०१ शास्त्रदृष्ट्या तूपदेशो वामदेववत्

शास्त्रदृष्ट्या तूपदेशो वामदेववत्

शास्त्रदृष्ट्या तूपदेशो वामदेववत्

वेदार्थनिर्णायकानि ब्रह्मसूत्राण्यपि जीवब्रह्मणोर्भेदप्रतिपादकान्येव न त्वैक्यप्रतिपादकानि ।

शङ्कराचार्यप्रभृतिभिरद्वैतिभिरेव तन्मतरीत्या पश्चपञ्चाशदधिकपञ्चशतसूत्रेषु ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत् ’ (ब्र.सू.१.१.३०) ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ (ब्र.सू.४.१.३) ‘अविभागेन दृष्टत्वात्’ (ब्र.सू. ४.४.४) इति सूत्रत्रयमिदमभेदप्रतिपादकमित्युक्तत्वेन त्रिसूत्रीं विहाय द्विपञ्चाशदधिकपञ्चशत (५५२) सूत्राणि भेदप्रतिपादकानीत्यङ्गीकृतत्वेन विगतबहुलभारा वयमिदानीं त्रिसूत्र्या अपि अभेदप्रतिपादकत्वं न सम्भवति प्रत्युत भेदपरत्वमेव साधु सञ्जाघटीतीति प्रथममुपपाद्य तदनु (५५२) सूत्राणां भेदपरत्वमद्वैतिभिः कथमङ्गीकृतमित्येतमपि प्रकारं निरूपयिष्यामः । तावदिदानीं तद्वाक्यान्युदाह्रियन्ते । आनन्दगिरिटीकायां ‘जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति, किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह । ‘प्रतिपाद्यं त्विति ।

शांकर भाष्ये ‘प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तु तूपदेशो वामदेववद् इत्यादिना’ इति (शां. भा. १.३.१९) रत्नप्रभायां ‘सूत्रेषु अभेदो नोक्त इति भ्रान्तिं निवारयति - प्रतिपाद्यं त्विति ।

(आ.गि.) ‘आदिपदम् आत्मेति तूपगच्छन्तीत्यादि संग्रहार्थम् ’ । (र.प्र.) ‘आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः’ इत्यानन्दगिरिरत्नप्रभाव्याख्या सहितशाङ्करभाष्येण पञ्चपञ्चाशदधिकपञ्चशतसूत्रेषु द्वित्रसूत्राणामेवाभेद परत्वमितरेषां च भेदपरत्वमुपवर्णितम् ।

प्रकृते ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति सूत्रस्य भेदपरत्वम् अभेदपरत्वाभावं च दर्शयिष्यामः ।

ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ इति सूत्रं न जीवब्रह्मणोरैक्यबोधकम् । अस्मिन् सूत्रे जीवब्रह्मणोरैक्यबोधकपदाभावात् । तथा हि सूत्रस्य प्रतीयमानोऽर्थः यथा वामदेवस्य उपदेशः शास्त्रदृष्ट्या, तथा प्रकृतोऽप्युपदेशः शास्त्रदृष्ट्या इति । न ह्यनेन जीवब्रह्मणोरभेदः सिध्यति । न च शास्त्रदृष्ट्या तूपदेशो वामदेववद् इति सूत्रस्य यथा वामदेवः ‘अहं मनुरभवं सूर्यश्चाहं कक्षीवा’निति आत्मनः सर्वाभेददृष्ट्या ब्रह्मा भेददृष्ट्या वा मनुत्वसूर्यत्वादिकम् आत्मन उक्तवान् तथा अयमिन्द्रोऽपि अहमेव परं ब्रह्म इति शास्त्रानुसारिज्ञानेन मामेव विजानीहि इति प्राणशब्दबोध्यं परं ब्रह्म, मामेव मदभिन्नत्वेन जानीहि इत्युपदेशं कृतवान् इत्यर्थ इति शङ्कराचार्यैरुक्तत्वेन, जीवब्रह्मणोरैक्यं सिध्यतीति वाच्यम् । एतावदर्थबोधकपदाभावात् । अस्य अर्थस्य प्रमाणवाधितत्वाच्च । अहमेव परं ब्रह्मेति वेदे सूत्रे गीतायां च कुत्राप्यनुक्तत्वेन अहमेव परं ब्रह्म इति दृष्टेः शास्त्रानुसारित्वाभावेन शास्त्रदृष्ट्या इति पदस्य तथा अर्थकरणानुपपत्तेः शास्त्रदृष्टयेति पदेन तादृशार्थस्य प्रतीयमानत्वाभावाच्च । ‘य आत्मनि तिष्ठन् …’ ‘य आत्मानमन्तरो यमयति’ ‘यः सर्वभूतेषु तिष्ठन् …’ ‘यः सर्वाणि भूतानि अन्तरो यमयति, ’ इत्याद्यनेकवाक्यैः परमात्मन इन्द्रादिसर्वनियामकत्वस्योक्तत्वेन शास्त्रजन्यान्तर्यामिदृष्टचेत्यर्थसम्भवेन यथा वामदेवो ऽन्तर्यामिपरमात्मनः दृष्ट्या अहं मनुरभवं सूर्यश्चेति उक्तवान् तथा इन्द्रः मां मदन्तर्यामिणं परमात्मानं विजानीहि इत्यभिप्रायेण मामेव विजानीहि इत्युक्तवान् इत्यर्थस्य युक्तत्वात् । किं च ‘अहं मनुरभवं सूर्यश्चेति’ (ऋ. १५-१) मन्त्रद्रष्टुर् वामदेवस्य आत्मनः (स्वस्य) सार्वात्म्यज्ञानं वा परमात्माभेदज्ञानं वा नासीदेव । तथाहि तेनैव-

**गर्भे तु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जानि॑मानि॒ विश्वा॑ । **

श॒तं मा॒पु॒रऽआय॑सीररक्ष॒न्नध॑श्ये॒नो ज॒वता॒निर॑दीयम् ॥ १ ॥

(ऋ.३.६.१६) पदविभागः - गर्भे नु सन् अनु एषाम् अवेदम् अहं देवानां जनिमानि विश्वा शतं मा पुर आयसी ः अरक्षद् अधश्येनः जवसानिर् अदीयम् ।

गर्भे नु गर्भ एव । सन् विद्यमानोऽहं वामदेवः । एषाम् इन्द्रादीनां देवानां विश्वा विश्वानि, सर्वाणि, जनिमानि जन्मानि अन्ववेदम् आनुपूर्व्येणाज्ञासिषं, परमात्मनः सकाशात् सर्वे देवा जाता इत्यवेदिषमित्यर्थः ।

**नघासमामपजोषं’ जभाराभीमा॑ सत्वक्ष॑सा वीर्येण । **

ई॒र्मापुरंधिरजहादरा॑तीरु॒तवातऽ अतर॒च्छूशु॑वानः ॥ २॥

पदविभागः न घ सः माम् अप जोषं जभार अभि ईम् आस त्वक्षसा वीर्येण ईर्मा पुरंधिर् अजहाद् अरातीर् उत वातान् अतरत् शूशुवानः ।

सः गर्भः । मां वामदेवं जोषं पर्याप्तं नघ नैवापजभार अपजहार । गर्भेऽपि वसतो मे मोहो माभूदित्यर्थः । अहं तु ईम् इदं गर्भस्थं दुःखं त्वक्षसा तीक्ष्णेन, वीर्येण ज्ञानसामर्थ्येन । अभ्यास अभ्यभवम् । ईर्मा सर्वस्य प्रेरकः पुरंधिः पुरां धारकः परमात्मा अरातीर् गर्भसंस्थितान् अजहाद् अत्यजज् जघान । उतापि च शूशुवानः वर्धमानः परिपूर्णः परमात्मा वातान् गर्भक्लेशकरान् वायून् अतारीत् ॥ २ ॥

इत्युत्तरमन्त्राभ्यां सर्वे देवाः परमात्मनः जाताः, सर्वस्य प्रेरक ः परमात्मा अरातीर् गर्भसंस्थितान् शत्रूनजहात् । परिपूर्णः परमात्मा वातान् गर्भक्लेशकरान् वायूनतरद् इति परमात्मना स्वस्य देवानां च भेदः ज्ञातः, परमात्मनो ऽन्तर्यामित्वं च ज्ञातं वामदेवेन इति स्पष्टमुक्तत्वेन, विद्यारण्यभाष्येऽपि एवमेव व्याख्यातत्वेन च वामदेवस्य अहमेव परं ब्रह्म इति ज्ञानं नासीद् इति सिद्ध्या वामदेववदिति सूत्रगतपदस्य यथा वामदेवो ऽभेददृष्ट्या अहं मनुर् अहं सूर्यो ऽहं कक्षीवान् इति उक्तवान् तथा इन्द्रोऽपीत्युक्तिरसङ्गतैव ।

अद्वैतमतरीत्यापि विशिष्टयोरैक्यायोगाद् विशिष्टस्य वामदेवस्य विशिष्टैर् मन्वादिभिर् ऐक्यासम्भवेन अहं मनुर् अहं सूर्य इत्यादिज्ञानस्य भ्रमत्वापत्तेः । न हि ज्ञानिनः भ्रमः सम्भवार्हः ।

न च अहंमन्वादिपदानां चिन्मात्रे लक्षणामङ्गीकृत्य चिच् चिद् अभवम् इति वा चिद् इति अखण्डबोधो वा अभिप्रेतस्तस्य वाक्यस्येति वाच्यम् । तत्त्वमस्यादिवाक्यविचारोक्तरीत्या लक्षणाद्यसम्भवाद्यनेकदोषदुष्टत्वेनतादृशबोधस्य स्वीकर्तुमशक्यत्वात् । मुख्यार्थस्य बाधे अन्यार्थस्य इतर प्रमाणानुकूलस्य इतर प्रमाणावाधितस्यैव च स्वीकार्यत्वेन अभेद- प्रतिपादकप्रमाणानामभावेन भेदबोधकानां प्रमाणानां सत्वेन तदनुकूलतया तदविरुद्धतया च ‘अहं’ मदन्तर्यामी, मनुर् मन्वन्तर्यामी इत्याद्यनेकार्थानां सम्भवेन त्वदभिमतार्थस्य स्वीकारायोगाच्च ।

किं च अद्वैतिमते सर्वस्य प्रपञ्चस्य ब्रह्माज्ञानकल्पितत्वाद् अहमेव परं ब्रह्मेति ज्ञाने जाते ब्रह्माज्ञाननिवृत्त्या सर्वस्यापि प्रपञ्चस्य निवृत्त्या ‘अहं भूमिमददामार्याय, अहं वृष्टिं दाशुषे मर्त्याय, अहमपो अनयं वावशानामम देवासो अनुकेतमापन्’ इत्यादिभिरुत्तरैर्मन्त्रैर् उक्तानि - आर्याय मनवे भूमिदानं, यज्ञकर्त्रे यजमानाय वृष्टिदानं, उदकानां सर्वदेशं प्रति प्रापणं, शम्बरपुरनाशनम् इत्यादि कर्माणि कथं घटेरन् । अतो ऽद्वैतमतरीत्यापि वामदेवस्य ब्रह्मात्मैक्यज्ञानं नासीदित्येव वक्तव्यम् । तथा च ’ वामदेवः यथा सार्वात्म्यदृष्टया (ब्रह्माभेद दृष्टचा) अहं मनुरभवमित्याद्युक्तवान् तथा इन्द्रोऽपीति अद्वैतिनां कथनमयुक्तमेव । एवम् इन्द्रस्यापि यदि अहमेव परं ब्रह्म इति ज्ञानं तदा ब्रह्माज्ञानकल्पितस्य ब्रह्मातिरिक्तस्य सर्वस्यापि निवृत्यापत्या मामेव विजानीहि इत्याद्युक्तिरयुक्तैव स्यादिति नेन्द्रस्यापि अद्वैतमतरीत्या ‘अहमेव ब्रह्मेति ज्ञानमासीत्’ इति वक्तुं शक्यमिति नेदं सूत्रं जीवब्रह्मणोरैक्यबोधकम् । किंचैतदधिकरणीय- पूर्वोत्तरसूत्रपर्यालोचनयापि जीवब्रह्मणोरभेदः नैतत्सूत्रार्थतया वक्तुं शक्यः । तथा हि ‘प्राणस्तथानुगमात्’ ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्’ (ब्र.१.१.२) ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ ‘जीवमुख्य- प्राणलिङ्गादिति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ इति चतुःसूत्रात्मकमिदमधिकरणम् । तत्र प्राणस्तथानुगमादिति प्रथमसूत्रे-

**प्राणोऽस्मीत्यत्र वाय्विन्द्रजीवब्रह्मसु संशयः । **

चतुर्णां लिङ्गसद्भावात्पूर्वपक्षस्त्वनिर्णयः ॥ १ ॥

**ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा । **

अन्येषामन्यथासिद्धेर्व्युत्पाद्यं ब्रह्म नेतरत् ॥ २॥

इति अधिकरणार्थसङ्ग्राहकाभ्याम् अद्वैतिभीरचिताभ्यां श्लोकाभ्यां मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि सम्प्लवन्ते तत्कतमदत्र लिङ्गं लिङ्गाभासं च कतमदित्यत्र विचार्यते इत्यादि भामतीवाक्येन च सहोवाच प्राणोऽस्मि प्रज्ञात्मा (कौ.३.१.२.३) इत्यादि वाक्यानि विचार्यत्वेनात्र उपक्षिप्य वाविन्द्रजीवब्रह्मणां लिङ्गानां विद्यमानत्वेनायमेवात्र प्रतिपाद्यत इति निर्णयो नैव शक्यत इत्यादि पूर्वपक्षं च प्रापय्य ब्रह्मलिङ्गाद्ब्रह्मैवात्र प्रतिपाद्यते इतरत् = ब्रह्मभिन्नं प्राणवाय्विन्द्रजीवादिकं न प्रतिपाद्यत इति सिद्धान्तितत्वेन स्पष्टं प्राणवाय्विन्द्रजीवानां परमात्मना भेदस्य कथितत्वात् । यदि प्राणेन्द्रजीवानां परब्रह्मणा ऐक्यम् अभिप्रेतं स्यात् तदा तथा पूर्वपक्षकरणमयुक्तं स्यात् । तथा अज्ञानवशात् पूर्वपक्षे कृतेऽपि इन्द्रादिजीवानां परमात्मना ऐक्यमेवेति समाधानं कर्तव्यं स्यात् । तथा अकृत्वा ब्रह्मैव प्राणशब्दवाच्यं नान्ये जीवादय इत्युक्तिरसङ्गता स्यात् । तस्मान्नेदं सूत्रं जीवब्रह्मणोरैक्यबोधकम् । नाप्येतदधिकरणान्तर्गतं ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्वन्धभूमा ह्यस्मिन्’ (१.१.२९) इति सूत्रं जीवब्रह्मणो रैक्यबोधकम् । तथा हि । तत्सूत्रे प्राणोऽस्मि प्रज्ञात्मा इति इन्द्रेण आत्मनः (स्वस्य) प्राणत्वेनोपदेशाद् ब्रह्मण्य- सम्भाव्यमानानां त्वाष्ट्रवधादिधर्माणाम् इन्द्रसम्बन्धिनां प्राणे कथितत्वेन इन्द्र एव प्राणशब्दवाच्यः न ब्रह्म इति पूर्वपक्षं प्रापय्य ‘यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुरिति तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेव एता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः’ स एष प्राण एव प्रज्ञानन्दोऽजरोऽमृत इति, स य आत्मेति विधानात् । इति च अध्यात्म (परमात्म) सम्बन्धबाहुल्यस्यैतदध्याये दृश्यमानत्वेन ब्रह्मोपदेश एवायं न देवतात्मोपदेशः (इन्द्रोपदेशः) इति सिद्ध्यति इति इदमपि सूत्रं भेदबोधकमेव ।

‘जीवमुख्यप्राणलिङ्गादिति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्, इत्युत्तरसूत्रेऽपि ‘प्राणोऽस्मि प्रज्ञामा’ इत्यादिवाक्येषु जीवलिङ्गानां प्राणलिङ्गानां ब्रह्मलिङ्गानां च श्रवणाज् जीवः प्राणो ब्रह्म च प्रतिपाद्यतां न ब्रह्मैवेति पूर्वपक्षयित्वा प्राणशब्दस्य प्राणजीवब्रह्मपरत्वे अङ्गीकृते उपासात्रैविध्यप्राप्तेर् ब्रह्मलिङ्गानां सत्वात् तेषामन्यपरतया नेतुमशक्यत्वात् ‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (का. २.५.५) इत्यादिश्रुत्या प्राणादि व्यापारस्य परमात्मायत्तत्वावगमात् प्राणाद्यन्यलिङ्गानां परमात्मनि नेतुं शक्यत्वेन प्राणशब्देन ब्रह्मैव प्रतिपाद्यं, न जीवप्राणावपि इति शङ्करेण सिद्धान्तितत्वेन उत्तरसूत्रेऽपि जीवपरमात्मनोर्भेदस्यैव बोधितत्वेन मध्यस्थं शास्त्रदृष्ट्येति सूत्रमपि अद्वैतव्याख्यानरीत्याऽपि न जीवब्रह्मणोरैक्यबोधकमिति । एवं च एतदधिकरणान्तर्गताभ्यां ‘प्राणस्तथेति’ न वक्तुरिति चेति पूर्वसूत्राभ्याम् इन्द्रब्रह्मणोर्भेदस्यैव कथने कथं ‘प्राणोऽस्मि प्रज्ञात्मा’ इति इन्द्रेण प्राणशब्दबोध्यपरमात्माभेदोपदेशः कृत इति शङ्कायां तन्निवारणार्थं प्रवृत्तं ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ इति सूत्रं न प्राणब्रह्मणोरैक्यं वक्तुं प्रवृत्तमिति कथयितुं शक्यम् । यत एतदधिकरणीयप्रधानेन प्राणस्तथेति सूत्रेण, तथा पूर्वसूत्रोक्तं भेदं व्यवस्थापयद्भ्यां ‘न वक्तुरिति, जीवमुख्यप्राणेति,’ पूर्वसूत्राभ्याम् अनेकश्रुतिसूत्रगीतारूपप्रमाणैश्च विरुद्धम् । तस्मात् शास्त्रदृष्ट्या इत्यस्य ‘य आत्मनि तिष्ठन्, य आत्मानमन्तरोयमयति, यः सर्वेषु भूतेषु तिष्ठन् … यः सर्वाणि भूतानि अन्तरो यमयति, ’ इत्यादि शास्त्रजन्यया नियम्य मृत्तिकावाचिमृच्छब्देन तन्नियामकदेवतोक्तिवत् स्वान्तर्यामी (स्वनियामकः) परमात्मा इति दृष्ट्या प्राणोऽस्मि प्रज्ञात्मा इत्युपदेशः यथा परमात्मना जीवात्मनः स्वस्य च भेदज्ञानवतो वामदेवस्य यथा अन्तर्यामिदृष्ट्या अहं मनुरभवं सूर्यश्चेति उपदेशस् तद्वद् इति सूत्रार्थस्यैव इतरप्रमाणानुकूलत्वेन इतर प्रमाणाविरुद्धत्वेन च युक्तत्वान् नेदं सूत्रं जीवब्रह्मणोरभेदबोधकं किन्तु भेदबोधकमेवेति ।