॥ अथ चतुर्थोऽध्यायः ॥

॥ पूर्वत्र “एवं मुक्तिफलानियमः’ इति फलपदेन मुक्तिरेव ज्ञानस्य प्रधानं फलं अन्यत्तु आनुषङ्गिकमिति सूचितं प्रधानं फलमत्राध्याये प्रपञ्च्यते । तत्र कर्मक्षयोत्क्रान्तिमार्गभोगभेदेन चतुविर्धस्य मोक्षस्य क्रमभावित्वात्तत्सर्वं क्रमात् पादचतुष्ययेऽपि वदिष्यन् आदौ कर्मक्षयाख्यफलमाहाद्यपादे । तत्र सप्तभिर्नयैः अत्यन्तावश्यम्भावि साधनं विचार्यते ।

॥ ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ १ ॥

॥ ॐ लिङ्गाच्च ॐ ॥

अत्रैहिकमित्यत्र प्रकृतं श्रवणादिकं सकृदनुष्ठेयमुत आवर्तनीयमिति चिन्ता । तदर्थं श्रवणादिविधेरग्निष्योमादिविधिवत् सकृदनुष्ठान एव पर्यवसानमुत अवघातविधिवदावर्तनमेवेति । तदर्थं ज्ञानं हि श्रवणादेः सकृदनुष्ठानेन भवति उत नेति । तदर्थं ज्ञानस्य सुशकत्वं गुणः उत दुःशकत्वमेव गुणः इति । तदर्थं दुःशकत्वस्य गुणत्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । श्रवणादिसाधनं अग्निष्योमादिवत्सकृदेवानुष्ठेयम् । तावतैव ज्ञानोदयसम्भवेन सकृदनुष्ठान एव श्रवणादिविधेः पर्यवसानात् । नच व्रीहीनवहन्तीत्यादिविधेः सकृदनुष्ठानेन तुषविमोकरूपफलासिद्धेः अवघातावर्तने पर्यवसानवत् इह किं न स्यादिति वाच्यम् । तथात्वे ज्ञानस्य सकृत्साधनानुष्ठानलभ्यत्वरूपसुशकत्वगुणाभावप्रसङ्गात् । नच ज्ञानस्य दुःशकत्वमेव गुणः कल्पकाभावादिति । सिद्धान्तस्तु । अवगादिवच्छ्रवणादिकमावर्तनीयम् । अवघातस्य सकृदनुष्ठानेन तुषविमोकस्येवेह श्रवणादेः सकृदनुष्ठानेन ज्ञानोदयस्यादर्शनेन तद्विधेरवघातादिविधिवदावर्तन एव पर्यवसानम् । नच ज्ञानस्य श्रवणाद्यावर्तनसाध्यत्वोपगमे सुशकत्वगुणभङ्गः । महाफलहेतुज्ञाने दुःशकत्वस्यैव गुणत्वात् । नच ज्ञानस्य दुःशकत्वं गुण इत्युपेत्य श्रवणाद्यावर्तनसाध्यत्वोपगमे कल्पकाभावात् । उद्दालकेन श्वेतकेतुं प्रति “स एवोऽणिमा’ इत्यादितत्त्वस्य नवकृत्वः छान्योग्ये षष्ठे उपदिष्यत्वेन तदन्यथानुपपत्तेः श्रवणावृत्तिकल्पकत्वात् । अन्यथा सकृदेवोपदेशकरणापातात् । तथा तैत्तिरीये भृगुवल्लयां “तस्मा एतत्प्रोवाच अन्नं प्राणः चक्षुः श्रोत्रं मनो वाचम्’ इति श्रुत्या अन्नादिरूपविषय एव भृगोः “अधीहि भगवो ब्रह्म’ इति पुनः श्रवणमननध्यानानि कुर्विति भावेन “तद्विजिज्ञासस्व’ इति वरुणस्योक्तिः । श्रुतस्य पुनरालोचनेनापेक्षितत्वमित्येवं रूपलिङ्गदर्शनस्य च “नित्यशः श्रवणं च’ इति (बृहत्तन्त्र) स्मृतेः श्रवणमननध्यानावृत्तिकल्पकत्वादिति । फलं तु ऐहिकमित्यादावभिमतस्य श्रवणादेर्ज्ञानहेतुत्वसमर्थनम् ॥ १ ॥

॥ ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ २ ॥

पूर्वं यज्ज्ञानार्थं श्रवणाद्यावर्त्यमित्युक्तं तस्यात्मत्वस्य स्वामित्वशब्दितस्यात्र ध्यानमावश्यकमिति साधनात्सङ्गतिः । अत्र प्रकृतात्मत्वोपासनोपदेशौ न नित्यशः कार्यावुत कार्यौ इति चिन्ता । तदर्थमात्मत्वरूपस्वामित्वस्यातिप्रसिद्धत्वं तदुपासनादिप्रतिबन्धकमुत नेति । तदर्थं तस्याप्रतिबन्धकत्वकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । आत्मत्वध्यानोपदेशौ न नित्यशः कार्यौ तस्य स्वामित्वरूपस्य नित्यप्रसिद्धत्वात् । सुप्रसिद्धस्य नित्यं सर्वमनसि विपरिवर्तनेन ध्यानोपदेशवैयथ्यरात् । अप्रसिद्धत्वस्यैव उपदेष्यव्यत्वादौ प्रयोजकत्वात् सुप्रसिद्धस्यापि अवश्यं ध्यानोपदेशौ कार्यावित्यत्र कल्पकाभावादिति । सिद्धान्तस्तु । “आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः’ इत्यादि (भविष्यत्पर्व) वचनेनान्वयव्यतिरेकाभ्यां विष्णुरात्मेत्युपासनोपदेशयोः मोक्षहेतुत्वावगमेन मोक्षार्थोपासनादेः प्रसिद्धयप्रसिद्धिभ्यां कर्तव्यत्वाद्यसिद्धेः नित्यं सर्वथात्मत्वोपासनोपदेशौ कार्यावेवेति । फलं तु वेदानां स्वामित्वे महातात्पर्यस्य युक्तत्वसमर्थनम् ॥ २ ॥

॥ ॐ न प्रतीके न हि सः ॐ ॥ ३ ॥

पूर्वोक्तस्वामित्वोपासनाक्षेपेणेह पूर्वपक्षोदयात्सङ्गतिः । सप्तमे “नाम ब्रह्मेत्युपास्ते’ “वाचं ब्रह्मेत्युपास्ते’ इत्यादिरूपेण (छां।७-१-५) श्रुतनामवागादिशब्दितोषास्वाहादिकं ब्रह्माभेदेनोपास्यं उत तत्रस्थत्वेनेति चिन्ता । तदर्थं नामब्रह्मेत्यादिश्रुतिः ऐक्याभिप्रायोत ना ्निब्रह्मेत्येवंरूपेण तत्रस्थत्वाभिप्रायेति । तदर्थं मिथ्योपासनमपि पुमर्थहेतुरुत सत्योपासनमिति । पूर्वपक्षस्तु । नामवागादिकं ब्रह्मतयोपास्यं “नाम ब्रह्म’ इति सामानाधिकरणश्रुत्या तयोरैक्योपासनस्य श्रुतत्वात् । नच “पृथगुपदेशात्’ इत्यत्र (ब्र।सू।२-३-२८) जीवब्रह्मभेदस्य सिद्धतया नामब्रह्मैक्यं मिथ्यैवेति चेन्न । पूवर्त्र प्रसिद्धयप्रसिद्धयोरप्रयोजकत्वेन पुमर्थहेतुत्वेनैवात्मत्वोपासनवत् उपास्यवस्तुनः सत्यमिथ्यात्वयोरप्रयोजकत्वेन “यावन्ना नो गतं तत्रास्य यथा कामचारो भवति’ इत्यादिवाक्यशेषश्रुतफलवत्त्वेन तथोपासनसम्भवादिति । सिद्धान्तस्तु । “अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति सङ्कर्षणसूत्रेण अनुव्याख्यानोक्तवचनैश्च मिथ्योपासनायाः अफलत्वविपरीतफलत्वयोरुक्त्या मिथ्योपास्तेः पुमर्थाहेतुतया तथोपास्तेरकर्तव्यत्वात् । “नामादिप्राणपर्यन्तम्’ इत्यादि स्मृतिबलाच्च ना ्नि ब्रह्मेत्येव तत्रस्थत्वेनैवोपासनं कार्यं न त्वैक्येनेति । फलं तु प्रागुक्तात्मोपासनसमर्थनम् ॥ ३ ॥

॥ ॐ ब्रह्मदृष्यिरुत्कर्षात् ॐ ॥ ४ ॥

पूर्वत्र नामब्रह्मेतिप्रकृतब्रह्मत्वोपास्तेरत्रावश्यकत्वसाधनात्सङ्गतिः । अत्र प्रकृतं ब्रह्मत्वं किं सदा सर्वथोपास्यं न भवति उत भवतीति चिन्ता । तदर्थं तस्य तथोपास्यत्वे हेतुर्नास्त्युतास्तीति । पूर्वपक्षस्तु । न ब्रह्मत्वशब्दितस्योपासनं कार्यं सदा सर्वथेति । सिद्धान्तस्तु । ब्रह्मत्वे सवर्गुणान्तर्भावेन तस्य भगवदुत्कृष्यत्वरूपत्वेन इतरगुणेभ्यो ज्यायस्त्वेन तदुपास्तेर्भगवत्प्रीतिविशेषहेतुत्वेन आत्मत्वोपास्तेरिव एतदुपास्तेरभावे मोक्षासिद्धेश्च मोक्षहेतुभगवत्प्रीतिविशेषजनकत्वात्सर्वदा सर्वथैव ब्रह्मत्वमुपास्यम् । तच्च आत्मब्रह्मेत्यात्मत्वविशेषणतयैवेति न चतुर्गुणोपास्तिनियमभङ्ग इति ध्येयम् । फलं तु भू नो ज्यायस्त्वमित्युक्तसमर्थनमिति ॥ ४ ॥

॥ ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ५ ॥

पूर्वत्र यद्विशेषणतया ब्रह्मत्वं ध्येयमित्युक्तं तदात्मत्वमेव अङ्गाश्रितत्ववन्न ध्येयमिति शङ्कोदयात्सङ्गतिः । अत्र देवानां स्वस्वोत्पत्त्यङ्गाश्रितत्वेनोपासनं देवैः कार्यमिति यदुक्तं “अङ्गेषु यथाश्रयभावः’ (ब्र।सू।३-३-६३) इत्यत्र तत्किं देवानां सदा सर्वथा न कायुमुत कार्यमिति चिन्ता । तदर्थं तथा कार्यत्वे विशेषहेतुर्नास्त्युतास्तीति । पूर्वपक्षस्तु । गुणान्तरेषु सत्स्वपि विशिष्य स्वस्वाश्रयाङ्गत्त्वरूपगुणस्यैव नित्यमुपासने ब्रह्मत्वोपासन इव विशेषहेत्वभावात् सूर्यादिदेवानां जगत्प्रकाशनाद्यर्थं विविधिस्थानेषु सञ्चरणेन नित्यं भगवदङ्गेष्ववस्थित्यभावेन तथोपास्तेर्मिथ्योपास्तितया सञ्चरणेन नित्यं भगवदङ्गेष्ववस्थित्यभावेन तथोपास्तेर्मिथ्योपास्तितया अनथर्फलत्वाच्च न तथोपासनं कार्यमिति । सिद्धान्तस्तु । “स्वोत्पत्त्यगं च देवानां विष्णोश्चिन्त्यम्’ इति (नारायणतन्त्र) स्मृत्या देवानां मुक्तौ भगवदङ्गप्रवेशस्यावश्यकतया तस्य च सदा तादृशगुणोपासनेन विना सिद्धयभावात् । भगवदगप्रवेशरूपकारणसत्त्वात् नित्यं रूपान्तरेण भगवदंशेषु स्थितत्वेन मिथ्योपासनाऽप्रसक्तेश्च स्वाश्रयचक्षुष्कतया सूर्येण, चन्द्राश्रयमनस्कतया चन्द्रेण, ब्रह्माश्रितमूर्धतया ब्रह्मणा, इत्येवंरूपेण देवैः सदा सर्वत्र कार्यमेवोपासनमिति । फलं तु आत्मत्वोपासनसमर्थनमेव सत्यप्याश्रयाश्रयिभावे स्वस्वामिसम्बन्धस्यापि अनुपास्यत्वापातादिति शङ्कानिरासात् ॥ ५ ॥

॥ ॐ आसीनः सम्भवात् ॐ ॥ ६ ॥

॥ ॐ ध्यानाच्च ॐ ॥ ॐ अचलत्वं चापेक्ष्य ॐ ॥ ॐ स्मरन्ति च ॐ ॥ ॐ यत्रैकाग्रता तत्राविशेषात् ॐ ॥

पूर्वं सम्मुग्धतयोक्तोपासनस्य ध्यानस्मरणभेदोक्तिपूर्वमितिकर्तव्यताकथनात्सङ्गतिः । “उपविश्यासने युञ्ज्वात्’ इति (भ।गी।६-१२) षष्ठे गीतायां ध्यानाङ्गत्वेन उक्तमासनादिकं किं नावश्यकमुतावश्यकमिति चिन्ता । तदर्थं आसनेन विनोपासनोपयुक्तः हरौ मनोनिवेशः युक्त उत न युक्त इति । पूर्वपक्षस्तु । भगवद्दृष्यिहेतूपासनस्य हरौ मनोनिवेशमात्रेणोपपत्तेः आसनं नावश्यकम् । न चासनेन विना हरौ मनोनिवेश एव न युक्त इति वाच्यम् । प्रत्याहारादिनापि तत्सम्भवात् । अन्यथा “स्मर्तव्यस्सततं विष्णुः’ इत्यादिविधीनामनुपपत्तिप्रसङ्गात् । यदि चासनाद्युपदेशान्यथानुपपत्त्या तदावश्यकत्वे च “पर्वताग्रे नदी तीरे’ “ब्राह्मे मुहूर्ते उत्थाय’ (भा।१०-७७-४) इत्याद्युक्त्यन्यथानुपपत्त्या देशादिनियमोप्यावश्यकः स्यादिति । सिद्धान्तस्तु । मनसो विक्षेपाभावेन हरौ निवेशस्य प्रत्याहारादिना सम्भवेऽपि “अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्’ इति (ब्रह्माण्ड) स्मृत्या शरीराचलत्वेनापि मनसो विक्षेपाभावस्यावगमात् । शरीराचलत्वस्य च आसन एव सम्भवात् । “समं कायशिरोग्रीवम्’ इत्यादि (भ।गी।६-१३) स्मृतिबलाच्च उपासनोपयुक्ततया सम्यग्भगवति मनोनिवेशनार्थं आवश्यकमेवासनम् । नच नित्योपासनस्यासनावश्यकत्वस्य च विरुद्धत्वादासनस्यावश्यकत्वे “स्मर्तव्यस्सततम्’ इति स्मृत्या उपासनविधिविरोधः । स्मरणध्यानरूपेणोपास्तेर्द्वैविध्येन स्मरणोपासनस्य नित्यं कार्यत्वेन तत्रासननियमेऽपि कादाचित्कध्यानरूपेणोपासने तदावश्यकत्वे विरोधाभावात् । अत एव नासनाद्युपदेशवैयर्थ्यम् । नचैवं देशविशेषादेरपि आवश्यकत्वप्रसङ्गः । आसनादिवत् ध्यानोपयोगिताया वा श्रवणादिवत् ज्ञानोपयोगिताया वा अभावात् । “तमेव देशं सेवेत’ इत्यादि (वाराह) स्मृतेश्च यत्रैकाग्रता ध्यानस्य स एव देशादिर्ग्राह्यो न पर्वताग्रादिनियम इति । फलं तु आसनाद्युपदेशसार्थकत्वम् ॥ ६ ॥ ण्।ं-१३ ॥ ॐ आप्रायणात्तत्रापि हि दृष्यम् ॐ ॥ ७ ॥

पूर्वत्र विशेषभावादासनमावश्यकं देशविशेषादि तु विशेषणाभावान्नावश्यकमित्युक्तम् । तद्वदिहापि “ध्यानाच्च’ इति प्रकृतं ध्यानं ज्ञानपर्यन्तमेव न तु तदनन्तरमपि मुक्तिपर्यन्तं मुक्तौ तत्कृतविशेषाभावादिति शङ्कोदयात्सङ्गतिः । अत्र ध्यानाच्चेति प्रकृतं ध्यानं किं ज्ञानपर्यन्तमेवावश्यकमुत मुक्तिपर्यन्तमपीति चिन्ता । तदर्थं ज्ञानार्थं विहितस्य मुक्तिपयर्न्तमनुष्ठाने हेतुर्नास्त्युतास्तीति । तदर्थं मुक्तावानन्दातिशयो ध्यानादन्येनापि भवत्युत ध्यानेनैवेति । पूर्वपक्षस्तु । मुक्तावानन्दवृद्धेः ध्यानादन्येन श्रवणादिसाधनान्तरेणापि सम्भवात् ज्ञानार्थं विहितस्य मुक्तिपर्यन्तमनुष्ठाने हेत्वभावान्न मुक्तिपर्यन्तं ध्यानमनुष्ठेयमिति । सिद्धान्तस्तु । “योगरूढस्य तस्यैव शमः कारणमुच्यते’ इति (भ।गी।६-३) गीतायां योगारूढस्यापरोक्षज्ञानिनः शमः ध्यानं परमसुखकारणमित्युक्त्या प्राधान्येन ध्यानस्यानन्दवृद्धिहेतुत्वावगमात् । “प्रायणान्तमोङ्कारमभिध्यायीत’ इति (ष।प्र।५-१) श्रुतेः । “मुक्ता अपि ह्येनमुपासते’ इति (सौपर्ण) श्रुत्युक्तकैमुत्यन्यायाच्च कार्यमेव मुक्तिपर्यन्तं ध्यानमिति । फलं तु यावदधिकारमित्यादौ (ब्र।सू।३-३-३३) उक्ततारतम्यसमर्थनम् । अन्यथा मुक्तौ ज्ञानिनां ध्यानफलाभावप्रसङ्गेन तारतम्याभावापातादिति ॥ ७ ॥

॥ ॐ तदधिगम उत्तरपूवराघयोरश्लेषविनाशौ तद्वयपदेशात् ॐ ॥ ८ ॥

॥ ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ॥ ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ ॐ यदेव विद्ययेति हि ॐ ॥ ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ॐ ॥

एवं प्रासङ्गिकं समाप्य कर्मक्षयाख्यं मोक्षस्वरूपमेवात्रोच्यत इत्यवसरसङ्गतिः । “एवं मुक्तिफल’ इति (ब्र।सू।३-४-५१) पूवरोक्तज्ञानान्मुक्तिरयुक्तेति चिन्ता । तदर्थं मुक्तिप्रतिबन्धकानां ज्ञानपूर्वापरभाविकर्मणां ज्ञानान्नाशादिकमयुक्तमुत युक्तमिति चिन्ता । तदर्थं नाशाद्यङ्गीकृतौ बाधकमस्त्युत नेति । पूर्वपक्षस्तु । “एवं मुक्तिफलानियमः’ इत्यत्र कर्मकृतप्रतिबन्धाभावे ज्ञानान्मुक्तिर्भवत्येवेत्युक्तमयुक्तम् । ज्ञानात्पूर्वं पश्चाच्चानुष्ठितकर्मणां प्रतिबन्धकीभूतानां निवृत्त्ययोगात् । तत्किं पूर्वकर्मणां भोगेन निवृत्तिरुत अग्निना तूलस्येव ज्ञानेन नाशः उत्तरेषामलेपः । आद्ये किं तस्मिन्नेव देहे तेषां भोग उत देहान्तरे । अन्तेऽपि किं क्रमेणोत एकस्मिन्नेव जन्मनि कायव्यूहेन युगपदेव भोगः । नाद्यः । बहुदेहफलकर्मणां भावात् । न द्वितीयः । तथात्वे बहुकालान्तरितज्ञानस्य जीर्णबीजवन्मोक्षहेतुत्वाभावापत्तेः । न तृतीयः । अनियतदेशकालविपाकत्वात् तादृशानामपि योगप्रभावेनैकदेशकालयोरेव भोग इत्यङ्गीकारे च योगसामर्थ्याद्भोगाभावप्रसङ्गात् । तद्भोगकालेषु पुनः कर्मान्तरसम्भवेनासमाप्तेश्च । नच न करोति ज्ञानी “न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति (भ।गी।३-५) गीतोक्तिविरोधात् । न चतुर्थः । “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इति स्मृतिविरोधात् । ज्ञानेनैव कर्मक्षये ज्ञानोत्पत्त्युत्तरकालमेव मोक्षापातात् । किं च ज्ञानिनः प्राचीनपुण्यकर्मणोऽपि ज्ञानेन क्षये “सर्वापेक्षा च यज्ञादिश्रुतेः’ इत्यत्र (ब्र।सू।३-४-२६) ज्ञानोपयोगोक्तिविरोधः । उत्तरस्याश्लेषे च स्तुनिनयोक्त (ब्र।सू।३-४-१४) आनन्दातिशयहेतुत्वविरोधः स्यादिति । अनेनैव न्यायेन “अनिष्यादिकारिणाम्’ इति वैराग्यपादीय एकादशाधिकरणे हरिद्विषां तमःप्राप्त्युक्तिरयुक्ता । द्वेषपूर्तितः प्रागूर्ध्वं सतां कर्मणां भोगेन वा द्वेषपूर्त्या वा नाशस्याश्लेषस्य वा अयोगादिति । सिद्धान्तस्तु । भोगेन कर्मणां क्षययोगेऽपि ज्ञानोदयानन्तरं कर्मानुष्ठानभावेऽपि ज्ञानान्मोक्षो युक्त एव । ज्ञानेन पूर्वापरकर्मनाशाश्लेषाभ्युपगमान्नोक्तदोषः । ज्ञानेन प्राचीनानां अप्रारब्धाशेषपापकर्मणां पुण्यमध्येपि अप्रारब्धानभीष्यकाम्यपुण्यकर्मणामेव नाशोपगमेन तदन्यपुण्यपापयोर्भावेन “नाभुक्तम्’ इतिस्मृतेस्तद्विषयतया तद्विरोधस्य ज्ञानोत्पत्त्युत्तरक्षण एव मोक्षस्य प्राचीनपुण्यज्ञानोपयोगोक्त्यविरोधस्य चोपपत्तेः । तथोत्तरस्यापि पापस्याशुचित्वाद्यनापादकत्वरूपाश्लेषस्य अकाम्यपुण्यस्य च मोक्षे सुखातिशयहेतुत्वस्य चोपगमेन स्तुतिनयोक्तविरोधस्याभावात् । प्रारब्धपुण्यपापानां अप्रारब्धकाम्यपूर्वोत्तराभीष्यपुण्यकर्मणां च भोगेन क्षपणसम्भवाच्च । अतो बाधकाभावात् ज्ञानात्कर्मनाशादिकं युक्तमेवेति ज्ञानान्मोक्षो युक्त एव । एवं द्वेषिणोऽपि द्वेषपूर्तितः प्राक्कृताशेषाप्रारब्धपुण्यानां नाशस्य उदीचीनां अशेषपुण्यानामश्लेषस्य प्रारब्धपुण्यपापानां भोगेन क्षपणस्योपगमात् द्वेषिणस्तमःप्राप्त्युक्तिरप्युपपन्नेति । फलं तु प्रागुक्तप्रमेयसमर्थनं व्यक्तम् ॥ ८ ॥

॥ इति श्रीमद्राघवेन्द्रयतिकृतायां न्यायमुक्तावल्यां चतुर्थाध्यायस्य प्रथमः पादः ॥