आत्मेति तूपगच्छन्ति ग्राहयन्ति च
‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’
अभेदबोधकत्वेनाद्वैत्यभिमतद्वित्रब्रह्मसूत्रान्तर्गतं ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति सूत्रमपि नाभेदबोधकम् ।
तत्रैकस्यापि अभेदबोधकस्य पदस्याभावात् । भेदबोधकपदानां सत्वाच्च । तथा हि शब्दस्वारस्येन प्रतीयमानोऽर्थस्तु आत्मा इति उपगच्छन्ति, जानन्ति, ग्राहयन्ति इति । अत्र हि नाभेदबोधकं किंचिदपि पदमस्ति । प्रत्युत ज्ञातृज्ञेयभाववोधनेन ज्ञातृज्ञेयज्ञापयितृभावबोधनेन च भेदबोधकमेव ।
ननु ‘यः शास्त्रोक्तविशेषणः परमात्मा सः किमहमिति प्रतिपत्तव्यः किं वा मदन्य इति संशये परमात्मा अहमिति प्रतिपत्तव्यः । न ह्यपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम्, विपरीतगुणो वाऽपहतपाप्मत्वादिगुणत्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरस् तद्विपरीतगुणस्तु शारीरः ( जीवः ) । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षविरोधश्च ।
अन्यत्वेऽपि तादात्म्यदर्शनं प्रतिमादिष्विव विष्ण्वादिदर्शनमिति चेत् काममेवं भवतु । न तु संसारिणो मुख्य आत्मेश्वर इत्येतन्नः प्रापयितव्यम् । एवं प्राप्ते ब्रूम आत्मेत्येवेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वरप्रक्रियायां जावाला आत्मत्वेनैवैनमुपगच्छन्ति । त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि देवते’ इति । तथाऽन्येऽपि अहं ब्रह्मास्मि इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेनैवेश्वरं वेदान्तवाक्यानि ‘एष त आत्मा सर्वान्तरः (बृ. ३.४.१ ) एष त आत्माऽन्तर्याम्यमृतः (बृ.३.७.३) तत्सत्यं स आत्मा तत्त्वमसि (छां. ६.८.७) इत्येवमादीनि ’ (ब्र.सू.शां.भां. ४.१.३) इति शाङ्करभाष्यदिशा आत्मेति तूपगच्छन्ति ग्राहयन्ति च इति सूत्रं जीवपरमात्मनोरैक्यं श्रुत्यवष्टंभेन वक्तीति चेन् न । शाङ्करीयसूत्रार्थकथनस्य अयुक्तत्वात् ।
तथाहि - जाबाला आत्मत्वेन एते (परमेश्वरं ) उपगच्छन्ति इति ‘आत्मेति तूपगच्छन्ति’ इति सूत्रभागस्यार्थकरणं तावदयुक्तम् । सूत्रे परमेश्वरबोधकपदाभावात् । न च परमेश्वरम् इति पदमध्याहृत्य परमेश्वरम् आत्मा इति उपगच्छन्ति इत्यर्थः क्रियते इति वाच्यम् । परमेश्वरनियम्यं, परमेश्वरदासं, परमेश्वरजन्यं, परमेश्वररक्ष्यम् अस्वतन्त्रम् इति वा पदस्य अध्याहारेण परमेश्वरनियम्यं परमेश्वरदासं वा आत्मा इति (आत्मत्वेन) उपगच्छन्ति इत्यादिकं प्रमाणपरिष्कृतमर्थं परित्यज्य परमेश्वरम् इति पदमेवाध्याहृत्य परमेश्वरम् आत्मेति उपगच्छन्ति इत्यप्रामाणिकार्थकरणे नियामकाभावात् । प्रत्युत परमेश्वरदासम् इत्यादिपदाध्याहारेण परमेश्वरदासम् आत्मेति उपगच्छन्ति इत्यादिभेदानुगुणार्थकरण एव ५५४ सूत्रेषु द्वित्रसूत्राणि विहाय परमेश्वरनियम्यत्वादिना भेदप्रतिपादकतया अद्वैत्यभिमतानां ५५१ सूत्राणामानुगुण्यरूपस्य भेदप्रतिपादकश्रुत्यानुगुण्यरूपस्य च नियामकस्य सत्वेन परमेश्वरदासम् आत्मेति उपगच्छन्ति इत्यर्थकरणस्यैव युक्तत्वात् । परमेश्वरदासमिति पदाध्याहारः कर्तव्य उत परमेश्वरमिति सन्देहेऽपि अस्य सूत्रस्य अभेदे प्रमाणत्वासम्भवात् । परमेश्वरमिति पदमध्याहृत्य ‘परमेश्वरम् आत्मा’ इति (आत्मत्वेन) उपगच्छन्ति इत्यर्थकरणेऽपि न जीवब्रह्मणोरैक्यसिद्धिः । आत्मशब्दस्य आप्त्यादिगुणविशिष्टपरमात्म- बोधकत्वेन जीवाबोधकत्वात् । परमेश्वरम् आत्मा = यच्चाप्नोतीत्यादि प्रमाणसिद्धाप्त्यादिगुणवान् इति (आप्त्यादिगुणवत्वेन ) जानन्तीत्येवार्थो भवति न तु परमेश्वरम् आत्मत्वेन (जीवत्वेन) जानन्तीत्यर्थो भवतीति भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन परमेश्वरम् इति पदमध्याहर्तुरद्वैतिनो जीवपरमात्मनोरभेदासिद्धेः । मुख्यया वृत्त्या आत्मशब्दस्य आप्त्यादि बहुगुणविशिष्टपरमात्मबोधकत्वमेव न तु जीववोधकत्वमित्येतत् शङ्कराचार्याद्यद्वैतिभिरेव ‘घुभ्वाद्यायतनं स्वशब्दात्’ (ब्र.१.३.१) इति सूत्रभाष्यव्याख्यावसरे उक्तम् । तथाहि तद्वाक्यानि (अर्थतः शाङ्करभाष्यम्) द्युभ्वाद्यायतनं परं ब्रह्म भवितुमर्हति, न जीवादय आत्मशब्दात् । आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते नार्थान्तरपरिग्रहे (जीवान्तरपरिग्रहे) इति ।
भामत्यर्थानुवादः - द्युभ्वाद्यायतनं परं ब्रह्मैव न प्रधानाव्याकृत-वायुशारीर (जीव) हिरण्यगर्भाः स्वशब्दात् (आत्मशब्दात्) इति । रत्नप्रभा नन्वात्मशव्दो जीवे सम्भवतीत्यत आह आत्मशब्दश्चेति । आनन्दगिरि जीवादावपि तदुपपत्तिमाशङ्कयोक्तम् आत्मशब्दश्चेति । पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः । ब्रह्मविद्याभरणे यद्यप्यात्मशब्दो जीवसाधारणोऽपि भवति, तथापि योगेन ब्रह्मासाधारण एव । तथा च व्यापकत्वरूपयोगेन रूढ्या च परमेश्वरे स्वरसस्य न रूढिमात्राश्रयणेन जीवसाधारण्यं कल्पयितुं युक्तमिति ।
तथा च परमेश्वरम् इति पदमध्याहृत्य परमेश्वरम् आत्मत्वेन उपगच्छन्ति इत्युक्तावपि परमेश्वरम् आप्त्यादिगुणयुक्तत्वेन जानन्तीत्येवार्थः सिद्ध्यति, न तु परमेश्वरम् आत्मेति ( जीव इति) जानन्ति इत्यर्थः ।
ततः ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति सूत्रं न जीवब्रह्मणोर- भेदबोधकमिति ।
परमेश्वरम् आत्मत्वेन उपगच्छन्ति इत्यस्मिन्विषये यानि प्रमाणतया उदाहृतानि ‘त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि देवते इति ‘अहं ब्रह्मास्मि’ इत्यादिनि वाक्यानि तानि परमेश्वरस्य आत्मत्वोपगमे प्रमाणं भवितुं नार्हन्ति । तेषामद्वैतिभिर् अखण्डार्थबोधकत्वाङ्गीकारात् । विशेषविचारस्तु तत्त्वमस्यादिवाक्यार्थविचारे द्रष्टव्यः ।
ग्राहयन्ति च = आत्मत्वेनैवेश्वरं वेदान्तवाक्यानि ‘एष ते आत्मा सर्वान्तरः’ (बृ.३.४.१) एष ते आत्मा अन्तर्याम्यमृतः (वृ.३.७.३) तत्सत्यं स आत्मा तत्त्वमसि (छां. ६.८.७) इत्येवमादीनि इति, ग्राहयन्ति चेति सूत्रभागस्य शाङ्करीयार्थवर्णनं तदप्यत्यन्तायुक्तम् ।
ईश्वरम् इत्यर्थबोधकपदस्य सूत्रे अभावात् । अध्याहारेण तथा वर्णने दोषस्योक्तत्वात् ।
अभेदविषये यत् ‘तत्सत्यं स आत्मा तत्त्वमसि’ इत्यादिप्रमाणोदाहरणं तदप्ययुक्तम् । तत्त्वमसीति वाक्यस्यापि अद्वैतिभिर् अखण्डार्थ- बोधकत्वाङ्गीकारात् । ’ तत्सत्यं स आत्मा’ इत्यधिकोदाहरणस्य तेषां प्रयोजनं न पश्यामः । अधिकांशोदाहरणं तु आत्म अतत् त्वम् असि इति पदच्छेदज्ञापनद्वारा ‘सन्मूला ः सोम्य सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छां.६.८.६ ) इति पूर्ववाक्ये सर्वप्रजानां परमात्मजन्यत्वेन परमात्माश्रितत्वेन परमात्मप्रतिष्ठितत्वेन परमात्मनो भिन्नत्वस्योत्क्त्या त्वं (अपि) अतत् परमात्मभिन्नोऽसि इत्यर्थकरणं ज्ञापयति द्वैतिनः ।
किं वा तत् कारणीभूतं सदाख्यं ब्रह्म सत्यं, सः सदाख्यं ब्रह्म तत्त्वं याथात्म्यम् इति उपनिषद्भाष्ये स्वकृत (शङ्करकृत) व्याख्यानसूचनद्वारा ‘आत्मा तत्त्वमसि’ इति वाक्यं केवलम् अखण्डार्थबोधकत्वेन वा आत्मा अतद् इति पदच्छेदेन वा अभेदाप्रतिपादकं न, अपितु तत् त्वम् इति पदच्छेदमन्तरा आत्मा तत्त्वम् इति पदच्छेदस्यापि सम्भवेन ‘आत्मा तत्त्वमसि’ इति वाक्यमभेदवोधकं न भवति इति सूचनार्थं च भवति ।
ग्राहयन्ति चात्मत्वेन ईश्वरम् इत्यस्मिन्विषये ‘एष त आत्मा अन्तर्याम्यमृतः’ इति च यद् वृहदारण्यकवाक्योदाहरणं तत् परप्रतारणरूपं स्वव्याहतं च । तथाहि ‘शारीर चोभयेऽपि हि भेदेनैनमधीयते’ (व्र.१.२.२० ) इति सूत्रभाष्ये उभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं (जीवं) पृथिव्यादिवद् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते । यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एष ते आत्माऽन्तर्याम्यमृतः (बृ. ३.७.२२) यो विज्ञाने तिष्ठन् इति काण्वा य आत्मनि तिष्ठन् इति माध्यन्दिनाः । य आत्मनि तिष्ठन् इत्यस्मिंस्तावत्पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । यो विज्ञाने तिष्ठन् इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते । विज्ञानमयो हि शारीरः । तस्मात् शारीरादन्य ईश्वरोंतर्यामीति सिद्धम् । (ब्र.सू. शां. भा. १.२.२० ) इति वाक्येन तथा ‘भेदव्यपदेशाच्चान्यः’ (ब्र.सू.१.१.२१) इत्येतत्सूत्रभाष्ये-‘आदित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी’ ‘य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ‘, (बृ. ३.७.९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि दित्यादन्तरो यमादित्यो न वेद इति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते’ इतिवाक्येन, तथा-‘उभयव्यपदेशात्त्वहिकुण्डलवत्’ (ब्र.३.२.२७) इत्येतत्सूत्रभाष्ये क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते । … ‘यः सर्वाणि भूतान्यन्तरो यमयति एष ते आत्माऽन्तर्याम्यमृतः’ इति नियन्तृ नियन्तव्यत्वेन’ इति वाक्येन,तथा-‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्’ इत्येतत्सूत्रभाष्ये ‘एष ते आत्माऽन्तर्याम्यमृतः…………. एष ते आत्माऽन्तर्याम्यमृत इति वाक्य- घटितानामेकविंशतिवाक्यानां जीवब्रह्मणोर्भेदपरत्वमुक्त्वा ‘एष ते आत्माऽन्तर्याम्यमृतः सति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते इति जीवस्य ख्यात्मत्वाभावकथनेन च ‘यं पृथिवी न वेद इति च पृथिवीदेवतया अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽन्यमं तर्यामिणं दर्शयति’ इति कथनेन च ‘एष ते आत्माऽन्तर्याम्यमृत इति वाक्यं जीवेश्वरयोर्भेदबोधकमिति क्रियासमभिव्याहारेण स्वयमेव स्पष्टं कथयित्वा त्मत्वेनैवेश्वरं वेदान्तवाक्यानि ग्राहयन्ति इत्यस्मिन्विषये स्वव्याहत- मेतद्वाक्योदाहरणमयोग्यजनमोहनार्थं वा चित्तास्वास्थ्य मूलकं वा ।
**अनवस्थादयो दोषाः सत्तरं निघ्नन्ति वस्तुनः । **
अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥
इत्यद्वैतिभिः स्वीकृतत्वेन स्वव्याहत्यादिर्भूषणमिति भ्रममूलकमेव वेति समुपेक्षणीयमेव प्रज्ञाशालिभिर्नादरणीयमेव । काममाद्रियन्तां नामेतरे ।
एषः पृथिव्याद्यन्तर्यामित्वेनोक्तो ऽमृत आत्मा परमात्मा ते तव (उपलक्षणया) मम च अन्तर्यामी इत्यर्थकत्वेन ‘एष ते आत्मा अन्तर्याम्यमृतः’ इत्येकविंशतिवारं पठितानि वाक्यानि जीवपरमात्मनोर्भेदपराण्येव नाभेदपराणीति ।
ग्राहयन्ति चात्मत्वेनेश्वरमित्यस्मिन्विषये ‘एष ते आत्मा सर्वान्तरः’ (बृ. ३.४.१) इति वाक्योदाहरणमप्ययुक्तम् । तत्र अभेदबोधकपदाभावात् प्रत्युत ते आत्मा इति जीवपरमात्मनोः सम्बन्धकथनेन भेदबोधकत्वात् । परिच्छिन्नस्य जीवस्य आत्मत्वसर्वान्तरत्वयोरसम्बवेन आत्मशब्देन जीवग्रहणासम्भवाच्चेति ।
यद्यपि ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इतिसूत्रं ‘नाभेदवोधकं नापि अभेदे प्रमाणतयोदाहृतानि श्रुतिवाक्यानि नाभेदबोधकानि इति स्थितमिति न विचारान्तरस्यास्त्यवकाशस् तथापि परमात्मा अहमिति न ग्राह्य इति कथयित्रा यानि यानि साधकानि ‘परमात्मा अह’ मिति ग्रहणे यानि बाधकान्युक्तानि तेषां दूषणं यदुक्तं शङ्कराचार्यैस् तस्मिन् असामञ्जस्यप्रदर्शनमन्तरा न स्वमते दाढर्यं भवतीति तस्यासामञ्जस्यं किञ्चित् प्रदर्श्यते । तथाहिजीवब्रह्मणोर्भेदे ‘त्वमहमस्मि’ इति वाक्यस्य का गतिरिति शङ्कायां भेदवादिनो ‘यथा मनो ब्रह्मेति’ अभेदोक्तिर् मनःप्रतीकत्वेन ब्रह्मोपासन- विधायिका न तु मनसो ब्रह्मतादात्म्यबोधिका तथा त्वमहमस्मि इति वाक्यं जीवप्रतीकत्वेन ब्रह्मोपासनविधायकं न तु जीवस्य ब्रह्मतादात्म्यविधायकमिति यदुक्तं प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यति’ इति वाक्येनानूद्य तथात्वे गौणत्वप्रसङ्गाद् इति यदूषणमाहुः शङ्कराचार्यास् तन् निजभोजनभाजने प्रतितेऽपि रासभशवे परस्य पत्रावल्यां मक्षिकानिवारणन्यायमनुरुन्धे । स्वमतेऽपि (शङ्करमते) ‘त्वमहस्मि’ ‘तत्त्वमसि’ इत्यादिवाक्यानां बोधकत्वमेव नास्ति । बोधजनकत्वेऽपि तत् त्वम् असि इति पदत्रयाणामपि लक्षणया वृत्त्या चिन्मात्रबोधकत्वमिति गौणार्थाङ्गीकारात् ।
यच्चोक्तम् - ‘यत्र हि प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति, यथा- ‘मनो ब्रह्म (छां. ३.१८.१) आदित्यो ब्रह्म (छां.३.१९.१) इत्यादि इह पुनः ‘त्वमहमस्मि अहं च त्वमसि इत्याह । अतः प्रतीक- दृष्टिवैरूप्यादभेदप्रतिपत्तिरिति’ तदप्ययुक्तम् । प्रतीकदृष्ट्यभिप्राये सकृदेव वचनमिति नियमस्य कुत्राऽप्यदृष्टेः । प्रकृतेऽपि ‘त्वमहमस्मि’ इति सकृदेवोक्तत्वात् ‘अहं त्वमसि’ इति वाक्यं भिन्नानुपूर्वीकम् अनुयोगि- प्रतियोगिभेदेन भिन्नार्थकमिति न प्रतीकश्रुतिवैरूप्यमिति । यद्यपि प्रतिमादिषु विष्ण्वादिदर्शनं कार्यमिति नास्माकं सिद्धान्तः । मिथ्योपासनायाः -
**योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । **
किं तेन न कृतं पापं चोरेणात्मापहारिणा ।
इत्यादिना निषिद्धत्वात् । तथाऽपि मिथ्योपासनमन्यत्राङ्गीकृत्य अत्र तद्वैरूप्यदर्शनं शङ्कराचार्याणामयुक्तमित्येव दर्शने तात्पर्यम् । यदुक्तम् ‘भेददृष्टचपवादाच्च । तथाहि-‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽह - मस्मीति न स वेद’ (बृ. ४.४.१९ । कठ. ४.१०) मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (बृ.४.४.१९ । कठ.४.१०) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदइत्येवमाद्या भृयसी श्रुतिर्भेदमपवदति इति तदप्ययुक्तम् । उदाहृतां ‘अथ अऽन्यां देवतामुपास्ते’ इति श्रुतिं तावत् कर्मिणां निन्दाबोधकतया उपनिषद्भाष्ये गीताभाष्ये सूत्रभाष्ये च व्याख्याय अत्र पुनर्भेददृष्टिनिन्दाविषये तदुदाहरणस्य स्व वाक्यविरुद्धत्वात् । जीवब्रह्मणोर्भेददृष्टिनिन्दाया अप्रतीतेः । तथाहि उपनिषद्भाष्ये ‘अथ यः कविदब्रह्मविद् अन्याम् आत्मनः (परमात्मनः) व्यतिरिक्तां यां काचिद्देवतां (इन्द्राग्र्यादिरूपां ) उपास्ते स्तुतिनमस्कारयागवल्युपहारप्रणिधानध्यानादिना उपास्ते तस्या गुणभावम् उपगम्यास्ते अन्योसावनात्मा मत्तः पृथक् अन्योऽहमस्म्यधिकृतो मयाऽस्मा ऋणिवत्प्रतिकर्तव्यमित्येवं प्रत्ययः सन् यः परमात्मभिन्नाम् इन्द्रां दिदेवतां बल्युपहारप्रणिधानादिना उपास्ते स तत्त्वं न वेद इति कर्मिणां निन्दा प्रतीयते न तु भेददृष्टिमतां निन्दा । प्रत्युत अन्यां परमात्मभिन्नाम् इन्द्रादिदेवतामिति स्पष्टमिन्द्रादिजीवानां परमात्मनो भेद एव प्रतीयते इति नैतद्वाक्यं जीवब्रह्मणोर्भेददृष्ट्यपवादकम् ।
न च असौ अनात्मा = परमात्मभिन्ना देवता अन्यः मत्त पृथक् अहम् अन्य इत्येवं प्रत्ययः न वेदेत्युक्त्या भेदज्ञानिनिन्दा प्रतीयते इति वाच्यम् । इन्द्रादिदेवतायाः कर्मकर्तृजीवाद्भेदस्याद्वैतमतेऽपि विद्यमानत्वात्। इन्द्रादिदेवतानां जीवाद्भेदनिन्दायामेवैतद्वाक्यस्य तात्पर्य- सत्वे ‘अन्योऽसावनात्मा मत्तः पृथक् अन्योऽहम्’ ‘इत्येवं प्रत्ययः’ इत्येतावन्मात्रेण निर्वाहे ’ अहमस्म्यधिकृतो मयाऽस्मा ऋणिवत्प्रतिकर्तव्यम्’ इति वाक्यस्य आधिक्यापाताच्च । तस्मान् नित्यफलप्रापकं ब्रह्मज्ञानमसम्पाद्य अल्पफलार्थमिन्द्रादीदेवतामुद्दिश्य यागकर्तॄणां कर्मिणां निन्दायामेव तात्पर्यं न तु भेदनिन्दायाम् ।
यद्यस्य वाक्यस्य भेदनिन्दाबोधने तात्पर्यं स्यात् तर्हि ‘योऽनन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीत्याकारः स्यात्, न तु योऽन्यां देवतामिति । नहि घटत्वेन घटं जानन् परं परत्वेन अवगच्छन् गर्दभं गर्दभत्वेन मन्वानः, बी.ए परीक्षामुत्तीर्णं बी. ए. पदवीभाजं च जानानोऽविद्वान् भवति । भिन्नदेवताया भिन्नत्वेन ज्ञानिनोऽज्ञत्वं देवानां प्रियोपि न ब्रूयान् महान्तः शङ्कराचार्यास्तु एवं वेदयुरिति सम्भावनापि न ब्रूयान् महान्तः ङ्कराचार्यास्तु एवं वदेयुरिति सम्भावनापि न सम्भावनार्हेति तामसलोक- मोहनार्थमेव क्वचित्तथा प्रदर्शयामासुरित्यवश्यं स्वीकार्यम् । तेषामेव तथाभिप्राये भिन्नां देवतां भिन्नत्वेन जानतोऽज्ञत्वं वक्तुं किं वक्तव्यं सुधिय एव विदां कुर्वन्तु । तथा गीताभाष्ये
‘काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः’ । (४-१२) इति श्लोकव्याख्यावसरे काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिल्ँलोके देवता इन्द्रायाद्याः ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्’ इति श्रुतेर् इति वाक्येन ‘अथ योऽन्यां देवतामिति श्रुतेर् इन्द्राग्र्यादिदेवता उद्धिश्य कर्मकर्तृनिन्दापरत्वं न तु भेदनिन्दा- परत्वमिति सिध्यति ।
एवम् ’ अनात्मवित्त्वात्तथाहि दर्शयति’ (ब्र. सू. ३.१.७) इत्येतत्सूत्रभाष्येऽपि ‘तथा हि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति ‘अथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्’ इति वाक्येन च कर्मनिन्दापरत्वं न तु भेदनिन्दापरत्वमिति सिद्ध्यति ।
अनेन वाक्येन भेदज्ञानिनिन्दाया असिद्धया नेदं वाक्यं भेदनिनिन्दा- बोधकमिति नैतद्वाक्योदाहरणं भेदनिनन्दायां कर्तव्यमद्वैतिभिरिति यच्च जीवब्रह्मभेददृष्ट्यपवादे ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (कठ.४.१०) इति वाक्योदाहरणं तदपि न युक्तम् । तत्र जीवब्रह्मभेददृष्टेरनिषेधात् । तथाहि - पूर्ववाक्यसहितं तद्वाक्यमिदं यदेव तदमुत्र यदमुत्र तदन्विह ।
पश्यति सः मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ( कठ. ८.१०) इति । तस्यार्थस्तु सह- एतल्लोके यद् ब्रह्म तदेव अमुत्र परलोके यद् ब्रह्म अमुत्र परलोके तन् नु तदेव इह तल्लोके ( एतल्लोकपरलोकान्तर्गतरूपयोर् भेदो नास्ति) यः मनुष्य इह एतल्लोकपरलोकान्तर्गत रूपयोर् नाना-भेदं मृत्योर् मृत्युं मरणम् आप्नोति प्राप्नोति तथाचैतद्वाक्यं स्वगतभेदं निषेधति न तु ब्रह्मणि जीवभेदम् ‘यदेवेह’ इति पूर्ववाक्ये एतल्लोकपरलोकान्तर्गतरूपयोरभेदं (ऐक्यं) कथयित्वा उत्तरवाक्ये एतल्लोकपरलोकान्तर्गतपरमात्मरूपयोर्भेदं जानतो ऽनर्थोक्तेः । ‘‘मनसै- वेदमाप्तव्यं’ इत्युत्तरवाक्ये जीवस्य ज्ञातृत्वेन ब्रह्मणो इत्यत्वेन कथितत्वाच्च ज्ञातृज्ञेयभावेन भेदस्यैव कथनात् ।
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
इत्युत्तरवाक्येनापि य आत्मनि तिष्ठन् ’ इत्यादिवाक्यवत्ज् जीवपरमात्मनोर्भेदस्यैव कथितत्वात् । ’ ईशानो भूतभव्यस्य’ इति पूर्वेण पञ्चमेन तथा उत्तरेण द्वादशेन त्रयोदशेन च भूतभविष्यज्जगदीशानत्वोत्त्या भेदस्यैव कथितत्वात् ।
**यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । **
एवं मुनेर्विजानत आत्मा भवति गौतम ॥
इत्युत्तरेण पञ्चदशेन च एवं तादृग् भवति इत्युक्त्या भेद व्याप्तसादृश्यं कथयित्वा तादृगेवेति एव शब्देन अभेदस्य निषेधाच्च । एवं पूर्वोत्तरैरनेकवाक्यैर्भेदस्यैव कथितत्वेन ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इत्येतद्वाक्यं परमात्मरूपेषु भेदज्ञानिनमेव निन्दति न परमात्मनि जीवभेदज्ञानिनम् इति नैतद्वाक्यं भेददर्शनमपवदति ।
एतेन ‘मृत्योः स मृत्युमाप्नोति’ (बृ. ४.४.१९) इति बृहदारण्यक - वाक्यस्यापि भेददर्शनापवादकत्वं निरस्तम् । ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः …. एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल, इत्युत्तरवाक्यस्वारस्येन तद्व्याख्यानभूतेन-‘स च सर्वस्य ब्रह्मेन्द्रादेर्वशी सर्वो हि अस्य वशे वर्तते । उक्तं च ‘एतस्य वा अक्षरस्य प्रशासने’ इति । न केवलं सर्वस्येशान ः ईशिता च ब्रह्मेन्द्रप्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतं यथा राजकुमारस्य बलवत्तरानपि भृत्यान् प्रति तद्वन्माभूदित्याह सर्वस्याधिपतिर् अधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः । न राजपुत्रवद् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतद्वशित्वादि हेतुहेतुमद्रूपम् । यस्मात्सर्वस्याधिपतिस्ततोऽसौ सर्वस्येशानः, इत्यादि शाङ्करभाष्येण च ब्रह्मेन्द्रादिसर्ववशित्व ब्रह्मेन्द्रादीशितृत्वस्वतन्त्रत्वादिना ब्रह्म (चतुर्मुखे) न्द्रादिजीवानां परमात्मना भेदस्यैव कथनाच्च ।
‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. ४५७) इति श्रुतिर्भेद- दर्शनमपवादति इति भेददशनापवादे प्रमाणतया यदुदाहृता तदप्यसङ्गतम् । श्रुतौ भेददर्शननिषेधकपदाभावात् । ‘सर्वं तं परादात्’ इति वाक्यात् । पूर्वमेतादृशानि बहूनि सन्ति वाक्यानि । तानि च ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वद, लोकास्तं परादुः… देवास्तं परादुर् वेदास्तं परादुः…. भूतानि तं परादुः, सर्वं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ इतयस्याः श्रुतेः ‘यो हि ब्रह्मक्षत्रादिकं जगद् आत्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यावादिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत् पराकरोति पुरुषार्थात् पराकुर्यात् - प्रच्यावयेत्’ इति हि व्र.सू.१.४.१९ भाष्ये शङ्कराचार्या अर्थमाहुः । तथा च ‘सर्वस्य वशी सर्वस्येशानः’ (बृ.) सर्वाः प्रजाः सदायतनाः’ इत्याद्यनेकश्रुतिषु जगतः परमात्माधारत्वेनैव स्थितेः परमात्मानमाश्रित्य स्वातन्त्र्येण स्थित्यभावस्य चोक्तेः । अस्मिन्नपि वाक्ये परमात्माश्रितत्वेनैव तिष्ठतो ब्रह्मक्षत्रादिजगतः स्वातन्त्र्येण ज्ञातुः पुरुषस्य मिथ्याज्ञानित्वेन (भ्रान्तत्वेन) भ्रान्तं पुरुषं पुरुषार्थात्प्रच्यावयति ब्रह्मक्षत्रादिजगदित्येव बोध्यते न तु परमात्मना जगतो भेददृष्टिरपोद्यते इति नेदमपि वाक्यं भेददृष्ट्यपवादे प्रमाणं भवितुमहति । विशेषविचारं प्रसङ्गे करिष्यामः ॥ ॥ इति भेददर्शनापवादश्रुत्यभावनिरूपणम् ॥
भेदवादिनोक्तस्य विरुद्धधर्मवतोर्जीवपरमात्मनोरन्योन्यात्मत्वासम्भव इति दूषणस्य विरुद्धगुणताया मिथ्यात्वोपपत्तेर् इति यत् शाङ्करीयं समाधानं तत्तु अतिहेयम् । ब्रह्मणो ऽपहतपाप्मत्वसर्वज्ञत्वाद्यनेकगुण- वाधिकानां य अपहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छां.८७१ ) इत्याद्यनेकश्रुतीनां सत्वात् । श्रुत्युक्ता- पहतपाप्मत्वादिगुणनिषेधकानां (बाधकानां ) श्रुतीनामभावाच्च । निर्मिमित्तं नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वोक्तौ सर्वापलापप्रसङ्गः । वेदानामप्रामाण्यापत्तिश्च । अतो विरुद्धगुणानां मिथ्यात्वकथनं वैदिकानामयुक्तमेव । न केवलं वैदिकानां, आस्तिकानाम् (अस्ति परलोक इति बुद्धिमताम्) अपि अयुक्तम् । आस्तिकत्वहानेः । विशेषविचारो ब्रह्मणो गुणपूर्णत्वनिरूपणे द्रष्टव्यः ।
भेदवादिना ईश्वरस्य संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यं संसारिणोपीश्वरात्मत्वेधिकार्यभावाच्छास्त्रानर्थक्यमेवेति जीवेश्वराभेदवादिनं प्रति उक्तदूषणस्य शङ्कराचार्यैः समाधानमुक्तम् ‘तदसत् । शास्त्रप्रामाण्याद् अनभ्युपगमाच्च । न हीश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः । किं तर्हि । संसारिणः संसारित्वा पोहेनेश्वरात्मत्वं प्रतिपिपादयिषितमिति । एवं च सति अद्वैतेश्वरस्यापि हतपाप्मत्वादिगुणता विपरीतगुणता त्वितरस्य ( जीवस्य ) मिथ्येति व्यवतिष्ठते’ इति, तदप्ययुक्तम् । तथाहि—शास्त्रप्रामाण्यादित्युक्तम् । निर्गुणं ब्रह्म ऐक्यं सत्यं ततोऽन्यत्सर्वं मिथ्येत्यद्वैतिमते सत्यत्वेन कथ्यमानं निर्गुणं ब्रह्म तु न ज्ञेयं यज् ज्ञेयं जगत् तत्सर्वं मिथ्येति न तस्मिन्विषये शास्त्रं प्रमाणं भवितुमर्हति इति कस्मिन्विषये शास्त्रप्रामाण्यमङ्गीकुर्वन्ति शङ्कराचार्यास्तत्सुधिय एव विभावयन्तु । ननु शास्त्रस्य व्यावहारिकप्रामाण्यं कथ्यत इति चेन्न । व्यावहारिकप्रामाण्यं तु अप्रामाण्यपर्यवसायीति कल्पतरुपरिमलादावुक्तत्वेन, बौद्धमतनिराकरणावसरे प्रमाणानां व्यावहारिकवस्तु विषयकत्वरूप-व्यावहारिकप्रामाण्यं न सम्भवतीति भामतीकारप्रभृतिभिरुक्तत्वेन च वेदानां व्यावहारिकप्रामाण्यमिति वाचोयुक्तेरेवायुक्तेः ।
तिष्ठतु स विचारः । शास्त्रप्रामाण्यादिति हेतुना किं सिसाधयिषितं प्रकृते शङ्कराचार्याणामिति न जानीमो वयम् । ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इति नाभ्युपगच्छाम इति यदुक्तं तत्सत्यमेव ईश्वरस्य संसार्यात्मत्वप्रतिपादकशास्त्राभावात् ।
संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमित्यभ्युप-गच्छाम इति कथनमयुक्तम् । तथाप्रतिपादकशास्त्राभावात् । तथाशास्त्र- सद्भावाभिमाने तच्छास्त्रकथनेन स्वगुरुवाक्यं साधयन्तु तन्मताभिमानिनः ।
अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य (जीवस्य) मिथ्येत्युक्तिस्तु आत्मानं वैदिकं मन्यानां न शोभते । वेदप्रामाण्यवादिनो वेदप्रतिपाद्या अर्था मिथ्या इति वाक् माता वन्ध्येति वाग्वत् स्वव्याहता ।
तस्माद् वेदोक्तानां गुणानां मिथ्यात्वकथनमत्यन्तासमञ्जसमिति ।
भेदवादिनोक्तम् अधिकार्यभावः प्रत्यक्षादिविरोधश्चेत्येतदनूद्य ‘तदप्यसत् प्राक् प्रबोधात्संसारित्वाभ्युपगमात् तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य, ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् (बृ.२.४.१४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेन्न । इष्टत्वात् । अत्र पिता अपिता भवति इत्युपक्रम्य वेदा अवेदाः (वृ.४.३.२२) इति वचनादिष्यत एवास्माभिः श्रुतेरप्यभावः प्रबोधे ’ इति यत्समाधानमुक्तं तत्प्राज्ञानां वैदिकानां न मनोरमम् । तथाहि मिथ्याशब्दार्थः कल्पित इति नास्ति नासीन्नभविष्यति इति त्रैकालिक निषेध प्रतियोगीति अद्वैतिभिः स्वीकृतत्वेन मिथ्यावस्तुनः कदाप्यविद्यमानत्वप्राप्त्या संसारित्वस्य मिथ्यात्वं (कल्पितत्वं ) स्वीकुर्वतां शङ्कराचार्याणां प्रबोधात् प्राक् सत्वाभ्युपगमः स्वव्याहतः । प्राक्- प्रबोधात्संसारित्वस्याभ्युपगमेन ज्ञानात्पूर्वं संसारित्वं सदिति सिध्यति पुनः ज्ञानात्पूर्वकालेऽपि असद् इति सिध्यतीति कथनं कथं न व्याहत- मित्येतत्सचेतसो विभावयन्तु ।
( आनन्दगिरि) ’ अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वाद् भेदो दहनतुहिनवदिति अनुमानेन च, विरोधान्न तयोरैक्यमिति भेदवादिनोक्तौ शङ्कराचार्यैस् तद्विषयत्वात्प्रत्यक्षादिव्यवहारस्येत्युक्तम् । तत्र तद्विषयत्वादि- त्यस्य प्रवोधपूर्वकालीनसंसारित्वभेदादिविषयकत्वात्प्रत्यक्षादिव्यवहारस्य इति खल्वर्थः । स च न सम्भवति । प्रत्यक्षं वा अनुमानं वा नहि प्रबोधपूर्वकालीनं संसारित्वं विषयीकरोति किं तु संसारित्वादिकं विषयीकरोति इति पूर्वकालीनसंसारित्वादिकं विषयी करोतीत्युक्तिरनुभवविरुद्धैव ।
यत्र त्वस्येत्यादिना प्रबोधे प्रत्यक्षाद्यभावं दर्शयतीत्युक्तिर् ब्रह्मातिरिक्त- प्रत्यक्षादिपदार्थानां कालत्रयेऽप्यभावरूपं मिथ्यात्वं वर्णयतामद्वैतिनां विरुद्वैव । प्रबोधकालविशेषे प्रत्यक्षाद्यभावकथने पूर्वं प्रत्यक्षादीनां सत्वसिद्धेर् वस्तुतः यत्र त्वस्येति श्रुतिः प्रबोधे प्रत्यक्षाद्यभाव न दर्शयति प्रत्युत प्रत्यक्षादीनां सत्वं व्यवस्थापयतीति । अधिकं श्रुतिविचारभागे द्रष्टव्यम् ।
‘प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रससङ्ग इति चेन्न इष्टत्वात् । अत्र पिताऽपिता…. ‘वेदा अवेदा इति वचनादिष्यत एवास्माभिः श्रुतेरप्यभावः प्रबोधे’ इति यदुक्तं शङ्कराचार्यैस्तत्तु स्वव्याहतम् ।
‘अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा अत्र स्तेनोऽस्तेनो भवति भ्रूणहा भ्रूणहा चण्डालो ऽचण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णोहि तदा सर्वान्शोकान् हृदयस्य भवति’ । (बृ. ४.३.२२ ) इतिवाक्यस्य शङ्कराचार्यकृता व्याख्यैवम्-‘अत्र अस्मिन् सुषुप्ते पिता=जनको ऽपिता भवति । पुत्रं प्रति तस्य जनयितृत्वाद् यत्पितृत्वं तत्कर्मनिमित्तं तेन च कर्मणा अयमसम्बद्धोऽस्मिन्काले तस्मात् पितापुत्रसम्बन्धनिमित्तात्कर्मणो विनिर्मुक्त त्वात् । तथा पुत्रः पितुरपुत्रो भवति इति सामर्थ्याद्गम्यते । उभयोर्हि सम्बन्धनिमित्तं कर्म तदयमतिक्रान्तो वर्तते । अपहतपाप्मेति ह्युक्तम् ।
तथा माता अमाता । लोकाः कर्मणा जेतव्या जिताश्च । तत्कर्म-सम्बन्धाभावाल्लोका अलोकाः । तथा देवाः कर्माङ्गभूतास्तत्कर्म सम्बन्धात्ययाद्देवा अदेवाः । तथा वदाः साध्यसाधनसम्बन्धाभिधायका मन्त्रलक्षणाश्चाभिधायकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमव सम्बध्यन्ते पुरुषेण । तत्कर्मातिक्रमणाद् एतस्मिन्काले वेदा अप्यवेदाः सम्पद्यन्ते । स्तेनः = ब्राह्मणसुवर्णहर्ता अस्तेनो भवति’ । इत्यादिवाक्येन । पिता अपिता भवतीत्यस्य नहि पितुरभावः (त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं = कल्पितत्वम्) वार्थः । किं तु पितुः सत्वेऽपि पुत्रनिरूपितं यत्कर्मनिमित्तं पितृत्वं तत्कर्मणो मुक्तत्वेन (कर्मणामभावेन) पुत्रसम्बन्धाभावादेव अपिता भवतीत्युच्यते । यथा कस्यचित्पुरुषस्य अन्यपुरुषनिरूपितं वेदनदाननिमित्तं यजमानत्वं वेतनाभावे तस्य पुरुषस्य सत्वेऽपि यजमानत्वं निवर्तते । तथा - पुत्रत्वमातृत्वादिकमपि कर्मनिमित्तं कर्मणो निवृत्तौ पुत्रस्य मातुश्च सत्त्वेऽपि पुत्रसम्बन्धाभावान् मातृसम्बन्धाभावाद् अपुत्रो ऽमाता इत्युच्यते । एवं वेदाः कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण । तत्कर्मातिक्रमणाद् एतस्मिन् काले वेदा अप्यवेदाः सम्पद्यन्ते इति वेदानां सत्वेऽपि वेदसम्बन्धा भावादेव अवेदा इत्युक्तं न तु वेदाभावनिमित्तकमिति स्वयमेवोपनिषद्भाष्ये व्याख्याय, सूत्रभाष्ये वेदानामप्यभावोक्तिः स्वव्याहतावेदनित्यत्व प्रतिपादकवाक्यविरुद्धा च ।
‘एतत्सामगायन्नास्ते’ (तै. ३) इति प्रबोधानन्तरं मुक्तिकालेऽपि साम (वेद) गायनोक्त्या वेदाभावोक्तिस्तद्विरुद्धा चेति नेयं श्रुतिर्वेदाभावं वक्तीति प्रवोधकाले वेदाभावोक्तिः स्वव्याहता प्रमाणविरुद्धा चेत्युपेक्षणीयमेव वैदिकैः ।
वेदसत्यत्व श्रद्धालुः शङ्कते प्रत्यक्षाद्यभाव इति…. आरोपित- क्रमस्वरविशिष्टवर्णात्मकस्य वेदस्य मिथ्यात्वं दुर्वारम् । वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदस्य सत्यत्वाभावो न दोष इत्याह नेति’ इति वक्तृभीरत्नप्रभाकारादिभिरद्वैतिभिरात्मनो वैदिकत्वं सम्यग् व्युत्पादितम् । वेदस्य इमे इति व्युत्पत्या हि निष्पन्नो वैदिकशब्दो वेदसम्बन्धित्वमाह । सम्बन्धश्च वेदप्रामाण्याभ्युपगन्तृत्ववेदसत्यत्वाङ्गीकर्तृत्व- वेदोक्तधर्मसत्यत्वस्वीकर्तृत्वादिरूप इति ये वेदेन सह वेदप्रामाण्याभ्युप- गन्तृत्वादिरूपसम्बन्धवन्तस्ते किल वैदिका इति व्यपदिश्यन्ते । ये च वेदेन सह वेदप्रामाण्याभ्युपगन्तृत्वादि रूपसम्बन्धरहिताः (वेद- प्रामाण्यानभ्युपगन्तारः, वेदसत्यत्वमनङ्गीकुर्वन्तः वेदः केनचित्पुरुषेण कल्पित इति वक्तारः वेदोक्तानां ब्राह्मणादिवर्णानामाश्रमाणां धर्माणां च केनचित्कल्पितत्वं वदन्तः) ते खल्ववैदिका इत्येतावत्पर्यन्तं व्यवहार आसीत् । स च व्यवहारोऽद्वैतिनां वैदिकत्वाङ्गीकारे वेदस्य इमे वैदिकाः सम्बन्धश्च वेदस्य कल्पितत्वाङ्गीकर्तृत्वं वेदप्रामाण्यानभ्युपगन्तूत्वं वेदोक्तानां ब्राह्मणादिवर्णानां ब्रह्मचर्याद्याश्रमाणां पुण्यपापदेवतीर्थादीनां च कल्पितत्वस्वीकर्तृत्वमित्यादिः । एतादृशसम्बन्धभाजो हि वैदिकाः । ईदृशसम्बन्धविरहिता ये ‘अङ्गीकृतवेदप्रामाण्या वेदोक्तधर्माणां कल्पितत्वमनङ्गीकुर्वन्तः (सत्यत्वमङ्गीकुर्वाणाः) ते किलावैदिका नाम इत्यन्यथयितव्यः । हा हन्त ! तथा च वैदिकावैदिकव्यवहारोपि विपर्यासितव्यः । ततश्च वेदप्रामाण्याद्यनङ्गीकुर्वाणाश्चार्वाका बौद्धा जैना एव वैदिका वेदप्रामाण्यमानिनस्त्ववैदिका इति । अन्यथा बौद्धवद् वेदप्रामाण्याद्यनभ्युपगन्तॄणामद्वैतिनां वैदिकत्वं कथं स्यात् । अतो बौद्धवद् वेदप्रामाण्यमानिनस्त्ववैदिका इति । अन्यथा बौद्धवद् वेदप्रामाण्याद्यनभ्युपगन्तॄणामद्वैतिनां वैदिकत्वं कथं स्यात् । अतो बौद्धवद् वेदप्रामाण्याद्यनभ्युपगन्तृभ्य उक्तरीत्या वैदिकं मन्येभ्यः सहस्रकृत्वो विधास्यामो दूरात्प्रणामम् ।
हा कष्टमेतादृशं वैदिकत्वम् !