अद्वैतमतेऽपि ‘आरोप्यस्य वेदस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिः ’ इति भामतीभाष्याद्युक्तरीत्या परस्पराश्रयत्वस्य दुर्वारत्वात् । ननु अनादित्वात् ‘अनवस्थादयो दोषा अद्वैतिनां सुहृदः’ इत्यस्मदाचार्योक्तरीत्या अस्माकं (अद्वैतिनां) अनवस्थान्योन्याश्रयचक्रकादीनां सुहृत्त्वाच्च परस्पराश्रयो न दोष इति चेत्-ईश्वरकारणवादिभिरपि परस्पराश्रयत्वादीनां सुहृत्त्वान्न ते दोषा इति वक्तुं शक्यत्वात् ।

ननु न वयं परस्पराश्रयादीनां सुहृत्त्वं निरर्थकमङ्गीर्कुमः । किन्तु ब्रह्मातिरिक्तस्य सर्वस्यासत्त्वं ब्रह्मणश्चाज्ञेयतया अवाच्यतया च शशविषाण- सोदरतां च वदतामस्माकं साधनीयस्याभावेन परस्पराश्रयादीनाम् अस्मदिष्ट- पदार्थसत्तानाशजनकर्त्वन तेषां सुहृत्त्वमङ्गीकुर्मः । उक्तं हि खण्डनखण्डखाद्यकृता-

**अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः ॥ **

अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥

इति ब्रह्मकारणत्वादिरूपजगत्सत्तानाशकत्वेनेति चेत्तर्हि ब्रह्मातिरिक्तं ब्रह्मणः कारणत्वरूपस्नान संध्याजपदेववेदयज्ञपुण्यपापस्वर्गलोक भागीरथ्यादितीर्थादिकं सर्वमपि सत्तारहितं (असत्) इति वदता अद्वैतिना निर्मूलीकृत आस्तिकवादः । अस्ति परलोको ऽस्ति च फलदाता ईश्वर इत्यादिर्बुद्धिर्यस्य तस्यास्तिकत्वेन, नास्ति परलोकः फलदाता ईश्वरो नास्ति पुण्यं नास्ति पापं नास्तीति बुद्धिर्यस्य तस्य नास्तिकत्वेन ये प्रत्यक्षग्राह्यपदार्थानां सत्तामङ्गीकृत्यापि अतीन्द्रियधर्माधर्मस्वर्गनरकादीनां सत्तां नाङ्गीकुर्वन्ति ते नास्तिकाः । अद्वैती तु प्रत्यक्षग्राह्याणामपि सत्तां नाङ्गीकारोतीति नास्तिकनास्तिकः (महानास्तिकः ) इति । अलं महानास्तिकेन आस्तिकवन् नटनं कुर्वता अद्वैतिना प्रसङ्गेन ।

एवं सम्बन्धानुपपत्त्यादिदोषाणाम् अद्वैतमतेऽपि विद्यमानत्वेन सांख्ययोगवादिनामीश्वरकल्पनाया दुष्टत्ववद् अद्वैतवादिनां ब्रह्मकल्पनाऽपि दुष्टै ।

ॐ अधिष्ठानानुपपत्तेश्च ॐ ( २.२.३९)

इति सूत्रस्य ‘“इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य । स हि परिकल्प्यमानः कुम्भकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् । न चैवमुपपद्यते । न ह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं सम्भवति मृदादिवैलक्षण्यात्” इति तार्किकपरिकल्पितेश्वरकारणत्वनिराकरण परतया यद् व्याख्यानं तदप्ययुक्तम् । इत्थमेव अद्वैतिपरिकल्पितेश्वर- कारणत्व निराकरणपरतया योजयितुं शक्यत्वेन स्वमतसाधारणदूषणेन परमतनिराकरणस्यायुक्तत्वात् ।

ननु तार्किकै ः ईश्वरकारणत्वस्य सत्यत्वाङ्गीकारात् सत्यकारणत्वस्य अधिष्ठानाद्यपेक्षत्वाद् अधिष्ठानाद्यसम्भव ईश्वरकारणत्वं न संजाघटीति । अस्मन्मते (अद्वैतिमते) जगद्रूपं कार्यं मिथ्या ईश्वररूपकारणं मिथ्या तस्येश्वरस्य कारणत्वमपि मिथ्या नास्ति नासीन्न भविष्यतीति त्रैकालिक- निषेधप्रतियोगीति (असन्निति) अधिष्ठानाद्यपेक्षाभावाद् अधिष्ठानाद्यनुपपत्ती न किश्चिद्वाधकं प्रत्युत “दुर्घटत्वमविद्याया भूषणं न तु दूषणम् । कथंचिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत्” इत्यस्मदाचार्योक्तरीत्या अविद्याया अविद्याकल्पितस्य च अनुपपत्तेर्भूषणत्वेनाङ्गीकाराद् अधिष्ठानाद्यनुप- पत्तेर्भूषणत्वमेवेति चेन्न । दोषस्यापि भूषणत्वं वदतः हेयोपादेयरहितस्य तव वादित्वासम्भवेन असम्भाष्यत्वात् ।

ॐ करणवच्चेन्न भोगादिभ्यः ॐ (२.२.४०)

इति सूत्रस्यापि ‘“स्यादेतत्-यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषोऽधितिष्ठत्येवं प्रधानमपीश्वरोऽधिष्ठास्यतीति । तथापि नोपपद्यते । भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते । न चात्र भोगादयो दृश्यन्ते । करणग्रामसाम्ये वाऽभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन्” इत्यादि तार्किकपरिकल्पितेश्वरकारणनिराकरणपरतया व्याख्यानं पूर्वोक्तन्यायेन अद्वैतमतेऽपि दोषप्रसत्त्यादिना निरस्तम् ।

ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ (२.२.४१)

इति सूत्रस्य यत्तार्किकपरिकल्पितेश्वरकारणवादनिरासपरतया ‘इतश्च…कारणवाद’ इति यद्व्याख्यानं कृतं तदयुक्तम् । तार्किकेश्वरपक्षे उक्तदोषाणामयुक्तत्वात् । अद्वैतमतेऽपि तेषां दोषाणां प्राप्तेः । तथा हि “स हि (तार्किकपरिकल्पित ईश्वरः ) सर्वज्ञस्तैरभ्युपगम्यतेऽनन्तश्च । अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्ते । तत्र सर्वज्ञेनेश्वरेण प्रधानस्यपुरुषाणामात्मनश्श्रेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत । उभयथापि दोषोऽनुषक्त एव । कथम् पूर्वस्मिंस्तावद्विकल्पे इयत्ता परिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यं भावि, एवं लोके दृष्टत्वात् । यद्धि लोके इयत्तापरिच्छिन्नं वस्तु पटादि तदन्तवद् दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् । संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् । स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति । पुरुषगता च महासंख्या । ततश्चेयत्तापरिच्छिन्ना मध्ये ये संसारिणः संसारान्मुच्यन्ते तेषां संसारोऽन्तवान् संसारित्वं च तेषामन्तवत् । एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् । प्रधानं च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयसंसारित्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत् । किं विषये वा सर्वज्ञतेश्वरते स्याताम् ? प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सति आदिमत्त्वप्रसङ्गः । आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः । अथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत, न प्रधानस्य पुरुषाणामात्मनश्वयत्तेश्वरेण परिच्छिद्यत इति तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिपरो दोषः प्रसज्येत " इति वाक्येन सर्वज्ञ ईश्वरः प्रधानस्य पुरुषाणामात्मनश्च इयत्तां जानाति वा न वा । न जानाति चेत् सर्वज्ञत्वाभ्युपगमहानिर् इति यद्दूषणमुक्तं तदयुक्तम् । सर्वज्ञत्वं हि विद्यमानाशेषविशेषज्ञानवत्त्वम् । यदीश्वरः स्वात्मप्रधानपुरुषेषु विद्यमानामियत्तां न जानाति चेद् विद्यमानेयत्ताज्ञानाभावेन असर्वज्ञः स्यात् ।स्वात्मप्रधानपुरुषेषु नास्त्येवेयत्तेति पक्षे ईश्वरस्य असार्वज्ञप्रसक्तिः कथम् ?

विद्यमानविषयकज्ञानाभावात् हि असर्वज्ञो भवति । न हि शशविषाणाद्यज्ञानाद् असर्वज्ञो भवन् दृष्टः । न च प्रधानादयः संख्यापरिमाणवन्तः द्रव्यत्वान् माषादिवद् इत्यनुमानादस्तीयत्तेति तदज्ञाने चासर्वज्ञता भवत्येवेति वाच्यम् । ब्रह्मवाद्यद्वैतमतेऽपि द्रव्यत्वाद्यनुमानेन इयत्तायाः साधयितुं शक्यत्वेन ब्रह्मणस् तदज्ञाने असर्वज्ञत्वाद्यापत्तेर् दुर्वारत्वात् । न च अद्वैतमते आगमगम्यत्वेन ईश्वरस्य आगमबाधान् नैतदनुमानं प्रवर्तते इति वाच्यम् । अद्वैतमते ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वात्तद्विषये वेदस्याप्रमाणत्वेन अनुमानबाधकत्वासम्भवात् ।

सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणां चेयत्ता ज्ञायते ( परिच्छिद्यते) इति प्रथमपक्षे प्रधानपुरुषेश्वरा अन्तवन्तः संख्यापरिमाणान्यतररूपेयत्तापरिच्छिन्न त्वात् पटादिवदित्यनुमानेन अन्तवत्त्वस्य सिद्ध्या आदिमत्त्वप्रसङ्गः । तथा च आद्यंतवत्त्वे शून्यवादप्रसङ्ग इति चेद् अद्वैतमतेऽपि साम्यात् ।

न चाद्वैतिमते ब्रह्मातिरिक्तस्य सर्वस्यानिर्वचनीयत्वेन (इत्थमिति वक्तुमशक्यत्वेन) प्रधानपुरुषेश्वराणाम् इयत्ता परिच्छिद्यते इति न परिच्छिद्यत इति वा न वदामः । तूष्णीं स्थास्याम इति वाच्यम् । वदतीति हि वादीकिमप्यवदतो वादित्वानुपपत्तेः -तस्मात् तार्किकपरिगृहीतेश्वरकारणवादोक्तदोषाणाम् अद्वैति स्वीकृतब्रह्मकारणवादेऽपि साम्यात् । एवं स्वव्याहतदोषदानम् असङ्गतमेवेति ।

ॐ उत्पत्त्यसम्भवात् ॐ (२.२.४२)

इति सूत्रस्य “येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यातः । येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यायते । ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ् निर्धारितः प्रकृतिश्चाधिष्ठाता चेति । श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः । तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति । उच्यते । यद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवत्यस्ति तु अंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भः ।

तत्र भागवता मन्यन्ते । भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धा आत्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्न व्यूहरूपेणानिरद्धव्यूहरूपेण च । वासुदेवो नाम परमात्मोच्यते । संकर्षणो नाम जीवः प्रद्युम्नो नाम मनः । अनिरुद्धो नामामहङ्कारः । तेषां वासुदेवः पराप्रकृतिरितरे सङ्कर्षणादयः कार्यं तमित्थं भूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीण- क्लेशो भगवन्तमेव प्रतिपद्यते इति । तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्यावस्थित इति तन्न निराक्रियते “स एकधा भवति त्रिधा भवति, (छां.७.२६.२) ’ इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधा भावस्याधिगतत्वात् । यद्यपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते । श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् । यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति । अत्र ब्रूमः । न वासुदेवसंज्ञकात्परमात्मनः सङ्कर्षणसंज्ञकस्य जीवस्योत्पत्तिः सम्भवति । अनित्यत्वादिदोषप्रसङ्गात् । उत्पत्तिमत्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् । कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् । प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिं – ‘नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः (ब्रह्मसू.२.३.१७)’ इति तस्मादसङ्गतैषा कल्पना” इति ग्रन्थेन । तत्र भागवता मन्यन्ते वादुदेवः साक्षात् परमात्मा सङ्कर्षणो जीवः प्रद्युम्नो नाम मनो ऽनिरुद्धो नाम अहङ्कारस् तत्र वासुदेवः कारणं सङ्कर्षणादयः कार्यम् । तमित्थम्भूतं परमेश्वरं भगवन्तम् अभिगमन (अभिगमनं नाम वाक्लायचतसमावधानपूर्वकं देवता गृगमनम् ।) उपादान (पूजाद्रव्याणामार्जनम्) इज्या, स्वाध्याय (नारायण क्षरादि मंत्रजपः स्वाध्यायः ।) योगे (योगः ध्यानम्) र्वर्षशतम् इष्ट्वा क्षीणक्केशो भगवन्तमेव प्रतिपद्यते इति यत्प्रतिपाद्यते, तत्र श्रुतिस्मृत्यादिप्रमितत्वाद् भगवन्तम् अभिगमनादिना वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यते इत्येवं रूपं भागवतमतमनुमोद्य वासुदेवात् सङ्कर्षणो नाम जीवो जायते इत्येतं भागवतमतांशं वासुदेवात्परमात्मनः सङ्कर्षणसंज्ञकजीवस्य उत्पत्तिर्न सम्भवति जीवस्योत्पत्तिमत्त्वे अनित्यत्वादयो दोषाः प्रसज्येरन् । तथा अस्य जीवस्य भगवत्प्राप्तिरूपो मोक्षो न स्यादिति सूत्रकारो निराचकारेति उत्पत्त्यसम्भवाद् इति सूत्रस्यार्थवर्णनं शङ्कराचार्यणां न तद्युक्तम् ।

(१) वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञकमनो जायते प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इति पूर्वोदाहृतपञ्चरात्र- वाक्यस्य वक्ष्यमाणरीत्या अनेकाबाधितार्थानां सम्भवेन अद्वैतवादिभिरपि प्रमाणत्वेन स्वीकृतेषु महाभारतादिग्रन्थेष्वपि पश्चरात्रागमवज् जीवादि- विषयेषु उत्पत्त्यादिवोधकानां वाक्यानां सत्वेन तेषामप्रामाण्यमनुक्त्वा पञ्चरात्रस्यैवाप्रामाण्यकथनायोगात् ।

(२) भारत एव पञ्चरात्रस्य प्रामाण्यं वदद्भिः सूत्रकारैर्ब्रह्मसूत्रेषु पञ्चरात्रप्रामाण्यं निराक्रियत इत्युक्तेः सूत्रकाराणां व्याहतभाषित्वसम्पादकत्वेनायोगात् । न हि सूत्रकाराणां व्याहतभाषित्वमङ्गीकर्तुमर्हं प्रस्थानत्रयप्रामाण्यवादिभिर्वेदिकंमन्यैः ।

(३) ‘यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः ॥ ज्ञेयः स एव राजेन्द्र जीवः सङ्कर्षणः प्रभुः’ (महा.भा.शा.३३९.४०) इत्यस्मिन्वाक्ये वासुदेवस्य सङ्कर्षणरूपताया उक्तत्वात् तथा केशवादिचतुर्विंशतिनामसु विश्वादिविष्णुसहस्रनामस्वपि वासुदेवात्मकपरमात्मनः सङ्कर्षण इति नाम्नश्च सत्वात् ।

‘अहं हि जीवसंज्ञो वै’ ॥ ‘जीवः सङ्कर्षणः प्रभुः’ ॥ (बहा.भा.शां.) इति बाक्ययोः परमात्मनः जीव इति संज्ञायाः कथितत्वात् । जीवप्राणधारण इति धातुपाठानुसारेण प्राणधारकत्वगुणयोगेन जीवशब्दस्य परमात्मवाचकत्वसम्भवात् ।

जनीप्रादुर्भावे इति धातुपाठानुसारेण जायत इत्यस्य प्रादुर्भवतीत्यर्थकत्वेन वासुदेवात्सङ्कर्षणो नाम जीवो जायत इति पञ्चरात्रवाक्यस्य वासुदेवात्परमात्मनः जीवप्राणधारकत्वहेतुना जीवशब्दवाच्यं सङ्कर्षणनामकं भगवद्रूपं जायते अभिव्यक्तो भवति इति इतर प्रमाणानुसारिणोऽर्थस्य सम्भवाच्च ।

(४) सङ्कर्षणपदेन जीव एव पञ्चरात्रे उक्त इति स्वीकारेऽपि बाधकाभावात् । तथाहि-

१ यतो वा इमानि भूतानि जायन्ते २ सर्व एते आत्मनो व्युच्चरन्ति ३ चन्द्रमा मनो जातश्चक्षोः सूर्योऽजायत मुखादिन्द्राग्निश्च प्राणाद्वायुरजायत ४ जन्माद्यस्य यतः ५ अहं प्रजाः सिसुक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ॥ पतिं प्रजानामसृजं महर्षीनादिनो दश ॥ (मनुस्मृ. ३.३४) ६ बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ॥ (गी. ४.५ ) ७ जातस्य हि ध्रुवो मृत्युरध्रुवं जन्म मृतस्य च ॥ (गी.२.५ ) ८ सहयज्ञाः प्रजाः सृष्ट्वा (गी.३.१०) ९ मया सृष्टः पुरा ब्रह्मा (महा.भा.शां.३३९.६०) इत्यादिषु प्रमाणतया अङ्गीकृतेषु ग्रन्थेषु जीवस्योत्पत्तेः कथितत्वेन ग्रन्थानां जीवोत्पत्तिपतिपादकपञ्चरात्रस्येवाप्रामाण्यस्य वक्तव्यत्वापातात् ।

न च यतो वेत्यादि वाक्येषु जीवस्योत्पत्तिर्नाम देहसम्बन्ध एव कथ्यते । न तु स्वरूपोत्पत्तिर् अतो नाप्रामाण्यं श्रुत्यादीनामिति वाच्यम् । श्रुत्यादीनामिव पश्चरात्रस्यापि जीवस्य देहसम्बन्धरूपोत्पत्तिबोधकत्वेन प्रामाण्यसम्भवात् । पञ्चरात्रसमानार्थकस्यापि वेदादेः प्रामाण्यं पञ्चरात्रस्याप्रामाण्यमित्यस्य अर्धजरतीयन्यायेनोयोगात् ॥

ॐ न च कर्तुः करणं ॐ (२.२.४३)

इति सूत्रस्य कर्तुः सङ्कर्षणाज् जीवात् प्रद्युम्ननामकं करणं मनः प्रजायते यस्मान्न हि लोके कर्तुर्देवदत्तादेः सकाशात्) करणं परश्वादि उत्पद्यमानं दृश्यते इति यद् व्याख्यानं तद् बालानामपि उपहासकरं किमु प्रौढानाम् ।

तथाहि जीवः मनोरूपकरणोत्पादको न भवति । कर्तृत्वात् । यः कर्ता सकरणोत्पादको न भवति यथा देवदत्तः कर्ता न परशुरूपकरणोत्पादको भवति इति खलु अनुमानमुक्तं भवति । तन्न युक्तम् अनेकशिल्पपर्यवदातस्य करणरूपं परशुं कृत्वा तेन पलाशच्छेदनक्रियाकर्तृताया दर्शनेन व्यभिचारात् कर्तुः सकाशात् करणं नोत्पद्यते इति अनुमातुं शक्यते यः यस्यां क्रियायां कर्ता स तया क्रियया तत्क्रियाकरणं कर्तुं न शक्नोति यथा छेदनक्रियाकर्त्रा देवदत्तेन तया च्छेदनक्रियया च्छिदाकरणस्य परश्वादेः कर्तुमशक्यत्वेऽपि क्रियान्तरेण परशुं कृत्वा स्वकृतेन परशुना करणेन पलाशच्छेदनक्रियां कर्तुं शक्यत एव ।

प्रकृते च ज्ञानरूपक्रियोत्पत्तौ जीवः कर्ता मनः करणं पञ्चरात्रे ज्ञानरूपक्रियाकर्त्रा जीवेन ज्ञानरूपक्रियया तत्क्रिया (ज्ञान) करणभूतं मनः जायते इति यद्युच्यते तदाऽयं दोषः स्यात् । यः यत्क्रियाकर्ता तेन तत्क्रियया तत्क्रियाकरणं नोत्पद्यते लोके अदृष्टत्वाद् इति न तथोक्तं पञ्चरात्रे । किन्नाम जीवान्मनो जायत इत्येवोक्तम् । तस्मान्नेदमनुमानं साधु इति सुज्ञेयमेतद् बालानामपि ।

किं च महाभारते ‘सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते’ (म.भा.शां.३३९.४०) ‘स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् । (महाभा.७३) इत्यादौ संकर्षणात् प्रद्युम्नसंज्ञकमनस उत्पत्तिरुक्ता सा च ‘मयैव कथितं सम्यक् तव मूर्तिचतुष्ट्यं ( महाभा. शां. ३३९.४६ ) इति वासुदेवसंकर्षणप्रद्युम्नानिरुद्धानां परमात्मस्वरूपताप्रतिपादनात् परमात्मन उत्पत्त्यभावेन अनुपपन्नेव । यद्यपि भारते तथापि तत्र यथा प्रद्युम्नसंज्ञकस्य भगवद्रूपस्य संकर्षणरूपादभिव्यक्तिरूपां जनिं स्वीकृत्य प्रामाण्यं समर्थ्यते तथा पञ्चरात्रवाक्यस्यापि प्रामाण्योपपादनसम्भवात् ।

प्रद्युम्नसंज्ञकान्मनसो ऽनिरुद्धसंज्ञक अहङ्कारो जायते इति पञ्चरात्रोक्ते विषये न काप्यनुपपत्तिः प्रदर्शिता शङ्करभाष्ये । न सन्ति च अनुपपत्तयो ऽहङ्कारस्य मनस उत्पत्तिं बोधयतः सम्प्रतिपन्नप्रमाणभावस्य भारतवाक्यस्येव तथाविधपञ्चरात्रस्यापि प्रामाण्यमुपपाद्यत एव ।

किं च भारते ‘प्रद्युम्नाद्योऽनिरुद्धस्तु सोहङ्कारः स ईश्वरः ( महाभा. ३३९.४१) ‘प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः’ (७३) ‘अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः’ (७४) इत्यादिवाक्यैर् अहङ्कारस्य ईश्वरत्वस्य चतुर्मुखब्रह्मजनकत्वस्य चोक्तत्वेन अहङ्कारस्येश्वरत्वोक्तेर्नाप्रामाण्यम् । तथा पञ्चरात्रस्य अहङ्कारपदेन ईश्वररूपबोधकत्वेऽपि नाप्रामाण्यम् ।

ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ (२.२.४४)

इति सूत्रस्य अथापि स्यान्न चैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते किन्तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धमैरन्विता अभ्युपगम्यन्ते । वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति तस्मान्नायं यथावर्णित उत्पत्त्यसम्भवे दोषः प्राप्नोतीति । अत्रोच्यते । एवमपि तदप्रतिषेध उत्पत्त्यसम्भवस्याप्रतिषेधः प्राप्नोत्येवायमुत्पत्यसम्भवो दोषः । प्रकारान्तरेणेत्यभिप्रायः कथम् । यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश् चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति ततोऽनेकेश्वरकल्पनानर्थक्यमेकेनैवेश्वरेणेश्वरकार्यसिद्धेः सिद्धान्तहानिश्च भगवानैको वासुदेवः परमार्थतत्वमित्यभ्युपगमात् ।

अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति तथापि तदवस्थ एवोत्पत्त्यसम्भवः । न हि वासुदेवात्सङ्कर्षणस्योत्पत्तिः सम्भवति सङ्कर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्यातिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः । न ह्यसत्यतिशये कार्यं कारणमित्यवकल्पते । न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन् सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते । वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते नचैते भगब्यूहाश्चतुः सङ्ख्यायामेवावतिष्ठेरन् ब्रह्मादिस्तम्वपर्यन्तस्य समस्तस्यैव जगतो भगब्यूहत्वावगमात् । इति व्याख्यानेन पञ्चरात्रोक्तस्य वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धानां भगवद्रूपत्वस्य अयुक्तत्वात् । तत्प्रतिपादकं पञ्चरात्रमप्रमाणमिति यदुक्तं तन्न युक्तम् ।

वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपाणां परमात्मस्वरूपताबोधक पञ्चरात्रवाक्यस्य तथाविधभारतवाक्यसंवादित्वेन प्रामाण्योपपत्तेर्बोधकाभावाच्च । न चानेकेश्वरकल्पनानर्थक्यदोषः । भागवतैर्वासुदेवा एव हि सर्वे व्यूहा इति वासुदेवादिरूपाणामभेदाङ्गीकारात् । न च भागवतैस् तेषां भगवद्रूपाणां विशेषानङ्गीकाराद् एकस्य कारणत्वमपरस्य कार्यत्वं विशेषाभावेन सञ्जाघटीत इति वाच्यम् । न हि भागवता एकस्माद्भगवद्रूपादपरं भगवद्रूपं जायते इत्यभ्युपयन्ति येन त्वदुक्तदोषः स्यात् । किन्नाम स्वेच्छया अभिव्यज्यत इति यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥ अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं’ इति गीतोक्तेः ।

वासुदेवा एव हि सर्वे व्यूहा; निर्विशेषा इष्यन्ते (भागवतैः) इत्यत्र व्यूहशब्दस्य सङ्कर्षणप्रद्युम्नादिरूपपरत्वं स्वीकृत्य सर्वे व्यूहाः सङ्कर्षणादिरूपाणि वासुदेवा एव इत्यर्थो भवतीति मत्वा तस्य यदूषणमुक्तं शङ्कराचार्यैः ‘न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन् ब्रह्मादिस्तम्ब- पर्यन्तस्य समस्तस्यैव जगतः भगवद्व्यूहत्वावगमादिति’ तदयुक्तम् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धानामेव भगवद्रूपत्वं नान्येषामिति कुत्रापि नोक्तम् ।

प्रत्युत मत्स्यादिदशरूपाणि केशवादिचतुर्विंशतिरूपाणि विश्वादिसहस्ररूपाणि इत्यनेकशो मूर्तीनां भगवद्रूपत्वमुक्तम् इति ‘चतुः सङ्ख्यायामेवावतिष्ठेरन् इत्युक्तिरनुक्तोपालम्भरूपैव ।

यच्चोक्तं ब्रह्मादिस्तम्वपर्यन्तस्य समस्तस्य जगतः भगवद्व्यूहत्वावगमादिति तत्सकलशास्त्रविरुद्धम् अद्वैतमतविरुद्धं च । कस्मिन्नपि शास्त्रे (वेदे सूत्रेषु गीतायां वा) जडस्य जगतः भगवद्रूपत्वानभिधानाज् जन्यजनक- भावेनाधाराधेयभावेन सर्वज्ञत्वासर्वज्ञत्वाभ्यां पूर्णशक्त्यल्पशक्तिभ्यां च भगवता भेदस्यैवोक्तत्वात् । अद्वैतमतरीत्या असत्यस्य जगतः सत्येन ब्रह्मणा अभेदस्यायोगाच्च । ‘मयैतत्कथितं सम्यक् तव मूर्तिचतुष्टयम्’ ॥ इति भारते भगवब्यूहस्य (भगवद्रूपाणां )चतुष्ट्वस्योक्तत्वेन त्वदुक्तरीत्या तस्याप्यप्रामाण्यप्राप्तेः ।तस्मान् नेदं व्याख्यानं युक्तम् ।

विप्रतिषेधाच्च

इति सूत्रस्य विप्रतिषेधश्चास्मिन् शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणा आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् तस्मादसङ्गतैषा कल्पनेति सिद्धम् इति यद्व्याख्यानं तदप्ययुक्तम् । भिन्नभिन्नोपनिषत्सु सत्यज्ञानानन्दादीनां ब्रह्मरूपताप्रतिपादकानां सत्यं ज्ञानमित्यादिवाक्यानां, परमात्म- गुणत्वप्रतिपादकानां तदैक्षत’ ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च’ इत्यादिवाक्यानाम् एकस्यामेवोपनिषदि ‘आनन्दो ब्रह्मेति व्यजानात्’ ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादीनां गुणगुणित्वबोधकानां वाक्यानां चोपलम्भेन प्रकाशस्वरूपस्यापि सवितुः प्रकाशत इति व्यवहारसिद्धप्रकाशाश्रयत्ववद् ईक्षणादि (ज्ञानादि) रूपस्यापि ब्रह्मण ऐक्षत इत्याद्युक्तक्षणाद्याश्रयत्वमुपपाद्य यथा अविप्रतिषिद्धत्वं कथ्यते शङ्कराचार्याद्यैस्

तथा ‘ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणा आत्मान एवैते भगवन्तो वासुदेवा’ इति एकस्यैव गुणगुणित्वप्रतिपादकपञ्चरात्रस्यापि अविप्रतिषिद्धतां सम्पाद्य प्रामाण्यं वक्तव्यम् । अन्यथा एकस्यैव गुणगुणित्वप्रतिपादकानां पूर्वोदाहृतवेदवाक्यानामप्यप्रामाण्यप्रसङ्गान् न चान्यतरपक्षपाते कारणमस्ति ।

यच्चोक्तं विप्रतिषेधाच्च इति सूत्रस्य यद् वर्णनान्तरं वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषु परं श्रेयो लब्ध्वा शांडिल्य इदं शास्त्रमधिगतवानित्यादि वेदनिन्दादर्शनात् तस्मादसङ्गतैषा कल्पना इति तदप्ययुक्तम् । एवंरीत्या वेदनिन्दाबोधकानां बहूनां वाक्यानां वेदे पुराणेषु च दर्शनात् । तथाहि छान्दोग्ये ’ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपासीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ऋग्वेदं भगवो अध्येमियजुर्वेदं सामवेदमाथर्वणं … सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्’ । इति सनत्कुमारंप्रत्यध्ययनार्थं नारदो गतः । तदा सनत्कुमारस्तमाह किं भवता अधीतं तन्मह्यं निवेदय तत ऊर्ध्वम् उत्तरग्रन्थान् तेऽहं वक्ष्यामि इति । ततो नारदः प्रत्याह । ऋग्वेदाद्याः सर्वे वेदाः शिक्षादिवेदाङ्गानि अन्यानि सर्वाण्यपि शास्त्राणि मयाऽधीतानि तथापि मन्त्रविदेवास्मि न मोक्षसाधनात्मज्ञानवान् । इति वेदनिन्दा श्रूयते ।

‘यदि विद्याच्चतुर्वेदान्साङ्गोपनिषदान् द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः’ ॥ इति पुराणे साङ्गोपनिषत्सर्ववेदार्थज्ञानेऽपि पुराणज्ञानमन्तरा पण्डितो न भवतीति वेदनिन्दा श्रूयते ।

यदि वेदनिन्दाश्रवणमात्रेण पञ्चरात्रमप्रमाणं स्यात् । छान्दोग्यादिकमप्यप्रमाणं प्रसज्येत ।

ननु ऋग्वेदादयो महागुरूपदेशमन्तरा न समीचीनज्ञानजननाय प्रभवन्ति गहनार्थत्वात् ।

तथा ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति’ ॥ इत्युक्त्यनुसारेण उपबृंहकेतिहासपुराणाभावे वेदः विभेति न समग्रं स्वार्थं प्रकटयति अतः ब्रह्मसूत्रैरिव इतिहासपुराणाभ्यामपि वेदस्योपष्ठम्भनमावश्यकमिति सूचयत् ’ न चेत्पुराणं’ इति पुराणवाक्यं वेदानाम् अतिगम्भीरार्थत्वं प्रकटयन् न निन्दति इति चेत् पञ्चरात्रमपि शांडिल्यगाथामुखेन वेदानामतिगम्भीरार्थत्वादल्पमतीनां चतुर्भिरपि वेदैर्ज्ञानासम्भवाद् एतच्छास्त्रमधिगन्तव्यमिति बोधयद् वेदानतिगम्भीरार्थत्वेन स्तौति न तु निन्दति इति न पञ्चरात्रे वैदविप्रतिषेधः क्रियते । इति न पञ्चरात्रस्याप्रामाण्यं सिध्यति । तस्मान्नेदं युक्तं व्याख्यानम् ।

इति द्वितीयाध्यायस्य द्वितीयः पादः