अविभागेन दृष्टत्वात्
अविभागेन दृष्टत्वात्
ननु ‘अविभागेन दृष्टत्वात्’ इति सूत्रं परं ज्योतिरुपसम्पद्यस्वेन रूपेण अभिनिष्पद्यमानो जीवः परस्मादात्मनः पृथगेव भवति उत अविभागेनैवावतिष्ठते इति संशये
‘स तत्र पर्येति’ (छां. ८.१२.३) इत्यधिकरणाधिकर्तव्यनिर्देशात् ‘ज्योतिरुपसम्पद्य’ इति च कर्तृकर्म - निर्देशाद्भेदेनैवावस्थानमिति पूर्वपक्षे मुक्तः परेणात्मना अविभक्त एवावतिष्ठते दृष्टत्वात् । तथाहि — ‘तत्त्वमसि’ (छां. ६.८.७) ‘अहं ब्रह्मास्मि’ (बृ.१.४.१०) ‘यत्र नान्यत्पश्यति’ (छां. ७.२४.१) ‘न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ.४३.२३) इत्येवमादीनि वाक्यानि अविभागेनैव परमात्मानं दर्शयन्ति । ‘यथोदकं शुद्धे शुद्ध मासिक्तं तादृगेव भवति । एवं मुनेर्विजानतम् आत्मा भवति गौतम’ (काठ. ४.१५) इति चैवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च’ इति शाङ्करभाष्यरीत्या तत्त्वमस्यादि श्रुतिप्रमाणमवलम्ब्य मुक्तजीवपरब्रह्मणोरभेदं प्रतिपादयतीति चेन्न । श्रुतिसूत्रादेरभेदप्रतिपादकत्वाभावात् । प्रत्युत भेदस्यैव प्रतिपादकत्वाच्च । तथाहि ‘तत्त्वमसि’, ‘अहं ब्रह्मास्मि’ इत्यादिमहावाक्यानां बोधजनकत्वस्यैवाद्वैतिभिरनङ्गीकारात् ।
बोधजनकत्वाङ्गीकारे वा लक्षणया वृत्त्या चिद् इत्येतावन्मात्र- बोधजनकत्वाभ्युपगमेन अभेदविषयकवोधाजनकत्वात् । तुष्यत्वितिन्यायेन अभेदविषयकवोधजनकत्वोररीकारेऽपि सर्वेशत्वादिगुणविशिष्टस्य तत्पदार्थस्य अल्पज्ञत्वादिगुणविशिष्टेन त्वं पदार्थेन जीवेनैक्यासम्भवात् । लक्षणया तत्त्वं पदाभ्यां चिन्मात्रोपस्थिति स्वीकृत्य चिच् चिदसीति चिच्चितोरेवाभेदो बोध्यत इत्यभ्युपगमेन जीवब्रह्मणोरभेदानुक्तेः । चितश् चिदभेदबोधनस्य ज्ञातज्ञापकत्वेन निष्प्रयोजनत्वाच्च । इत्यादि दूषणैरभेदप्रतिपादकत्वा- भावस्य पूर्वं वर्णितत्वात् ।
‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’ । इति वाक्ये यथा शुद्धोदक आसिक्तं शुद्धमुदकं तादृगेव- पूर्वं विद्यमानशुद्धजलसदृशमेव भवति, न तु पूर्वं विद्यमानोदकाभिन्नं भवति । तथा हे गौतम! विजानतः (ज्ञानिनः ) मुनेर् आत्मा (स्वरूपं ) एवम् उदकवत् (निर्दोषत्वनिर्दुखत्वादिना ) ब्रह्मसदृशं भवति इति दृष्टान्तवाक्ये तादृक् इति पदेन स्पष्टं वोधितत्वात् ‘यथोदकं’ इति वाक्यम् अविभागं (अभेदं) दर्शयति इति कथनं यादृशोऽग्निस्तादृशो माणवकू इति वाक्यं श्रुत्वा माणवके पावकाभेदमभिज्ञाय तच्छिरसि पाकनिष्पत्तये भाण्डारोपणमुपदिशतो मन्दस्य व्यवहारमनुकरोति । नदीसमुद्रादिनिदर्शनानि च अविभागमेव दर्शयन्ति इत्यपि न साधु । ‘ननूक्तं यथा नदी समुद्रो भवतीति का पुनर्नद्यभिमता आयुष्मतः । किं पाथः परमाणव उत एषां संस्थान भेद आहोवित् तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वा अवयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेण एकता ? नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्वावस्थितेभ्यो भेद एव नाभेद एवं समुद्रादपि तेषां भेद एव (ब्र.भा.भास.१.४.२२) इति वाक्यैर् भामत्यां नदीसमुद्रयोरैक्यस्य युक्त्या निराकृतत्वात् । कल्पतरुपरिमलेऽपि ‘तथा च नद्या अवयवसन्निवेशविशेषरूपेण अवयविरूपेण स्वारम्भकपरमाणुरूपेण वा समुद्राभेदप्राप्त्यभावेऽपि समुद्रप्राप्तौ नद्यवयविनाशात् तदीयनामरूप- प्रहाणमस्तीत्येतावत्यंशे श्रुतौ नदीसमुद्रदृष्टान्तः । अत एवास्तं गच्छन्तीत्येव दृष्टान्तभागे श्रवणमिति भावः’ इति वाक्यैरेतैर्नदीसमुद्रयोरैक्याभावस्य वर्णितत्वान् नदीसमुद्र दृष्टान्तदानं च नामरूपप्रहाणविषय एवेत्युक्तत्वाच्च ।
‘यत्र नान्यत्पश्यति’ (छां. ७.२४.१) इति वाक्यम् अविभागेनैव परमात्मानं दर्शयतीति यदुक्तं तन्न समञ्जसम् । तस्मिन्वाक्ये मुक्तस्य परमात्मना अभेद (अविभाग) बोधकपदाभावात् । उत्तरवाक्ये च ‘स वा एष एवं पश्यन् एवं मन्वान एवं विजानन्… तस्य सर्वेषु लोकेषु कामचारो भवति’ इति भूम्नो ज्ञेयत्वेन जीवस्य ज्ञातृत्वस्य च कथनेन ‘सर्वेषु लोकेषु कामचार’ इत्यनेन सर्वलोकानां सत्त्वस्य भूमरूपब्रह्मज्ञानिनः कामचारित्वादीनां च कथितत्वेन जीवब्रह्मणोर्भेदः लोकानां सत्वं ज्ञानिनां कामचारित्वादिकं च कथ्यत इति इदं वाक्यं जीवब्रह्मणोर्भेदबोधकमेवेति ।
एवं सूत्रेऽपि अभेदवोधकपदं नोपलभ्यते । अविभागेनेतिपदम् अभेदबोधकमस्तीति चेन्न । अविभागपदस्य संयुक्तार्थकत्वात् । चैत्रस्य भिन्नयोरपि ओष्ठयोः परस्परसंयोगकाले चैत्रस्योष्ठौ अविभक्तौ इति प्रयोगाद् अविभागशब्दो न भेदविरोध्यभेदार्थकः । किन्तु भेदाविरोधि (भेद-समानाधिकरण) संयोगार्थकः । ’ अविभागो वचनात् त् (ब्र.४.२.१६) इति सूत्रे भेदाविरोध्यर्थेऽविभागशब्दप्रयोगा’ अविभागशब्दघटितं ‘अविभागेन दृष्टत्वात्’ इति सूत्रम् ईषदपि नाभेदं बोधयितुमलं किं तु भेदसमर्थनसमर्थमेवेति दिक् ।