॥ अथ तृतीयः पादः ॥

पूर्वत्र ब्रह्मनाड्योत्क्रान्तानां ब्रह्मप्राप्तौ यद्गतिस्मरणं विद्यान्तयोक्तं सा गतिस्तद्गम्यं च अत्रोच्यत इति पूर्वपादानन्तर्यस्य ध्येयम् । नच गतिगम्ययोः द्वयोरप्युक्तौ पादभेदप्रसङ्गः शङ्क्यः । चरमगम्येन सहितस्यैव मार्गत्वेन मार्गरूपैकार्थत्वेऽपि मार्गैकदेशचरमगम्यस्य पृथग्विवक्षया गम्यं चोच्यत इत्युक्तेः ।

॥ ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ १ ॥

पूर्वत्र यद्गतिस्मरणमावश्यकमित्युक्तं सा गतिः किं अर्चिर्वायूभयप्राथमिका अचिर्ःप्राथमिका वेति चिन्ता । तदर्थं श्रुतिद्वयं निरवकाशमुत सावकाशमिति । तदर्थमुभयप्राथम्यं गतेरविरुद्धमुत विरुद्धमिति । तदर्थं सा किं द्विरूपा उतैकरूपेति गतेरधिकारिभेदेनाक्षिप्तयोर्द्वयोरपि प्राथम्यविरोधेन निरवकाशोत सावकाशेति । “ते अर्चिषामभिसम्भवन्ति’ (छां।५-१०-१) “स वायुमागच्छति’ इति (बृ।७-१०-१) श्रुतिद्वयेन अर्चिर्वायूभयप्राथमिका गतिरिति प्राप्ते सिद्धान्तः । “द्वावेव मार्गौ प्रथितावर्चिरादिविपश्चिताम् । धूमादिः कर्मिणाम्’ इति स्मृतावेक एव मागर्ः । स चार्चिरादिक एव न तु वाय्वादिक इति प्रथितपदेन प्रसिद्धत्वोक्त्या “तेऽर्चिषमिति श्रुतेः प्राबल्यात्तदनुरोधेन अर्चिर्नामिकदेवताप्राथमिका एकैव ब्रह्मगतिर्नानेका । स वायु मा गच्छतीतिश्रुतिस्तु प्रबलश्रुत्यनुरोधेन अर्चिरनन्तरप्राप्त्यर्थतयोपपन्ना । शिष्यं टीकायाम् । फलं तु अधिकारिभेदेन मार्गद्वयस्य व्यवस्थितत्वेऽपि अहमत्राधिकारीत्यनिर्णयाद्गतिस्मृत्यनुपपत्तिस्तत्समाधिश्चेति ॥ १ ॥

॥ ॐ वायुशब्दादविषविशेषाभ्याम् ॐ ॥ २ ॥

पूर्वत्र ब्रह्मप्राप्तिमार्गे प्रथमप्राप्यदेवतादिनिर्णयः कृतः । अत्र द्वितीयप्राप्यदेवतानिणर्यः क्रियत इति सङ्गतिः । पूर्ववैषम्येण शङ्कनाद्वा सङ्गतिः । पूर्वप्रकृतार्चिरादिमार्गे वायुदेवताहर्देवतेत्युभयं द्वितीयप्राप्यमुत वायुदैवतमेवेति चिन्ता । तदर्थं “स वायुम्’ इति (बृ।७-१०-१) “अर्चिषोऽहरिः’ इति (छां।५-१०-१) श्रुतिद्वयं द्वयोर्द्वितीयप्राप्यत्वप्रापकं भवत्युत नेति । तदर्थं किं द्वौ मार्गावुतैक एवेति । पूर्वपक्षस्तु । पूर्वत्र द्वावेव मार्गावितिविशेषवचनेन अर्चिष एव प्राथम्यावगमेऽपि इह वायोरेव द्वितीयप्राप्यत्वे विशेषवचनाभावात् “अर्चिषोऽहः’ इति “स वायुम्’ इति श्रुतिद्वयस्यापि प्रामाण्यात् मार्गभेदेन द्वयोरपि द्वितीयप्राप्यत्वे विरोधाभावाच्छतिद्वयबलात् अहर्वायू द्वावपि द्वितीयप्राप्याविति । सिद्धान्तस्तु । “स वायुमागच्छति’ इति सामान्यवचनेन वायोश्च प्राप्तप्राथम्यस्य “द्वावेव मार्गौ प्रथितौ’ इत्युक्तप्रसिद्धिविरोधेन त्यागेऽपि द्वितीयप्राप्यत्वस्य न्यायप्राप्यत्वात् “स इतो गतो द्वितीयां गतिं वायुमागच्छति’ इति विशेषश्रुतेश्च वायुरेव द्वितीयप्राप्यः अहः तदनन्तरप्राप्यमिति । मार्गद्वयेन द्वयोर्द्वितीयप्राप्यत्वं तु द्वावेवेतिवचनोक्तप्रसिद्धिविरोधादेव बाधितमिति । फलं तु पूर्वत्रेवेति ॥ २ ॥

॥ ॐ तटितोऽधि वरुणः सम्बन्धात् ॐ ॥ ३ ॥

“तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ् एति मासांस्तान् । मासेभ्यः संवत्सरम्’ इत्यादि छन्दोगश्रुत्याद्युक्त (छां।५-१०-१,२) ब्रह्मप्राप्तिमागे यत्र विवादः तदाद्यं द्वितीयं च प्राप्यं निर्णीतम् । अन्यत्र संवत्सरपर्यन्तं क्रमप्राप्येषु विवादाभावान्निर्णय एव । संवत्सरादनन्तरं प्रजापतिलोकं गन्तुं किं तटिद्वरुणौ द्वावपि मार्गभेदेन प्राप्यावुत मार्गैक्येन तटिल्लोकं प्राप्य वेति चिन्ता । तदर्थं “संवत्सराद्वरुणलोकम्’ इति “संवत्सरात्तटितम्’ इति च श्रुतिद्वयं तदुभयप्राप्तिप्रापकं न वेति । नेत्यत्र प्रमाणं नास्त्युतास्तीति । पूर्वत्र द्वितीयां गतिं वायुमिति विशेषवचनेन वायोर्द्वितीयप्राप्यत्वनिर्णयेपीह तादृशप्रमाणाभावात् श्रुतिद्वयप्रामाण्यादधिकारिभेदाधीनमार्गभेदेन द्वयोरपि प्राप्य्वोपपत्तेः द्वावपि लोकौ संवत्सरमानिलोकानन्तरं प्राप्याविति सङ्गतिपूर्वपक्षौ । सिद्धान्तस्तु । “तटितो वरुणं गच्छति तटिता ह्यूह्यते वरुणलोकः’ इति विशेषश्रुत्या तटिदनन्तरमेव सयुक्तिकं वरुणलोकस्य प्राप्यत्वोक्तेः मार्गद्वयस्य च द्वावेवोत्यत्रोक्तब्रह्मप्राप्तिमार्गैक्यप्रसिद्धिविरोधयुक्ततया द्वयोरेकस्मिन्मार्गै युगपत्प्राप्यत्वविरोधेन श्रुतिद्वयस्य द्वयोः पौर्वापर्येणैव प्राप्तिप्रापकत्वार्थकत्वस्यावश्यम्भावात् पूर्वं तटिल्लोकं प्राप्य पश्चाद्वरुणलोकं प्रा नोतीति । फलं तु मार्गानिर्णयात्तदनुस्मृत्यनुपपत्तितत्समाधी ॥ ३ ॥ ण्।ं-१४ ॥ ॐ अतिवाहिकस्तल्लिङ्गात् ॐ ॥ ४ ॥

॥ ॐ उभयव्यामोहात्तत्सिद्धेः ॐ ॥

पूर्वत्र भिन्नवाक्यगतभिन्नपदार्थयोस्तटिद्वरुणयोः पौर्वापर्योक्तौ अत्रैकवायुशब्दार्थयेरातिवाहिकमुख्ययोः पौर्वापर्यमुच्यत इति सङ्गतिः । द्वितीयां गतिं वायुमागच्छतीतिश्रुतौ वायुः किमातिवाहिकोऽथ मुख्यवायुरिति चिन्ता । तदर्थं तस्य आतिवाहिकत्वे मुख्यस्य प्राप्यत्वं न प्रा नोत्युत प्रा नोतीति । तदर्थं “द्यौ र्वाव विद्युत्तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इतिश्रुतवायुशब्दे मुख्यो वाऽऽतिवाहिको वेति सन्देहेन प्राक्तनेऽपि सन्देहादिनिर्णयः अथ मुख्य इति निर्णय इति । पूर्वत्र तटितो वरुणं गच्छतीति सयुक्तिकवचनबलेन पौर्वापर्यनिर्णयेऽपि इह पूर्वः आतिवाहिकः चरमो मुख्यः इति वा पूर्वो मुख्यश्चरम आतिवाहिक इति वा सन्देहे निर्णयाभावात् पूर्वस्यातिवाहिकत्वज्ञापकाभावात् सोमाग्नीन्द्रध्रुवानामपि मार्गे क्रमात्प्राप्यत्वोक्त्या तारतम्यक्रमस्यात्राविवक्षितत्वेन मुख्यस्यापि द्वितीयप्राप्यत्वसम्भवात् मुख्यार्थत्वाच्च मुख्यवायुरेव द्वितीयप्राप्य वायुशब्दार्थो नातिवाहिकः । तथात्वे मुख्यस्य प्राप्यत्वाभावप्रसङ्गादिति पूर्ववैषम्येणापि शङ्कनात्सङ्गतिश्च । सिद्धान्तस्तु । पूर्वप्राप्यत्व, विद्युच्छब्दितवाणीपतित्वरूपलिङ्गाभ्यां पूर्वं आतिवाहिकश्चरमो मुख्य इति निर्णयसम्भवात् । मुख्यार्थस्यापि पूर्वप्राप्यत्वलिङ्गेन “उत्क्रान्तस्तु शरीरात्स्वात्’ इत्यादि भाष्योक्त (ब्रह्मतर्क) वचनेन च त्यागसम्भवात् पूर्वप्राप्य आतिवाहिक एवेति । फलं तु “इयदामननात्’ (ब्र।सू।३-३-३५) इत्यत्रोकतप्राणाधिकार्युत्तमत्वस्यायोगस्तत्समाधिश्चेति ॥ ४ ॥

॥ ॐ वैद्युतेनैव ततस्तच्छतेः ॐ ॥ ५ ॥

पूर्ववैषम्येण शङ्कनात्सङ्गतिः । प्रकृतब्रह्मप्राप्तिमार्गे मुख्यवायोरनन्तरं, ब्रह्मणोऽर्वाक् प्राप्योऽस्ति न वेति चिन्ता । तदर्थं मुख्यब्रह्मणोरन्तराले प्राप्याङ्गीकारे बाधकं नास्त्युतास्तीति । पूर्वत्र दिवस्पतित्वबाधकेन चरमवायोरातिवाहिकत्वायोगेऽपि इह मुख्यब्रह्मान्तराले कस्यचित्प्राप्यस्याङ्गीकारे बाधकाभावान्मुख्यवायुः स्वस्मादन्तरमपि ब्रह्मेतरप्रायान्तरयुक्तः अधिकारित्वात्प्राचीनाधिकारिवदित्यनुमानाच्च । नच इयदामननादित्यत्रोक्ताधिकायरुत्तमत्वेन बाधकं तद्बाधितं चानुमानमिति शङ्क्यम् । “सोमं वैश्वानरं चेन्द्रं ध्रुवम्’ इति पूर्वत्र भाष्योक्त(ब्रह्मतर्क) स्मृताविन्द्रादवरस्य ध्रुवस्येन्द्रानन्तरं प्राप्त्युक्त्योत्तमत्वक्रमानुरोधेन प्राप्तिक्रमाभावात् वायोरनन्तरमपि तदन्यः कश्चित्प्राप्योऽस्त्विति प्राप्ते सिद्धान्तः । अधिकार्युत्तमत्वस्य प्राप्यान्तराभ्युपगमाबाधकत्वेऽपि “तत्पुरुषो मानवः’ “स एतान् ब्रह्म गमयति’ (छां।५-१०-२) “विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः’ (बृहत्तन्त्र) इत्यादिश्रुतिस्मृत्यवगतब्रह्मप्रापकत्वं वायोः श्रुतं अन्तराले प्राप्यान्तरकल्पनं बाधत इति स एवान्तिमप्राप्यः । अन्यस्यान्तिमप्राप्यत्वे तस्यैव ब्रह्मप्रापकत्वापत्तेः राजादौ तथा दर्शनादिति । फलं तु वायोरतिशयेन प्राधान्यायोगः तत्समाधिश्चेति ॥ ५ ॥

॥ ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ ६ ॥

॥ ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ॥ ॐ स्मृतेश्च ॐ ॥ ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ ॐ दर्शनाच्च ॐ ॥ ॐ न च कार्ये पतिपत्त्यभिसन्धिः ॐ ॥ ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॐ ॥ ॐ विशेषं च दर्शयति ॐ ॥

ब्रह्मप्राप्तिमार्गे चरमप्राप्तिनिरूपणाद्वा । “स एनान् ब्रह्म’ इति पूर्वत्रोदाहृतश्रुतिगतब्रह्मपदार्थनिरूपणाद्वा पूर्वसङ्गतिः । अत्र स एनान् ब्रह्मेति श्रुतं ब्रह्म किं चतुर्मुख एवाथ ब्रह्मैव उतोभयमपीति चिन्ता । तदर्थमुभयमिति पक्षे एकैकपक्षोक्तसाधकबाधके समीकर्तुं न शक्येते किं वा शक्येते इति । तथोभयप्राप्तिपक्षे युगपदुभयप्राप्तेरयोगात्तत्र क्रमे प्रमाणं नास्त्युतास्तीति । पूर्वपक्षस्तु । चतुर्मुख एवेदं श्रुत्युक्तं ब्रह्म । यदिह वाव परमभिपश्यति प्रा नोति प्रा नोति ब्रह्माणं चतुर्मुखम्’ इति (कौषारव) श्रुत्या “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ॥’ इति स्मृत्या “तथाऽपि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते’ इत्यादिना चतुर्मुखमुक्तिपयर्न्तं बन्धस्य सन्ततत्वेन ततोर्वाक् चतुर्मुखस्यैव श्रवणादिसाधनैरपरोक्षीकृतत्वात्तस्यैव प्राप्तेर्युक्तत्वादित्युपपत्त्या च चतुर्मुखप्राप्तेरेवावगमेन बाधकेन मुख्यार्थस्यापि परब्रह्मणस्त्यागेन अमुख्यार्थविरिञ्चग्रहणोपपत्तेः । नच “ब्रह्मविदा नोति परम्’ इति (तै।२-१) परब्रह्मप्राप्तिश्रुतिविरोधः । तस्य सामान्यवाक्यस्य प्रागुक्तविशेषश्रुत्यादिना चतुर्मुखप्राप्त्यनन्तरं अचिरेण प्रलयकाले तेन सह परमा नोतीति सामीप्यार्थतया सावकाशत्वसम्भवादित्याद्यः । स एनान् ब्रह्मेत्यत्र ब्रह्मपदार्थः परब्रह्मैव ब्रह्मशब्दस्य तत्र मुख्यत्वात् । तस्यैव श्रवणादिसाधनैरेवापरोक्षीकृतत्वाच्चतुर्मुखे च श्रवणादिसाधनार्जितप्रतिपत्तेः चतुर्मुखं प्रा नुवानीतीच्छायाश्चाभावादिति द्वितीयः । उभयस्वीकारपक्षस्य चोक्तहेतूनां समीकरणायोगात् युगपत्प्राप्त्ययोगश्चेति । क्रमप्राप्तिपक्षस्य च मानाभावेनायोगादिति । सिद्धान्तस्तु चतुर्मुख एव परब्रह्मैवेत्यन्यव्यावृत्त्या तत्तन्मात्रार्थकत्वे विशेषहेत्वभावेनोक्तहेतूनां तत्तदर्थग्रहणमात्रस्यैवोपपादकत्वात् उभयमपि ब्रह्मशब्दार्थत्वेन अत्र प्राप्तिश्रुतौ विवक्षितम् । यत्तु चतुर्मुखग्रहणे प्रतिपत्त्यभिसन्ध्यभावरूपं बाधकमुक्तं यच्च परब्रह्मग्रहणेन “गत्युपपत्तेः’ इत्यत्र बन्धस्य सन्ततत्वरूपबाधकमुक्तं तत्राद्यं प्रतीकालम्बनानां परप्राप्त्यनङ्गीकारेण तेषां प्रतिपत्त्यादेरभावान्न बाधकम् । द्वितीयं “अप्रतीकाश्रया ये हि ते यान्ति परमेव तु’ इति (गारुड) प्रमाणबलेन अमुक्तस्थानगतपरब्रह्मप्राप्त्यङ्गीकारेण चोपपन्नम् । चतुर्मुखप्रप्तिमतां च प्रतीकालम्बनानां अस्त्येव कार्ये प्रतिपत्त्यादीति तेषामपि तन्न बाधकमित्यधिकारिभेदेन पक्षद्वयोक्तहेतूनां उभयार्थत्वाङ्गीकारे समीकर्तुं शक्यत्वात् । “अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ययैव गच्छेद्ब्रह्म सलोकताम् ॥’ इत्युक्तेः याग्यताक्रमेणैव प्रलये पूर्वं च तयोः प्राप्तिरिति । फलं तु गम्यानिर्णयनिर्णयाभ्यां गत्यनुस्मृतितत्समाधी ॥ ६ ॥

॥ इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य तृतीयः पादः ॥