॥ अथ चतुर्थः पादः ।

॥ ॐ पुरुषार्थोऽतःशब्दादिति बादरायणः ॐ ॥ १ ॥

॥ ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ ॐ आचारदशर्नात् ॐ ॥ ॐ तच्छतेः ॐ ॥ ॐ समन्वारम्भणात् ॐ ॥ ॐ तद्वतो विधानात् ॐ ॥ ॐ नियमाच्च ॐ ॥ ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ ॐ तुल्यं तु दर्शनम् ॐ ॥

पूर्वपादोक्तोपासनासाध्यज्ञानमाहात्म्यमत्रोच्यते इति पूर्वपादेनास्य सङ्गतिः । अत्र ज्ञानं किं मोक्षमात्रे हेतुरुत मोक्षेतरस्य स्वर्गादिपुरुषार्थहेतुरपीति चिन्ता । तदर्थं तत्र मानं नास्त्युतास्तीति । पूर्वपक्षस्तु । न ज्ञानं मोक्षेतरपुरुषार्थस्यापि हेतुः । मुमुक्षोस्त्रत्रेच्छाभावात् । सौभर्यादेरिवेच्छायाः भावेऽपि तद्धेतुत्वे मानाभावात् । तद्धेतुत्वपरश्रुत्यादेः कमर्णः तथात्वप्रतिपादकश्रुत्यादिविरोधात् । “कर्मैव देहं दैविकं मानुषं वाप्यन्वारभेन्न परस्तत्र हेतुः’ इत्यादि (माठर)श्रुतौ कर्मण एव मोक्षेतरफलहेतुत्वस्य “यदेव विद्यया’ इति श्रुतौ ज्ञान्यनुष्ठिते कर्मजन्यफलेऽतिशयाधायकत्वेन ज्ञाने कमर्शेषत्वस्य च श्रवणात् । अत एव ज्ञानकर्मणोः स्वर्गादौ तुल्यकक्षतया हेतुत्वशङ्कानवकाशः । तथा “नैव दैपदम्’ इति स्मृत्या ज्ञानिनामपि देवानां “यज्ञेन यज्ञमयजन्त देवाः’ इति कर्मानुष्ठानदर्शनेन ज्ञानस्यैव सर्वमुमर्थहेतुत्वे तदनुपपत्त्या च कर्मण एव हेतुत्वानुमानाच्च । एवमेव जैमिनिराचार्येरङ्गीकाराच्च । नच ज्ञानिनामाचारो मुक्तवल्लीलयान्यथोपपन्न इति शङ्क्यं “ज्ञानी च कर्माणि सदोदितानि कुर्यात्’ इति (कमठ) श्रुतौ ज्ञानिनोऽपि कर्मविधानात् । विहितत्वस्य च लीलात्वायोगात् । “कुर्वन्नेवेह कर्माणि’ इति (ई।२) उत्तरार्धे एवं कर्मकरणे त्वयि पापं कर्म न लिप्यते इति नास्तीति ज्ञानिनोऽपि कर्माकरणे प्रत्यवायश्रवणाच्च । ज्ञान्याचारस्य लीलात्वायोगादतः श्रुत्याचारविरुद्धत्वात् जैमिनिमतविरोधाच्च “यं यं लोकं मनसा’ इत्यादिकं (मुं।३-१-१०) ज्ञानस्य सर्वपुमर्थहेतुत्वपरं वाक्यं स्वर्गहेतुकर्मशेषेऽपि धनादौ “स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति’ इत्यादौ प्राधान्योक्तिवत् कर्मशेषभूतज्ञानप्राधान्योक्तिपरं नेयम् । नतु साक्षाद्ज्ञानस्य सर्वपुमर्थहेतुज्ञानशेषत्वपरम् । निरवकाशकल्पकाभावात्कर्मणः कृतावकृतौ च ज्ञानं मोक्षार्जनक्षममेवेति स्तुतिनये वक्ष्यमाणत्वेन ज्ञानेऽतिशयकरत्वयोगेन तच्छेषत्वायोगाच्चेति । सिद्धान्तस्तु । कमर्णो ज्ञानेऽतिशयाधायकत्वेन तच्छेषत्वायोगेऽपि “ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गः’ इति (कौण्ठवव्य) श्रुतौ ज्ञानादेव स्वर्गादिफलप्राप्तेः कर्मणो ज्ञानजन्यफलेऽतिशयाधायकत्वेन ज्ञानशेषत्वस्य च श्रवणात् “राजसूयजितान् लोकानश्वमेधाभिवर्धितान् । प्रा नुहि त्वं महाभाग’ इति भारतवाक्येन युधिष्ठिरादीनां राजसूययागादिना फलाधिक्यदर्शनरूपलिङ्गाच्च ज्ञानस्यैव सर्वमुपर्थहेतुत्वस्य कर्मणः ज्ञानजन्यफलेऽतिशयाधायकत्वेन ज्ञानशेषत्वस्यावगमेन अस्य बादरायणमतत्वेन च कर्मणः तद्धेतुत्वपरवाक्यादीनां तद्धेतुज्ञानशेषपरत्वेन नेयतया तद्विरोधाभावात् “यं यं लोकम्’ इत्यादि वाक्यबलात् बादरायणसम्मतत्वाच्च ज्ञानं मोक्षेतरसर्वपुमर्थहेतुर्भवत्येवेति । नचैवं जैमिनि बादरायणमतयोविर्रोधः देवमानुषरूपाधिकारिभेदेनाविरोधादिति । फलं तु ज्ञानादावतिशयेन प्रवृत्तिरिति ॥ १ ॥

॥ ॐ असार्वत्रिकी ॐ ॥ २ ॥

॥ ॐ विभागः शतवत् ॐ ॥ ॐ अध्ययनमात्रवतः ॐ ॥

पूर्वत्र ज्ञानात्सर्वपुमर्थाप्तौ न ज्ञानिनां सर्वेषां अधिकारः किन्तु उत्तमानां तत्रापि अप्रतिबद्धानामित्युक्तम् । इह ज्ञाने सर्वेषामधिकारो नेत्युच्यते इति सङ्गतिः । सर्वपुमथर्हेतुत्वेन पूर्वत्र प्रकृते ज्ञाने सर्वेषामधिकारोऽस्त्युत नेति चिन्ता । तदर्थं पुरुषविभागो नाङ्गीकार्योऽथाङ्गीकारार्ह इति । तदर्थमर्थित्वादिकमेवाधिकारे तन्त्रमुतान्यदपीति । तदर्थमर्थित्वाद्यधिकारप्रयोजकं नास्त्युतास्तीति । पूर्वपक्षस्तु । “अर्थी समर्थो विद्वानधिक्रियते’ इति न्यायसिद्धफलापेक्षित्वाद्यन्यस्य अधिकारप्रयोजकस्याभावात् तस्य च निर्दुःखसुखरूपमोक्षेऽर्थित्वस्य श्रवणादिसामर्थ्यस्य तदुपयुक्तवैदुष्यस्य च सम्भवेन सर्वेषु भावात् सर्वेषामर्थित्वरूपप्रयोजकसाम्येऽपि केषाञ्चिदेवाधिकारो नान्येषामिति पुरुषविभागाङ्गीकारस्य निर्बीजतया अनुचिततया केषाञ्चिदभावेऽन्येषामप्यभावापातेन ज्ञानस्य निरधिकारिकत्वप्रसङ्गात् अस्ति ज्ञाने सर्वेषामधिकार इति । सिद्धान्तस्तु । “पठेद्वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत् (कौषरव श्रुतिः) “अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते’ (ब्रह्मतर्क) इत्यादिश्रुतिस्मृतिसिद्धस्य साङ्गसफलयथाशक्तिकृत्स्नाध्ययनवत्त्वरूपप्रयोजकान्तरस्यापि सत्त्वेन अर्थित्वादिमात्रस्यातन्त्रता । “न च मोक्षो हि देवानाम्’ इति स्मृत्युक्तदिशा सर्वेषां देवत्वसाम्येऽपि परापरब्रह्मद्वयाधिकशतस्यैव सोमाधिकारो नान्येषामिति पुरुषविभागस्य युक्तत्वात् न सर्वेषां ज्ञानाधिकार इति । फलं तु कर्मापेक्षया ज्ञानेऽतिशयसमर्थनम् ॥ २ ॥ ण्।ं-१२

॥ ॐ नाविशेषात् ॐ ॥ ३ ॥

पूर्वं केषाञ्चिदेव ज्ञानाधिकार इत्युक्तमत्र तु केषाञ्चित्साध्येऽपि सम्पूर्णाधिकारो न सर्वेषामपि समर्थनात्सङ्गतिः । प्रकृतो ज्ञानाधिकारः किं सर्वेषां देवादीनामेकप्रकारोऽथ नानाप्रकार इति चिन्ता । तदर्थं “प्रज्ञान्तरपृथक्त्वदृष्यिश्च’ इत्यत्रोक्त (ब्र।सू।३-३-५२) दृष्यितारतम्यमधिकारनानात्वेन विना अधिकारिशक्तिनानात्वेनाप्युपपद्यतेऽथ नेति । पूर्वपक्षस्तु । अधिकारिणामुच्चावचशक्त्यैव प्रागुक्तज्ञानतारतम्योपपत्तेः कल्पकाभावान्न नानारूपेऽधिकार इति । सिद्धान्तस्तु । अधिकारिणां शक्तेरुच्चावचत्वस्य अधिकारोच्चावचत्वनिमित्तत्वेन तदभावेन शक्तितारतम्यस्याप्यभावात् । उपजीव्यत्वादधिकारतारतम्येनैव प्रागुक्तज्ञानतारतम्यस्य निर्वाह्यत्वेन तदन्यथानुपपत्त्या “अथ पुमर्थसाधनानि’ इति भाष्योक्त(कौण्डिण्य) श्रुत्या चाधिकारो नानाप्रकार इति देवोत्तमानामेव सम्पूर्णाधिकारो नान्येषामिति । फलं तु ज्ञानातिशयसमर्थनम् ॥ ३ ॥

॥ ॐ स्तुतयेऽनुमितिर्वा ॐ ॥ ४ ॥

॥ ॐ कामकारेण चैके ॐ ॥ ॐ उपमर्दं च ॐ ॥ ॐ ऊर्ध्वरेतस्तु च शब्दे हि ॐ ॥ ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ ॐ विधिर्वा धारणवत् ॐ ॥ ॐ स्तुतिमात्रमुपादनादिति चेन्नापूर्वत्वात् ॐ ॥ ॐ भावशब्दाच्च ॐ ॥ ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ ॐ अत एवा चाग्नीन्धनाद्यनपेक्षा ॐ ॥ ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ ॐ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ ॐ अबाधाच्च ॐ ॥ ॐ अपि स्मर्यते ॐ ॥ ॐ शब्दश्चातोऽकामचारे ॐ ॥ ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ ॐ सहकारित्वेन च ॐ ॥

एवं पूर्वत्राधिकारिभेदे सिद्धे अत्र त्रिविधाधिकारिभेदेन विरुद्धार्थकत्रिविधवाक्यानामविरोधो वर्ण्यत इति सङ्गतिः । अत्र प्रकृतज्ञानवतः किं सदाचारदुराचाराभ्यां विशेषो नास्त्युतास्तीति चिन्ता । तदर्थं “स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव’ इति (बृ।५-५-१) वाक्यं किं ज्ञानिमात्रस्य यथेष्याचरविधिपरमुत नियमेन सर्वसदाचारानुष्ठानादिपरमिति । तत्र ज्ञानिनः सत्प्रवृत्त्यादिना विशेषसत्त्वे ज्ञानस्य मुक्तिहेतुत्वनियमभङ्गादिरूपं ज्ञानकर्मसमुच्चयवादरूपं च बाधकमस्त्युत नेति चिन्ता । तदर्थं ज्ञानिनोऽसत्प्रवृत्तिः मोक्षस्वरूपप्रतिबन्धोत्पत्तौ हेतुः उत मोक्षगतसुखाधिक्यप्रतिबन्धोत्पत्तौ हेतुरिति । तदर्थं असत्प्रवृत्त्यादिना सुखाधिक्यप्रतिबन्धादिरूपविशेषसत्त्वे “यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’ इति श्रुतौ ज्ञानिनः सर्वान्नभक्षणेऽपि अविशेषोक्तिरयुक्तोत युक्तेति । पूवर्पक्षस्तु । सदसत्प्रवृत्तिभ्यां नास्ति ज्ञानिनो विशेषः “स ब्राह्मणः’ इति श्रुतौ ज्ञानिमात्रं प्रति यथेष्याचारस्य विधिलिङ्ङन्तस्याच्छब्देन विधानात् सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषविधेरप्यभावे सर्वविध्यतिदूरत्वरूपेशलक्षणस्यापि ज्ञानिनि प्रसङ्गात् । न चेदं वाक्यं ज्ञानिमात्रस्य न यथेष्याचारविधिपरं किन्तु ज्ञानिविशेषस्येति युक्तम् । सामान्यवाक्यस्य विशेषपरत्वकल्पकाभावात् । एवं च न केवलं यथेष्याचारे विध्यन्यथानुपपत्त्याऽविशेषो ज्ञानिः कल्प्यते किन्तु “तेनेदृश एव’ इति स्वेच्छाचरणाविशेषश्रवणाच्च । ननु न ज्ञानिमात्रस्य स्वेच्छाचारविधिपरत्वमस्य वाक्यस्योपपद्यते । “प्रातरुत्थायाथ सन्ध्यामुपासीत’ इत्यादि श्रुत्यनुरोधेन निषिद्धं कार्यमिति विध्यभावरूपया “ब्राह्मणो न हन्तव्यः’ इत्यादिनिषेधरूपया यक्त्या च विध्यादिविधिबन्धवर्जिततया नियमेन सर्वसदाचारानुष्ठानपरत्वमस्य वाक्यस्य परमाप्तजैमिन्याचार्यैर्यद्वर्णितं तथा “यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्यस्तस्य कार्यं न विद्यते ॥’ (भ।गी।३०१७) इति स्मृत्या आत्मरतिः परमात्मदर्शननिमित्तसुखमाप्तः आत्मन्येव च सन्तुष्यः परमात्मनिमित्तसन्तोषवत्त्वादेवहेतोः आत्मतृप्तः परमात्मप्रसादेन विषयेष्वलम्बुद्धिमाप्तः यः तस्य कार्यं नास्तीत्युक्त्यनुरोधेन अनाचरणप्रयुक्तासाम्यनिषेधकेदृश एवेति वाक्यशेषबलेन श्रुत्याद्युक्त्या आचारमध्ये केषाञ्चिच्चरणं केषाञ्चिदचरणमित्येवंरूपकामाचारपरत्वस्य यद्बादरायणाचार्यैर्वर्णितं तदुभयार्थपरत्वे च सति कथं विधिरूपैकार्थत्वपरत्वमुपेत्य ज्ञानिनो यथेष्याचारेप्यविशेष उच्यते इति चेन्मैवम् । तथात्वे वाक्यस्य पारिप्लवार्थत्वापत्त्या प्रामाण्याभावप्रसङ्गात् । किञ्च मास्तु साधकाभावात् ज्ञानिनो विशेषाभावः विशेषे साधकभावाद्भविष्यति । तथाहि । यदि ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषः स्यात्तर्हि असत्प्रवृत्त्या कुण्ठितशक्तिकस्य ज्ञानस्य मोक्षहेतुत्वभङ्गप्रसङ्गेन “अनियमस्सर्वेषाम्’ इत्युक्तमोक्षनियमभङ्गः स्यात् । सत्प्रवृत्तिसमुच्चितस्य ज्ञानस्य मुक्तिहेतुतापत्त्या “विद्यैव तु निर्धारणात्’ (ब्र।सू।३-३-४८) इत्युक्तिविरोधस्स्यात् । ज्ञानिनोऽसत्प्रवृत्त्या मोक्षाप्रतिबन्धे जिज्ञासोरपि तथा ज्ञानाप्रतिबन्धापातेन वैराग्यपादानर्थक्यप्रसङ्गात् । नच सत्प्रवृत्त्यादेः न मुक्तिस्वरूपे व्यापारः अपि तु मुक्तावानन्दातिशयाभिव्यक्तितत्प्रतिबन्धयोः व्यापार इति युक्तम् । तथात्वे ज्ञानिनः सर्वान्नभक्षरानुमतिश्रुतिव्याकोपः तत्र सर्वान्नभक्षणेऽपि अविशेषस्यैवोक्तेः । नच तस्य विषयान्तरपरत्वे कल्पकमस्तीति । सिद्धान्तस्तु । अस्त्येव ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषः केन स्यादिति वाक्यस्य ज्ञानिमात्रपरतया प्रतीतस्यापि ज्ञानिस्तुतिमात्रपरत्वे सर्वविध्यतिदूरत्वरूपेशलक्षणस्य अनीशेऽतिप्त्याध्यापत्तिरूपबाधकेन विधिपरत्वेऽपि जैमिनिबादरयाणाभ्यामुक्तरीत्या सर्वसदाचारानुष्ठानविधिपरत्वम् । सर्वमध्ये केषाञ्चिद्धर्माणामननुष्ठनामित्येवपरत्वं तदुक्तरीत्या स्वेच्छाचारविधिपरत्वमित्यर्थत्रयपरत्वस्यापि “विधिनियता मनुष्याः, अनियता हि देवाः, ब्रह्मैव स्वेच्छानियतः’ इति गौपवनश्रुतौ “स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदितः’ इत्यादि (ब्राह्म) स्मृतौ च मानुषदेवाविरिञ्चरूपाधिकारिभेदेन व्यवस्थोक्त्या विरोधाभावेन ज्ञानिमात्रस्य स्वेच्छाचारस्य वाक्यस्य प्रामाण्याभावात् । ज्ञानिनोऽसत्प्रवृत्त्या मोक्षाप्रतिबन्धस्य “कामचाराः कामभक्षाः’ इति (सामशाखा) श्रुत्या ज्ञानिनो निवर्त्यतया प्राप्तस्यारब्धकर्मणोऽपि किञ्चिदुपभुक्तस्य ज्ञानेनोपमर्दस्य “आत्मानमभिपश्योपमृद्य पुण्यं च पापं च’ इति (तुर) श्रुतिसिद्धतया कैमुत्यन्यायेन च सिद्धत्वेन अनियम इत्युक्तनियमभङ्गरूपस्य “य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत्’ इति (माठरश्रुतौ) ऊर्ध्वरेतस्त्वादिगुणयुक्तेष्वेवोपदेशविधानेन ज्ञानेऽसत्प्रवृत्त्या प्रतिबन्धस्य प्रमितत्वेन अतिप्रसङ्गरूपस्य केवलस्य ज्ञानस्यैव मोक्षस्वरूपनिष्पादकत्वेऽपि “पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्सुनियतमानन्दोत्कर्षमा नुयात्’ इत्यादि (कौषारवश्रुतिः) वाक्यबलेन मोक्षे सुखातिशयार्थे सहकारित्वेन सत्प्रवृत्त्यसत्प्रवृत्तिवर्जनयोः अपेक्षायामपि ज्ञानकर्मसमुच्चयवादापत्तिरूपस्य च बाधकस्याभावात् सर्वान्नानुमतिश्रुतेश्च भाष्याद्युक्तलिङ्गेन प्राणत्यागविषयत्वेन सावकाशत्वात् । किं च ज्ञानिनो निषिद्धस्याकरणे बाधकाभावात् स्वेच्छाचार उच्यते, करणष प्रमाणाभावाद्वा, निषेधकप्रमाणाभावाद्वा, करणे बाधकाभावाद्वा । नाद्यद्वितीयौ । असिद्धेः । न तृतीयः । “एवं पश्यन्न कामचरितं चरेत्’ इति (कौण्डिण्यश्रुतिः) “अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’ इति च निषेधकश्रुतिस्मृतिभावात् । न चतुर्थः । “आनन्दो ह्रसतेऽकार्यात्’ इति स्मृत्या आनन्दह्रासरूपबाधकस्य भावात् । तस्मादस्त्येव ज्ञानिनः सदसत्प्रवृत्तिभ्यां मक्तिवानन्दह्रासरूपो विशेष इति । फलं तु असदाचारेऽपि मुक्तिसम्पादनरूपज्ञानमहिमसमर्थनम् ॥ ४ ॥

॥ ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ॥ ५ ॥

॥ ॐ अनभिभवं च दशर्यति ॐ ॥ ॐ अन्तरा चापि तु तद्दृष्येः ॐ ॥ ॐ अपि स्मर्यते ॐ ॥ ॐ विशेषानुग्रहं च ॐ ॥ ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ ॥ ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥

पूर्वत्र विशेषितत्वादित्यत्र (ब्र।सू।३-४-२३) प्रकृतैः मन्दमध्योत्तमरूपाधिकारिभिरेव ज्ञानं प्राप्य नान्यैरित्यत्रोच्यत इति सङ्गतिः । अत्र ज्ञानं किमयोग्यैरप्याप्यं उत प्रकृतयोग्यैरेवेति चिन्ता । तदर्थं योग्यैरेवाप्यमित्यत्र कल्पकं नास्त्युतास्तीति । तथा योग्यप्राप्यत्वपक्षेऽपि किमयोग्यतायाः महाप्रयत्नेनाभिभवेन तेषामपि योग्यतोत्पत्तिरस्त्युत नेति । तदर्थमयोग्यता किं तेषामस्वभावः उत स्वभाव इति । तदर्थं तस्याः स्वभावत्वेन अनभिभवे ज्ञापकं नास्त्युतास्तीति । पूर्वपक्षस्तु । योग्यानामेवेत्यत्र प्रमाणाभावात् वेदायोग्यस्य प्रयत्नेन वेदप्राप्तिदर्शनेनायोग्यानामपि यत्नेन ज्ञानप्राप्तिरस्त्येव । ज्ञानस्य योग्यमात्रप्राप्यत्वपक्षेऽपि अयोग्यानामयोग्यताभिभवेन विप्रत्वदर्शनात् । न क्षत्रियत्वमस्वाभाविकं अयोग्यत्वं स्वाभाविकं न प्रयत्नेनाप्यनिवर्त्यमिति शङ्क्यम् । स्वाभाविकत्वे मानाभावात् । स्वाभाविकत्वे यवकलमबीजादेरिव स्वभावानुसारिफलत्वप्रसङ्गाच्चेति । सिद्धान्तस्तु । देशकालगुरूपसत्त्यादिमहोत्साहेऽपि अयोग्यानां न ज्ञानप्राप्तिः । किं तु योग्यानामेव । इन्द्रविरोचनयोश्चतुर्मुखोपदेशे समानेऽपि न सम्यक् ज्ञानप्राप्तिः प्रत्युत विपरीतज्ञानप्राप्तिरित्यस्य छान्योग्येऽष्यमे स्पष्यत्वेनेन्द्रादेर्ज्ञाप्राप्त्यादिलिङ्गेन तथाज्ञानहेतुप्रसादस्य मुक्तियोग्येष्वेव “ऋण्वे वीर उग्रम्’ इत्यादि (ऋ।६-४७-१६) सिद्धत्वेन तदन्यथानुपपत्त्या च तथावगमात् । न चायोग्यानामपि महाप्रयत्नेनायोग्यताभिभवेन योग्यतोत्पत्तिरस्त्विति युक्तम् । अयोग्यतायाः स्वभावत्वात् । नच ज्ञापकाभावः । “दैवीमेव सम्पत्तिं देवाः’ इति श्रुतौ “असुरा आसुरेणैव स्वभावेन’ इति (स्कान्द) स्मृतौ च अनभिभवस्य स्वभावत्वस्य च स्पष्यं श्रवणात् । तथा “नासुरा दैवीं न देवा आसुरीम्’ इत्यादि नियमश्रुत्या “नासुराणां दैवं रूपम्’ इत्यतद्रूपवत्त्वश्रुत्या “तं भूतिरिति देवा उपासाञ्चक्रिरे’ इति (ऐ।२-१-८) देवासुरयोरन्योन्यविपरीतोपासनेन सम्यक्फलविपरीतफलश्रुत्या च देवासुरमानुषाणां देवत्वादिस्वभावत्वप्रतिपादकजैमिन्याचार्यमतेन च “कनीयसा एव देवाः ज्यायसा असुराः’ इति (बृ।३-३-१) श्रुत्या “न जानामि’ इति (ब्राह्मे) जनसमूहप्रवेशनिषेधान्यथानुपपत्तिरूपलिङ्गेन चायोग्यतादेः स्वभावत्वानभिभवयोः तत्तत्स्वभावानुसारिफलसत्त्वावगमादिति । फलं तु मोक्षस्य योग्यतामात्रप्राप्यत्वसमर्थनम् ॥ ५ ॥

॥ ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ॥ ६ ॥

॥ ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ॥ ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ॥

पूर्वं ज्ञानस्यायोग्यप्राप्यत्वमुक्तमत्र तु योग्येष्वपि देवादिपदाकाङ्क्षाशून्यैरेव प्राप्यते न सर्वैरित्युच्यते इति वा प्रागुक्तदेवत्वादेः स्वाभाविकत्वमयुक्तम् । प्रयत्नसाध्यताश्रवणेन देवत्वस्यास्वाभाविकत्वादिति शङ्कनाद्वानन्तरसङ्गतिः । पूर्वत्र देवानां प्रकृतत्वात् सङ्गतं देवपदं देवेतरैः प्राप्तुं योग्यमुत देवैरेवेति चिन्ता । तदर्थं तत्पदप्राप्त्यर्थं इच्छाप्रयत्नकृतौ बाधकं नास्त्युतास्तीति । पूर्वपक्षस्तु । “स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति’ (भा।४-२४-२५) “वया विष्णोरेषस्य प्रभृथे हविर्भिः विदेहि रुद्रो रुद्रियं महित्वम्’ इत्यादि वाक्यबलेन विरिञ्चत्वादेः यत्नसाध्यतावगमेन चेतनत्वादिवत् देवत्वादेः स्वाभाविकत्वाभावेन यत्नैः सर्वैः प्राप्तुं शक्यत्वाच्चेतनत्वस्य स्वाभाविकत्वस्य सर्वसम्मतत्वात् देवत्वादिप्राप्तौ इच्छाप्रयत्नकृतौ बाधकाभावात् । अन्यथा ज्ञानभक्त्यादीच्छप्रयत्नावपि न स्यातामिति । देवादन्यैर्देवादिपदं प्राप्यमेव किं बहुना भगवदैश्वर्यमपि यत्नेन प्राप्यमिति । सिद्धान्तस्तु । देवतापदं भगवदैश्वर्यं वा न प्राप्यं तदिच्छाप्रयत्नयोरेवायोगात् । ब्रह्मादिपदेच्छावान् देवादिभिः पात्यते अशक्यतत्पदेच्छुत्वात् राजपदेच्छुवत् । देवादिपदप्रयत्नवान् पतति अयोग्यारोहप्रयत्नवत्वात् अयोग्यवृक्षारोहप्रयत्नयुक्तवदित्यनुमानेन अनर्थावगमात् । नच चेतनत्ववद्देहत्वादिकं न स्वाभाविकं इति अयोग्यत्वादिविशेषणमसिद्धम् । “देवासुरनरत्वाद्या जीवानां तु निसर्गतः’ इति वचनेन स्वभावत्वावगमात् “अन्यत्र शुभमाकाङ्क्षन्नपतेदविरोधतः’ इति वचनेन ज्ञानाद्याकाङ्क्षायामनर्थाभावस्यैवावगमेऽतिप्रसङ्गाभावादिति । फलं तु देवतापदवत् ज्ञानमपि योग्यप्राप्यमेवेति प्रागुक्तसमर्थनम् ॥ ६ ॥

॥ ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ ७ ॥

॥ ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥

पूर्वत्र ज्ञानस्येत्थम्भाव उक्तः अत्र तु फलनिष्पादनप्रकारः उच्यते इति सङ्गतिः । प्रकृतं ज्ञानं तत्त्वाभिमानिदेवानामेव फलनिष्पादकमुत प्रजानामपीति चिन्ता । तदर्थं क्रियाजन्यफलत्वे प्रयोजककर्तृत्वमेव प्रयोजकमुत कर्तृत्वमात्रमपीति । कर्तृत्वमपीत्यत्र हेतुर्नास्ति बाधकं चास्ति उत विपरीतमिति । तदर्थं कर्तृत्वमपि प्रयोजकमिति पक्षेऽपि किं प्रयोजककतरृसमानफलत्वमावश्यकमुत नेति । पूर्वपक्षस्तु । कर्तृत्वस्यापि प्रयोजकत्वे सङ्कोचकमानाभावेन स्वामिफलसमफलमेवावश्यं वाच्यम् । तच्च “स्वामी हि फलमश्नुते नास्वामी कमर् कुर्वाणः’ इति (माध्यन्दिनायन) श्रुत्या आत्रेयाचार्यमतेन च विरुद्धम् । लोके तक्षादेः प्रयोजकाधीनकर्तुरपि क्रियाजन्यफलादृष्येश्च श्रुत्यादिविरोधरूपबाधकाभावात् साधकाभावाच्च न कर्तृत्वमपि प्रयोजकम् । किन्तु प्रयोजककर्तृत्वरूपस्वामित्वमपि । सर्वेन्द्रियादिप्रेरकाणां देवानामेव प्रजाकृतश्रवणादिजन्यज्ञानफलं न प्रजानामिति । सिद्धान्तस्तु । तत्त्वाभिमानिदेवानां प्रजाकृतश्रवणादौ प्रयोजककर्तृत्वेन तत्फलस्य सम्पूर्णस्य “स्वामी हि’ इति श्रुत्या “ततो महत्तरं प्रोक्तं देवानाम्’ इति (वाराह) स्मृत्याऽऽत्रेयमतेन च सत्त्वावगमेऽपि देवानामिति श्रुतिविहिते ज्ञानदानादिकर्मणि प्रजानां ज्ञानोत्पत्त्यनुग्रहायैव सहकारित्वेनोपादानात् । सत्रे वैदेहादिना गृहपतिना सहकारित्वेनोपात्तानामृत्त्तिजामगृहपतीनामपि फलदर्शनाच्च अस्ति प्रजानामपि कर्तृत्वनिमित्तं ज्ञानजन्यफलमिति । फलं तु अनियम इत्युक्तमुक्तिनियमसमर्थनम् ॥ ७ ॥

॥ ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥ ८ ॥

॥ ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥

पूर्वत्र देवानां सम्पूर्णफलवत्त्वमुक्तमत्र तु सम्पूर्णवर्णाश्रमधर्मवत्वमुच्यत इति सङ्गतिः । अत्राश्रमभेदाभिन्नेषु ज्ञानिमनुष्येषु किं मुक्तौ गृहस्थ उत्तम उत यतिरिति चिन्ता । तदर्थं सर्वकर्मानुष्ठानयोग्यत्वमेव मुक्तावुत्तमत्वे प्रयोजकमुत चिरकालसाधनानुष्ठानमेवेति । तदर्थं मुक्तौ यतेराधिक्ये “आचार्यकुलाद्वेदमधीत्य’ इत्यादिगृहस्थमोक्षोपसंहारपरवाक्यविरोधोऽस्त्युत नेति । तदर्थं तत्किं मानुषविषयमुत देवविषयमिति । तदर्थं देवविषयत्वकल्पकं नास्ति बाधकं चास्ति उत विपरतीतमित । पूर्वपक्षस्तु । आश्रमान्तरस्थानां सर्वसत्कर्मसु योग्यताभावात् गृहस्थानामेव तद्योग्यत्वात्तस्यैवोत्तमत्वे प्रयोजकत्वाद्गृहस्थ एवोत्तमो न यतिः । अन्यथा छन्दोगोपनिषद्यष्यमाध्यायान्ते “आचार्यकुलाद्वेदमधीत्य’ इत्यादिना गृहस्थस्यैव “ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते’ इति (छां।८-१५-१) मोक्षोक्तिपूर्वकमुपसंह्रियमाणत्वेन गृहस्थस्यैव मुक्तौ अनुत्तमत्वे तात्पर्यावगमात् तद्विरोधः स्यात् । नचेदं वाक्यं देवपरं कल्पकाभावात् । नच तेषां कृत्स्नगृहस्थधर्मवत्त्वेन मुख्यगृहित्वमेव कल्पकम् । तथात्वे अत्वरया सिद्धिमद्यतिभ्यः त्वरया सिद्धिमद्गृहिणो नीचा इति वादिनः सिद्धान्तिनो मते मानुषयतिभ्यो देवानां मुक्तावाधिक्याभावापातादिति । सिद्धान्तस्तु । गृहस्थस्य सर्वसत्कर्माधिकारसत्त्वेऽपि तावदाचरणनियमाभावेन तत्सम्पाद्यमोक्षस्य “त्वरयैव गृहिणस्साधयन्ति मुक्तिमत्वरयैव यतयः’ इति (न्यायविवरणोदाहृत) श्रुत्या च अचितकालीनसाधनसाध्यत्वात् यतिमोक्षस्य गृहिमोक्षादपि चिरकालसाध्यत्वेनाधिक्यात् यतिरेव मुक्तावधिकः न गृही । न चैवं छन्दोगवाक्यविरोधः । “कृत्स्ना ह्येते गृहिणः’ इत्यादि (पौत्रायण) श्रुतौ देवानामेव कृत्स्नगृहस्थधर्मवत्त्वेन मुख्यगृहित्वोक्त्या छान्दोग्यवाक्येऽपि मुख्यगृहस्थदेवपरत्वस्य मुख्यामुख्यन्यायप्राप्तत्वात् । नचैवं मानुषयतिभ्यो देवानां मुक्तावाधिक्याभावप्रसङ्गो बाधकः । “कृत्स्ना ह्येते यतयः’ इति (पौत्रायण) श्रुतौ कृत्स्नयतिधर्मत्वस्याप्युक्तत्वात् तथा “देवा एव ब्रह्मचारिणः’ इति (कौण्ठरव्य) श्रुतौ सर्वाश्रमधर्मवत्त्वश्रवणाच्च यतितोऽप्याधिक्यसिद्धेरिति । फलं तु ज्ञानाधिकारिणामाधिक्योक्त्या ज्ञानमहिमसमर्थनम् । टीकायां तु गृहस्थ उत्तमो यतिर्वेति संशयानुपदर्शनं तु पूर्वोत्तरपक्षदिशा शिष्यैरेवोहितुं शक्यमिति सन्देहान्तरोक्त्यभिप्रायो भावदीपे व्यक्तः ॥ ८ ॥

॥ ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ ९ ॥

ज्ञानाधिकारिणामाधिक्यं चेदनकेषां ज्ञानाधिकारिणां ज्ञानसम्पादने फलाधिक्यादुपदेशोऽप्याविष्कारेण स्यादिति शङ्कनात्सङ्गतिः । अपरोक्षज्ञानसङ्गतपरोक्षज्ञानहेतूपदेशः किमाविष्कारेण कार्यमुत नेति चिन्ता । तदर्थमाविष्कारे साधकमस्ति बाधकं च नास्ति उत विपरीतमिति । पूर्वपक्षस्तु । सभाचत्वरादौ स्थित्वोपदेशे बहूनां तत्त्वज्ञानयोग्यानां ज्ञानोदयसम्भवात् तेन च फलाधिक्येन साधकभावात् बाधकाभावाच्च आविष्कारेणैवोपदेशः कार्य इति । सिद्धान्तस्तु । आविष्कारेणोपदेशे योग्यानामिवायोग्यानां उपदिष्याथर्ग्रहणप्रसङ्गात् । अयोग्योपदेशस्य च “मानस्तेनेभ्यः’ इत्यादि (२-२३-१६) श्रुत्या निषिद्धत्वेनानर्थहेतुत्वेन योग्येष्वेव ज्ञानोदयहेतुत्वेन फलातिशयहेतुत्वेन चोपपन्नत्वादनाविष्कारेणैवोपदेशः कार्य इति । फलं तु ज्ञानातिशयसमर्थनम् ॥ ९ ॥

॥ ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ १० ॥

पूर्वत्र परोक्षज्ञानस्यातिगोपनाख्येत्थम्भावोक्तिरयुक्ता । तस्य दृष्यिरूपफलव्यभिचारेण दृष्ययहेतुत्वादिति शङ्कानिरासात्सङ्गतिः । अत्र पूर्वत्र प्रकृतपरोक्षज्ञानसाध्यमपरोक्षज्ञानं किं साधनसम्पूर्तिजन्मन्येव भवतीति नियमः उत तत्र जन्मान्तरेवेत्यनियम इति चिन्ता । तदर्थं तस्मिन्जन्मन्यनुदयो तस्य कदाप्यनुदय एवापद्यते अथ नेति । तदर्थमनियमकल्पकं नास्त्युतास्तीति । पूर्वपक्षस्तु । श्रवणादिसाधनसम्पूर्तिजन्मनि अपरोक्षज्ञानानुदये यागादिसाधनसम्पूर्तिजन्मन्येव स्वर्गसुखानुदये तद्देहावच्छेदेन तादृशसुखभोगायोगरूपकारणस्येव इह प्रबलकारणाभावात् तस्य तज्जन्मन्यनुदये जन्मान्तरे तदुदय इत्यत्र कल्पकाभावात् कदाप्यनुदयस्यैवापातात् तस्मिन्जन्मन्येवापरोक्षज्ञानोदय इति । सिद्धान्तस्तु । साधनसम्पूर्तिजन्मनि यागफलस्वर्गानुदये तद्देहावच्छेदेन भोगायोगस्येव इहापि तद्देहे ज्ञानानुदये प्रारब्धकर्मप्रतिबन्धरूपकारणस्य सत्त्वात् तज्जन्मन्यनुदये जन्मान्तरे तदुदयस्तदभावे तज्जन्मनीत्यनियम एव । नच कल्पकाभावः “श्रुत्वात्मानं मतिपूर्वं ह्युपास्य इहैव दृष्यिं परमस्य विन्देत्’ इति श्रुतौ तथावगामादिति । फलं तु श्रवणादेर्ज्ञानहेतुत्वसमर्थनम् ॥ १० ॥

॥ ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ ११ ॥

यथा पूर्वत्र ज्ञानमैहिकमेवेत्यनियमः एवं मोक्षफलमपि तद्देहपातानन्तरमेवेति न नियम इति साधनात्सङ्गतिः । अत्र प्रकृतज्ञानसाध्यो मोक्षः यच्छरीरे ज्ञानमुत्पन्नं तद्देहपातानन्तरमेव भवतीति नियम उतानियम इत्येवं पूर्ववदेव चिन्तापरम्परा पूर्वपक्षसिद्धान्ताश्च ज्ञेयाः । विशेषस्तु उत्तरत्र ज्ञानसाधनपूर्तिमज्जन्मनि ज्ञानोदयो जन्मान्तरे वा तदुदय इत्यनियमे प्रारब्धप्रतिबन्धरूपकारणवत् इह तादृशकारणाभावे कल्पकं नेत्येव विशेषशङ्कायां “ब्रह्मसंस्थोऽमृतमेति’ इति ब्रह्मसंस्थस्य मोक्षावधारणान्यथानुपपत्तिः “विद्वानमृतमा नोति’ इति श्रुतिश्चानियमे कारणीभूतप्रतिबन्धाभावतद्भावकल्पकेति समाधानम् । फलं तु अनियम इत्युक्तसमर्थनम् ॥ ११ ॥

॥ इति श्रीराघवेन्द्रयतिविरचितायां न्यायमुक्तावल्यां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥