०१ प्रथमः पादः

ॐ अथातो ब्रह्मजिज्ञासा ॐ

**॥ श्रीरामचन्द्राय नमः ॥ **

शङ्करव्याख्यानरीत्या

॥ भेदपराण्येव खलु ब्रह्मसूत्राणि ॥

प्रथमाध्यायस्य प्रथमः पादः

ॐ अथातो ब्रह्मजिज्ञासा ॐ (१.१.१)

अथ नित्यानित्यवस्तुविवेक वैराग्यशमदमादि सम्पन्मुमुक्षा- रूपाधिकारप्राप्त्यनन्तरम् अतः=कर्मणाम् अनित्यफलकत्वाद् ब्रह्मज्ञानेन मोक्षाख्यफलसद्भवाद् ब्रह्मजिज्ञासा=ब्रह्मणः ‘जन्माद्यस्य यत’ इति वक्ष्यमाणलक्षणस्य विचारः कर्तव्यः । अत एव न ब्रह्मशब्दस्य जातिजीव-कमलासनाद्यर्थान्तरं परत्वमिति अस्य सूत्रस्य शङ्कराचार्यैर् व्याख्यातत्वेन ज्ञातृज्ञेयभावादिना ब्रह्मणा जीवस्य भेद एवोक्तः । जन्माद्यस्य यत इति उत्तरसूत्रेण ब्रह्मशब्देनापि ज्ञेयब्रह्मणः सर्वज्ञत्वादयो धर्माः प्रतीयन्ते इति शङ्करोत्त्याऽसर्वज्ञेन जीवेन भेदो बोधितो भवति । १.१.१ ॥

ॐ जन्माद्यस्य यतः ॐ (१.१.२)

यतः = सर्वज्ञात् सर्वशक्तेः कारणाद् अस्य= प्रत्यक्षादिप्रमाणसिद्धस्य जगतः जन्मादि = उत्पत्त्यादि भवति तद्ब्रह्म । न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणं (सर्वज्ञत्वादिविशेषणं) ईश्वरं विहाय अन्यतः प्रधानादचेतनात्…….. संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यं, इति शङ्कराचार्येर्व्याख्यातत्वेन सूत्रेणानेन जगज्जन्माद्यकर्तृचेतनाचेतनात्मकजगतो ब्रह्मणा भेद एवोक्तः । १.१.२ ॥

जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपलक्षितम् । तदेव दृढयन्नाह

ॐ शास्त्रयोनित्वात् ॐ (१.१.३)

अनेकशाखाभेदभिन्नस्य देवतिर्यमनुष्यवर्णाश्रमादिप्रविभागहेतोर् ऋग्वेदाद्याख्यस्य… यस्मान्महतो भूताद् योनेः सम्भवस् तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ( शास्त्रयोनित्वात्=वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञं सर्वशक्तिमच्चेति) अथवा ‘शास्त्रयोनित्वात्’= शास्त्रप्रमाणकत्वाद् ब्रह्म जगतो जन्मादिकारणम् इत्यर्थकतया व्याख्यातमिति अनेन सूत्रेणापि असर्वज्ञात् शास्त्राकर्तुश् चेतना-चेतनात्मकजगतः सर्वज्ञे सर्वशक्तिमति ब्रह्मणि भेद उक्तो भवति । १.१.३.

ॐ तत्तु समन्वयात् ॐ (१.१.४)

तत्- सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं ब्रह्म वेदान्त शास्त्रादेवागगम्यते । समन्वयात् सर्वेषु वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि इत्यर्थकतया व्याख्यातत्वेनैतेनापि सूत्रेण असर्वज्ञाद् असर्वशक्तेश् चेतनाचेतनात्मकजगतः सर्वज्ञे सर्वशक्तौ परमात्मनि भेद एव सिध्यति । स्वमताग्रहमूलम् उत्सूत्रं यद्बहु विलिखितं भाष्ये सूत्रार्थविचारकाले अप्रकृतत्वात् तस्य परीक्षा नात्र क्रियते । प्रसत्त्यनुसारेण तत्र तत्र तस्यासमञ्जसतां दर्शयिष्यामः । १.१.४

ॐ ईक्षतेर्नाशब्दम् ॐ (१.१.५)

इति सूत्रभाष्ये तदेव सोम्येदमग्र आसीदित्यादिश्रुतौ जगत्कारणतया प्रतिपाद्यमानं सच्छव्दवाच्यं प्रधानम् उत ब्रह्मेति संशये प्रधानमिति पूर्वपक्षे न सांख्यपरिकल्पितम् अचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेषु आश्रयितुं, अशब्दं हि तत् । ईक्षतेः - ईक्षितृत्वश्रवणात् कारणस्य ‘तदेक्षत बहुस्यां प्रजायेयेति’ ’ तत्तेजोऽसृजतेति’ (छां.६.२.३) इत्यादिजगत्कारणत्व प्रतिपादकवाक्यानि ईक्षापूर्वं तेजः प्रभृतेः स्रष्टृत्वं दर्शयन्ति इति व्याख्याततया प्रधानेन ब्रह्मणो भेदः सिद्धः । जगत्कारणस्य सर्वज्ञत्वादिविशिष्टब्रह्मणः जगतो ऽकारणाद् असर्वज्ञाज् जीवाद्भेदोऽपि सिद्ध इतीदमपि सूत्रं जब्रह्मणोर्जीवब्रह्मणोश्च भेदप्रतिपादकमेव नत्वैक्यप्रतिपादकम् । १.१.५

ॐ गौणश्चेन्नात्मशब्दात् ॐ (१.१.६ )

यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन् ईक्षतिर् गौणः ( औपचारिकः ) इति तदसत् । सच्छब्दवाच्ये वस्तुनि आत्मशब्दश्रवणान् न प्रधानं सच्छब्दवाच्यं किंतु ब्रह्मैवेति व्याख्याततया इदं गुणसूत्रमपि प्रधानब्रह्मणोर्भेदबोधकमेव ॥ १.१.६

ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ (१.१.७)

अस्मिन् सूत्रे तन्निष्ठस्य सद्वस्तुज्ञानिनः ‘आचार्यवान् पुरुषो वेद’ ‘तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ सम्पत्स्ये (छां. ६.१४.२) इति वाक्येन सत्प्राप्तिरूपमोक्षश्रवणान्न प्रधानं सच्छब्दवाच्यं किं तु ब्रह्मैवेति व्याख्यातत्वेन प्रधानब्रह्मणोर्भेद उक्तः । अत सम्पत्स्ये इति एतत्सूत्र-गृहीतश्रुतौ जीवस्य ब्रह्मप्राप्तिरूपमोक्षश्रवणेन प्राप्यप्राप्तृभावेन ब्रह्मणा जीवस्यापि भेद उक्तः । १.१.७

ॐ हेयत्वावचनाच्च ॐ (१.१.८)

यथा अरुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्याम- रुन्धतीत्युपदिशति तथा आत्मभिन्नमपि प्रधानमात्मत्वेनोपदिशति इति सांख्येन पुनः पूर्वपक्षिते यथा अनन्तरं स्थूलतारा, नेयमरुन्धतीति हेयतया कथ्यते तथा अत्रापि नेदमात्मेति हेयतयोच्येत तथा हेय त्वावचनान्न प्रधाने आत्मशब्दो युक्तः किं तु ब्रह्मण्येवेति प्रधानं न सच्छव्दवाच्यं किं तु ब्रह्मैवेत्यर्थपरतया व्याख्यातत्वेन प्रधानब्रह्मणोर्भेदप्रतिपादकमेवेदं सूत्रम् । १.१.८

ॐ स्वाप्ययात् ॐ (१.१.९)

‘सता सोम्य तदा सम्पन्नो भवति, स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते इति (छां. ६.८.१ ) ’ छान्दोग्यवाक्यमुदाहृत्य ‘सता- सदेवेत्यादिवाक्यप्रस्तुत सच्छब्दवाच्येन शारीरस्य जीवस्य सम्पत्तिरूपा ( प्राप्तिरूपा ) प्ययस्य कथितत्वेन जडप्रकृतौ जीवस्याप्ययासम्भवेन सच्छव्दवाच्यं ब्रह्मैवेति व्याख्याततया अनेनापि सूत्रेण प्रकृतिब्रह्मणोर्भेद एव कथ्यते न त्वभेदः ।

अपि च ’ अधिकं तु भेदनिर्देशात् ( ब्र.सू.२.१.२३) इति सूत्र- व्याख्यावसरे ‘यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीराद् अधिकमन्यत् तद् वयं जगतः स्रष्टृ ब्रूमः न तस्मिन् हिता करणादयो दोषाः प्रसज्यन्ते । शारीरस्त्वनेवं विधस् तस्मिन् प्रसज्यन्ते हिताकरणादयो दोषा न तु तं वयं जगतः स्रष्टारं ब्रूमः । कुत एतत् । भेदनिर्देशात् ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ.२.४.५) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः (छां.८.७.१) ‘सता सोम्य तदा सम्पन्नो भवति (छां. ६.८.१) ‘शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढः’ (बृ.४.३.३५) इत्येवं जातीयकः कर्तृकर्मादिनिर्देशः जीवादधिकं ब्रह्म दर्शयति इति भाष्ये एतत्सूत्रोदाहृतायाः ‘सता सोम्य तदा सम्पन्नो भवति’ इत्यस्याः श्रुतेर्जीव-ब्रह्मणोर्भेदवोधकतया व्याख्यातत्वेन एतत्सूत्रे गृहीतया तयैव श्रुत्यापि ( प्राप्यप्राप्तृभावेन) जीवब्रह्मणोर् भेद उक्तो भवति ।

किश्च ‘सुषुप्त्युत्क्रान्त्योर्भेदेन (१.३.४२ ) ’ इति सूत्रीयशाङ्करभाष्ये सुषुप्तावुत्क्रान्तौ च शारीरात् (जीवात्) भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ.४.३.२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात् । तस्य वेदितृत्वात् । प्राज्ञः परमेश्वरः सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथा उत्क्रान्तावपि ‘अयं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन यादि (बृ. ४.३.३५) ’ इति जीवाद्भेदेन परमेश्वरं व्यपदिशतीति ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति श्रुत्या सुषुप्तिकाले परमात्मसम्बन्धबोधनेन जीवपरमात्मनोर्भेदः सिध्यति इति कथनेन तत्समानार्थवत्यासता सोम्येति श्रुत्या सुषुप्तिकाले परमात्मसम्बन्धबोधनेन भेदः सिध्यतीति बलादायातमिति ।

अपि च सता सोम्येति श्रुत्युक्तं स्वाप्ययं (सुषुप्तौ परमात्मसम्बन्धं) बोधयता ‘स्वाप्ययात्’ इति सूत्रेणापि जीवपरमात्मनोर्भेदो वोधितो भवति । १.१.९

ॐ गतिसामान्यात् ॐ (१.१.१०)

एवमेव ‘एतस्मादात्मनः सर्वे प्राणा यथायतनं सम्प्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. ३. ३) इत्यादि सर्ववेदान्तजन्यज्ञानस्य सामान्याद् देवादीनामाकाशादिजडानांच परमात्मजन्यत्वरूपैक - विषयकत्वात् सर्वज्ञं ब्रह्म जगतः कारणम् इति व्याख्यातत्वेन देवादीनाम् आकाशादिजडानां च सर्वज्ञब्रह्मणा (कार्यकारणभावेन) भेदमेव बोधयतीदमपि सूत्रम् । १.१.१०

ॐ श्रुतत्वाच्च ॐ (१.१.११)

‘स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य ‘सकारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ ( वे. ६.९) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणं नाचेतनं प्रधानमन्यद्वेति सिद्धम्’ इति व्याख्यातमिति इदं सूत्रम् असर्वज्ञप्रधानजीवाभ्यां परमात्मनो भेदं दर्शयति । एतत्सूत्रादाहृता ‘सकारणं करणाधिपाधिपः’ इति श्रुतिरपि करणाधिपाधप इति पदेन करणानाम् अधिपा जीवास्तेषामधिपः परमेश्वर इत्यर्थकेन जीवाधिपतित्वकथनद्वारा जीवाद् ब्रह्मणो भेदमेव वक्ति । १.१.११

ॐ आनन्दमयोऽभ्यासात् ॐ (१.१.१२)

अष्टसूत्रात्मकमधिकरणमिदम् । अस्याधिकरणस्यार्थद्वयमभिहितं भाष्ये शङ्करेण । एकोऽर्थः स्वरसतः सूत्रप्रतीतः । अन्यस्तु वेदसूत्रविरोधे गुणे त्वन्यायकल्पनेति न्यायमनुसृत्य वेदार्थनिर्णायकसूत्रप्रणयनकर्तुः साक्षाद्भगवदवतारस्यापि बादरायणस्याज्ञानं कल्पयित्वा स्वमनीषामात्रेण कृतः । कः सूत्रार्थः समीचीनः को वात्रासमीचीन इति विचारः शाङ्करव्याख्यानुसारेणापि न सूत्राण्यभेदपराणीति प्रतिपादयितुमुप-क्रान्तानामस्माकं प्रकृतानुपयुक्त इति मत्वा तद्व्याख्यानरीत्यैवाभेद बोधकत्वाभावं भेदबोधकत्वं च दर्शयिष्यामः ।

‘तस्मात्संसार्येव (जीव एव) आनन्दमय आत्मा इति प्राप्ते इदमुच्यते । आनन्दमयोऽभ्यासाद् इति ।

पर एवात्मा आनन्दमयो भवितुमर्हति । कुतो ऽभ्यासात्’ इति शङ्करव्याख्यानेन आनन्दमयो जीव इति पूर्वपक्षयित्वा परमात्मैवानन्दमयो न जीवः संसारीति व्याख्यातत्वेन स्पष्टं जीवपरमात्मनोर्भेदोऽवगम्यते । १.१.१२

ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ (१.१.१३)

नानन्दमयः परमात्मा भवितुमर्हति । आनन्दमय इति मयटो विकारार्थत्वात् । तस्मादन्नमयादिशब्दवद् विकारविषयः (जीवविषय) एव आनन्दमयशब्द इति चेत् प्राचुर्यार्थेऽपि मयटः स्मरणात् । आनन्दप्रचुरत्वं च ब्रह्मणः मनुष्यत्वादारभ्य उत्तरस्मिन्नुत्तर स्मिन् स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् प्राचुर्यार्थ एवायं मयटूशब्द इति आनन्दमयो ब्रह्मैव न जीव इति सिद्धान्तितत्वेन भेदवोधकमेवेदं सूत्रम् । १.१.१३

ॐ तद्धेतुव्यपदेशात् ॐ (१.१.१४)

‘इतश्च प्राचुर्यार्थे मयट् । यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः ‘एव ह्येवानन्दयाति’ आनन्दयतीत्यर्थः । यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति । यथा लोके यो ऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते तद्वत् । तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा इति’ शङ्कराचार्यैर्भाषितत्वेन जीवपरमात्मनोर्भेदपरमेवेदं सूत्रम् । १.१.१४

ॐ मान्त्रवर्णिकमेव च गीयते ॐ (१.१.१५)

‘इतश्चानन्दमयः पर एव आत्मा । यस्मात् ‘ब्रह्मविदाप्नोति परं’ इत्युपक्रम्य ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यस्मिन् मन्त्रं यत्प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धारितं यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरं, यस्य विज्ञानाय ‘अन्योन्तर आत्मा अन्योन्तर आत्मा’ इति प्रकान्तं, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते ‘अन्योन्तर आत्माऽनन्दमयः’ (तै.२५) इति मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात् । अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् । न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माऽभिधीयते । एत निष्ठैव च ‘सैपा भार्गवी वारुणी विद्या’ ( तै. ३६) तस्मादानन्दमयः पर एवात्मा ( न जीवः ) ’ इति व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेदं सूत्रम् । १.१.१५

ॐ नेतरोऽनुपपत्तेः ॐ (१.१.१६)

अस्मिन् सूत्रेऽपि ’ इतर ः ईश्वरादन्यो. जीवो नानन्दमयशब्देन अभिन्धीयते’ । किं तु पर एवात्मा । जीवे आनन्दमये उक्तसर्वविकारस्रष्टृ त्वानुपपत्तेर् इति व्याख्यातत्वेन जीवपरमात्मनोर्भेद उक्तः । १.१.१६ I

ॐ भेदव्यपदेशाच्च ॐ (१.१.१७)

इदमपि सूत्रं, ‘यस्मादानन्दमयाधिकारे ‘रसो वै सः’ रसंह्ये वायं लब्ध्वाऽऽनन्दी भवति (तै. २.७) इति श्रुतिर् जीवानन्दमयौ भेदेन व्यपदिशति । अत आनन्दमयः संसारी न किं तु परमात्मैव, इति व्याख्यातत्वेन संसारि । (जीव ) ब्रह्मणोर्भेदमेव कथयति । नेतरोऽनुपपत्तेर् भेदव्यपदेशाच्चेत्येतयोः सूत्रयोर्भेदवोधकत्वं स्वीकृत्य इमे सूत्रे मिथ्याभेद प्रतिपादयत इत्युक्तिः स्वमताग्रहमूलैव । श्रुत्या प्रतिपादितस्य श्रुत्यर्थनिर्णयार्थं प्रवृत्तेन भगवदवतारभूतेन व्यासमहर्षिणा कृतसूत्रेण निर्णीतस्य भेदस्य मिथ्यात्वकथनम् अवैदिकानामेव शोभते ‘नान्योतोऽस्ति द्रष्टा’ इति श्रुतेर् भेदनिषेधकत्वाभावो ऽनेक व प्रतिपादित इति । १.१.१७

ॐ कामाच्च नानुमानापेक्षा ॐ (१.१.१८)

इदं सूत्रमपि आनन्दमयाधिकारे ‘सोऽकामयत’ ( तै.२.६) इति कामयितृत्वनिर्देशान् न सांख्यपरिकल्पितं प्रधानम् आनन्दमयत्वे नापेक्षितव्यं, इत्यर्थकतया व्याख्यातत्वेन प्रधानब्रह्मणोर्भेदप्रतिपादकमेवेति । १.१.१८

ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ (१.१.१९)

‘यस्माद् अस्मिन् आनन्दमये प्रकृते आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति शास्त्रम् । तच्च परमात्मपरिग्रहे घटते न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्माद् आनन्दमयः परमात्मा । न प्रधानं जीवो वा’ इति व्याख्यातत्वेन इदं सूत्रं चेतनाचेतनात्मकप्रपञ्चाद् ब्रह्मणः भेदमेव बोधयति । १.१.१९

आनन्दमयोऽभ्यासादित्याद्यष्टसूत्राणामन्यार्थत्वपक्षेऽपि आनन्द- मयोऽभ्यासादित्यस्य ‘ब्रह्मपुच्छं’ इत्युक्तं ब्रह्म, स्वप्रधानमेवोपदिश्यते । ‘असन्नेव स भवति’ इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्य- मानत्वादिति, तद्धेतुव्यपदेशाच्चेत्यस्य सूत्रस्य आनन्दमयादिसर्वकारणत्व- व्यपदेशाद्ब्रह्म प्रधानमेव नत्वानन्दमयावयव रूपमिति । नेतरोनुपपत्तेः, इत्यादेर् इतर आनन्दमयो जीवो ऽत्र न प्रतिपाद्यः सर्वस्रष्टृत्वाद्यनुप- पत्तेरित्याद्यर्थं कथनेनानन्दमय (जीव ) ब्रह्मणोर्भेदबोधकान्येवाष्टावपि सूत्राणि नत्वैक्यबोधकानीति ।

ॐ अन्तस्तद्धर्मोपदेशात् ॐ (१.१.२० )

‘य एषोन्तरादित्ये’ ‘य एषोऽन्तरक्षिणि’ इति च श्रूयमाणः संसारी (जीवः) इति पूर्वपक्षे अन्तःश्रूयमाणः परमेश्वर एव न संसारी । कुतस् तद्धर्मोपदेशाद् इति व्याख्यातत्वेन इदं सूत्रमपि जीवब्रह्मणोर्भेदवोधकमेव । १.१.२०

ॐ भेदव्यपदेशाच्चान्यः ॐ (१.१.२१.)

‘अस्ति आदित्यादिशरीरमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी ‘य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । (बृ. ३.७.९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि आदित्यादन्तरो यमादित्यो न वेदेति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामीति स्पष्टं निर्दिश्यते … तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धमिति व्याख्यातत्वेन जीवपरमात्मनोर्भेदबोधकमेवेदं सूत्रम् । १.१.२१

ॐ आकाशस्तल्लिङ्गात् ॐ (१.१.२२)

इदं सूत्रमपि ‘अस्य का गतिरित्याकाश इति होवाचेति वाक्यघटकाकाशशब्दो भूताकाशपर इति पूर्वपक्षे प्राप्ते आकाशशब्देन ब्रह्मणो ग्रहणं युक्तम् । कुतस् तल्लिङ्गात्’ इत्यर्थकतया व्याख्यातत्वेनाकाशादि जडपरमात्मनोर्भेदबोधकम् । १.१.२२

ॐ अत एव प्राणः ॐ (१.१.२३)

उद्गीथे ‘प्रस्तोतर्या देवता अन्वायत्ता’ इत्युपक्रम्य, ‘कतमा सा देवतेति प्राण इति होवाच’ इति वाक्ये श्रूयमाणः प्राणो वायुविकार इति पूर्वपक्षयित्वा एतत्प्राणशब्दबोध्यमपि परं ब्रह्मैव भवितुमर्हति न वायुविकारस् तल्लिङ्गाद् ब्रह्मलिङ्गादित्यर्थकम् इदं सूत्रं ब्रह्मणोर्भेदबोधकमेव । १.१.२३

ॐ ज्योतिश्चरणाभिधानात् ॐ (१.१.२४)

‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ (छां. ३.१६.७) इति वाक्ये ज्योतिः शब्देनादित्यादिकमेव परिगृह्यते इति पूर्वपक्षे, ज्योतिरिह ब्रह्म ग्राह्यम् । कुतश् चरणाभिधानात् पादाभिधानाद् इत्यर्थकतया व्याख्यातम् इति इदं सूत्रम् आदित्यादेर्ज्योतिषः सकाशाद् ब्रह्मणो भेदबोधकमेव । १.१.२४

ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनं ॐ (१.१.२५)

इति गुणसूत्रमपि ज्योतिः शब्दस्य विष्णुपरत्वमाक्षिप्य पुनर्विष्णुपरत्वं व्यवस्थापयतीत्यर्थकतया व्याख्यातत्वेन पूर्वसूत्रवद् भेदबोधकमेव । १.१.२५

ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ । (१.१.२६)

पूर्वस्मिन् वाक्ये प्रकृतं ब्रह्मेत्यभ्युपगन्तव्यम् । भूतादिपादोपदेशोपपत्तेर् इति ज्योतिःशब्दस्य ब्रह्मपरत्वमेवेति व्याख्याततया पूर्वसूत्रवद् भेदबोधकमेवेदं सूत्रमिति । १.१.२६

ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ (१.१.२७)

इदं सूत्रमपि ज्योतिः शब्दस्य पूर्वोक्तपरब्रह्मपरत्वोपपादकतया व्याख्यातत्वेन आदित्यादेः सकाशाद् ब्रह्मणा भेदबोधकमेवेति ।

ॐ प्राणस्तथानुगमात् ॐ (१.१.२८)

ॐ वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ ( १.१.२९)

ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ (१.१.३०)

ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ (१.१.३१)

इति चतुःसूत्रात्मकमिदमधिकरणमिन्द्रादिजीवानां ब्रह्मणा भेदवोधकमेवेति पूर्वमेवोक्तम् ।

इति प्रथमाध्यायस्य प्रथमः पादः ।