आनुमानिकमप्येकेषामिति चेन्न शरीररूपक विन्यस्तगृहीतेर्दर्शयति च
भेदपराण्येव खलु ब्रह्मसूत्राणि
॥ अथ प्रथमाध्याये चतुर्थः पादः ॥
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपक विन्यस्तगृहीतेर्दर्शयति च ॐ (१.४.१)
इत्यादिसूत्रसप्तकात्मकमधिकरणं, सांख्याभिमतप्रधानस्य अशब्दत्वं=जगत्कारणत्वबोधकशब्दाप्रतिपाद्यत्वं प्रतिपादयितुं प्रवृत्तम् । ईक्षतेर्नाशब्द- मिति सूत्रे यत्प्रधानस्याशब्दत्वमुक्तं तन्न युक्तम् । आनुमानिकमपि अनुमाननिरूपितमपि प्रधानं ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (का.१.३.११) इति एकेषां शाखिनां शब्दवदुपलभ्यते । तदेव जगतः कारणमिति चेन् न । ’ शरीररूपक विन्यस्तगृहीते ः ’ न प्रधानम् अव्यक्तशब्दप्रतिपाद्यं किं तु ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च ’ (का. १.३.३.४) इति रथरूपकतया विन्यस्तस्य शरीरस्य, न व्यक्तम् अव्यक्तमिति व्युत्पत्या ग्रहणात् । ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च इत्युक्त शरीरस्थाने " महतः परमव्यक्तम् अव्यक्ताात्पुरुषः परः” इति अव्यक्त पदं प्रयुञ्जती श्रुतिः शरीरस्यैवाव्यक्तत्वं दर्शयतीति न सांख्याभिमतं प्रधानम् अव्यक्तशब्द वाच्यं किं तु शरीरमेवेति शब्दाप्रतिपाद्यमानं प्रधानं न जगत्कारणं किं तु ब्रह्मैवेति व्याख्यातत्वेन प्रधानब्रह्मणोर्भेदाभिधायकमिदं सूत्रम् । १.४.१
यदुक्तं शरीरम् अव्यक्तशब्दवाच्यमिति न तद्युक्तम् । शरीरस्य व्यक्तत्वेन (स्पष्टत्वेन) अस्पष्टवाचकाव्यक्तशब्दानर्हत्वादिति शङ्कायां प्रवृत्तं सूत्रम्
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ (१.४.२)
नात्र स्पष्टं (दर्शनयोग्यं) शरीरमव्यक्तशब्देन गृह्यते । सूक्ष्मं तु शरीरकारणमव्यक्तशब्देन गृह्यते । तस्य शरीरकारणस्य सूक्ष्मस्य तदर्हत्वाद् अव्यक्तशब्दार्हत्वादिति । १.४.२
यदुक्तं सूक्ष्मं शरीरकारणम् अव्यक्तशब्दवाच्यं न प्रधानमिति न तद्युक्तम् । तस्यैव शरीरकारणस्य सूक्ष्मस्य प्रधानतया अभ्युपगमादिति शङ्कायां प्रवृत्तं सूत्रम्
ॐ तदधीनात्वादर्थवत् ॐ (१.४.३)
अस्माभिरङ्गीकृतस्य भूतसूक्ष्मस्य ‘तदधीनत्वात्’ परमेश्वराधीनत्वान् न तत् सांख्याभिमतं स्वतंत्रं प्रधानं भवितुमर्हति किं तु ततोऽन्यदेव भूतसूक्ष्ममर्थवत् सृष्ट्याद्यर्थमवश्यं प्रयोजनवद् इति । १.४.३
ॐ ज्ञेयत्वावचनाच्च ॐ (१.४.४)
सांख्यैः स्वाभ्युपगतप्रधानस्य ज्ञेयत्वमुच्यते । अस्मदभिमतभूतसूक्ष्मस्य ज्ञेयत्वावचनाच्च ज्ञेयत्वकथनाकथनाभ्यां विरुद्धत्वाज् ज्ञेयतयाऽनुक्तमस्मदीयं भूतसूक्ष्मं न सांख्याभिमतं प्रधानमिति । १.४.४
ॐ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॐ (१.४.५)
‘अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते (का. २.३.१५) इति महतः परस्य (अव्यक्तस्य) निचाय्येति ज्ञेयत्वं’ वदतीति, पूर्वमुक्तं ज्ञेयत्वावचनमसिद्धमिति चेन् न । प्राज्ञो हि परमात्मा तत्र निचाय्यत्वेन (ज्ञेयत्वेन) निर्दिष्टः । कुतः । प्रकरणात् ‘पुरुषान्न परं किंचित्सा काष्टा सा परागतिः’ इति ‘परमेश्वरप्रकरणात् । तस्मान् न प्रधानस्यात्र ज्ञेयत्वम् अव्यक्तशब्दनिर्दिष्टत्वं वा’ इति व्याख्याततया इमानि चत्वारि सूत्राणि पूर्वोक्तार्थव्यवस्थापकत्वेन पूर्ववदेव प्रधानब्रह्मणोर्भेद- बोधकानीति । १.४.५
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ (१.४.६)
अस्मिन्ग्रन्थे कठवल्लीषु अग्निजीवपरमात्मनाम् उपन्यासः । अग्निजीव- परमात्मविषयक एव प्रश्नः । नातोऽन्यस्य प्रश्न उपन्यासो वा अस्ति । अतः न सांख्याभिमतं प्रधानं ‘महतः परमव्यक्तं ’ इति वाक्यघटकाव्यक्त- शब्दवाच्यम् इति प्रधानस्य शब्दाप्रतिपाद्यत्वाद् ब्रह्मैव जगत्कारणम्’ इति व्याख्याततया प्रधानब्रह्मणोर्भेदः जीवविषकप्रश्नोत्तरयोर् ब्रह्मविषयप्रश्नोत्तरयोश्च पृथक्पृथग्विद्यमानत्वेन जीवब्रह्मणोरपि भेदः सिध्यति । सूत्रं तु अविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् इति शङ्करभाष्ये उत्क्तत्वेन अस्य सूत्रस्य भेदप्रतिपादकत्वे न विवादः । श्रुतिसूत्रप्रतिपादितभेदस्य मिथ्यात्वकथनमयुक्तमिति तत्र तत्र वर्णितमनुसन्धेयम् । १.४.६
ॐ महद्वच्च ॐ (१.४.७)
‘यथा सांख्यैःमहच्छब्दस्य महत्तत्वे प्रयुज्यमानत्वेऽपि न वैदिकैस्तस्मिन्प्रयुज्यते । किं तु ‘बुद्धेरात्मा महान्परः ’ (का. १.३. १०) महान्तं विभुमात्मानं (का. १.२.२२) इत्यादावात्मशब्द - सामानाधिकरण्येनान्यत्र प्रयुज्यते तथाऽव्यक्तशब्दोऽपि वैदिके प्रयोगे प्रधानान्यस्मिन्नेव प्रयोक्तुमर्हतीति न प्रधानस्य शाब्दत्वमिति न प्रधानं जगत्कारणं किं तु ब्रह्मैव’ इति व्याख्याततया इदमपि सूत्रं भेदबोधकमेव । एवं च इदमधिकरणं चेतनाचेतनात्मकप्रपञ्चाद्ब्रह्मणः भेदाभिधायकमेवेति । १.४.७
ॐ चमसवदविशेषात् ॐ (१.४.८)
‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानाः सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः (श्वे. ४.५) इति मंत्रे लोहितशुक्लकृष्णात्मिका अजा उत्पत्तिरहिता श्रूयते । सा च सांख्याभिमता सत्वरजस्तमोगुणात्मिका उत्पत्तिरहिता प्रकृतिरेव भवितुमर्हति । सत्वगुणस्य शुक्लात्मकत्वेन रजोगुणस्य रक्तात्मकत्वेन तमोगुणस्य कृष्णात्मकत्वेन प्रकृतेर् लोहितशुक्लकृष्णरूपत्वसंभवाद् उत्पत्तिरहितत्वेन निमित्तेन अजाशब्दवाच्यत्वाच्च न प्रधानस्याशब्दत्वमिति प्राप्ते आह चमसवदविशेषाद् इति ।
‘चमसवत्’ ‘यथा ह्यर्णाग्बिलश्चमस ऊर्ध्वबुध्नः (बृ. २.२.३) इत्यस्मिन्मंत्रे स्वातंत्र्येणायं नामा असौ चमसोऽभिप्रेत इति न शक्यते निरूपयितुम् । सर्वत्रापि यथाकथंचिद् अर्वाग्विलत्वादिकल्पनोपपत्तेः । एवमिहाप्यविशेषोऽजामेकामित्यस्य मंत्रस्य । नास्मिन्मंत्रे प्रधान- मेवाजाऽभिप्रेतेति शक्यते नियन्तुम् । सर्वत्रापि यया कयाचित्कल्पनया अजादित्वसंपादनोपपत्तेः सांख्यवाद एवेहाभिप्रेत इति विशेषाव- धारणकारणाभावाद् इति । १.४.८
केयमजा प्रतिपत्तव्येति ? अत्र ब्रूमः
ॐ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॐ (१.४.९)
परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधभूतग्रामस्य प्रकृतिभूतेयमजैव प्रतिपत्तव्या न गुणत्रयलक्षणा सांख्याभिमता प्रकृतिः । कुतस् तथा ह्येके शाखिनस्तेजोवन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनंति यदने रोहितं रूपमित्यादि । १.४.९
कथं तेजोवन्नानाम् अजाशब्दवाच्यत्वं ? न तावद्रूढ्या, अजाकृत्यभावत् । नापि न जायत इत्यजा इति योगेन, उत्पत्तिमत्वाद् इति प्राप्ते आह ।
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ (१.४.१० )
‘मध्वादिवत्’ यथा ‘आदित्यस्यामधुनो मधुत्वं’ (छां. ३.१) वाचश्चाधेनोर्धेनुत्वं कल्प्यते तथा अनजाया अपि तेजोवन्नलक्षणाया अजात्वं कल्प्यते । तस्मादविरोधस्तेजोवन्नेष्वजाशब्दप्रयोगस्येति व्याख्याततया इमानि सूत्राणि ‘अजामेकामिति श्रुत्युक्ता अजा परमेश्वरादुत्पन्ना तेजोबन्नलक्षणैव । न तु सांख्याभिमता प्रकृतिर् इति अभिदधति संति, उत्पाद्योत्पादकभावेन तेजोवन्नानां परमात्मना च भेदं बोधयन्ति तथा एतत्सूत्रनिर्णेया श्रुतिश्व, एकः क्षेत्रज्ञो ऽनुशेते अन्यो जहातीति जीवानामपि भेदं बोधयन्ती, भिन्नबहुजीवानाम् एकेन परमात्मना भेदं बोधयति । शङ्कराचार्यैरपि’ एकः क्षेत्रज्ञोऽनुशेतेऽन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषां (द्वैतिनां ) इष्टः प्राप्नोति इति अजामेकामिति श्रुतेर् भेदबोधकत्वमुक्तम् । न च तैरेव ‘न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किं तु बंधमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा । प्रसिद्धं भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते । भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः । ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ इत्यादि श्रुतिभ्य इति श्रुतिप्रतिपादितस्य भेदस्य मिथ्यात्वमुक्तमिति वाच्यम् । श्रुतिप्रतिपादितस्य भेदस्य मिथ्यात्वकल्पने वेदस्य अप्रामाण्यस्वीकारापत्या अवैदिकत्वप्राप्तेः । एको देवः’ इति श्रुतौ अभेदवोधकपदाभावात् । प्रत्युत्त भेदबोधकानाम् अनेकेषां पदानां सत्वात् । एके मुख्यान्यकेवला इति प्रमाणाद् एक इति पदम् अन्यत्वं (भेदं) बोधयति । देव इति पदं क्रीडादिगुणविशिष्ट इति भेदकधर्मकथनेन भेदं बोधयति । सर्वभूतेषु गूढ इति पदं सर्वप्राणिषु गूढो ऽदृश्यः सन् विद्यमान इति सर्वजीवान्तर्गतत्वोत्त्वा आधाराधेयभावेन भेदं बोधयति । सर्वव्यापीति पदं न केवलं जीवान्तस्थः किं तु सर्वान्तस्थ इति सर्वपदार्थानां ब्रह्मनिरूपिताधेयत्वोक्त्या भेदं बोधयति । सर्वभूतान्तरात्मा इति पदं नियम्यनियामकभावोक्त्या भेदं बोधयति । कर्माध्यक्ष इति पदं सर्वप्राणिभिः क्रियमाणकर्मणां स्वामित्वोत्त्या ( फलदातृत्वोत्त्या) कर्मफलदातृत्व - ग्रहीतृत्वोत्त्या भेदं बोधयति । सर्वभूताधिवास इति पदं सर्वभूताश्रयत्वोक्त्या भेदं बोधयति । साक्षीति पदं सर्वद्रष्टृत्वोत्त्या दर्शनकर्मत्वदर्शनकर्तृत्वोत्त्या भेदं बोधयति । निर्गुण इति पदं सत्वरजस्तमोगुणराहित्योक्त्या ‘न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः’ (गी. १८४०) इति गीतोक्तरीत्या सत्वरजस्तमोगुणसम्वद्धजीवाद् भेदं बोधयति इति भेदाभावे एतच्छ्रुत्युदाहरणमासुरजनवञ्चनार्थमेवेति । १.४.१०
ॐ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॐ (१.४.११)
ॐ प्राणादयो वाक्यशेषात् ॐ (१.४.१२)
ॐ ज्योतिषैकेषामसत्यन्ने ॐ (१.४.१३)
‘यस्मिन्पश्ञ्च पञ्च जना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ (बृ. ४४.१७ ) इति श्रुतौ पञ्चविंशतिपदार्थानां कथितत्वात् सांख्यैरपि पञ्चविंशतिसंख्याकतत्त्वानामुपसंग्रहात् सांख्योक्तप्रधानादीनां श्रुतिप्रतिपाद्यत्वम् इत्याशंक्य, नानाभावात्-श्रुतौ पञ्चविंशतिपदर्थानां मध्ये केषांचित्पदार्थानां पञ्चत्वपश्चत्वसंख्यया ग्रहीतुं कारणाभावात् । (पञ्चपञ्चतया ग्रहणे पञ्चसु एकधर्मस्याभावात्) । किं च अतिरेकाच्च श्रुतौ पञ्चविंशतितत्त्वापेक्षया आत्माकाशयोः प्रत्येकं ग्रहणाच्च न सांख्याभिमतानां प्रधानादीनां श्रुतिप्रतिपाद्यत्वम् । (शाब्दत्वं) (११) किं तु प्राणस्य प्राणं चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम् अन्नस्यानं मनसो ये मनो विदुर् इति वाक्यशेषोक्तप्राणचक्षुःश्रोत्रान्नमनांस्येव पञ्चत्वसंख्याविशिष्टाः पञ्चजना इति (१२) काण्वशाखायां प्राणदिष्वन्नस्याग्रहणात् कथं प्राणादीनां पञ्चत्वमित्याशंक्य काण्वानां पाठे अन्नस्य ग्रहणाभावेऽपि ज्योतिषा सह पञ्चत्वं वक्तव्यम् इति (१३) व्याख्याततया इमान्यपि सूत्राणि सांख्याभिमतप्रधानस्याशाब्दत्वप्रतिपादनद्वारा ब्रह्मण एव जगत्कारणत्व-व्यवस्थापकानि संति, जगत्कारणत्वरहितेन चेतनाचेतनात्मकजगता भेदमेव कथयन्ति।१.४.१२-१३-१४
न जगज्जन्मादिकारणत्वं ब्रह्मणः प्रतिपत्तुं शक्यम् । न वा वेदान्तवाक्यानां ब्रह्मविषयं गतिसामान्यं प्रतिपत्तुं शक्यम् । प्रतिवेदान्तं विगानदर्शनात् । प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात् । तथा हि । क्वचिदात्मन आकाशः सम्भूतः (तै. २.१) इत्याकाशादिका सृष्टिराम्नायते, क्वचित्तेजआदिका “तत्तेजोऽसृजत" । (छां.६.२.३) इति । क्वचित् प्राणादिका ’ स प्राणमसृजत प्राणाच्छूद्ध’ (प्र. ६.४ ) इति । क्वचिदक्रमेणैव लोकानामुत्पत्तिरामाम्नायते ‘स इमांल्लोकानसृजत । अम्भोमरीचिर्मरमापः’ (ऐ. ४.१.२ ) इति तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते ‘असद्वा इदमग्र आसीत् ततो वै सदजायत’ (तै.२.७) इति, असदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् (छां. ३. १९.१) इति च । क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इत्युपक्रम्य ‘कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत् ’ (छां. ६.२.१.२) इति, क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नरूपाभ्यां व्याक्रियत’ (बृ.१.४.७) इति । एवमनेकधा विप्रतिपत्तेर्वस्तुनि विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या । स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः-
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ (१.४.१५)
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, न स्रष्टरि किंचिद्विगानमस्ति । कुतः ? यथाव्यपदिष्टोक्तेर् यथाभूतो ह्यस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते । तद्यथा ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. २.१) इत्यादि । १.४.१५
ॐ समाकर्षात् ॐ (१.४.१६)
‘असद्वा इदमग्र आसीत् ’ ( तै. २.७) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते । यतः ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेद् अस्ति ब्रह्मेति चेद्वेद संन्तमेनं ततो विदुः’ इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्म निर्धार्य, ‘सो कामयत इति तमेवं प्रकृतं समाकृष्य सप्रपश्चां सृष्टिं तस्माच्छ्रावयित्वा,’ ‘तत्सत्यमित्याचक्षते इति चोपसंहृत्य’ ‘तदप्येष श्लोको भवति इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरन्ति’ असद्वा इदमग्र आसीदिति । यदि त्वसन्निरात्मकमस्मिन् श्लोकेऽभिप्रेयेत ततोऽन्य- समाकर्षणेऽन्यस्योदाहरणादसंबंद्धं वाक्यमापद्येत । तस्मात्प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते । एषैव ‘असदेवेदमग्र आसीत् ’ (छां. ३.१९.१) इत्यत्रापि योजना । ‘तत्सदासीद् इति समाकर्षणाद् इति व्याख्यातत्वेन द्वे सूत्रे अपि सर्वज्ञस्य सर्वेश्वरस्य परमात्मनः जगत्कारणत्वं व्यवस्थापयती असर्वज्ञाज् जीवाज् जन्याज्जगतश्च भेदमेव दर्शयतः । १.४.१६
ॐ जगद्वाचित्वात् ॐ (१.४.१७)
‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वेदितव्यः’ (कौ.ब्रा.४.१९) इति वाक्ये वेदितव्यत्वेनोपदिष्टः पुरुषाणां कर्ता किं मुख्यप्राण उत जीव उत परमात्मेति संशये, मुख्यप्राणलिङ्गान्मुख्यप्राण इति, ‘यस्यै वैतत्कर्मेति जीवलिङ्गाज् जीवो वा स्यात्, न परमेश्वरः, तलिङ्गानवगमाद् इति पूर्वपक्षे प्राप्ते वेदितव्यत्वेनोपदिष्टः परमेश्वर एव । इह हि बालाकिर् अजातशत्रुणा सह ‘ब्रह्म ते ब्रवाणि इति संवदितुमुपचक्रम इत्युपक्रमात्, परमेश्वरादन्यस्य स्वातंत्र्येण पुरुषकर्तृत्वानुपपत्तेश्च । तर्हि कथं ‘यस्यवैतत्कर्म’ इति जीवलिङ्गव्यपदेश इति शङ्कानिरासाय प्रवृत्तं जगद्बाचित्वादिति सूत्रम् । एतत्कर्मेति पदं न जीवकर्मबोधकं, क्रियते इति कर्म इति व्युत्पत्या एतत्प्रत्यक्षसन्निहितं कर्म जगदिति जगद्वाचि । तस्मात्, (जगद्वाचित्वात्) सर्वजगतः कर्ता परमेश्वरः वेदितव्यतयोपदिश्यते’ इति शङ्करेण व्याख्यातमिदं सूत्रं, जीवस्य प्राणस्य च ब्रह्मणा भेदप्रतिपादकमेव । १.४.१७
ॐ जीवमुख्यप्राणलिङ्गादिति चेत्तद्व्याख्यातम् ॐ (१.४.१८)
इति सूत्रमपि ‘जीवलिङ्गाज् जीवो वा मुख्यप्राणलिङ्गान्मुख्यप्राणो वा इति शङ्कायामुपासात्रैविध्यप्रसङ्गादिना पूर्वमेव निराकृतमिति जीवो वा मुख्यप्राणो वा वेदितव्यत्वेन न उपदिष्टः किं तु परमेश्वर एव इति शङ्कराचार्यैः सिद्धांतितत्वेन जीवब्रह्मणोर्भेदबोधकमेव । १.४.१८
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ (१.४.१९)
अपि च नैवात्र विवदितव्यं जीवप्रधानं वेदं वाक्यं स्याद्ब्रह्मप्रधानं वेति । यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते । ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत् कुत एतदगात् ’ ( कौ.४.१९) इति, प्रतिवचनमपि ‘यदा सुप्तः । स्वप्नं न कञ्चन पश्यति अथास्मिन्प्राण एवैकधा भवति’ इत्यादि । तस्मात्सोऽत्र परमात्मा वेदितव्यतया बोधित इति । अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तव्यतिरिक्तं (जीवभिन्नं) परमात्मानमामनन्ति । य एष विज्ञानमयः पुरुषः कैष’ ‘तदाभूत् कुत आगात्’ (बृ.२.१६ ) इति प्रश्ने, प्रतिवचनेऽपि ‘य एषोऽन्तर्हृदय आकाशस् तस्मिन्शेते’ इति । आकाशशब्दश्च परमात्मनि प्रयुक्तः ‘दहरोऽस्मिन्नन्तराकाशः’ (छां.८.१.१) इत्यर्थकतया व्याख्यातत्वेन, जीवब्रह्मणोर्भेदबोधकमेव । तथा एतत्सूत्रगृहीतश्रुतिरपि जीव- ब्रह्मणोर्भेदवोधिकैवेति । १.४.१९
वाक्यान्वयात्
ॐ वाक्यान्वयात् ॐ (१.४.२०)
इदं सूत्रं ‘न वा अरे पत्युः कामाय’ इत्युपक्रम्य, ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय सर्वं प्रियं भवति आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ.४.५.६) इति वाक्ये द्रष्टव्यश्रोतव्यत्वादिरूपेण उपदिश्यमानः किं विज्ञानात्मा (जीवः) आहोस्वित् परमात्मेति संशये, उपक्रमसामर्थ्याद् विज्ञानात्मा (जीव ) इति पूर्वपक्षे च प्राप्ते, सिद्धान्तः - श्रोतव्यत्वादिना व्यपदिष्टः परमात्मैव । कुतः? वाक्यान्वयात् । वाक्यं हि पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रति अन्वितावयवं लक्ष्यते । तस्मात् परमात्मन एवायं दर्शनाद्युपदेश’ इति व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेति ।
यत्पुनरुक्तं ‘प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेशः ’ इति । तत्र ब्रूमः ।
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ (१.४.२१)
अस्त्यत्र प्रतिज्ञा ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदं सर्वं यदयमात्मा’ इति च । तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसङ्कीर्तनं यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्धीयेत । तस्मात्प्रतिज्ञासिध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ।
ॐ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॐ (१.४.२२)
विज्ञानात्मन एव देहेंद्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेः । इदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति, ‘एष सम्प्रसादोऽस्मात्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते ’ (छां. ८.१२.३) इति ।
ॐ अवस्थितेरिति काशकृत्स्नः ॐ (१.४.२३)
अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनो- पक्रमणमिति काशकृत्स्नाचार्यो मन्यते । तथा च ब्राह्मणम् - ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति । मन्त्रवर्णश्च सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते’ (तै. आ.३.१२.७) इत्येवंजातीयकः, काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् । आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारात् ‘तत्त्वमसि’ इत्यादि श्रुतिभ्यो ऽपि च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. २.४.१३) इत्यारभ्य अविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपंच्य ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति । पुनश्च विषयाभावेऽपि ‘आत्मानं विजानीयात्’ इत्याशंक्य ‘विज्ञातारमरे केन विजानीयात्’ इत्याह । ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवल ः सन् भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते । दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्वम् । अतश्च विज्ञानात्म- परमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक इत्येषोऽर्थः सर्ववेदान्तवादिभिरभ्युपगन्तव्यः । “सदेव सोम्येदमग्र आसीत्’ ‘एकमेवाद्वितीयम्’ (छां.६.२.१) ‘आत्मैवेदं सर्वम्’ (छां. ७.२५.२) ‘ब्रह्मैवेदं सर्वम्’ (मु.२.२.११) ‘इदं सर्वं यदयमात्मा’ (बृ.२.४.६) ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ.३.७.२३) नान्यदतोऽस्ति द्रष्ट (बृ. ३.८.११) इत्येवंरूपाभ्यः श्रुतिभ्यश्च ‘वासुदेवः सर्वमिति’ ( गी. ७.१९) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (गी.१३.२) ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (गी.१३.२७) इत्येवंरूपाभ्यः स्मृतिभ्यः भेददर्शनापवादाच्च ‘अन्योऽसावन्योऽहमस्मि न स वेद यथा पशुः’ (बृ.१.४.१०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ.४.४.१९) इत्येगंजातीयकात्, ‘स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म’ (बृ. ४.४.२५) इति चात्मनि सर्व-विक्रियाप्रतिषेधात् । अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः सुनिश्चितार्थत्वानुपपत्तेश्च । निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकम् आत्मविषयमिष्यते ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु.३.२.६ ) इति च श्रुतेः ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई.७) स्थितप्रज्ञलक्षणस्मृतेश्चेति । … नहि सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां (तै.२.१) इति काश्विदेवैकां गुहाम् अधिकृत्यैतदुक्तम् । न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति तत्सृष्ट्वा तदेवानुप्राविशद् इति स्रष्टुरेव प्रवेशश्रवणात्’ इत्यादि शङ्कराचार्याणां यत् त्रिसूत्रीव्याख्यानं, तदयुक्तम् । ‘श्रुतिसूत्रपदैर् अस्यार्थस्याकथनाद् इति ज्ञातुं शक्यते सुप्रज्ञैः सात्विकैः, तथापि मन्दमतीनां सात्विकानामयमेव श्रुतिसूत्रार्थ इति भ्रान्तिर्माभूद् इत्येतदर्थं तव्याख्यानस्य श्रुतिसूत्रानारूढतां लेशतो दर्शयिष्यामः ।
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः (१.४.११ )
इति सूत्रं प्रतिज्ञासिद्धेर्लिङ्गं ज्ञापकम् इत्याश्मरथ्यो मन्यते इत्यर्थकम् ॥
उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः (१.४.१२)
इदं सूत्रम् उत्क्रमिष्यतः देहादुत्क्रमिष्यतः मुमुक्षोर् एवम्भावाद् एवंप्रकारेण विद्यमानत्वाद् इत्यौडुलोमिराचार्यो मन्यते इत्यर्थकम् ।
अवस्थितेरिति काशकृत्स्नः (१.४.१३)
इदं सूत्रम् अवस्थितिसद्भावादिति काशकृत्स्नाचार्यो मन्यते इत्यर्थकम् । तथा च एवं सम्मुग्धार्थकानि इमानि सूत्राणि गुणसूत्राणीति प्रधान- सूत्रानुसारेण नेयानि ।
‘वाक्यान्वयात्’ इति प्रधानसूत्रं तु भेदबोधकतया व्याख्यातमिति तदनुसारेण जीवब्रह्मणोर्भेदवोधकान्येव नत्वभेदबोधकानीति नात्रास्माकं वक्तव्यमस्ति । ‘प्रतिज्ञासिद्धे’ रिति सूत्रव्याख्यावसरे जीवब्रह्मणोरभेदविषये अस्त्यत्र प्रतिज्ञा आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदं सर्वं यदयमात्मा’ इति च इति श्रुत्योर्ग्रहणम् ।
‘उत्क्रमिष्यत’ इति सूत्रव्याख्यावसरे जीवस्य परमात्मैक्यविषये ‘एष सम्प्रसाद’ इति श्रुत्युदाहरणम् ।
‘अवस्थितेः’ इति सूत्रव्याख्यावसरे अनेन जीवेनेत्याद्यनेक- श्रुतिस्मृत्युदाहरणं न युक्तम् । ताः श्रुतयः स्मृतयश्च नाभेदबोधिका न वा भेदनिषेधिकाः किन्तु भेदवोधिका इत्युक्तं वेदाद्यर्थनिरूपणावसरे इति नेदं पुनः विशेषतो विचार्यते; किंतु, उक्तस्मरणार्थं यथा इमाः श्रुतिस्मृतयः जीवब्रह्मणोरभेदवोधिकाः प्रत्युत भेदबोधिकास् तथा किंचित् प्रदर्श्यते ।
प्रतिज्ञासिद्धेरिति सूत्रव्याख्यावसरे “यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञातेन सर्वविज्ञानं यत्प्रतिज्ञातं तत् हीयेत इति एकविज्ञानेन सर्वविज्ञानान्यथानुपपत्या जीवपरमात्मनोरभेदसिद्धिरिति यदुक्तं तदयुक्तम् । शङ्कराचार्यैरेव येनाश्रुतं श्रुतम् इत्यादिवाक्यव्याख्यावसरे ‘सर्वान् वेदान् अधीत्य सर्वं च अन्यत् तद्वेद्यम् अधिगम्यापि अकृतार्थ एव यावदात्मतत्त्वं न विजानाति’ इत्यादिवाक्येन सर्वस्मिन् जगति ज्ञातेऽपि ब्रह्म (परमात्म) ज्ञानं यावन्न भवति तावत्पर्यन्तं जगज्ज्ञानं व्यर्थमेव । परमात्मनि ज्ञात एव जगज्ज्ञानं सफलं भवति इति ब्रह्मज्ञानं जगज्ज्ञानस्य फलं भवति इत्युक्तत्वेन, तथा कृतकृत्यश्च भारतेति गीताश्लोकव्याख्यावसरे च एवमेवोक्तत्वेन जगद् ब्रह्मणि कल्पितमिति वदताम् अद्वैतिनां मतरीत्या अधिष्ठानज्ञानेन अध्यस्तस्य ज्ञानासम्भवाच्च ब्रह्मज्ञानेन जगतः ज्ञानं भवतीति प्रतिज्ञैव अयुक्तेति श्रुतौ तथा प्रतिज्ञाया भावात् तदन्यथानुपपत्या जीवब्रह्मणोरैक्यकथनमयुक्तम् । इदं सर्वं यदयमात्मा’ इति श्रुतिरपि न जीवब्रह्मणोरैक्यं वक्ति । उभयश्रुतिविशेषविचारस्तु अवस्थितेरिति सूत्रोदाहृतश्रुत्यर्थविचारावसरे द्रष्टव्यः ।
“उत्क्रमिष्यत” इतिसूत्रव्याख्यावसरे विज्ञानात्मन एव देहादिसङ्घातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेर् इदमभेदेनोपक्रमणमित्यौडुलो मिराचार्यो मन्यते, श्रुतिश्चैवं भवति, ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ (छां. ८.१२.३) इति विज्ञानात्मनः (जीवस्य) परमात्मैक्यविषये ‘एष संप्रसाद’ इति श्रुत्युदाहरणं यत्, तदत्यन्तमयुक्तं स्ववाक्यविरुद्धत्वात् । परमात्मैक्यस्य तादृशश्रुतौ अप्रतिपादनाच्च । तथा हि - परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, यः स किं परस्मादात्मनः पृथगेव भवत्युत अविभागेनैवावतिष्ठते इति वीक्षायां ‘स तत्र पर्येति’ इति अधिकरणाधिकर्तव्यनिर्देशात् ‘ज्योतिरुपसंपद्य’ इति च कर्तृकर्मनिर्देशाद् भेदेनैवावस्थानमिति (बृ.शां. भा. ४.४.४) भाष्ये, परं ज्योतिरुपसंपद्य … स तत्र पर्येति इति श्रुतेर् मुक्तावपि भेदबोधकत्वस्य उक्तत्वेन, विज्ञानात्मनः (जीवस्य ) परमात्मैक्यविषये उदाहरणस्य स्ववाक्यविरुद्धत्वात् ।
न च शङ्कराचार्यैः पूर्वपक्ष एव ‘एष संप्रसाद’ इत्यस्य भेदपरत्वमुक्तं न तु सिद्धान्ते इति नैतस्य वाक्यस्य अभेदविषये उदाहरणस्य स्वव्याहतिरिति वाच्यम् । सिद्धान्तेऽपि ‘भेदनिर्देशस्तु अभेदेऽप्युपचर्यते’ इति वाक्येन भेदबोधकत्वमङ्गीकृत्य तस्य गौणत्वमुक्तमिति, अस्य वाक्यस्य अभेदवोधकत्वाभावस्य स्वीकारात् । अभेदविषये उदाहरणे स्वव्याहतेर्दुर्वारत्वात् ।
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा (छां. ८.१२.३) इति श्रुत्यर्थस्तु एषः सम्प्रसादः = जीवः, अस्माच्छरीरात् समुत्थाय परंज्योतिः = परमात्मानं, उपसंपद्य =प्राप्य, स्वेन रूपेण=स्वस्वरूपेण । अभिनिष्पद्यते=व्यक्तो भवति, सः = प्राप्यः परमात्मा उत्तमपुरुषः सः = प्राप्तो जीवः, तत्र पर्येति = संचारं करोति, जक्षन् = भक्षणं कुर्वन्, क्रीडन् स्त्रीभिः, यानैर् ज्ञातिभिर्वा रममाण आस्ते इति मुक्तो भूत्वा परमात्मना भिन्नः सन् क्रीडादिकं करोतीति स्पष्टं परमात्मना भेदः स्त्रीजनैर्ज्ञातिभिश्च भेदः जक्षणक्रीडाकर्मभूतैस् तत्तत्पदार्थेर् भेदः कथ्यते इति, अस्य वाक्यस्य ऐक्यविषये उदाहरणमत्यन्तमयुक्तम् । विशेषविचारस्त्वन्यत्र कृतो द्रष्टव्यः ।
अवस्थितेरिति सूत्रव्याख्यावसरे - परमात्मनो विज्ञानात्मभावेन (जीवभावेन) अवस्थानमित्यस्मिन् विषये ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि, (छां. ६.६.२) इत्येवंजातीयकं’ परस्यैव आत्मनो जीवभावेनावस्थानं दर्शयति इत्युक्तिस्तावदसङ्गता ।
‘अनेन जीवेन’ इति वाक्यं पूर्वभागेन सहितं तु इत्थम् । ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति । (छां. ६.३.२) तस्यार्थः सा=पूर्वोक्ता, इयं सन्नाम्नी परमात्मरूपा, ऐक्षत =ईक्षितवती, प्रमाणसिद्धा, देवता =अहम् इमास् तिस्रः = तेजोऽप्पृथिव्यभिमानिन्यः देवताश् चेतनभूताः, अनेन जीवेन आत्मना = चेष्टकरूपेण (व्यापारप्रवर्तकरूपेण) प्रविश्य, नामरूपे = नामरूपात्मकं जगद् व्याकरवाणि=व्याकुर्याम्’ इति । न च इमास्तिस्रो देवता इत्यत्र देवताशब्देन चेतनग्रहणम् अयुक्तमिति वाच्यम् ।देवताशब्दस्य चेतनवाचकत्वात् । उक्तं हि शङ्कराचार्यैर् ब्रह्मसूत्र (२.१.५) भाष्ये ‘अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्कानिवृत्तयेऽधिष्ठातृ चेतनपरिग्रहाय देवताशब्देन विशिषन्ति ‘एता वै देवता अहं श्रेयसे विवदमाना इति’ ‘ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा (२.१४) इति च’ इति वाक्येन देवताशब्दस्य अधिष्ठातृपरत्वमिति । तथा च ‘योऽग्नौ तिष्ठन्’ ‘योऽप्सु तिष्ठन् ’ ‘यः पृथिव्यां तिष्ठन्’ ‘य आत्मनि तिष्ठन्’ इति तेजोऽप्पृथिव्याद्याभिमानिदेवतासु (चेतनेषु) जीवेन
= भागवतोक्तरीत्या ‘अहं हि जीवसंज्ञो वै मयि जीवः समीहित’ इति भारतोक्तरीत्या च जीवसंज्ञकेन प्राणधारकरूपेण, ( अन्तर्यामिरूपेण) प्रविश्य नामरूपात्मकप्रपञ्चनिर्माणोक्त्या प्रवेश्यदेवताचेतनेभ्यः प्रविष्टजीवनामक परमात्मनः भेद एव कथ्यते । शङ्कराचार्यैरपि ’ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्’ इति सूत्रव्याख्यानावसरे पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति’ (शां. भा. १.२.१८) इति स्पष्टं प्रवेश्यपृथिवीदेवतायास् तदन्तः प्रविष्टेन अन्तर्यामिपरमात्मना भेद उक्तः ।
एवं ‘भेदव्यपदेशाच्चान्यः’ (ब्र. १.१.२१) इति सूत्रीयशाङ्करभाष्ये अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी, ‘य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ’ (बृ. ३.७.९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि ‘आदित्यादन्तरो यमादित्यो न वेद इति’ वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते’ इति आदित्यदेवताया तदन्तः प्रविष्टेन परमात्मना भेद उक्तः ।
अपि च ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’ (बृ.१.२.२०) इति सूत्रीयशाङ्करभाष्ये ‘अपि चोभयेऽपि हि शाखिनः काण्वा माध्यंदिनाश्च अन्तर्यामिणो भेदेनैनं शारीरं (जीवं) पृथिव्यादिवद् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते …. तस्माच्छारीरादन्य ईश्वरोन्तर्यामीति सिद्धम्’ इति स्पष्टम् अधिष्ठानाधिष्ठेययोर् नियम्यनियामकयोर्जीवब्रह्मणोर् भेद उक्त इति । न च स च भेदो ऽविद्यामूलक ः (भ्रममूलकः) इत्यपि तत्रैवोक्तमिति वाच्यम् । अविद्या (भ्रम) मूलकत्वोक्तेरेव अद्वैतमते भ्रमकारणानाम् असंभवाद् भ्रममूलकत्वं प्रदर्शितं, प्रदर्शयिष्यते च इति । तथा च तद्वदेव ‘इमास्तिस्रा देवता अनेन जीवेन आत्मनानुप्रविश्य’ इति प्रवेश्यतेजोऽवादिदेवतायाः प्रवेष्टृब्रह्मणा भेद एवोक्तः न तु पृथिव्यादिषु ब्रह्मणो जीवरूपेण प्रवेशोत्त्या पृथिव्याद्यभिमानिचेतनस्य ब्रह्मणा अभेदः ।
न च ‘जीवेनात्मना’ इति ब्रह्मणो जीवभावस्योक्तत्वात्, अनेन वाक्येन जीवब्रह्मणोरभेदो बोध्यते इति वाच्यम् । जीवशब्दस्य ‘जीवो जीवमजीजनत् ’ ‘अहं हि जीवसंज्ञो वै इत्यादिप्रमाणैश् चेष्टकत्वादि- प्रवृत्तिनिमित्तकत्वेन च ब्रह्मणो जीवशब्दवाच्यत्वसिद्धेर् नेदं वाक्यं ब्रह्मणो जीवभावेन अल्पज्ञेन संसारिरूपेण अवस्थानबोधकमिति ।
‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते’ (तै.आ.३.१२.७) इति वाक्यस्यापि जीवब्रह्मणोरभेदे प्रमाणतया उदाहरणम् अयुक्तम् । तत्र जीवब्रह्मणोरैक्यबोधकपदाभावात् । मन्त्रवर्णार्थस्तु यत्=यः, धीरः=सर्वज्ञः, सर्वाणि रूपाणि = सर्वान् पदार्थान्, (रूपात्मकं समस्तं जगत्) विचित्य = निर्माय नामानि शब्दात्मकप्रपञ्चं च कृत्वा निर्माय, अभिवदन्=अभिवदनादि कुर्वन्, आस्ते इति । अस्य च ‘तद्विद्वान् अमृतो भवति’ इत्युत्तरवाक्यार्थेनान्वयः । तथा चैतस्मिन्वाक्ये जीवपरमात्मनोरभेदबोधकपदाभावात् प्रत्युत कार्यकारणभावोक्त्या ज्ञातृ- ज्ञेयभावोत्त्या च भेद एव बोध्यते । न च स्वयं तत्र प्रविश्य इति पदानां मन्त्रे संयोजने कृते सृष्टपदार्थेषु प्रवेशसिध्या जीवब्रह्मणोरैक्य- सिद्धिरिति वाच्यम् । अविद्यमानपदसंयोजनेन क्रियमाणस्यार्थस्य वेदार्थत्वाभावात् । तथाङ्गीकारे अयमेवार्थोऽस्य नान्य इति नियमाभावापत्तेः ।
अविद्यमानपदसंयोजनेन सर्वस्याप्यर्थस्य सर्वैरपि वाक्यैः प्राप्तेरिति दोषस्य पूर्वमेवोक्तत्वात् प्रविश्येत्यादिपदसंयोजनेऽपि पूर्वोक्तरीत्या अभेदासिद्धेश्च ।
यच्चाप्युक्तम् ‘तत्र काशकृत्स्नीयं मतं (अविकृतः परमेश्वरो जीवो नान्य इति) श्रुत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारात् । तत्त्वमसीत्यादि श्रुतिभ्यः’ इति । तदपि हेयम् ।
शङ्कराचार्यादिभिः ‘ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव….अन्यात्मभावनिवृत्तौ आत्मभावः स्वात्मनि स्वाभाविकः यः स केवलो भवति इति ‘आत्मा ज्ञायते’ इत्युच्यते इति, (बृ.शां. भा. ४.४.२०) भाष्ये, तथा ‘न च महावाक्याज्जायमानं ज्ञानमेव ब्रह्मेत्यक्तम् । तथा सति ज्ञानरूपस्य ब्रह्मण उत्पत्तिः स्वीकार्या स्यादिति वाच्यम् । तज्ज्ञानं नैव जायते । किं तु तदानीं केवलं तदावरकाज्ञाननिरास एव जायते, तन्मूलक एव तदानीं ज्ञानं जायत इति व्यवहारः । तच्च ब्रह्मरूपं ज्ञानं निर्विषयकमित्यादि सिद्धान्तबिन्दुव्याख्यायां-तत्त्वमस्यादिवाक्यस्य बोधजनकत्वमेव नास्ति इति कथितत्वेन बोधजनकत्वाङ्गीकारेऽपि अखण्डार्थबोधकत्वस्वीकारेण ‘चित्’ इत्येतन्मात्रबोधजनकत्वोक्तेर् न तत्त्वमस्यादिवाक्यैर्जीवब्रह्मणोरैक्यं बोध्यते इति न काशकृत्स्नीयस्याभेदमतस्य तत्त्वमस्यादिश्रुतिप्रतिपिपादयिषि- तार्थानुसारित्वमिति-
तथा- ‘यत्र हि इत्युपक्रम्य सर्ववेदान्तवादिभिरभ्युपगन्तव्य इत्यन्तं यदुक्तं तदपि अनुपपन्नम् । यत्र हि’ इति वाक्यस्य द्वैतपारमार्थिकत्व- बोधकत्वेन द्वैतमिथ्यात्वे प्रमाणतया उदाहर्तुमशक्यत्वात् । तथा हि ‘ननु द्वैतेनोपमीयमानत्वाद् द्वैतस्य पारमार्थिकत्वमिति’ (बृ.शां.२.४.१४) इति शाङ्करभाष्येण, तथा ‘द्वैतेन द्वैतस्योपमीयमानत्वाद् दृष्टान्तस्य दाष्टन्तिकस्य च तस्य वस्तुत्वं स्याद् उपमानोपमेययोश् चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः’ इत्यानन्दगिरिटीकया, ‘ननु द्वैतमिवेत्येतदुपमानं कथं भवेत्, द्वैतं वस्तु न चेदस्ति’ इति सुरेश्वराचार्यवार्तिकेन च यत्र हि द्वैतमिव भवति’ इति वाक्यम् उपमावाचकेन इवशब्देन द्वैतस्य पारमार्थिकत्वं बोधयतीत्युक्तत्वात् । तथा ‘न हि विष्णुमित्रो वंध्यापुत्रवद् अवभासते इति कश्चिदाचक्षीत तस्माद्यथानुभवं तत्वमभ्युपगच्छद्भिर्वहिरेवावभासते इति युक्तमभ्युपगन्तुं न तु बहिर्वद् अवभासत’ इति (ब्र.सू.शां.भा.२.१.१८) भाष्येण इवशब्द- समानार्थकवत्प्रत्ययान्तवहिर्वद् इति शब्देन बाह्यपदार्थस्य सत्यत्वं सिध्यतीत्युक्त्या वत्प्रत्ययसमानार्थकेन इवशब्देन युक्तेन द्वैतशब्देनापि द्वैतस्य पारमार्थिकसत्यत्वसिद्धेा । अविद्याकल्पित ( मिथ्या) भेदविषये एतद्वाक्योदाहरणस्यायुक्तत्वात् ।
ननु ‘कश्चित्कान्ता’ इति वाक्यं श्रुत्वा तदुत्तरवाक्यमश्रुत्वैव कश्चिद् इत्यस्य पुल्लिङ्गत्वेन, कान्ता इत्यस्य स्त्रीलिङ्गत्वेन कथमन्वय इत्याक्षेप्तेव द्वैतेनोपमीयमानत्वाद् द्वैतस्य पारमार्थिकत्वमिति पूर्वपक्षवाक्यमात्रं सङ्गृह्य तदुत्तरं विद्यमानं द्वैतस्य पारमार्थिकत्वनिषेधकं ‘न वाचारम्भणं विकारो नामधेयम्’ इति श्रुत्यन्तरात् ‘एकमेवाद्वितीयं’ ‘आत्मैवेदं सर्वम्’ इति च इति शाङ्करभाष्यीयसिद्धान्तवाक्यं तथा द्वैतप्रपञ्चस्य मिथ्यात्ववादि- श्रुतिविरोधान्न तस्य सत्यतेति परिहरति न वाचारम्भणमिति आनन्दगिरिवाक्यं च अज्ञात्वैव वा ज्ञात्वापि परप्रतारणार्थं सगोप्य वा ‘यत्र हि द्वैतमिव’ इति वाक्यं द्वैतस्य पारमार्थिकत्वं कथयति इति शङ्कराचार्या वदन्तीति कथमस्य वाक्यस्य द्वैतमिथ्यात्वबोधकत्वमित्याक्षेप्ता भवानपि हास्यास्पदम् एवेति चेन् न । अस्मदभिप्रायानवबोधात् ।
तथाहि - ‘यत्र हि द्वैतमिव भवति’ इति वाक्यं द्वैतेन उपमीयमानत्वाद् द्वैतस्य पारमार्थिकत्वं कथयतीत्युक्त्वा उत्तरत्र ‘वाचारम्भणं विकारो नामधेयं’ इत्यादि द्वैतमिथ्यात्वबोधकश्रुतिविरोधाद् द्वैतस्य पारमार्थिकत्वं न सम्भवतीति निराकृतम् । शङ्कराचार्यैरित्येतत् सत्यं तथापि ‘यत्र हि द्वैतमिव भवति इति वाक्यस्य द्वैतमिथ्यात्वे (अविद्याकल्पितत्वे) प्रमाणतया उदाहरणमयुक्तमित्यभिप्रायोऽस्माकमिति -
तथा च ‘यत्र हि इति वाक्येन बोधितं द्वैतस्य पारमार्थिकत्वं बाध्यते इत्यद्वैतिनः, न बाध्यते बाधकप्रमाणाभावाद् इति द्वैतिनः । आस्तां स विचारः । ’ यत्र हि ’ इति वाक्यं द्वैतस्य पारमार्थिकत्वं बोधयतीत्यस्मिन् विषये न विवादो ऽद्वैतिनामिति ।
शङ्कराचार्यैर्यच्च निराकृतं ‘न वाचारम्भणं विकारो नामधेयम् इति श्रुत्यन्तरात् ‘एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इति च इति भाष्यवाक्येन श्रुतिभिर् द्वैतस्य मिथ्यात्वसिद्धेः, ताभिः श्रुतिभिर्वाधात् ‘यत्र हि द्वैतमिव भवति’ इति वाक्येन बोधितमपि द्वैतस्य पारमार्थिकत्वं न ग्राह्यं’ इति, तदप्यतिहेयम् । तथा हि-
‘वाचारम्भणं विकारो नामधेयं’ इति श्रुतौ जगतः (द्वैतस्य) मिथ्यात्वबोधकपदाभावात् । न च वाचारम्भणं नामधेयम् इति पदे एव मिथ्यात्वबोधके इति वाच्यम् । वाचारम्भणशब्दस्य वाग्जन्यव्यवहारविषय इत्यर्थकत्वेन नामधेयपदस्य च नामार्थकत्वेन मिथ्यात्वबोधकत्वाभावात् । तदर्थकत्वमात्रेण मिथ्यात्वसिद्धौ ब्रह्मणोऽपि वाग्जन्यव्यवहारविषयत्वेन नामवत्त्वेन च मिथ्यात्वापत्तेः ।
न च वाचारम्भणमात्रं नामधेयमात्रम् इति मात्रपदसंयोजनेन केवलवाग्जन्यव्यवहारविषयः केवलनामैव, वस्तुसत्ता नास्ति इत्यर्थकत्वप्राप्त्या मिथ्यात्वं सिध्यतीति वाच्यम् । अविद्यमानपदसंयोजनेन भवतोऽर्थस्य श्रुत्यर्थत्वाभावात् । तथाभूतस्यापि श्रुत्यर्थत्वे ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति वाक्ये अविद्यमानानि नेति नेति नेति पदानि संयोज्य भवतः ब्रह्म सत्यं न, ज्ञानं न, अनन्तं न इत्यादेरपि श्रुत्यर्थत्वप्राप्त्या ब्रह्मणोऽपि मिथ्यात्वापत्तेः ।
तुष्यत्विति न्यायेन वाचारम्भणशब्दस्य मिथ्यार्थकत्वाङ्गीकारेऽपि विकारभूतघटशरावादीनां मिथ्यात्वं, मृत्तिकेत्येव सत्यमित्युक्तमृत्तिकायाः सत्यत्वम् अद्वैतमतरीत्याऽपि न सम्भवति । अद्वैतमते ब्रह्मातिरिक्तयोर्घटमृत्ति- कयोरुभयोरपि मिथ्यात्वेन एकस्य सत्यत्वकथनस्य अपरस्य मिथ्यात्व- कथनस्य चासम्भवात् ।
भवतु कार्यस्य घटादेर्मिथ्यात्वं कारणीभूताया मृदः सत्यत्वं, प्रकृते ब्रह्मण एव सत्यत्वं, जगतः मिथ्यात्वं च न सिध्यत्येव । न च, ब्रह्म सत्यं कारणत्वान् मृद्वत् ‘जगन्मिथ्या कार्यत्वाद् घटवत्’ इत्यनुमानसूचनद्वारा ‘वाचारम्भण’ मिति वाक्यं ब्रह्मजगतोर्मिथ्यात्वसत्यत्वे बोधयतीति वाच्यम् । अनेकदोषदुष्टत्वात् । तथा हि - ‘ब्रह्म सत्यम् । कारणत्वान् मृद्वद् इति प्रथमानुमाने पक्षीकृतं ब्रह्म, निर्गुणं वा सगुणं वा । न तावन्निर्गुणं, तस्य अद्वैतमतरीत्या निर्धर्मकत्वेन कारणत्वरूपहेत्वभावेन हेतोरसिद्धेः । सत्यत्वरूपसाध्यधर्माभावेन बाधाच्च । नापि सगुणम् । सगुणब्रह्मणः पक्षीकरणपक्षे साध्यभूतं सत्यत्वं पारमार्थिकं वा व्यावहारिकं वा । पारमार्थिकसत्यत्वसाधनपक्षे तस्मिन अद्वैतमतरीत्या पारमार्थिकसत्यत्वाभावेन बाधात् । अद्वैतमतरीत्या मृदि पारमार्थिक- सत्यत्वाभावेन दृष्टान्ते साध्यवैकल्याच्च । सगुणब्रह्मणो व्यावहारिक- सत्यत्वसाधनं तु प्रकृतानुपयुक्तमित्यादि ।
एवं जगन्मिथ्या कार्यत्वाद् घटवदिति द्वितीयानुमानेऽपि साध्यभूतं मिथ्यात्वं हि नास्ति नासीन्न भविष्यति इति प्रतीयमानत्रैकालिक- निषेधप्रतियोगित्वरूपं, कार्यत्वं च प्रागभावप्रतियोगित्वरूपं प्रागभाव (पूर्वकालमात्रवृत्यभाव) प्रतियोगित्वरूपकार्यत्ववतः पदार्थस्य त्रैकालिकनिषेधप्रतियोगित्व रूपमिथ्यात्वाभाव एव सम्भवेन विरुद्धो हेतुः । (साध्याभावव्याप्तो हेतुः) अद्वैतमतरीत्या कल्पितस्य जगतः कार्यत्वमसिद्धं चेति हेतुः स्वरूपासिद्ध इत्याद्यनेके दोषाः ।
किं च एकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, इति वाक्यस्य त्वदुक्तार्थकत्वे अद्वैतमतरीत्या पूर्ववाक्येन सम्बन्ध एव न सम्भवति ।
‘न च येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात’ मिति वाक्येन ब्रह्मज्ञानेन सर्वज्ञानं भवतीत्युक्तौ कथं नु एतद् अप्रसिद्धम् । अन्यविज्ञानेन अन्यज्ञानं भवतीति पृष्टे, प्रवृत्तेन ‘यथा सोम्यैकेन’ इत्यादिवाक्येन, यथा एकमृत्पिण्डज्ञानेन सर्वमृण्मयघटादिज्ञानं भवति तथा एकब्रह्मज्ञानेन सर्वजगज्ज्ञानं भवति इत्युत्तरे दत्ते, घटमृत्तिकयोर्भेदो वा अभेदो वा । भेदे कथं मृज्ज्ञानेन घटज्ञानं स्यात् । अभेदे च मृत्कारणं, घटादिः कार्यमिति व्यवहारः कथमित्याशङ्कायां ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’ इति वाक्यं प्रवृत्तम् । तस्य चायमर्थः - घटशरावादिकं वाचारम्भणमात्रं नामधेयमात्रं वस्तुतो नास्त्येव । मृत्तिकैव सत्यमिति उत्तरदानाय एकेन मृत्पिण्डेनेत्यादिवाक्यस्य प्रवृत्तिरिति वाच्यम् । एवं सङ्गतिकथनस्य अनेकदोषयुक्तत्वात् । के दोषा इति चेत् श्रुणु सावधानमेकैकम् । तथा हि - ‘येनाश्रुतं श्रुतम्भवतीति वाक्यं, ब्रह्मज्ञानेन जगज्ज्ञानं भवति इत्यर्थप्रतिपादकं यदा स्यात् तदा कथंचिद् अद्वैत्युक्तेयं सङ्गतिर्युक्ता स्यात् । न चैवम् । न तथा प्रतिपादयत्यर्थमिति शङ्कराचार्यैरेवोक्तत्वाद् अद्वैतमतरीत्यासम्भवाच्च ।
शङ्कराचार्या हि ‘तमादेशं विशिनष्टि येनादेशेन श्रुतेन अश्रुतमप्यन्यत् श्रुतं भवति ।….अनिश्चितं निश्चितं भवति सर्वानपि वेदानधीत्य सर्वं च अन्यद् वेद्यमधिगम्यापि कृतार्थ एव । भवति । यावदात्मतत्त्वं न विजानाति इत्याख्यायिकातोऽवगम्यते’ इत्युपनिषद्भाष्येण सर्ववेदे अधीते वेदार्थभूतब्रह्मान्यजगति ज्ञातेऽपि न पुरुषः कृतार्थो भवति आत्मतत्त्वज्ञानं विनेति वेदाध्ययनस्य ब्रह्मान्यवेदार्थभूतजगज्ज्ञानस्य च ब्रह्मज्ञानमेव फलम् इति जगज्ज्ञानं कारणं ब्रह्मज्ञानं फल (कार्य) मिति, कार्यकारण- भूतभिन्नज्ञानविषयत्वेन भिन्नत्वमेवाहुः - न तु ब्रह्मव्यतिरेकेणासत्वरूपं मिथ्यात्वं (अभिन्नत्वं) इति ।
तथा ‘कृतकृत्यश्च भारत’ कृतं कृत्यं कर्तव्यं येन स कृतकृत्यः सत्कुलप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः ….. सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति चोक्तम् ।
‘एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥’ इति च मानववचनम् । य एतत् परमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति (गी. १५.२०) एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत इति श्लोकव्याख्यानरूपेण शङ्करगीताभाष्येण सर्ववेदाध्ययनवेदार्थज्ञानादिरूपकर्मणः ब्रह्मज्ञानमेव फलम् । ब्रह्मज्ञानसम्पादनेनैव पुरुषस्य कृतार्थत्वमाहुः । तेन च ‘येनाश्रुतं श्रुतं भवति’ इति वाक्यमपि जगज्ज्ञानस्य ब्रह्मज्ञानं फलं (कार्यं) न तु ब्रह्मज्ञानेन जगतः ज्ञानं भवतीत्येतत्परमिति सिध्यति
अद्वैतमतरीत्या असम्भवश्च । अद्वैतमते जगतः ब्रह्मणि कल्पितत्वेन यथा शुक्तिकायामारोपितं रजतम् अधिष्ठानीभूतशुक्तिज्ञाने सति न प्रतीयते तथा अधिष्ठानभूते ब्रह्मणि ज्ञाते तत्राध्यस्तं जगन् न प्रतीयते इति ब्रह्मज्ञाने सति जगज्ज्ञानमसम्भवि च । एवमेवोक्तं केनोपनिषद्भाष्यतट्टीकयोः - अथवा हेत्वर्थ इति (के. भा. २.२.११) लोके तु शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्यादि अविज्ञातं भवति अजानताम् एव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धं तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीत्यर्थ इति ग्रन्थेन अधिष्ठानज्ञाने अध्यस्तवस्तुनः ज्ञानं न सम्भवति इत्यादयोऽनेकेदोषाः प्रादुर्भवन्ति ग्रंथगौरवभयादुपरभ्यते । प्रसङ्गे तानपि वक्ष्यामः । तथा च ‘येनाश्रुतं श्रुतं भवति’ इति वाक्यं ब्रह्मज्ञानेन सर्वविज्ञानं भवतीति न प्रतिपादयति ।
यत्तूक्तं शङ्कराचार्यैः ‘अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युप स्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक’ इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः । ’ सदेव सोम्येदमग्र आसीत्’ ‘एकमेवाद्वितीयम्’ (छां. ६.२.१ ) …. इत्येवंरूपाभ्यः श्रुतिभ्यः, स्मृतिभ्यश्च ‘वासुदेवः सर्वमिति’ (गी.७.१९) इत्येवंरूपाभ्यः, ‘भेददर्शनापवादाच्च’ ‘अन्योसावन्योहमस्मि’ … इत्येवंजातीयकाद् इति तदप्ययुक्तम् । कस्यामपि श्रुतौ स्मृतौ वा जीवब्रह्मणोर्भेदः देहाद्युपाधिनिमित्तः न पारमार्थिक इत्यनुक्तेः । प्रत्युत अवाधितैः (बाधकप्रमाणशून्यैः) स्वतः प्रमाणभूतैर् अपौरुषेयैः श्रुतिवाक्यैस् तदनुसारिस्मृतिवाक्यैश्च बोधितस्य अबाध्यस्य भेदस्य पारमार्थिकत्वस्यैव सिद्धेा ।
शाङ्करभाष्यभामतीकारादिभिः ‘लौकिकानि हि प्रमाणानि सदसत्त्व-गोचराणि तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्यते तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणप्रतिषेध इत्यत आह - न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् । प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते - अतात्त्विकत्वन्तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तते । बाधकं चातात्त्विकमेतेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा शुक्तिकेयं न रजतं, मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेतेषां प्रमाणानां बाधकेन दर्शनीयं नतु अव्यवस्थापिततत्वान्तरेण प्रमाणानि शक्यानि बाधितुमित्यादिवाक्येन प्रमाणानि तात्विकत्वमेव (पारमार्थिकत्वमेव) पदार्थानां बोधयन्ति न तु व्यावहारिकत्वम् (मिथ्यात्वम्) । बाधकप्रमाणसत्त्वे तु तस्याप्रामाणिकत्वमिति कथितत्वेन प्रकृते च भेदग्राहकाणि भेदग्राहकतया शङ्कराद्यङ्गीकृतानि प्रमाणानि अभेदग्राहकस्य बाधकप्रमाणस्याभावाद् भेदस्य पारमार्थिकत्वमेव गृह्णन्ति ।
अनेकासु श्रुतिषु स्मृतिषु च अभेदस्य भेदपारमार्थिकत्वाभावस्य च कथनाद् उत्त्यभावः कथमिति चेत् तर्हि का श्रुतिर् अभेदवोधिका भेदपारमार्थिकत्वनिषेधिका ? तां कथय ।
‘सदेव सोम्येदमग्र आसीद् एकमेवाद्वितीयम् इति’ (छां. ६.२.१) श्रुतिरिति चेन्न । अस्यां श्रुतौ जीवब्रह्मणोरभेदवोधकस्य वा भेदपारमार्थिकत्वाभावबोधकस्य वा पदस्याभावात् तथाहि अद्वितीयं = सहायरहितम् अथवा सजातीयवस्तुरहितम् एकं = प्रधानं किं वा अन्यत् (जीवजडात्मकात्प्रपञ्चाद्भिन्नं) सदेव = सन्नामकपरमात्मैव, हे सोम्य, इदमग्रे = अस्य जगतोऽग्रे (पूर्वकाले ) आसीद् इति प्रधानस्य (श्रेष्ठस्य) सहायरहितस्य जीवादेर्भिन्नस्य सन्नामकपरमात्मनः स्थितिः कथ्यते न त्वभेदः न वा भेदपारमार्थिकत्वाभाव इति ।
न च एकमित्यनेन विजातीय (जड ) राहित्यस्य अद्वितीयमित्यनेन सजातीय (चेतन) राहित्यस्य चोत्तया भेदो नास्तीति भेदस्य मिथ्यात्वं (पारमार्थिकत्वाभावो) गम्यत इति वाच्यम् । द्वितीयशब्दस्य सहायार्थकत्वेन अद्वितीयशब्देन सहायराहित्यार्थकत्वोक्तेः । अद्वितीशब्दस्य सजातीय- वस्तुराहित्यार्थकत्वोक्तावपि न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति गीतानुसारेण परमात्मसजातीय (समान) वस्त्वभावसिद्धावपि द्वितीयवस्तु - सामान्याभावासिध्द्या अभेदस्य भेदपारमार्थिकत्वाभावस्य चासिद्धेश्व ॥
‘एकः सुपर्ण’ इत्यत्र एकशब्दस्य असहाय इति विद्यारण्योक्तेः । एकम् असहायम् इति वा ‘एके मुख्यान्यकेवलाः’ इति कोशानुसारेण एकः = मुख्य इति वा, अन्यः (जीवादिभ्यो अन्यः) इति वेत्याद्यनेकार्थत्वसम्भवेन एकपदेन विजातीयवस्त्वभावासिद्धेः । शङ्कराचार्यैः ‘एकं = स्त्रकार्यपतितम् अन्यन् नास्तीति एकमेवेत्युच्यत इति एकपदेन सृष्टेः पूर्वं परमात्मजन्य (कार्य) वस्त्वभावस्य, अद्वितीयपदेन सहायभूत- द्वितीयवस्त्वभावस्य कथनेन, एकाद्वितीयपदाभ्यां ब्रह्मातिरिक्त- वस्त्वभावकथनेन, अभेदस्य, भेदपारमार्थिकत्वाभावस्य च असिद्धेः । प्रत्युत ‘तम आसीत् तमसा गूल्हमग्रे’ इति श्रुत्या, प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि इति स्मृत्या च ब्रह्मातिरिक्तस्य तमसः (प्रकृतेः) स्थितिसिद्धेश्च ।
‘जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः । अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥’ इत्यद्वैतिभिर् अनादीनां जीवेशादीनां विद्यमानत्व- कथनेन एकाद्वितीयपदाभ्यां द्वितीयवस्त्वभावकथनस्य स्वव्याहतत्वाच्च । ‘नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत्’ (बृ.१.२.१) इति श्रुतिव्याख्यावसरे शङ्कराचार्यैरेव ’ अनुपलब्धिश्वेदभावहेतुः सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते । तस्मात्सर्वस्यैवाभावोऽस्तु-न’ ‘मृत्युनैवेदमावृतमासीत्’ इति श्रुतेः । यदि हि किंचिदपि नासीद्येनाब्रियते यच्चाव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति - न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ब्रवीति च मृत्युनैवेदमावृतमासीदिति । तस्माद्येनावृतं कारणेन यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीत् । श्रुतेः प्रामाण्यादनुमेयत्वाच्च’ इति वाक्येन द्वितीयवस्तुसत्वकथनात्, शङ्करभाष्यविरुद्धं द्वितीयवस्त्वभाव- कथनद्वारा भेदपारमार्थिकत्वाभाववोधनं, इत्याद्यनेकदोषयुक्तत्वेन नेदं वाक्यं भेदपारमार्थिकत्वाभावादौ प्रमाणं भवितुमर्हति ।
‘आत्मैवेदं सर्वम्’ (छां.७.२५.२) इति वाक्यमपि न जीवब्रह्मणोरभेदं वा जीवब्रह्मणोर्भेदस्य पारमार्थिकत्वाभावं वा बोधयति । तत्र तद्बोधकपदानामभावात् ।
न च इदं सर्वं वस्तुजातम् आत्मैव = आत्मनि कल्पितम् आत्मव्यतिरेकेण नास्ति इत्यर्थकतया सर्वस्य वस्तुजातस्य आत्मव्यतिरेकेण नास्तित्वरूपं मिथ्यात्वं बोधयतीति वाच्यम् । एवमर्थकथनस्य गीतातच्छङ्कर- भाष्यविरुद्धत्वात् पूर्वोत्तरवाक्यविरुद्धत्वाद् असंभवाच्च ।
तथा हि ‘नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥’ (गी. ११.४०)
अस्य शङ्करभाष्यम्-नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यं, अथ पृष्ठतस्ते पृष्ठतोऽपि च ते नमोऽस्तु । ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय, हे सर्व ! अनन्तवीर्यामितविक्रमो ऽनन्तं वीर्यम् अस्य, अमितो विक्रमोऽस्य, वीर्यं सामर्थ्यं, विक्रमः पराक्रमः । वीर्यवानपि कश्चिच्छस्त्रादिविषये न पराक्रमते मन्दं पराक्रमते वा । त्वं त्वनन्तवीर्योऽमितविक्रमश्चेत्यनन्तवीर्यामितविक्रमः । सर्वं समस्तं जगत् समाप्नोषि सम्यगेकेनात्मना व्याप्नोषि यतस् तस्मादसि भवसि सर्वः । त्वया विनाभूतं न किंचिदस्ति इत्यर्थ इति ।
तथा च एतद्गीतातच्छङ्करभाष्याभ्यां परमात्मनः पूर्वपश्चिमादि- सर्वदिग्वृत्तित्वं, सर्वजगद्व्याप्तत्वनिमित्तेनैव सर्वशब्दवाच्यत्वम् अन्तर्यामितया परमात्मना विरहितं जगन् नास्तीत्यपि सिध्यति । न तु जगतः परमात्मस्त्ररूपत्वं परमात्मव्यतिरेकेणाभावो वा सिध्यति । तद्विरुद्धत्वादिति ।
‘आत्मैवेदं सर्वमित्यस्य, इदं सर्वं जगद् आत्मव्यतिरेकेण नास्ति इत्यर्थो न स्वीकार्यः । किं तु गीतातच्छङ्करभाष्यानुसारेण आत्मा, इदं सर्वम् एतत्समस्तं जगद्व्याप्तमित्यर्थकरणमेवोचितम् । इदं सर्वम् आत्मनि
कल्पितम् आत्मव्यतिरेकेण नास्तीत्यर्थकरणं पूर्वोत्तरवाक्यविरुद्धं च । आत्मैवेदं सर्वमित्येतद्घटितं वाक्यम् इत्थम् ‘आत्मैवाधस्ताद् आत्मा उपरिष्टाद् आत्मा पुरस्ताद् आत्मा दक्षिणत आत्मा उत्तरत आत्मैवेदं सर्वं स वा एष एवं पश्यन् एवं मन्वान एवं विजानन् आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु अकामचारो भवति’ (छां. ७.२५.२) इति । अत्र पूर्ववाक्येन आत्मा = परमात्मा, अधस्तात्= अधोदेशे वर्तते, उपरिष्टात् = उपरिदेशे, पश्चात् = पश्चाद्भागे, पुरस्तात् = पुरोभागे, दक्षिणतः = दक्षिणभागे, उत्तरतः = उत्तरभागे इति कथनाद् दक्षिणोत्तरादिदेशाः सिध्यन्ति ।
उत्तरवाक्येनापि ‘स वा एष एवं पश्यन् एवं मन्वान एवं विजानन् ’ इति जीवपरमात्मनोर्द्रष्टृद्रष्टव्यभावमन्तृमन्तव्यभावज्ञातृज्ञेयभावाद्युक्तया भेदः सिध्यति । स्वतः प्रमाणीभूतेन अवाधितेन वेदेनोक्तभेदस्य पारमार्थिकत्वं च सिध्यति ।
तथा तस्य सर्वेषु लोकेषु कामचारो भवति इति ज्ञानिनः सर्वलोकेषु यथेष्टसञ्चरणोक्त्या लोकज्ञानेच्छासञ्चारादिपदार्थाः सिध्यन्तीति आत्मैवेदं सर्वमित्यस्य आत्मव्यतिरेकेण द्वितीयवस्त्वभावभेदमिथ्यात्वबोधकत्वोक्तौ पूर्वोत्तरवाक्यविरोधः । तथाऽर्थो न सम्भवति च । आत्मैवेदं सर्वमिति आत्मेदम्पदयोः सामानाधिकरण्यं ( सजातीयविभक्तिमत्वं) प्रतीयते । तेन च आत्मपदार्थचेतनस्य इदम्पदबोध्यजडरूपजगता अभेदो भासते । परन्तु जडचेतनयोरभेदस्य बाधितत्वेन इदं सर्वम् आत्मैव आत्माधीनमेवेत्यर्थस्यैव वक्तव्यत्वाद् उक्तं च शङ्कराचार्याद्यद्वैतिभिः - बाधायां सामानाधिकरण्यस्थले तदधीनत्वं - तथा हि - छान्दोग्योपनिषच्छाङ्करभाष्ये-न कामस्य (जडस्य) कर्तव्यत्वात् शब्दादिवत् पारार्थ्यप्रसङ्गाच्च देवस्य तस्माद्यथेह सर्वकाम इति बहुव्रीहिस्तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः (छां.शां. भा. ३.१४.२) इति वाक्येन, तद्भाष्यव्याख्यानभूतानन्दगिरिटीकायां च ‘कामसामानाधि- करण्ये बाधकोपलम्भाद्बहुव्रीहिरेवेति परिहरति न कामस्येति । तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं वाध्येत, चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयेत । तथा च सर्वकाम इत्यत्र कर्मधारयासम्भवाद् बहुव्रीहिरेवेत्यर्थः । कथं तर्हि कामोऽस्मीति तादात्म्यस्मृतिरित्याशंक्याह तस्मादिति । कामेश्वरयोः सामानाधिकरण्यासम्भवात् प्रकृतश्रुतौ बहुव्रीहिर्यथेष्टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमात्रं कामस्य विवक्षितं, श्रुत्यनुसारेण स्मृतेर्नेतव्यत्वादित्यर्थ इति वाक्येन जडचेतनयोरैक्या- सम्भवमुक्त्वा कामादीनां परमात्माधीनत्वमुक्तम् ।
तथा शाङ्करब्रह्मसूत्रह्मभाष्ये ।
एवं हन्तास्यैव सर्वे रूपम् असामेति त एतस्यैव सर्वे रूपमभवन् । ( वृ.१.५.२१) इति श्रुतौ वागादीनां प्राणाभेदोक्तेर् वागादेः प्राणेनाभेद इति पूर्वपक्षं कृत्वा प्राणस्य इन्द्रियैर् भेदश्रुतेर् वैलक्षण्याच्च तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्त्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् । (बृ.शां. भा. २.४.१७.१८.१९) इति तादात्म्यं निषिध्य तदधीनव्यापारवत्वेन सामानाधिकरण्यस्य गतिरुक्ता ।
तथा भामत्यामपि यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः- तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च प्राणरूपताभिधानम् इन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् इति सामानाधिकरण्यस्थले अभेदे बाधिते तदधीनता उक्ता इति ।
किं च अद्वैतमतरीत्या निर्विशेषे अद्वितीये स्वप्रकाशे ( इतरावेद्ये) ब्रह्मणि भ्रमासम्भवस्य (ब्र. सू. शां. ) भाष्यभामतीग्रन्थे उक्तत्वेन आत्मनि (ब्रह्मणि) कल्पितमित्यर्थो ऽसम्भावितः । विशेषस्तु अध्यासवादनिराकरण- प्रकरणे तत्र तत्र उक्तो द्रष्टव्यः ।
अपि च आत्मव्यतिरेकेणाभाव इत्यनेन शशविषाणवज् जगतो ऽसत्वमेवाभिप्रेतं वा, विशिष्टनिषेधः विशेषणे पर्यवस्यतीति न्यायेन विशेषणीभूते व्यतिरेके (भेदे) पर्यवसानेन जगत आत्मरूपत्वमेव (आत्माभेद एव) न तु भेद इति । नाद्यः -अपसिद्धान्तात् । अर्थक्रियाकारित्वानुपपत्तेश्च न द्वितीयः । जडस्य जगतः पूर्वोक्तरीत्या चेतनब्रह्मरूपत्वानुपपत्तेर् इत्याद्यनेकदूषणग्रस्तत्वेन आत्मैवेदं सर्वमिति वाक्यं भेदस्य पारमार्थिकत्वं निषेधति अभेदं बोधयतीति शाङ्करोक्तिरयुक्तैव ।
ब्रह्मैवेदं सर्वं (विश्व) इति वाक्यमपि ‘नमः पुरस्तात् ’ ( गी.) इति गीतातच्छाङ्करभाष्यानुसारेण ‘आत्मैवेदं सर्वं ’ इति वाक्यवद् विज्ञानात्म- परमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक इत्यस्मिन्नर्थे ‘ब्रह्मैवेदं सर्वं’ (मुण्डक २.२.११) इति श्रुत्युदाहरणमयुक्तम् । तथाहि =
‘ब्रह्मैवेदममृतं पुरस्ताद् इदं =उक्तलक्षणं, अमृतं = नाशरहितं ब्रह्म, पुरस्तात् = पूर्वभागे वर्तते-
ब्रह्म पश्चाद् ब्रह्म, पश्चात् = पश्चाद्भागे वर्तते-
ब्रह्म दक्षिणतश्चोत्तरेण अधोर्ध्वं च प्रसृतं ब्रह्म, दक्षिणतः=दक्षिणदिग्भागे, उत्तरदिशि, अध, ऊर्ध्वं च प्रसृतं=प्रगतम्
ब्रह्मैवेदं विश्वं - (सर्वं) इदं ब्रह्मैव इदं विश्वं = सर्वव्याप्तम् इदं = ब्रह्म, वरिष्ठं= अतिशयेन श्रेष्ठं
वरिष्ठम्’ (सर्वोत्तमं)
(मु.२.२.११) इति श्रुतिर्
इति ब्रह्मणः सर्वजगद्व्याप्तत्वं सर्वोत्तमत्वं च कथयन्ती श्रुतिर् जीवब्रह्मणोर्भेदमेव कथयति न तु भेदस्य पारमार्थिकत्वाभावं वा अभेदं वा कथयति इति ।
बल्लारिस्थेन वेंकटरामशास्त्रिणा ‘मुण्डके ‘ब्रह्मैवेदं विश्व’ मिति पाठस्य सत्वेन ब्रह्मैवेदं सर्वमिति पाठः कस्माद्गन्थात्संगृहीत इत्येतन्न ज्ञायते’ इति यदुक्तं तत् स्वाचार्यभाष्यग्रन्थानवलोकनिबन्धनम् ।
तथा हि - ‘आरम्भणशब्दादिभ्य इत्यादिशब्दात् …’ ‘तत्त्वमसि’ ‘इदं सर्वं यदयमात्मा’ ब्रह्मैवेदं सर्वम् (मु. २.२.११) ‘आत्मैवेदं सर्वम्’ इति (ब्र.सू.भा. २.१.१४) सूत्रभाष्ये तथा (१.४.२२) ब्र.सू. शाङ्करभाष्ये तथा गौडपादकारिकाव्याख्याने च ब्रह्मैवेदं सर्वमिति पाठस्य ग्रहणात् तच्छाङ्करभाष्यादेव संगृहीत इति ज्ञातव्यमासीत् । तद्भाष्यानवलोकननिमित्तोऽयमाक्षेप इति निर्णायक (जड्ज मेंट) वाक्ये तथा ग्रहणेऽपि विचारपरवाक्ये ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठं’ इति वाक्यस्यापि ग्रहणात् तथाग्रहणं नाज्ञानकल्पकं किन्तु पाठद्वययुक्तं मुण्डकवाक्यमित्यस्य कल्पकम् ।
यच्चाप्युक्तं तेनैव -
ब्रह्मैवेदममृतं पुरस्तात्- पुरस्तात् = पूर्वदिशि विद्यमानं, इदं वस्तुजातं, अमृतं = नित्यं ब्रह्मैव
ब्रह्म पश्चात् पश्चिमदिशि
ब्रह्म दक्षिणतोत्तरेण दक्षिणदिशि उत्तरदिशि
अधश्चोर्ध्वं च प्रसृतम् अधोभागे ऊर्ध्वभागे प्रसृतं सर्वं ब्रह्मैव ब्रह्मैवेदं विश्वम्इदं विश्वं=प्रमाणसिद्धं समस्तं जगत्, वरिष्ठं = अत्युत्तमम्
इदं वरिष्ठम् इति श्रुतेर् इदं ब्रह्मैव इति
अभेदवोधकत्वेन जगद् ब्रह्मणोर्भेदाङ्गीकारे श्रुतेः स्वारस्यं न सम्भवति । द्वैतिभिः ‘इदं सर्वं ब्रह्मैव, इत्यस्य ब्रह्माधीनमेवेत्यर्थकरणं निश्चयेनासङ्गतम् । तदा ब्रह्मैवेदमिति अवधारणं ( एवकारः) व्यर्थं भवति । तस्माद् अस्मिन् जगद्ब्रह्मणोर्नियम्यनियामकत्वादिरूपभेदसंम्बन्धकथनपक्षे श्रुत्यर्थो ध्वंसं प्राप्नुयात् । तथा च यश्चोरः स स्थाणुरिति वाक्ये यथा यश्वरत्वेन प्रतीतः स स्थाणुरितिवद् ब्रह्मैवेदं सर्वमित्यस्यापि यत् सर्वत्वेन प्रतीतं तद्ब्रह्म (ब्रह्मणि कल्पितं न तु जगदस्ति) इत्यर्थकरणं युक्तमिति । तदतीव मन्दम् ।
तथा हि - पूर्वोदाहृताभ्यां ‘नमः पुरस्तादथ पृष्ठतस्ते’ (गी.) इति गीतातच्छाङ्करभाष्याभ्यां सर्वदिग्व्याप्तिसर्वजगद्व्याप्तिकथनेन जगद्ब्रह्मणोर्भेदस्यैव कथितत्वेन तद्विरोधात्, ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतौ स्पष्टं जगद्ब्रह्मणोर्व्याप्यव्यापकभावोत्त्या भेदस्यैव कथनात् । जगद्ब्रह्मणोरभेदाङ्गीकारे ब्रह्म जगद् व्याप्नोतीत्यस्य मल्लो मल्लं (स्वं) गच्छति इतिवद् अयोगेन व्याप्यव्यापकभावस्य अस्वरसतमत्वाद् इदं सर्वं ब्रह्मैवेत्यस्य ब्रह्माधीनमेवेत्यर्थकरणं ‘कामोऽस्मि’ (गी.) ‘एतस्यैव सर्वे रूपमभवन्’ (बृ.१.५.२१) इत्याद्यभेदबोधकतया भासमानवाक्यानां शङ्कराचार्यादिभिः स्वभाष्ये तदधीनत्वाद्यर्थस्य कथितत्वेन अत्यन्तं सङ्गतत्वात्, अभेदवोधकतया भासमाने एतस्यैवेति एवकारघटितवाक्येऽपि तदधीनत्वाद्यर्थस्य कथनात् ‘ब्रह्मैवेदं सर्वम्’ इत्यस्य तदधीनत्वाद्यर्थकरणे एव एवकारस्य इदं सर्वं तदधीनमेव न तु तदनधीनम् इति अनधीनत्वव्यावर्तकतया सार्थकत्वात् । तथा च जगद्ब्रह्मणोर् भेदव्याप्ततदधीनत्वाद्यर्थाङ्गीकारे श्रुत्यर्थः समीचीनो भवति न तु ध्वस्तो भवति । प्रत्युत यः स्थाणुः स चोर इतिवद् यत् प्रतीतं सर्वं ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमस्नानसन्ध्यादानतपोवेददेव- यज्ञगङ्गादितीर्थपरलोकैतल्लोकेश्वरादिकं तद् ब्रह्मैव ब्रह्मणि कल्पितम् इत्यद्वैतिरीत्याऽर्थाङ्गीकारे तु न केवलं श्रुत्यर्थो ध्वंसं प्राप्नुयात् किं तु श्रुतिः (वेदः) ईश्वरः, देवाः, यज्ञः, ब्राह्मणादिसर्वं जगत्, वक्ता त्वं, श्रोतारः सर्वेऽपि ध्वंसमाप्नुयुर् इति महत् कष्टमापद्येत ।
नन् अस्माकं सर्वस्याभाव इष्ट एव । अद्वैतिभिर् विवर्तवादादिकथनं मध्यमाधिकारिणं प्रत्येव न तूत्तमाधिकारिणं प्रति । उक्तं हि संक्षेपशारीरके तद्व्याख्यानभूतेऽद्वैतसिद्धिकृन्मधुसूदनसरस्वतीभिः रचिते व्याख्याने च-
तत्त्वावेदकमानदृष्टिरधमा तत्त्वक्षतिर्मध्यमा ।
तत्त्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यदृष्टिर्मता । सं. शा. २४३ ॥
प्रत्यक्षादेस्तत्त्वावेदकमानत्वदृष्टिरधमा भवति, अविवेकादिमत्पुरुष- साधारणत्वात् पुरुषार्थानुपयोगित्वाद् अनर्थहेतुत्वाद् अनात्मसत्यत्व- विषयत्वाच्च साऽधमेत्यर्थः ।
तत्त्वक्षतिः - प्रपञ्चसत्यत्वक्षतिकरी या विवर्तदृष्टिः सा मध्यमा । ब्रह्मविचाराद्यधीनविगर्त दृष्टे विवेकादिमत्पुरुषाश्रयत्वात् परम्परया मोक्षोपयोगित्वादात्मतत्वविषयत्वाच्च सा पूर्वदृष्ट्यपेक्षयोत्तमा । तावत्या द्वैतोपशान्त्यसम्भवाद् द्वैतोपशान्त्यपेक्षया जघन्येति मध्यमेत्यर्थः । या पुनरन्त्या दृष्टिः सा तत्त्वप्रच्युतिविभ्रमक्षतिकरी, प्रपञ्चतत्व- विरोधिनी प्रपञ्चभ्रमत्वगोचरा या विवर्तदृष्टिस्तस्याः क्षतिकरी । अतः सोत्तमपुरुषाश्रयत्वात् सकलद्वैतभ्रमनिवर्तकतया साक्षान्मोक्षसाधन त्वान्निरतिशयानन्दात्ममात्रविषयत्वाच्च सर्वोत्तमा मतेत्यर्थ इति । तर्हि देवानां प्रियोऽसि । सर्वस्याप्यभावे वक्ता नास्ति, वदनसाधनं नास्ति, वक्तव्यं नास्ति, श्रोता नास्ति, श्रवणसाधनं नास्ति इति वदन् पुनः वदनादिव्यापारं कुर्वन् भ्रान्तौषधालये निवेशयितुं योग्यः न सम्भाषणीय इत्यलमेतादृशैः सह विवादेन ।
अपि च यश्चोरः स स्थाणुरिति वाक्यं चोरत्वेन प्रतीतस्य स्थाणुत्वं मुख्यया वृत्या बोधयति अमुख्यवृत्या वा ? नाद्यः । चोरपदस्य चोरत्वेन प्रतीत इत्यर्थस्य मुख्यार्थकत्वाभावात् । अमुख्यवृत्त्या बोध्यते इति द्वितीयपक्षे ‘ब्रह्मैवेदं सर्वमित्यत्र सर्वपदस्य सर्वत्वेन प्रतीतम् इत्यर्थकरणमप्यमुख्यमेव (लक्षणावृत्यैव) स्वीकरणीयमिति ब्रह्मशब्दस्य ब्रह्माधीनमित्यर्थकर्तुः सकाशात् को विशेष आचरितो लोकोत्तरप्रज्ञेन ? । हा ! विशेष आचरितः । ब्रह्माधीनत्वदिरूपोऽर्थः शङ्कराचार्यादिभिरुक्तः श्रुत्याद्यनुसारी च । तमेतं प्रमितमर्थं परित्यज्य सर्वं सर्वत्वेन प्रतीतं ब्रह्म ब्रह्मणि कल्पितमिति प्रमाणविरुद्धस्य सर्वजगद्व्यवहारनाशकस्य चार्थस्य कथनेन ।
अपि च ‘किं बहुना ब्रह्मैवेदं विश्वं समस्तम् इदं जगद् वरिष्ठं वरतमं’ इति शाङ्करभाष्यम् । अत्र हि ब्रह्मैव इदं विश्वं समस्तम् इत्येकं वाक्यम् । इदं जगद् वरिष्ठं वरतमम् इति द्वितीयं वाक्यम् इति वाक्यभेदः स्पष्टं प्रतीयते । इदंपदद्वयाटितत्वात् । प्रथमवाक्ये तावत् शाङ्करमतरीत्या इदं विश्वं समस्तं ब्रह्मैव इति विश्वमुद्दिश्य ब्रह्मत्वं विधीयते । द्वितीयवाक्ये इदं जगद् इति जगदुद्दिश्य वरिष्ठं वरतममिति वरतमत्वं विधीयते, इति जगत उत्तमत्वं स्पष्टं बोध्यते । एवंरीत्या स्पष्टं प्रतीयमानमर्थं स्वीकृत्य शङ्कराचार्येण जगत उत्तमत्वमुक्तम् । मिथ्यात्वे उत्तमत्वं कथं घटेत । तदन्यथानुपपत्याऽपि जगतः सत्यत्वं सिध्यति इति न मिथ्यात्वं जगत इत्युक्तं सिविलसूट नामके पुस्तके ।
जगतो वरिष्ठत्वं शङ्करेण नोक्तम् । शाङ्करवाक्यान्वयाज्ञानमूलकैव ‘जगतो वरिष्ठत्वं शङ्करेणोक्त’ मित्युक्तिः । वरिष्ठशब्दस्तु विधेयवाचकब्रह्म- शब्देनैवान्वेति न तु उद्देश्यवाचकविश्वशब्देन इति यदुक्तं स्वमताग्रह- पिशाचाविष्टेन शास्त्रिणा, तदयुक्तम् ।
शङ्करभाष्ये इदंपदद्वयोपेतं महावाक्यं ब्रह्मैवेदं विश्वं = समस्तम् इति प्रथमवाक्यमिदं विश्वमुद्दिश्य ब्रह्मत्वविधायकम् । इदं जगद् वरिष्ठं वरतमम् इति द्वितीयं वाक्यं जगदुद्दिश्य वरिष्ठत्व (वरतमत्व ) विधायकमित्यवान्तर- वाक्यद्वयघटितमिति स्पष्टं बालानामपि प्रतीयते ।
श्रुतावपि ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इति वाक्यम् इदंपदद्वयघटितत्वेन ‘इदं विश्वं ब्रह्मैव’ इत्येकं वाक्यम् । ‘इदं वरिष्ठं’ इत्यपरं वाक्यमिति स्पष्टं प्रतीयते । श्रुतौ शाङ्करभाष्ये च विद्यमानं वाक्यं यद्येकवाक्यं स्यात् तर्हि इदमिति पदद्वयमनन्वितं स्यात् । यदि इदं विश्वं समस्तम् इदं जगद् वरिष्ठं वरतमम् ब्रह्मैव इति जगदुद्दिश्य वरिष्ठतमब्रह्मत्वं विहितमिति शङ्करेणोक्तमित्युक्तं भवेत् तदा शङ्करभाष्ये इदंपदद्वयं व्यर्थं स्यात् । इदं विश्वं समस्तं…..जगद् वरिष्ठं ब्रह्मैवेत्यनेनैव निर्वाहात् समस्त… जगच्छन्दयोर्मध्ये पुन इदंशब्दप्रयोगो न स्यात् ।श्रुतावपि ब्रह्मैवेदं विश्वंवरिष्ठम् इत्येवोच्येत न तु ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति विश्ववरिष्ठशब्दयोर्मध्ये इदंशब्दो न स्यात् । अस्ति च श्रुतौ शाङ्करभाष्ये च मध्ये इदंशब्द इत्यतः श्रुतौ शाङ्करभाष्ये च वाक्यद्वयम् अभिप्रेतमिति प्रतीयते । एवं स्पष्टं प्रतीयमानवाक्यद्वयत्वापलापः वरिष्ठशब्दस्य पूर्ववाक्ये अद्वैतमतरीत्या विधेयब्रह्मणा अन्वय इत्याद्युक्तिः, “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च " इति गीतोक्तासुरस्वभावनिबन्धना । ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ ‘ईश्वरोऽहं’ इत्यादि मिथ्याज्ञानेन ‘मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इत्युक्ताधमगतिप्राप्तिसाधनं चेति । याऽपि शास्त्रिणा ‘वरिष्ठमिति अतिशयार्थकेष्ठन्प्रत्ययान्तशब्दस्य अत्युत्तमार्थकत्वेन जगतो ऽत्युत्तमत्वं कैरपि शास्त्रकारैर्नोच्यते । सन्त्वितरे शास्त्रकाराः, माध्वा अपि सर्वोत्तमत्वादिकं विष्णोरेव वदन्ति न जगत इति स्थिते जगतो ऽत्युत्तमत्वं शङ्करेणोक्तमिति व्याजेन अविद्यमानं जगतो ऽत्युत्तमत्वं कथयताम् एतद्द्व्रन्थकर्तृतीर्थानां स्वसिद्धान्तविरोध आयास्यतीत्युक्तिः, स्वमतसाधनपरमतनिराकरणासामर्थ्यनिमित्त- जातकोपावेशजनितबुद्धिभ्रान्ति प्रयोज्यैव । न हीदं सिविलसूटग्रंथकर्त्रा जगतो ऽत्युत्तमत्वं स्वसिद्धान्तत्वेनोक्तम् । शङ्कराचार्या जगत उत्तमत्वं कथयन्ति । कथं जगतो मिथ्यात्वे उत्तमत्वं स्यादित्यापादितमेव । द्वैतसिद्धान्ते तु श्रुत्यर्थ उपक्रम एव निरूपितः ‘ब्रह्म उद्दिश्य पुरोदेशवृत्तित्वपश्चिम देशवृत्तित्त्वविश्वव्याप्तत्वादिकं कथयित्वा इदं वरिष्ठमिति वाक्येन ब्रह्मणः सर्वोत्तमत्वं विधीयत इति, न तु जगतो ऽत्युत्तमत्वं बोध्यते’ इति ।
उत्तमत्वमेव द्वितीयाधमवस्तुसापेक्षं, अत्युत्तमत्वं तु नितरां द्वितीयानेकाधमवस्तुसापेक्षमिति अद्वैतमतरीत्याऽपि अङ्गीकृत्य अद्वितीय- ब्रह्मणोऽपि वरिष्ठशब्दबोध्यात्युत्तमत्वं कथं घटते इत्येतच्छास्त्रिभिरपि पर्यालोचितव्यमासीत् । हा! न तेषामपराधः ! न ते पर्यनुयोज्याः । आग्रहेण बुद्ध पर्यालोचनशक्तेः कुण्ठितत्वाद् इति ।
इदं सर्वं यदयमात्मा (बृ. २.४.६ ) इति श्रुतिरपि जीवब्रह्मणोर्भेदस्य पारमार्थिकत्वाभावं वा अभेदं वा यथा न वक्ति तथा प्रदर्शितम् आत्मेति ( ब्र. सू. ४.१.३ ) सूत्रविचारावसरे तत्रैव द्रष्टव्यम् ।
नान्यदतोऽस्ति द्रष्टृ इति वाक्यमपि ब्रह्मान्यजीवनिषेधद्वारा नैक्यबोधकम् । एतत्पूर्ववाक्येषु सूर्यचन्द्रादिदेवानाम् अक्षरनामकब्रह्मणा भेदस्यैव कथितत्वात् । अस्मिन् वाक्ये भेदनिषेधकपदाभावाच्च । तथा हि - “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इति वाक्येन जगद्व्यवस्था प्रशास्तृपूर्विका व्यवस्थात्वाद् राज्यव्यवस्थावत् (यथा राज्यव्यवस्थाया एकः प्रशास्ता वर्तते तथा जगद्व्यवस्थाया अपि एकः प्रशासक आवश्यक इति प्रशास्त्रक्षरसिद्धिः ) इति अक्षरसद्भावे एकमनुमानम् । विमतौ सूर्याचन्द्रमसौ विशिष्टज्ञानवता निर्मिती प्रकाशकत्वात् प्रदीपवद् इति ( यथा प्रकाशको दीपः ज्ञानविशेषवता निर्मितस् तथा प्रकाशकौ सूर्याचन्द्रमसावपि ज्ञानविशेषवता निर्मितौ ) सूर्याचन्द्रमसोर्निर्मातृ ज्ञानविशेषवदक्षरसद्भावे अपरमनुमानम् । विमतौ नियन्तृपूर्वकौ विशिष्टचेष्टावत्त्वाद् भृत्यादिवद् इति ( यथा चेष्टाविशेषवतो भृत्यादेः कश्चिन्नियन्ता वर्तते तथा गमनागमनप्रकाशनादिव्यापारविशेषवतोः सूर्याचन्द्रमसोरपि एकः नियन्ता आवश्यक इति ) सूर्याचन्द्रनियन्त्रक्षरसद्भावे अन्यदनुमानं च सूचयित्वा ।
‘एतस्याक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ तिष्ठतः’ इत्यनेन विमतौ द्यावापृथिव्यौ प्रयत्नवता विधृते सावयवत्वेऽपि अस्फुटितत्वाद् गुरुत्वेऽपि अपातित्वात् संयुक्तत्वे सति वियुक्तत्वात् । इत्यादि (यथा हस्तन्यस्तपाषाणादि गुरुत्वेऽपि अपातित्वादिना केनचित् प्रयत्नवता पुरुषेण धृतं तथा द्यावापृथिव्योरपि एकः प्रयत्नपूर्वकं धर्ता आवश्यक इति द्यावापृथिव्यभिमानिदेवताधारक एव अक्षरमिति) अक्षरसद्भावे अनुमानं सूचयित्वा
‘एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति’ इति वाक्येन च निमेषादयः नियन्तृपूर्वकाः कलयितृत्त्वात् सम्प्रतिपन्नवद् इति (निमेषादिनियन्तृतया अक्षरं सिध्यति इति) अक्षरसद्भावे अनुमानं सूचयित्वा -
‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु’ इति वाक्येन ‘विमता गङ्गाद्या नियन्तृपूर्विका नियतप्रवृत्तिमत्वाद् भृत्यादिप्रवृत्तिवत् (यथा अन्यथा प्रवर्तितुम् उत्साहवन्तोऽपि भृत्यास् तथा अकृत्वा नियतप्रवृत्तिमत्वेन केनचिन्नियताः, तथा गङ्गाद्या नद्यभिमानिदेवता अपि अन्यथा प्रवर्तितुमुत्साहवन्तोऽपि नियमेनैव प्रवर्तन्ते इति तासां देवतानामपि एको नियन्ता आवश्यकः) इत्याद्यनेकान्यनुमानानि सूचयित्वा शास्यशासकभाव- धार्यधारकभावजन्यजनकभावादिना ‘चन्द्रसूर्यनद्याद्यभिमानिजीवानाम् अक्षरनामकपरब्रह्मणा भेदवोधकान्येवेति पूर्ववाक्यविरुद्धत्वादिना अक्षरं (ब्रह्म) अङ्गीकरणीयमिति यदुक्तं तन्न युक्तम् । अग्नेर्दहनप्रकाशकत्ववत् प्रकृत्यादेरचेतनस्यैव प्रशास्तृत्वसम्भवेन न प्रशास्तृत्वेन प्रधानाद्यतिरिक्तं ब्रह्म अङ्गीकर्तुं शक्यमिति सांख्येन आक्षेपे कृते तत्परिहारार्थम् ‘तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति वाक्यं प्रवृत्तम् ।
हे गार्गि! शासकत्वादिना सिध्यद् अक्षरम् अदृष्टं दर्शनविषयत्व- योग्यत्वाभाववत् स्वयं च द्रष्टृ एवं श्रवणाविषयः स्वयं श्रोतु एवं मननाविषयः स्वयं मंतृ, एवं ज्ञानाविषयः स्वयं विज्ञातृ ‘अतः’ दर्शनायोग्यत्वात् ‘अतः’ श्रवणायोग्यत्वात् ‘अतः’ मननाविषयत्वात् ‘अतः’ ज्ञानाविषयत्वात् ‘अतः ’ एतस्मात् शासकाद् अन्यत् प्रधानं वा अव्याकृताकाशादिपृथिव्यन्तं वा न द्रष्टृ न श्रोतृ न मंतृ न विज्ञातृ इति शासकतया सिध्यद्वस्तुनि विद्यमानद्रष्टृत्व श्रोतृत्वमन्तृत्वादीनां जडेषु प्रधानादिष्वसम्भवेन न शासकं प्रधानादिजडं भवितुमर्हति । किंतु अक्षरं ब्रह्मैवेति, एतस्मिन् खल्वक्षरे गार्गि आकाश ओतप्रोत आश्रयतया सम्बद्धः, इति प्रधानवादिमतनिराकरणार्थं प्रवृत्तं न तु अक्षराद् ब्रह्मणोऽन्यद् द्रष्टृ श्रोतृ मंतृ विज्ञातृ वस्त्वेव नास्तीति कथनद्वारा ब्रह्मान्यजीवनिषेधार्थमिति ।
एवमेव व्याख्यातं शङ्कराचार्येणापि एतदुपनिषद्भाष्ये ।
किं च नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मंतृ नान्यदतोऽस्ति विज्ञातृ, इति वाक्यस्य अक्षराद् अन्यद् द्रष्टृ श्रोतृ मन्तृ विज्ञातृ नास्ति इति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ चेतनस्य निषेध द्वारा ब्रह्मणो ऽन्यः जीवो नास्तीति व्याख्यानकरणं, ब्रह्मान्यस्य श्रोतृत्वमन्तृत्वविज्ञातृत्वादिबोधकैस् तत एव भेदबोधकैः ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ‘येनाश्रुतं श्रुतं भवति’ ‘तमेवं विद्वानमृत इह भवति’ ‘यया तदक्षरमधिगम्यते’ इत्यादिवाक्यैर्विरुद्धं, ‘यो वा एतदक्षरं गार्ग्यविदित्वा अस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति… अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः’ इति अव्यवहितपूर्ववाक्येन विरुद्धं च ।
यथा पूर्ववाक्ये शासकत्वादिना अक्षरं ब्रह्म अस्तीति साधितं तथा अस्मिन् वाक्येऽपि ।
यदज्ञानात् संसारस् तद्ज्ञानान्निवर्तते इति न्यायाद् अक्षरा (ब्रह्मा) ज्ञानमूलकत्वात्संसारस्य तन्निवर्तकज्ञानविषयेण अक्षरेणैव भाव्यं नान्येनेति संसारनिवर्तकज्ञानविषयतया अक्षरमङ्गीकरणीयमिति । एवमेव व्याख्यातं शाङ्करभाष्ये ।
य एतदक्षरं गार्गि विदित्वेत्यनेनापि अक्षरब्रह्मज्ञातृत्वं स्पष्टं जीवस्योक्तमिति तद्विरोधाज् ज्ञातृत्वद्रष्टृत्वादीनां निषेधासम्भव एव ।
न च आत्मा वाऽरे द्रष्टव्य इत्यादिश्रुतिभिर् जीवब्रह्मणोर्व्यावहारिकभेदेन व्यावहारिकं (कल्पितं ) द्रष्टृत्वमुच्यते । अस्मिन्वाक्ये जीवस्य वस्तुतः परब्रह्मरूपत्वेन पारमार्थिक भेदाभावेन तद्विवक्षया ‘अतो ऽन्यत्’ परब्रह्मणः (अक्षरात्) अन्यत् पारमार्थिकद्रष्ट नास्ति इति निषिध्यत इति वाच्यम् । यथा नीलघटसद्भावकाले सामान्यतः घटो नास्ति इति निषेधः कर्तुं नैव शक्यते तथा त्वन्मतरीत्या व्यावहारिकद्रष्टुः सद्भावेन नान्यदतोऽस्ति द्रष्टृ इति सामान्यतः द्रष्टुर् निषेधायोगात् ।
न च अत ‘एव अतो ऽन्यत् परमार्थतः द्रष्टृ नास्ति’ इति परमार्थत इति विशेषणं दत्तमिति वाच्यम् । श्रुतौ परमार्थत इति पदाभावात् । अश्रुतपदस्याध्याहारे च स्वातन्त्र्येणेति पदाध्याहारेण स्वातन्त्र्येण द्रष्टृ नास्ति इति जीवस्य परमात्मदर्शने स्वातन्त्र्यनिषेधाङ्गीकारेण वा साकल्येनेति पदाध्याहारेण ब्रह्मगतसकलधर्मज्ञाननिषेधाङ्गीकारेण वा उपपत्तौ ब्रह्मान्य- जीवस्य निषेधासिद्धेः । ब्रह्मान्यजीवनिषेधस्य पूर्वोक्तरवाक्यबहुप्रमाण-विरुद्धत्वेन असम्भवाच्च ।
‘किं च शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियत’ इति (ब्रह्मसूत्रभाष्यव्याख्यानसमये वाचस्पतिना भामतीकारेण ‘लौकिकानि हि प्रमाणानि सदसत्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यावहारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह, ‘न ह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यते अपह्नोतुम्’ (भाष्ये) ’ प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यं न पुनः सांव्यावहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते’ इति वाक्येन, बौद्धेन जगतः सत्त्वं नास्ति इति कथिते, प्रमाणैर् जगतः सत्यत्वावधारणात् सत्यत्वं नास्तीति कथनं प्रमाणविरुद्धमिति मायावादिना प्रत्युत्तरे दत्ते, पुनः सत्वं द्विविधं व्यावहारिकं पारमार्थिकम् इति प्रमाणानि व्यावहारिकसत्त्वं विषयीकुर्वन्ति । मया तु प्रमाणसिद्धं व्यावहारिकसत्त्वमङ्गीकृत्य पारमार्थिकसत्त्वं निषिध्यते इति जगतः सत्त्वानङ्गीकर्तुर्मम न प्रमाणविरोध इति उत्तरे दत्ते, तस्य समाधानार्थं प्रवृत्तस्य ‘न ह्मयं सर्वप्रमाणसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतु’ मिति भाष्यस्य व्याख्यानं कुर्वता भामतीकृता वाचस्पतिमिश्रेण (प्रमाणानि स्वस्वविषयाणि तात्त्विकानि (पारमार्थिकानि ) एवेति गृह्णन्ति न तु व्यावहारिकाणि इति) प्रमाणैः स्वस्वविषयाणां पारमार्थिकत्वस्यैव ग्रहणात्, व्यावहारिकत्वस्याग्रहणात् पारमार्थिकत्वनिषेधे प्रमाणविरोधस् त्वन्मतस्य वज्रलेपायित इति बौद्धं प्रति उक्तत्वेन, अहं प्रत्ययस्य कर्तृत्वभोक्तृत्वादिविषयस्यात्मनि अद्वैतवाक्यजातेन बाधे तु तन्मूलस्य प्रमाणस्य न क्वचिदपि चारितार्थ्यम् । न च व्यावहारिकविषयालम्बनतया तत्रैव चारितार्थ्यं स्यादिति वाच्यम् । व्यावहारिकविषयस्य शुक्तिरूप्यादिवत् कदाचिद्वाध्यत्वाभ्युपगमाद् वाध्यविषये च व्यावहारिकप्रामाण्यमिति व्यवहारस्य अद्वैतपरिभाषामात्र सिद्धत्वादित्याशङ्कय निर्दोषत्वेन क्लृप्तशास्त्रस्यैव विषयान्तरप्रदर्शनेन चारितार्थ्यमुपपादनीयं न तु दोषमूलस्य अहंप्रत्ययस्य, तस्य भ्रान्तित्वोपपत्तेरिति विवेचनाय तस्य दोषमूलत्वं दर्शयितुं प्रवृत्तमुत्तरग्रन्थमवतारयति । एवं तावदिति, इति कल्पतरुपरिमलवाक्यैरपि व्यावहारिकविषयस्य कदाचिद्बाध्यत्वेन बाध्यस्य त्रिकालावृत्तित्वाद् बाध्यविषये च व्यावहारिक प्रामाण्यमिति व्यवहारस्याद्वैतिपरिभाषामात्र सिद्धत्वादित्यादिना विषयस्य व्यावहारिकत्वं त्रिकालावृत्यसत्त्वपर्यायं व्यावहारिकप्रामाण्यं च अप्रामाण्यपर्यवसायि इति उक्तत्वेन च, ‘न च व्यावहारिकप्रामाण्ये सावकाशम् एतत्परिभाषाया अद्वैतिपरिकल्पिताया वस्तुव्यवस्थापकत्वासम्भवादिति, ब्रह्मविद्याभरणे चोक्तत्वेन एतस्यवा अक्षरस्येत्यादि प्रमाणानां व्यावहारिकशास्तृत्वभेदादिविषयत्वाङ्गीकारस्य स्वव्याहत्यापत्याऽयोगाद् इति ।
**सत्यं चेत्संवृतिः केयं मृषा चेत्सत्यता कथम् । **
सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ॥
**तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः । **
वञ्चनार्थमुपन्यासः लालावक्त्रासवादिवत् ॥
नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च ।
तस्माद्यन्नास्ति नास्त्येव यद्यस्ति परमार्थतः ॥
**तत्सत्यमन्यन् मिथ्येति न सत्यद्वयकल्पना । **
न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित्प्रवर्तते ॥
इति भट्टेन बौद्धमतनिराकरणावसरे व्यावहारिकसत्यताया असत्वस्यैवोक्तेः, व्यवहारे भट्टनय इति भट्टमतानुयायित्वं स्वीकुर्वता त्वया बौद्धवद् व्यावहारिकसत्यताङ्गीकारायोगात् । अङ्गीकारे च भट्टोक्तरीत्या नास्तिक्यपरिहारार्थं वञ्चकताप्राप्तेः ।
यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति यं पृथिवी न वेद इति पृथिव्याद्यभिमानिनो देवा महानुभावाः कथं स्वान्तर्गतं स्वनियामकं भगवन्तं न पश्यन्ति इति शङ्कायां ‘एष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता’ इति वाक्येन अन्तर्यामी दर्शनायोग्य इति कथयित्वा अतः दर्शनयोग्यत्वाद् अन्यः (पृथिव्यादिदेवतान्तर्यामिणः) द्रष्टा नास्ति, अतः श्रवणायोग्यत्वाद् अतः मननायोग्यत्वाद् अतः विज्ञानायोग्यत्वात् ‘अन्यः’ (अन्तर्यामिणः) श्रोता मन्ता विज्ञाता नास्ति इति पृथिव्याद्यभिमानिदेवताः स्वान्तर्यामिणं न पश्यन्ति न श्रुण्वन्ति न मन्वते न विजानस्ति इति उक्तं, तथा अक्षरस्य अतः दर्शनायोग्यत्वाद् अतः मननायोग्यत्वाद् अतः श्रवणायोग्यत्वाद् अतः विज्ञानायोग्यत्वाद् अन्यद् ब्रह्मणः (अक्षरात्) द्रष्टृश्रोतृमन्तृविज्ञातृ नास्तीति अक्षरद्रष्टृत्वमेव निषिध्यते न तु सामान्यतः द्रष्टृनिषेधः क्रियते इत्यर्थस्यापि सुसाधत्वेन, नेदं वाक्यं द्रष्टुंतरनिषेधद्वारा जीवब्रह्मैक्यबोधकम् ।
(बृ.) नान्योऽतोऽस्ति द्रष्टेति वाक्यमपि जीवब्रह्मणोर्भेदनिषेधद्वारा ऐक्यबोधकमिति यत् तत्तुच्छम् । एतत्पूर्ववाक्येषु पृथिव्याद्यभिमानिदेवानां जीवानां च परब्रह्मणा भेदस्य भेदकधर्माणां च कथितत्वाद् अस्मिन्वाक्ये
भेदनिषेधकपदाभावाच्च । तथा हि याज्ञवल्क्यान्तर्यामिणं ब्रूहीति यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः (बृ. ३.७.३) योऽप्सु तिष्ठन् … अमृतः (बृ. ३.७.४) योऽग्नौ तिष्ठन्… अमृतः ५ योऽन्तरिक्षे तिष्ठन् …. अमृतः ६ यो वायौ तिष्ठन् अमृतः ८ य आदित्ये .. अमृतः ९ यो दिक्षु …अमृतः ७ यो दिवि अमृतः ९ यो दिक्षु …. अमृतः १० यश्चन्द्रतारके अमृतः ११ य आकाशे अमृतः १२ यस्तमसि … अमृतः १३ यस्तेजसि… अमृतः १४ यः सर्वेषु भूतेषु …अमृतः १५ यः प्राणे..अमृतः १६ १७ १८.१९.२०.२१ जीवे यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं … अमृतः २२. यो रेतसि तिष्ठन् …. रेतोंतरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमता मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति विज्ञाता एष त आत्माऽन्तर्याम्यमृतो ऽतोऽन्यदार्तं (बृ.३.७.२३) (अस्य तात्पर्यार्थः)यः नारायणः पृथिव्यादिषु पृथिव्याद्यभिमानिदेवेषु अन्तः विद्यमानः पृथिव्याद्यभिमानिदेवेन अविज्ञेयः पृथिवीशरीरकः पृथिव्याद्यभिमानिदेवाद् भिन्नः पृथिव्याद्यभिमानिदेवं नियमयति (स्वस्वव्यापारेषु प्रवर्तयति) एष आत्मा नारायणस् तव मम च अन्तर्यामी अन्तः स्थित्वा नियामको ऽमतः पृथिवीनाशेन नाशरहितः । एवं यो नारायणः जले जलाभिमानिदेवतायां, अग्नौ अग्न्यभिमानिदेवतायां, अन्तरिक्षे अन्तरिक्षाभिमानिदेवतायां, आदित्ये, दिक्षु दिगभिमानिदेवतासु, चन्द्रतारकयोः, आकाशे आकाशाभिमानि- देवतायां, तमसि तमोभिमानिदेवतायां, तेजसि तेजोभिमानिदेवतायां, सर्वेषु भूतेषु, प्राणे, वाचि वागभिमानिदेवतायां, चक्षुषि चक्षुरभिमानिदेवतायां, श्रोत्रे श्रोत्राभिमानिदेवतायां, मनसि मनोभिमानिदेवतायां, त्वचि त्वगभिमानिदेवतायां, मनसि मनोभिमानिदेवतायां, विज्ञाने जीवे, रेतसि रेतोभिमानिदेततायां, अन्तर्विद्यमानस् तैस्तैरविज्ञेयस् तत्तच्छरीरकः जलादि- जडतदभिमानिदेवेभ्यः भिन्नः जलादिजडान् जलाद्यभिमानिदेवांश्च चेतनान् नियमयन् तत्तद्व्यापारेषु प्रवर्तयन्, यो नारायण आस्ते स एव नारायणस् तव मम चान्तः स्थित्वा नियामकः पृथिवीजलादिनाशेऽपि नाशरहित इति ।
अन्तर्यामिणो नारायणस्य (परब्रह्मणः) पृथिव्यादिजडैस् तदभिमानिदेवैः सर्वजीवैश्च नियम्यनियामकभाव आधाराधेयभावः (१) भेदोक्त इति एतद्वाक्यविरुद्धत्वाद् अनेकभेदभेदकधर्मबोधकप्रमाणैश्च विरुद्धत्वात् ‘अमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता’ इति वाक्यं न जीवब्रह्मणोर्भेदनिषेधकम् इति नानेनापि अद्वैतस्य वैदिकत्व - सिद्धिः । न च तर्हि अमृतोऽदृष्टो द्रष्टा इत्यादिवाक्यं किमर्थं प्रवृत्तमिति वाच्यम् । (२) पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवद् आत्मनि तिष्ठन्तम् आत्मनो नियन्तारम् अन्तर्यामिणं कस्मान्न विदुरित्याशङ्कायां यतः नारायणः (परब्रह्म) अदृष्टो ऽन्यकर्तृकदर्शनायोग्यः, श्रवणायोग्यः, मननायोग्यः, विज्ञानायोग्यः, स्वयं द्रष्टा श्रोता मन्ता विज्ञाता अतो ऽन्यकर्तृकदर्शनायोग्यत्वात्, अन्यः परमात्मद्रष्टा नास्ति, अतो ऽन्यकर्तृकश्रवणायोग्यत्वाद् अन्यः परमात्मश्रोता नास्ति, अतो ऽन्यकर्तृकविज्ञानायोग्यत्वाद् अन्यः विज्ञाता नास्ति इति कथनार्थं प्रवृत्तत्वात् । तेन च यथा धर्मादिद्रष्टा नास्ति इत्युक्ते सामान्यतः द्रष्टुर्निषेधो न ज्ञायते, किन्तु धर्मादीनाम् अतीन्द्रियत्वेन ( दर्शनायोग्यत्वेन) तेषां द्रष्टा नास्तीत्येव, तथा ब्रह्मणः दर्शनायोग्यत्वादिना ब्रह्मणो द्रष्टा श्रोता मन्ता विज्ञाता नास्तीत्येव सिध्यति । न तु सामान्यतः द्रष्टैव नास्ति श्रोतैव नास्ति मंतैव नास्ति विज्ञातैव नास्तीति । अतो नेदं वाक्यं सामान्यतः द्रष्टृ श्रोतृमन्तृविज्ञातृनिषेधबोधनद्वारा ब्रह्मान्यद्रष्टृजीवस्य निषेधकं, किन्तु नियम्यनियाकभावाधाराधेयभावादिना साक्षाच्च जीवब्रह्मणोर्भेदस्यैव वोधकम् । किं च अहं द्रष्टा श्रोता मन्ता विज्ञाता इति सर्वेषाम् अनुभवेन आत्मा वाऽरे द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्य इत्याद्यनेकश्रुतिवाक्यैर् जीवस्य द्रष्टृत्वश्रोतृत्वमन्तृत्वध्यातृत्वादिसिद्ध्या सामान्यतः द्र्ष्टैव नास्ति श्रोतैव नास्ति इति वक्तुमशक्यत्वान्नानेनापि वाक्येन जीवब्रह्मणोरैक्यसिद्धिः ।
‘स्मृतिभ्यश्च, - ‘वासुदेवः सर्वमिति’ (गी.७.१९) ’ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत (गी. १३.२) ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (गी. १३.१७ ) इत्येवंरूपाभ्यः विज्ञानात्मपरमात्मनोरविद्या- प्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न परमार्थिक’ इति यदुक्तं तदप्ययुक्तम् ।
**‘बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । **
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥’
इति गीताश्लोकार्थस्तु - बहूनां जन्मनां = ज्ञानार्थसंस्काराश्रयाणां, अन्ते वासुदेवः सर्वमिति = सर्वव्याप्तमिति ज्ञानवान् सन्, मां= कृष्णं, प्रपद्यते=प्राप्नोति, सः = एतादृशः महात्मा दुर्लभः ।
‘मनुष्याणां सहस्रेषु कश्चिद्यति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ इत्युक्तेः ।
अस्मिन् श्लोके ‘ज्ञानवान्’ इति ज्ञातृज्ञेयभावेन, ‘प्रपद्यते’ इति प्राप्यप्रापकभावेन भेद एवोक्तः । गीतायाः स्वतः प्रमाणत्वात् तया च सिध्यन् भेदः पारमार्थिक इत्येव सिध्यति ।
न च ‘वासुदेवः सर्व’मिति सामानाधिकरण्यस्य बाधितत्वात् ‘यश्चोरः स स्थाणु’रितिवत् ‘यत् सर्वत्वेन प्रतीतं स वासुदेवः वासुदेवे कल्पितं वासुदेवव्यतिरेकेण नास्ति’ इत्यर्थः सिध्यतीति वाच्यम् ।
**‘नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । **
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥’
(गी. ११.४० ) इति गीतायामेव सर्वव्याप्तत्वेन सर्वशब्दवाच्यत्वोत्त्या शङ्कराचार्यैरपि तथा व्याख्यातत्वेन तदनुसारेण वासुदेवः सर्वं सर्वव्याप्तमित्यर्थस्यैव युक्तत्वात्, नेयं स्मृतिर् जीवपरमात्मनोरभेदबोधिका भेदनिषेधिका चेति ।
‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’
इति वाक्यमपि यथा विज्ञानात्म (जीव ) परमात्मनोरभेदाबोधकं भेदबोधकं च तथा पूर्वोक्तमेव द्रष्टव्यम् ।
‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ’ ( गी. १३.२७ )
इति श्लोकोऽपि, सर्वेषु भूतेषु (१) ब्रह्मादिस्थावरान्तेषु प्राणिषु, ‘निर्दोषं हि समं ब्रह्म’ इत्युक्तप्रकारेण समं=निर्दोषं यथा स्थात्तथा तिष्ठन्तं, भूतेषु नष्टेष्वपि अविनश्यन्तं =नाशरहितं, परमेश्वरं =परमात्मानं यः पश्यति, स पश्यति - स एव ज्ञानी’ इत्यर्थकतया ब्रह्मादिस्थावरान्त- प्राणिनामाधारत्वेन परमात्मन आधेयत्वेन जगतः ज्ञातृज्ञेयभावेन विनाशवत्वाविनाशवत्वरूपविरुद्धधर्माधिकरणत्वेन च ब्रह्मादिजीवानां परमात्मना भेदबोधक एव न त्वभेदबोधकः । अभेदबोधकपदाभावात् ।
एतच्छ्लोकस्य कथं भेदमिथ्यात्वविषये उदाहरणं कृतमित्येतत् शङ्कराचार्या एव प्रष्टव्याः ।
‘भेददर्शनापवादाच्च’ ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः’ (बृ.१.४.१०) (मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. ४.४.१९) इत्येवञ्जातीयकात्’ इति वाक्येन भेददर्शननिषेधः क्रियते इति यदुक्तं शङ्कराचार्येण तदप्ययुक्तम् । तत्र जीवब्रह्मणोर्भेदनिन्दनस्याभावात् । प्रत्युत ताभ्यां जीवब्रह्मणोर्भेदस्यैव कथितत्वाच्च ‘आत्मेति तूपगच्छन्ति’ इति सूत्रव्याख्यानावसरे यथा तयोर्जीवब्रह्मणोर्भेदनिन्दनस्याभावः भेदवोधकत्वं च तथोक्तमनुसंधेयम् ।
यदपि जीवब्रह्मणोरैक्यविषये ‘तत्र को मोहः’ इति श्रुत्युदाहरणं तदप्यसङ्गतम् । तथाहि ‘यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजिगुप्सते ॥’ (ई.६ ) इतीशावास्यवाक्यस्य यः=अधिकारी सर्वाणि भूतानि ब्रह्मादिस्तम्भपर्यन्तानि आत्मनि=परमात्मनि एव (परमात्माधारतयैव स्थितानि) अनुपश्यति, नत्वन्याधारतया, तथा सर्वभूतेषु=ब्रह्मादि (चतुर्मुखादि) स्थावरान्तेषु आत्मानं=परमात्मानं, पश्यति, ततस् तादृशज्ञानात् (यो लोकत्रयमाविश्य विभर्ति ’ ( गी. १५.१७) इति गीतोक्तरीत्या परमात्मा सर्वभूतेषु रक्षकतया स्थित इति ज्ञानात्) न विजिगुप्सते = स्वम् अन्यस्माद्रक्षितुं नेच्छति इत्यर्थः ।
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ (ई.७)
इति द्वितीयमन्त्रोऽपि पूर्वमन्त्रार्थमनूद्य तस्य फलं वक्ति । यस्मिन्=परमात्मनि, सर्वाणि भूतानि = ब्रह्मादिस्थावरान्तानि (तिष्ठन्ति ) तत्र=ब्रह्मादिस्थावरान्तेषु आत्मा=परमात्मा अभूत् =स्थितः (इति)
विजानतः=ज्ञानिनः (तथा) एकत्वं = ब्रह्मादिस्थावरान्तेषु स्थितस्य परमात्मन एकत्वं यदेवेह तदमुत्र यदमुत्र तदन्विह (का.) इत्युक्तरीत्या सर्वत्र नियामकः परमात्मा एक एव न तु स्थानभेदेन भिन्न इति एकत्वम् अनुपश्यतः शोकः कः? मोह ः कः ? इति शोकमोहै आक्षिप्य, शोकमोहौ न स्तः, मुक्त एव भवतीति । तथा चेमौ मन्त्रौ जीवब्रह्मणोराधाराधेय- भावेन ज्ञातृज्ञेयभावेन भेदमेव कथयतः नत्वभेदमिति ब्रह्मणः द्वितीयवस्तु- राहित्यरूपैकत्वविषये ( जीवब्रह्मणोरभेदविषये) एतन्मन्त्रोदाहरणम- द्वैतिनामयुक्तम् ।
ननुर् यः परिव्राट् मुमुक्षुः सर्वाणि भूतानि=अव्यक्तादीनि स्थावरान्तानि, आत्मन्येवानुपश्यति आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः सर्वभूतेषु च तेष्वेव च आत्मानं तेषामपि भूतानां स्वम् आत्मानम् आत्मत्वेन यथाऽस्य देहस्य कार्यकारणसङ्घातस्याऽऽत्माऽहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽऽत्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्तु अनुपश्यतीति वाक्येन शङ्कराचार्यैः सर्व- भूतानामात्मव्यतिरेकेणाभावः सर्वभूतानामहमेवात्मेत्यर्थकतया प्रथममन्त्रो व्याख्यात इति कथमस्य वाक्यस्य भेदपरत्वम् अभेदपरत्वाभावश्चेति चेन् न । अस्यार्थस्य त्रपदैरबोधनात् । श्रुतिगीतासूत्रप्रमाणविरुद्धत्वाच्च ।
तथाहि सर्वाणि भूतानि आत्मनि पश्यति इति स्पष्टम् आत्मनः सप्तम्या आधारतया भूतानामाधेयतया दर्शनं कथयति मन्त्रे, आत्मन्येव पश्यतीत्यस्य आत्मव्यतिरिक्तानि न पश्यति इत्यर्थकथनमलौकिक- व्युत्पत्तिमतां शङ्कराचार्याणामेव शोभते न तु परीक्षकाणां लौकिक- व्युत्पत्तिमताम् । तुष्यत्विति न्यायेन आत्मव्यतिरिक्तानि न पश्यतीति व्याख्यानाङ्गीकारेऽपि आत्मव्यतिरिक्तानि न पश्यतीत्यस्य यद्यपि भूतानि आत्मव्यतिरिक्तानि सन्ति तथाऽपि व्यतिरिक्ततया न पश्यति इति व्यतिरिक्ततया ज्ञाननिषेधः, आहोस्विद् आत्मव्यतिरिक्ततया न सन्तीति आत्मव्यतिरिक्ततया दर्शन (ज्ञान) निषेधः ।
१. आत्मव्यतिरिक्तानि संति परन्तु आत्मव्यतिरिक्ततया न जानातीत्युक्तौ पदार्थेषु आत्मभेदसिद्धिः (द्वैतसिद्धिः) भवत्येव । भूतानां भिन्नतया दर्शनाभावे तु परिव्राट् अज्ञानी स्याद् भ्रान्तो वा स्यात् । न तेन अद्वैतसिद्धिः ।
२.परमात्मव्यतिरिक्ततया न सन्तीति द्वितीयपक्षेऽपि भूतानामभावादेव परमात्मव्यतिरिक्तानि न सन्ति इति, किंवा विशिष्टनिषेधः विशेषणमुपसङ्कामतीति न्यायेन परमात्मव्यतिरिक्तत्वं भूतेषु नास्ति (भूतानि परमात्मस्वरूपाण्येवेति)
नाद्यः । सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभाव इति वक्तुमशक्यत्वात् । उक्तं हि ‘शून्यवादिपक्षस्तु सर्वप्रमाणप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते इति शङ्कराचार्यभाष्यव्याख्यानकर्ता ब्रह्मविद्याभरणकारेण - ‘शून्यपदेन सर्वप्रपश्चातीतं भावरूपं किंचित् तत्त्वं विवक्षितम्, उताभावरूपम् । नाद्यस् तथा सति वाचोयुक्त्यन्तरेण ब्रह्मवाद एवाश्रितः । यदि द्वितीयः पक्षस्तदा सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभाव एव तत्त्वमिति निरूपयितुमशक्यमिति दूषणस्य स्फुटतया तन्निराकरणाय न सूत्रकृता सूत्राण्यारचितानि ’ इति शून्यस्य भावरूपत्वे शून्यवादब्रह्मवादयोः साम्यं, अभावरूपत्वे सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपञ्च उपलभ्यमाने तदभाव (प्रपञ्चाभाव) एव तत्त्वमिति निरूपयितुमशक्यत्वादिति शङ्कर भाष्यतद्व्याख्यानयोः प्रपञ्चाभाव एव तत्त्वमित्यस्य वक्तुमशक्यत्वम् ।
न द्वितीयः - जडस्य मिथ्याभूतस्य विकारिणः मूत्रपुरीषाद्यनेकात्मकस्य भूतस्य (जगतः) चेतनसत्याविकारिशुद्धब्रह्मस्वरूपत्वायोगात् । तथा च भूतानि आत्मनि अनुपश्यतीति वाक्येन भूतानि आत्मव्यतिरिक्तानि न पश्यतीत्यर्थो न सिध्यति । तथार्थोऽयुक्तश्चेति तथार्थकरणमयुक्तम् ।
सर्वभूतेष्वात्मानमित्यनेन स्पष्टं सप्तम्या सर्वभूतानामाधारत्वस्य आत्मन आधेयत्वस्य प्रतीतावपि तेषामपि भूतानां स्वम् आत्मानम् आत्मत्वेन (तस्यैव विवरणं) (यथा अस्य देहस्य कार्यकारणसङ्घातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश् चेतयिता केवलो निर्गुणः, अनेनैव रूपेण अव्यक्तादीनां स्थावरान्तानामहमेवात्मेति) सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति इत्यर्थकरणं न परीक्षकसंमतकारणमूलकं, किन्तु वञ्चनामूलकमेव । नहि भूतले घटं पश्यतीति वाक्यस्य भूतलानां घटत्वेन पश्यतीत्यर्थः परीक्षकेण क्रियते । भूतेष्वात्मानं पश्यतीत्यस्य भूतानाम् आत्मत्वेन पश्यतीत्यर्थं कः सचेतनः ब्रूयात् स्वमताग्रहवञ्चनान्यतरपिशाचानाविष्टः । तथा
**‘यच्चाप्रोति यदादत्ते यच्चात्ति विषयानिह । **
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥
इत्यादिस्वोदाहृतमहाभारतोक्तार्थाप्तिमत्वादिगुणत्वविरुद्धं निर्गुणः केवलः निर्विशेष इति च आत्मपदस्यार्थमपि कः ब्रूयात् । तस्मान्नायं मन्त्रः सर्वभूतानामात्मभेदादिकं वक्ति । किन्तु आधाराधेयभावेन ज्ञातृज्ञेयभावेन भेदमेव वक्ति । श्रुतिबोधितस्य भेदस्य वाधकाभावात् स्वतः प्रमाणीभूतेन मन्त्रेणोक्तो भेदः सत्य इति च सिध्यति ।
तथा-
**’ यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । **
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥
इति मन्त्रस्य ‘यस्मिन् सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मैवाभूदात्मैव संवृत्तः । परमार्थवस्तु विजानतस्तत्र तस्मिकाले तत्रात्मनि वा को मोहः कः शोकः । शोकश्च मोहश्च कामकर्मबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यत इति व्याख्यानमप्यसङ्गतम् ।
यस्मिन् काले परमार्थात्मदर्शनात् तान्येव भूतानि सर्वाणि आत्मैवाभूदित्युक्तिस्तावदसङ्गता ( १ ) अद्वैतमतरीत्या सर्वदापि भूताना - मात्मातिरिक्तत्वाभावेन यस्मिन् काले इति कालविशेषोक्तिरयुक्ता । अद्वैत मतरीत्या विद्यावस्थायां कालस्याप्यभावेन काले इत्युक्तिरप्यसङ्गता ।
(२) यस्मिन् = आत्मनि वा भूतानि आत्मैवाभूद् इत्युक्तिरप्य- सङ्गतैव । अद्वैतमतरीत्यापि न हि भूतानामात्मभवनम् आत्माधिकरणकम् ।
भूतानीति बहुवचनान्तकर्तृवाचकपदस्य एकवचनान्ताभूदिति क्रिययाऽन्वयोऽप्ययुक्तः । स्वीकृतं च अन्वयायुक्तत्वं दशश्लोकी व्याख्यानतत्त्वबिन्दुटीकायाम् ।
किं च शुक्तिकायामारोपितं रजतं शुक्तिज्ञाने सति न हि शुक्तिकारूपं भवद् दृष्टं, किंतु रजतज्ञानस्य निवृत्तिरेव । तथा आत्मनि (ब्रह्मणि) कल्पितानि (आरोपितानि) भूतानि ब्रह्मज्ञाने निवर्तन्ते एव, न तु आत्मरूपाणि भवन्ति । विरुद्धधर्मवतोर् जडभूतचेतनब्रह्मणोरैक्यासम्भवादिति ज्ञानिनः भूतानामात्मरूपत्वकथनमप्ययुक्तम् ।
तत्र काले को मोहः ? कः शोकः ? इति कथनं चायुक्तम् । अद्वैतमतरीत्या कालाभावात् । तत्र आत्मनि को मोहः ? कः शोकः ? इति कथनमपि न युक्तम्, शोकमोहयोरन्तः करणधर्मत्वेन आत्मनि कदाप्यभावात् ।
एकत्वमनुपश्यत्त इत्यस्य आत्मैकत्वं विशुद्धं गगनोपमं पश्यत इत्यर्थकरणमप्ययुक्तम् । एकत्वमित्यस्य आत्मैकत्वं (आत्मनः भूतैरभेदः) न शब्दार्थः । तद्ग्राहकप्रमाणाभावात् । एकशब्दस्य मुख्यान्यकेवलाद्यनेकार्थत्वेन एकत्वं मुख्यत्वं किं वा एकत्वम् अन्यत्वं (भूतादिभिन्नत्वं) अथवा एकत्वं सहायराहित्यम् (सृष्टौ इतरसहायानपेक्षत्वं ) इत्याद्यनेकार्थत्वसम्भवेन चेतनस्य सत्यस्य परमात्मनः जडेन अद्वैतमतरीत्या असत्येन (मिथ्याभूतेन कालत्रयेऽप्यसता ) भूतसमूहेन एकत्वस्य ( अभेदस्य) असम्भवाच्च ।
अद्वैतमतरीत्या सर्वाणि भूतान्यात्मैवाभूदिति जानत इत्यनेन आत्मा- भेदज्ञानस्य कथितत्वेन एकत्वमनुपश्यत इत्यस्य एकत्वं =भूतानामात्माभेदं जानत इति अर्थकरणे पुनरुक्तं भवति ।
गीताविरुद्धं च भूतानामात्मना अभेदकथनम् । तथा हि-
‘सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते । । ’ ( गी. ६. ३१)
इति गीतायां सर्वभूतस्थितमिति भूतानां परमात्मना आधाराधेयभावेन भेदमुक्त्वा एकत्वमास्थित इति एकत्वपदेन अन्तर्यामिरूपाणामेवाभेद उक्तः न तु भूतानां परमात्मना अभेद इति ।
‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ’ ( गी. २३.२७)
इति गीताश्लोकेनापि सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं समं यथा स्यात् तथा उच्चनीचादिस्थाननिमित्तकोच्चत्वनीचत्वादिरहितं पश्यति । तथा विनश्यत्सु भूतेषु अविनश्यन्तं यः पश्यति सः पश्यति ज्ञानी इति चेतनाचेतनात्मकप्रपञ्चस्येश्वरेणाधाराधेयभावेननाश्यत्वानाश्यत्वरूपविरुद्धधर्मेण ज्ञातृज्ञेयभावेन च भेदस्यैवोक्तेरभेदकथनमेतद्गीतावाक्यविरुद्धम् ।
एतेन सर्वभूतेषु चात्मानमिति मन्त्रे सर्वभूतेषु आत्मानं पश्यतीत्यस्य अव्यक्तादिस्थावरान्तानामहमेवात्मेति पश्यतीति शङ्कराचार्यव्याख्यानं निरस्तम्। स्पष्टं गीतायां ‘सर्वभूतेषु तिष्ठन्तं परमेश्वरमिति’ सर्वभूतेषु तिष्ठतः परमेश्वरत्वोक्तेः ।
‘सर्वभूतस्थितं यो मां’ ( गी.६.३१ ) इति सर्वभूतस्थितस्य मामित्यस्मच्छब्दवाच्यश्रीकृष्णत्वोक्तेश्च ।
तथा ‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति’ इति कृष्णेन स्वस्य (परमात्मनः) भूतादिसर्वपदार्थस्थितत्वं सर्वपदार्थानां स्वस्मिन् (कृष्णपरमात्मनि ) स्थितत्वोक्तेर् जीवस्य सर्वपदार्थवृत्तित्वकथनं भूतानामात्मना अभेदकथनं च तद्विरुद्धम् ।
तथा ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि’ (गी. ६.१९) इति गीतावाक्यमपि सर्वभूतपरमात्मनोर् आधाराधेयभावेन भेदमेव कथयति न तु सर्वभूतानां परमात्मना अभेदम् इति । भूतानां परमात्मना अभेदकथनं श्रुतिसूत्रविरुद्धं तथा तद्व्याख्यानभूतशङ्करभाष्यविरुद्धं च । तथा हि -
‘स सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इति, यः पृथिव्यां तिष्ठन् … योऽप्सु तिष्ठन् …
योऽग्नौ तिष्ठन्.. योऽन्तरिक्षे तिष्ठन् … यो वायौ तिष्ठन् …आदित्ये तिष्ठन् …य आत्मनि (जीवे) तिष्ठन् … इत्याद्यनेकमन्त्रेषु भूतादीनां सर्वेषाम् आधारत्वं नियम्यत्वं, परमात्मन आधेयत्वं नियामकत्वं च कथयित्वा तयोर्भेदः स्पष्टमुक्तः । एतद्वेदार्थनिर्णायकवेदान्तसूत्रकृता साक्षान्नारायणावतारभूतेन बादरायणेन ‘भेदव्यपदेशाच्चान्यः ’ ’ अन्तर्याम्यधि- दैवादिषु तद्धर्मव्यपदेशात्’ ‘शारीरश्वोभयेऽपि हि भेदेनैनमधीयते’ इत्यादिसूत्रैस् तथा तत्सूत्रव्याख्यानकृद्भिः शङ्कराचार्यैरपि भूतादीनां परमात्मना भेद आधाराधेयभावः नियम्यनियामकभावश्वोक्त इति ।
यस्तु सर्वाणि भूतानि इति मन्त्रः, यस्मिन् सर्वाणि भूतानि इति मन्त्रश्च ब्रह्मादिस्थावरान्तचेतनाचेतनानां परमात्मना भेदं कथयत इति नानयोर्मन्त्रयोरभेदविषये (जीवब्रह्मणोरैक्यविषये) उदाहरणं युक्तमिति ।
जीवब्रह्मणोरभेदविषये श्रुतिसूत्रगीतासु एकस्यापि प्रमाणस्य अभावात् ‘वाक्यान्वयात्’ इति सूत्रस्य, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादौ विज्ञानात्मैव ( जीव एव) द्रष्टव्यश्रोतव्यत्वादि- रूपेणोपदिश्यत आहोस्वित् परमात्मेति संशय्य जीव इति पूर्वपक्षयित्वा परमात्मोपदेश एवायं (न जीवोपदेशः ) वाक्यान्वयादिति जीवपरमात्मनोर्भेद- परतया यो ऽर्थः कृतः शङ्कराचार्यैः प्रथमं स एव युक्तः ।
॥ इति वाक्यान्वयाधिकरणम् ॥