॥ अथ द्वितीयः पादः ॥

ज्ञानिनोऽतःपदोक्तमोक्षफलाय ज्ञानभोगाभ्यां कर्मक्षय उक्तः पूर्वपादे । अत्र तु कमर्क्षयसाध्यदेहक्षयक्रम उच्यते इति पूर्वानन्तर्यमस्य पादस्य ध्येयम् ।

॥ ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ १ ॥

॥ ॐ अत एव च सर्वाण्यनु ॐ ॥

॥ ॐ ज्ञानिनां देहक्षयो द्विविधः । देवानां स्वोत्तमेषु लयोऽन्येषां ब्रह्मनाड्योत्क्रमणेनेति । तत्र देवानामधिकार्युत्तमत्वादादौ तेषां “अविभागो वचनात्’ (ब्र।सू।४-२-१६) इत्यतः प्राक्तनसप्तभिरधिकरणैः देहलयोभिधीयते । तत्र वाग्देव्या भगवत्प्राप्तिलक्षणमोक्षाय मनोदेवे लयोऽशक्यनिर्णयोऽथ शक्यनिर्णय इति चिन्ता । तदथर्ं मनोवेदस्य उत्तमत्वं निर्णेतुमशक्यमुत शक्यमिति । तदर्थं “वाक्पूर्वरूपं मन उत्तररूपम्’ “मनः पूर्वरूपं वागुत्तररूपम्’ (ऐ।३-१-१) इति व्यामिश्रोक्तिः वाङ्मनसयोरन्यजन्मोक्त्या समप्राधान्यावगमेन मनस उत्तमत्वनिर्णयाय “विपर्ययेण तु क्रमोऽत उपपद्यते च’ (ब्र।सू।२-३-१४) इत्यत्र स्वसृष्यतया स्वोत्तमदेव एव लयस्य वाच्यत्वात् वाचो मनोलयः अशक्यनिर्णय इति । सिद्धान्तस्तु । वाचो मनोवश्यत्वस्य सर्वप्रत्यक्षसिद्धत्वात् “मनसा वाग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ (ऐ।३-१-१) इति वाक्प्रवृत्तेः मनःप्रवृत्तिपूर्वकत्वयुक्त्युपेततया विशेषणाच्च मनस उत्तमत्वनिर्णयसम्भवात् वाग्देव्या मनोदेवे लयोऽस्त्येवेति । नच व्यामिश्रोक्तिविरोधः । तस्याः संहितायाः पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानभावे च माण्डूकेयतज्ज्येष्ठपुत्रयोर्विवादपरत्वात् । व्यक्तमेतदैतरेयभाष्ये । फलं तु पूर्वपक्षे वाग्देव्याः मोक्षाभावेनानियमः सर्वेषामित्युक्त्याक्षेपः । सिद्धान्ते तत्समाधिः । अत्र वाग्देवी वारुणी सौपर्णी च । मनोदेवः शेषः सुपर्णश्च ज्ञेयाः । एतेन “अग्नौ सर्वे देवा विलीयन्ते अग्निरिन्द्रे’ इत्यादिश्रुतिबलात्सर्वदेवानामपि स्वस्वोत्तमदेवेषु लयः सिद्धो भवति । तत्र व्यामिश्रोक्त्यादिरूपबाधकाभावादिति । अत्र टीकायां मनसि लीयते न वेति सन्देहवाक्ये इत्यनिर्णयोऽथ लीयत एवेति निर्णय इति शेषो वा नोभयथापि सम्भवतीति पूर्वपक्षप्रवृत्तिरिति वा तस्याभिप्रायो ध्येयः । तेन न पूर्वपक्षानानुगुण्यमितिशङ्का कार्या ॥ १ ॥

॥ ॐ तन्मनः प्राण उत्तरात् ॐ ॥ २ ॥

अत्राधिकरणत्रये वाङ्मनसि लीयत इत्यादिश्रौतक्रमात्क्रमो ध्येयः । अत्र मनोदेवस्य प्राणदेवादुत्पत्तिर्नास्त्युतास्तीति । पूर्वपक्षस्तु । प्राणदेवस्य चतुर्मुखस्य सर्वत्र प्रवृत्तिहेतुत्वमिव मनोदेवस्यापि शेषादेः सर्वत्र प्रवृत्तिकारणत्वेन तत्तदनुभवसिद्धान्वयव्यतिरेकाभ्यां सिद्धतया चेष्यकत्वसाम्ये मनोदेवस्य प्राणादेवादनूनबलवत्त्वान्न मनोदेवः प्राणे लीयते । अतो नास्ति मोक्षः । “विपर्ययेण’ इत्यत्रोक्तदिशा (ब्र।सू।२-३-१४) अधिकबले एव न्यूनबलो लीयते इति वक्तव्यत्वात् । नच मनसः प्राणजत्वात् तत्र लयः शङ्क्यः । “तत्प्राक्श्रुतेश्च’ इति (ब्र।सू।२-४-४) सूत्रे भगवदुत्पत्त्योक्तेरिति । सिद्धान्तस्तु । “वाङ्मनसि सम्पद्यन्ते’ इत्युक्त्या “मनः प्राणे’ इति मनोदेवस्य प्राणदेवे सम्पत्तिशब्दितलयश्रवणात् मनोदेवोऽपि प्राणदेवे चतुर्मुखे वचनान्तरबलाद्वाणीद्वारा लीयत “मन उदक्रमात्’ इत्याद्यैतरेयश्रुतौ (ऐ।२-१-४) ब्रह्मदेहान्मनोदेवस्योत्क्रमणप्रवेशयोरपि तद्देहपातोत्थानयोरभावस्य प्राणदेवोत्क्रमणप्रवेशयोस्तद्भावस्य श्रवणेन मनोदेवादपि प्राणदेवस्याधिक्यावगमेन चेष्यकत्वसाम्याभावाद्भगवदुतपन्नत्वस्य वियत्पदीयन्यायेन प्राणदेवद्वारोपपत्त्या “वायोर्वाव रुद्र उदेति’ इति (कौण्डिण्य) श्रुत्या च मनसः प्राणजत्वाच्च अस्ति मनसो मोक्ष इति । फलं तु पूर्ववत् ॥ २ ॥

॥ ॐ सोऽध्यक्षो तदुपगमादिभ्यः ॐ ॥ ३ ॥

अत्र श्रौतक्रमाद्वा पूर्वनयद्वयफलाक्षेपाद्वा सङ्गतिः । अत्र प्राणपदोक्तो विरिञ्चः भगवत्प्राप्तिरूपमोक्षाय हरौ न लीयतेऽथ लीयत इति चिन्ता । तदर्थं तस्येशाधीनत्वनिश्चयो नास्त्युतास्तीति । तदर्थं प्राणस्वातन्त्यश्रुतिबाहुल्यं अनद्यमानत्वे सत्यत्तृत्वमाहात्म्यं च निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु । “न प्राणः किञ्चिदाश्रितः’ इति, “यस्मिन्निदं सर्वमध्या नोत्’ इति, “प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्’ इति, “वायुना वै गौतमसूत्रेण’ (बृ।५-७-२) इत्यादिश्रुतिबाहुल्येन प्राणस्य अनन्याधीनत्वावगमेन ईशाधीनत्वनिश्चयान्न तत्र विरिञ्चस्य लयः । नच “अनन्येश्वरता प्राणे तदन्येश्वरवर्जनम्’ इत्युक्तदिशा विष्ण्वन्येश्वरवर्जनपरत्वेन श्रुतीनां सावकाशत्वं शङ्क्यम् । बहुत्वप्रयुक्तप्राबल्योपेतानां श्रुतीनां अनन्येत्यादिदुर्बलवचनेन गत्यन्तरकल्पनायोगात् । अनद्यमान इति प्राणस्य लयाभावोक्तेश्चेति । सिद्धान्तस्तु । अस्त्येव प्राणपदोक्तविरिञ्चस्य हरौ लयः । प्राणस्यास्वातन्ते श्रुतिबाहुल्यस्येशाधीनत्वेऽपि “प्राणः परस्यां देवतायाम्’ इति, “प्राणः परमुपगच्छति’ इति, “प्राणः परमनुप्राणिति’ इत्यादिश्रुतिबाहुल्यस्य सत्त्वात् । नच साम्येनेशाधीनत्वानिर्णयः । स्वातन्त्यश्रुतीनां “सर्वेप्राणमुपगच्छन्ति’इति, “प्राणं देवा अनुप्राणन्ति’ “अनन्येश्वरता प्राणेतदन्येश्वरवर्जनम्’ इत्यादि वचनबलेन रुद्रादिसर्वोपजीव्यत्वभगवदन्येश्वरवर्जनपरत्वेन सावकाशत्वात् । अनद्यमानत्वस्येशादन्यैरनद्यमानत्वेनोपपत्तेरिति । प्राणस्तेजसीतिश्रुतौ तेजसि श्रीतत्त्वे प्राणस्य लयश्रवणं तु “प्राणस्य तेजसि लयो मार्गमात्रम्’ इति स्मृत्या तत्प्राप्तिमात्रपरं न तत्र लयपरम् । विरिञ्चस्य साक्षात्परमात्मनिलययोग्यत्वात् प्राणस्येव तत्र लय इति ज्ञेयम् । “चक्षुरादिवत्तु तत्सहशिष्ययादिभ्यः’ (ब्र।सू।२-४-११) इत्यत्र प्राणस्येशवशत्वोक्तावपि इह स्वातन्ते श्रुतिबाहुल्यविशेषाशङ्केति न गतार्थता । फलं तु पूर्वपक्षे विरिञ्चस्य लयाभावे मोक्षाभावेन तदनुप्रविष्यानामशेषज्ञानिनामपि मोक्षाभावेन पूर्वोक्तनयद्वयाक्षेपद्वारा अनियम इत्युक्ताक्षेपात्सिद्धान्ते तत्समाधिरिति ॥ ३ ॥

॥ ॐ भूतेषु तच्छतेः ॐ ॥ ५ ॥

पूर्वोक्ताक्षेपेणात्र शङ्कनात्सङ्गतिः । “वाङ्मनसि’ इत्यादिश्रुतौ विशिष्योक्तेभ्योऽन्ये देवाः भगवत्प्राप्तिरूपमोक्षाय किमेकस्मिन्भूतमानिति लीयन्तेऽथ भूतान्तरमानिष्वपीति चिन्ता । तदर्थं “अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतिः प्रतीतार्थनिर्णायका भवति न वेति । तदर्थं भूतान्तरमानिषु लये प्रमाणं नास्ति प्रागुक्तन्यायश्च अनिर्णायक उतास्ति प्रमाणं प्रागुक्तन्यायश्च निर्णायक इति । पूर्वपक्षस्तु । “अग्नौ सर्वे देवाः’ इति श्रुतेः अग्निदेवे एव सर्वे देवा विलीयन्तेऽन्यत्रापि लीयन्त इत्यत्र प्रमाणाभावाच्च यो यन्नियमः स तत्र लीयत इति प्रागुक्तन्यायस्य नियामकानां बहुत्वेनानिर्णायकत्वात् प्रागुक्तस्वस्वनियामके लय इत्येतदयुक्तमिति । सिद्धान्तस्तु । “भूतेषु देवा विलीयन्ते’ इति भाष्योक्तश्रुत्या पञ्चस्वपि भूतमानिषु यथा स्वस्वनियामके देवा विलीयन्ते नियामकानां बहुत्वेऽपि “अग्नौ सर्वे देवा विलीयन्तेऽग्निरिन्द्रे इन्द्र उमायां उमा रुद्रे’ इत्यादिश्रुत्युक्तदिशा निर्णयसम्भवेन प्रागुक्तन्यायस्यानिर्णायकत्वाभावादिति । फलं तु प्रागुक्ताक्षेपसमाधी ॥ ४ ॥

॥ ॐ नैकस्मिन्दर्शयतो हि ॐ ॥ ५ ॥

अत्रापि पूर्वाक्षेपेण शङ्कनात्सङ्गतिः । पूर्वप्रकृतदेवाः भगवत्प्राप्तिलक्षणमोक्षस्य किं अग्नावेव लीयन्तेऽथ पञ्चस्वपीति चिन्ता । “भूतेषु देवा विलीयन्ते’ इति प्रागुक्तश्रुतिः सावकाशाथ निरवकाशेति । तदर्थं “अग्नौ सर्वे देवाः’ इति श्रुत्यन्यथानुपपत्तिः निरवकाशोत सावकाशा । तदर्थं पञ्चस्वपीत्यत्र विशेषप्रमाणाभावेन अग्नावितिश्रुत्यन्यतानुपपत्तेः गत्यन्तरकल्पकाभावात् निरवकाशतया भूतेष्विति बहुवचनान्तश्रुतेः अग्नौ देवानां लयेऽपि अग्निः स्वजनकवायौ, वायोश्च स्वजनकाकाशे, लयेन परम्परालयाभिप्रायेण सावकाशत्वकल्पनादग्नावेव सर्वदेवानां लय इति पञ्चस्वपि लय इति प्रागुक्तमयुक्तमिति । सिद्धान्तस्तु । “पृथिव्यां ऋभवो विलीयन्ते’ इति, “ऋभवः पृथिव्याम्’ इति च, भाष्योक्तविशेषप्रमाणाभ्यां प्रत्येकं पञ्चस्वपि भूतमानिषु ऋभुप्रभृतिदेवानां लयश्रवणादग्नौ सर्वे देवा इति श्रुतेः “अग्नावग्नयो वायाविन्द्रः’ इत्यादि श्रुतौ निर्दिष्याग्निपुत्रां प्रायेणाधमानां सर्वेषां भूतान्तराप्रवेशिनां लयविषयत्वेन सावकाशतया भूतेष्वितिश्रुतेः परम्परया लयाभिप्रायरूपामुख्यार्थताकल्पकत्वायोगात् निरवकाशभूतेषु इति प्रागुक्तश्रुत्या पञ्चस्वपि भूतमानिषु देवानां प्रागुक्तपञ्चस्वपि लय इत्येतद्युक्तमिति । फलं व्यक्तम् ॥ ५ ॥

॥ ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ ६ ॥

॥ ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ ॐ सूक्ष्मं प्रमाणतश्च तयोपलब्धेः ॐ ॥ ॐ नोपमर्देनातः ॐ ॥ ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ ॐ स्पष्यो ह्येकेषाम् ॐ ॥ ॐ स्मर्यते च ॐ ॥

तदधीनत्वयुक्तिविशेषश्रुतिभ्यां प्रागुक्तसिद्धान्तन्यायेनात्र शङ्कनादापवादकी सङ्गतिः । प्राणादुत्तमत्वेन बुद्धिस्थतया प्रकृता, श्रौतक्रमेण वा प्रकृता, चित्प्रकृतिः भगवति लीयते न वेति चिन्ता । तदर्थं प्रागुक्तयुक्तिः, “तेजः परस्याम्’ इतिविशेषश्रुतिश्चेति द्वयमपि निरवकाशमुत सावकाशमिति । तदर्थं कामादित्यत्रोक्तं (ब्र।सू।३-३-४०) असंसारित्वं प्रकृतेरयुक्तमुत युक्तमिति । तदर्थं मुक्तत्वं तस्याः किमागन्तुकमुत स्वाभाविकमिति । स्वाभाविकत्वे भगवता सर्वसाम्यमापतत्युत नेति । पूर्वपक्षस्तु । भगवदधीनत्वयुक्ति “तेज’ इति श्रुतिभ्यां सापि हरौ लीयत एव । अन्यथा वागादीनां मनःप्रभृतिषु ताभ्यामुक्तलयोऽपि न स्यात् । नच असंसारित्वाल्लयाभावः तस्यैवानुपपत्तेः । नच मुक्तत्वात्तद्युक्तं तस्यागन्तुकत्वात् । स्वाभाविकत्वे भगवता तस्याः सर्वसाम्यापातात् । नित्यं संसारराहित्ये गुणान्तरैः साम्यस्याप्यापातादिति । सिद्धान्तस्तु । “द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च’ इति भाष्योक्त (बृहच्छतिः) श्रुतौ परमपुरुषत्वसर्वगतत्वनित्यत्वयुक्तिभ्यां कदापि संसाराभावस्य तद्धेतुकनित्यमुक्त्वस्योक्त्या भगवदुपासनादिसाधनासाध्यतया मुक्तत्वस्य स्वाभाविकत्वात् तादृशमुक्तिमत्याश्च देव्याः हरेरिव देहत्यागरूपलयायोगात् न प्रकृतिर्लीयते । तदधीनत्वाद्वागादिवत्स्वोत्तमे हरौ लीयत इत्यभिप्रेतानुमानं तु संसारित्वोपाधिग्रस्तात् । “तेजः’ इति श्रुतिरपि “हरेरत्यन्तसामीप्यं लयो लक्ष्माः प्रकीर्तितः’ इति वचनादतिसामीप्यार्थतयोपपन्ना । प्रकृतेरीशेन सर्वसाम्यापातस्य च “तदपीतेः’ “सूक्ष्मम्’ “अस्यैव च’ इति सूत्रत्रयोक्तैः मोचकत्वामोचकत्व, परमसूक्ष्मत्वसूक्ष्मत्व, ज्ञानानन्दादिगुणपरिमाणाधिक्य, न्यूनत्व, ऊष्मावत्त्वानूष्मावत्त्वहेतुभिर्निरासात् । सर्वसाम्याभावे ब्रह्मादेरिव नित्यमुक्तत्वादिनापि साम्यं न स्यादिति चोद्यस्य च “नोपमर्देन’ इति सूत्रे भगवद्विशेषगुणानुपमर्देनैव देशकालव्याप्त्यादिकिञ्चित्साम्यस्यैव प्रमाणसिद्धत्वोक्त्या निरासान्न “असमो वा एष परः’ इति श्रुतौ हरेः साम्यनिषेधस्य “प्रतिषेधात्’ इत्यादिसूत्रत्रयोक्तदिशा जीवविषयत्वादिति । फलं तु पूर्वपक्षे देव्याः संसारित्वात् भगवति लयसद्भावादधिकारित्वेन अधिकारिणां “इयदामननात्’ इत्यत्रोक्तप्रमाणावधित्वाक्षेपः सिद्धान्ते तत्समाधानम् ॥ ६ ॥

॥ ॐ तानि परे तथा ह्याह ॐ ॥ ७ ॥

पूर्वत्र “विलीनः परमे ह्यमृतत्वमेति’ इत्युक्तौ अस्तु अमृतत्वं “सोऽध्यक्षे’ (ब्र।सू।४-२-४) इत्युक्तस्य प्राणस्य, न “भूतेषु देवा विलीयन्ते’ इत्युक्तदेवानामिति शङ्कनात्सङ्गतिः । “भूतेषु देवा विलीयन्ते’ इत्युक्तदेवाः भगवति न लीयन्तेऽथ लीयन्त इति चिन्ता । तदर्थं किमेते प्राणपदोक्तचतुर्मुखप्रतिबिम्बाः उत भगवत्प्रतिबिम्बाः अपीति । तदधीनत्वे सति तत्सदृशत्वरूपप्रतिबिम्बो हि स्वनियामके बिम्बे लीयते । “प्रतिबिम्बो हरेः प्राणः प्राणस्यान्ये कलाः क्रमात्’ इति वचनेन प्राणस्यैकस्यैव भगवत्प्रतिबिम्बत्वात् तस्यैकस्यैव तत्र प्रवेशरूपमोक्षो नान्येषां ज्ञानिनामित्यनियमः सर्वेषामित्युक्तमयुक्तमिति प्राप्ते क्रमात्प्राणबिम्बत्वेऽपि देवानां “सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्ति’ इति (कौषारव) श्रुत्या प्राणद्वारा परमात्मनि प्रवेशोपपत्तेः । भगवत्प्रतिबिम्बविरिञ्चप्रविष्यानां, विरिञ्चस्येश्वरप्रवेशे, परमात्मप्रवेशस्यापरिहार्यत्वात् । “आभास एव च’ इति (ब्र।सू।२-३-५०) सूत्रोक्तदिशा सामान्यतोऽशेषजीवानां उक्तरूपप्रतिबिम्बत्वाच्च अस्ति तत्र प्रवेशरूपमोक्षः इति अनियम इत्युक्तं युक्तमिति । फलं तु व्यक्तम् ॥ ७ ॥

॥ ॐ अविभागो वचनात् ॐ ॥ ८ ॥

पूर्वाक्षेपेणात्र शङ्कनात्सङ्गतिः । पूर्वाधिकरणे मोक्षवत्त्वेनोक्ताः देवाः किं मुक्तौ स्वतन्त्राः उतेशाधीना इति चिन्ता । तदर्थमन्याधीनत्वे संसारदुःखादिप्रसङ्गः श्रौतसत्यकामत्वाद्यभावप्रसङ्गश्च अस्त्युत नेति । मुक्तानां पराधीनत्वे संसारदुःखादिप्रसङ्गात् “एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः’ इत्यादि (गौपवन) श्रुत्युक्तसत्यकामत्वाद्ययोगाच्च न मुक्ताः पराधीना इति प्रागुक्तमीशाधीनत्वादिरूपं प्रति बिम्बत्वमयुक्तमिति प्राप्ते “कामेन मे काम आगमात्’ इति (तै।आ।३-१५-४) “मुक्तानां सत्यकामत्वम्’ इति (ब्राह्म) श्रुतिस्मृतिभ्यां श्रौतसत्यकामत्वादेरीशेच्छानुसारित्वादेव दुःखादिप्रसक्तेरप्यभावात्कामितालाभप्रयुक्तत्वात् दुःखादेः भगवदिच्छानुसारेण कामयमानानां मुक्तानां कामितालाभाभावादीशाधीना एव मुक्तावपि ज्ञानिन इति प्रागुक्तं युक्तमिति सिद्धान्तः ॥ ८ ॥

॥ ॐ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥ ९ ॥

॥ ॐ रश्म्यनुसारी ॐ ॥ ॐ निशि नेति चेन्न सम्बन्धात् ॐ ॥ ॐ यावद्देहभावित्वाद्दर्शयति ॐ ॥ ॐ अतश्चायनेऽपि हि दक्षिणे ॐ ॥

पूर्वत्राधिकार्युत्तमक्रमेणादौ देवानां स्वस्वोत्तमेषु देहलयान्मोक्षः सापवादः सप्तभिः नयैरुक्तः । अत्र तु नये मनुष्याणामुत्क्रमणेन भगवत्प्राप्तिरूपमोक्ष उच्यत इति पूर्वपेटिकयास्य सङ्गतिर्ध्येया । अत्र ज्ञानिनां देहादुत्क्रान्तिः अज्ञमृतिवदेव अथ ज्ञानशक्त्या ततो विलक्षणेति चिन्ता । तदर्थं ज्ञानं किं तन्मृतेर्विलक्षणतासम्पादनाशक्तमुत शक्तमिति । तदर्थं प्रारब्धकर्मशेषो ज्ञानशक्तिप्रतिबन्धको भवत्युत नेति । तदर्थं किं ज्ञानं स्वोदयात्फलदानसमर्थं किं वा कर्मावसान एवेति । तदर्थं स्वोदयात्फलदानशक्तत्वेऽतिप्रसङ्गोऽस्त्युत नेति । पूर्वपक्षस्तु । स्वोदयमारभ्यैव ज्ञानस्याज्ञमृतेर्वैलक्षण्यरूपफलदानशक्तत्वे ज्ञस्यादिमृतेरपि अज्ञमृतितो वैलक्षण्यसम्पादकत्वापातेन प्रारब्धावसान एव फलदानशक्तं न तु तस्मिन्सतीति वाच्यत्वात् “आदेहम्’ इति (न्यायविवरणोदाहृत) वचनेन देहपातपर्यन्तविद्यमानप्रारब्धप्रतिबद्धशक्तिकं ज्ञानं नाज्ञमृतितो ज्ञानिमृतेर्वैलक्षण्यसम्पादकम् । नच मृतिकाले प्रारब्धं नेति युक्तम् अज्ञमृतेरिव ज्ञमृतेरपि प्रारब्धनिबन्धनत्वात् । “स्वोदयात्फलदं ज्ञानम्’ इति तु (न्यायविवरणशेदाहृतश्रुतिः) फलान्तरपरं नेयमिति । सिद्धान्तस्तु । स्यादेवं यति ज्ञानमात्रेण वैलक्षण्यसम्पादकं ज्ञानिमृतेरित्यङ्गीकुर्मः तदा स्यादेवातिप्रसङ्गः । नचैवं किं तु स्वहृदयमारभ्य भगवत्प्राप्तिपर्यन्तं विद्यमानमार्गस्मृतिसहितं विद्याप्रसन्नहृद्गतभगवदनुग्रहसहितमेव । तथा तद्व्ययञ्च कर्मावसान एव भवति नान्यदेति नातिप्रसङ्गोऽतः तदुभयसहकृतं ज्ञानमज्ञानिमृतितो ज्ञानिमृतेर्वैलक्षण्यसम्पादकं भवत्येवेति ज्ञानपादोक्तज्ञानसामर्थ्यं युक्तमेवेति फलं ध्येयम् । वैलक्षण्यप्रकारश्च हृद्गतभगवत्प्रकाशेन प्रकाशितद्वारया ब्रह्मनाड्या यावद्देहभाविसूर्यरश्मिभिरन्तर्व्याप्तया ज्ञानिनो निर्गमनं नाज्ञस्येति तत्प्रकाशितद्वार इत्यादि सूत्रभाष्याद्युक्तदिशा ज्ञेयः । अत्र यद्यपि ज्ञानिनः अस्त्युत्क्रमणमिति सामान्यतः सिद्धौ किमज्ञमृतितो विलक्षणमुत नेति विशेषचिन्ता युक्ता । तथाऽपि वियत्पादे जन्मोक्त्यैव लयं सिद्धवत्कृत्य सृष्यिक्रमेणोत वैपरीत्येनेतिचिन्तावदिहापि देवानामन्योन्यप्रवेशेन देहलयोक्तौ तदन्येषां देहादुत्क्रमणमिति लब्धमेवेति सिद्धवत्कृत्येयं विशेषचिन्तेति न दोषः ॥ ९ ॥

॥ ॐ योगिनः प्रति स्मर्येते स्मार्ते चेते ॐ ॥ १० ॥

पूर्वाक्षेपेण शङ्कनात्सङ्गतिः । पूर्वत्र प्रधानाङ्गभावेन प्रकृतं विद्या गतिस्मरणं चेत्येतदुभयं गत्यर्थं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं “अग्निर्ज्योतिरहः शुक्लः’ इत्यादि (भ।गी।८-२४) स्मृतिः लोकानुसरणसहाया सती गतेः कालमृत्यधीनत्वपरा । “यं यं वापि’ इति (भ।गी।८-६) स्मृतिः लिङ्गदर्शनं च लोकानुसारादन्यथा नेयमुत “अग्निः’ इत्यादिस्मृतिः विद्याद्यधीनत्वपरा यं यं इति वचनमन्यथा नेयमिति । पूर्वपक्षस्तु । “अग्निर्ज्योतिरहःशुक्लः’ इति स्मृतौ “धूमो रात्रिः’ इति (भ।गी।८-१५) स्मृतौ च ब्रह्मप्राप्तिचन्द्रप्राप्तिगत्योः क्रमादहरादिरात्यादिकालमृत्यधीनतावगमाल्लोके फलानुस्मृतिं विनापि फलप्राप्तिदर्शनाच्च न गतिप्राप्त्यर्थं गतिस्मृतिः विद्या चापेक्षिता किन्त्वहरादिकालस्मृतिरेव । नच “यं यं वापि स्मरन्’ इति स्मृतौ स्मृतिविषयस्यैव प्राप्यत्वोक्तेस्तद्विरोधितया “आचार्यस्तु ते गतिं वक्ता’ इति (छां।६-१४-१) श्रुत्यर्थगत्युक्तिरूपलिङ्गविरोधश्चैवं सति प्रा नोतीति शङ्क्यम् । देहत्यागक्षणे दुःखेन स्मरणाच्छास्त्रादिना पूर्वं जानन्निति ज्ञानमात्राथर्त्वेन स्मरन्नित्यस्य नेयत्वात् । एतेन लिङ्गदर्शनमपि प्रत्युक्तं ज्ञानार्थतया तदुपदेशोपपत्तेः । अन्यथा लोकानुसारविरोधादिति । सिद्धान्तस्तु । आद्यस्मृतौ “ब्रह्मविदः’ इति “धूमः’ इति स्मृतौ योगीति च विशेषणाच्च ताभ्यां ज्ञानकर्मरूपोपायसाध्यत्वप्रतीत्या कालमृत्यधीनत्वाप्रतीतेः विद्यादिकमवश्यमपेक्षितमेव । अन्यथा स्मृत्योस्तद्विशेषणवैयर्थ्यापातात् । अहरादेरभिमानिनयन्यायेन देवतात्वात् कालत्वाभावाच्च “यं यं वापि’ इति स्मृतौ त्यागक्षणे स्मृत्ययोगः । महात्मनां देहे सदा हेयत्वबुद्धिभावेन तदा दुःखाभावात् । पामराणामपि काल एव दुःखभावेन तत्क्षणे दुःखाभावाच्च । नच लोकाननुसारित्वदोषः । लोके फलप्राप्तौ कर्षणादिक्रियानुवृत्तेर्दर्शनेनेहापि स्मृतिरूपक्रियावृत्त्यङ्गीकारात् । लोके क्रिया कर्षणादिरूपा । अत्र तु मानसीति अवान्तरवैलक्षण्यमात्रम् । न तावता तदननुसारिता शङ्कनीया अतिप्रसङ्गात् । एतेन लिङ्गदर्शनमपि नान्यथा नेयमिति । फलं तु ज्ञानस्य चतुर्विधमोक्षहेतुत्वाक्षेपसमाधी ॥ १० ॥

॥ इति श्रीराघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य द्वितीयः पादः ॥