जयताज् जानकीजानिः कल्याणगुणवारिधिः । दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा
॥ श्रीरामचन्द्राय नमः ॥
॥ भेदपराण्येव खलु ब्रह्मसूत्राणि ॥
मङ्गलं
जयताज् जानकीजानिः कल्याणगुणवारिधिः ।
दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा ॥ १ ॥
मायावादतमोव्याप्तिर् अञ्जसा येन वारिता ।
प्रकाशितं च तत्त्वं तं भजे मध्वदिवाकरम् ॥ २ ॥
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
लभन्ते मानुषा नूनं तान् जयादिगुरून् भजे ॥ ३ ॥