ज्ञानमपि परमात्माधीनम्
ज्ञानप्रकरणं
येन येन साधनेन यस्य यस्य यद्यज्ज्ञानं जायते तत्सर्वं परमात्मना जन्यत इति ज्ञानमपि परमात्माधीनम् । तद्द्विविधम् । संसारहेतु- र्मोक्षहेतुश्चेति । देहापत्यकलत्रादिषु ममतादिरूपं ज्ञानं संसारहेतुः ॥
(अ) अपरोक्षज्ञानप्रकरणम्
मोक्षसाधनं च ज्ञानं योग्यापरोक्षरूपम् । तद्बहुसाधन-सम्पत्तिजन्यम् । चतुर्मुखमारभ्य मनुष्योत्तमपर्यन्तं सज्जीवा- नामेवापरोक्षज्ञानं जायते । न तु तमोयोग्यानाम् । एकैकस्मिन्ब्रह्मकल्पे एकैकस्य ऋजोरपरोक्षज्ञानम् । एकैकस्य मुक्तिः ॥
(आ) अपरोक्षज्ञानसाधनप्रकरणम्
मोक्षसाधनीभूतापरोक्षज्ञानसाधनानि च विविधसांसारिकदुःख-दर्शनेन सज्जनसङ्गत्या चेहामुत्रफलभोगविरागः शमदमादि- सम्पत्तिर् अध्ययनसम्पत्तिः शरणागतिर् गुरुकुलवासस् तदुप-देशेन सच्छास्त्रार्थज्ञानरूपं श्रवणं श्रुतस्य तत्त्वस्य दृढीकरणाय मीमांसापरपर्यायो विचारो मननं गुरुभक्तिर्यथायोग्या परमात्मभक्तिः स्वाधमेषु सत्सु दया स्वसमेषु स्वात्मवत्स्नेह उत्तमेषु भक्तिर् निवृत्तकर्मानुष्ठानं निषिद्धसंत्यागः सर्वसमर्पणं तारतम्यपरिज्ञानं पञ्चभेदज्ञानं प्रकृतिपुरुषविवेकज्ञानम् अयोग्यदा उपासना चेति ब्रह्मादिसर्वयोग्यजीवसाधारणानि ॥
(१) गुरुप्रकरणं
गुरवोऽपि द्विविधाः । नियतगुरवोऽनियतगुरवश्चेति । शिष्य-रूपं सम्यग्ज्ञात्वा तद्योग्यविशिष्टभगवद्रूपविशेषविषयक- विधोपदेशकर्तारो नियतगुरवः । मनुष्योत्तमस्य ऋषयः । ऋषीणां चक्रवर्तिनां च ऋषयो देवाश्च । देवानां च स्वोत्तमा देवाः । तत्रापि सूर्यचन्द्रपदयोग्यौ देवौ सुरूपशान्तरूपनामकौ यौ तयोः सुमनोनामकगरुडपदयोग्यो देवो नियतगुरुः । तथा शक्रपदयोग्यस्य सुमन्तनाकमस्य सुमनोनामकगरुडपदयोग्य एव नियतगुरुः । सुमनोनामकगरुडपदयोग्यस्योग्रतपोनामकरुद्र- पदयोग्यस्य च ब्रह्मपदयोग्य ऋजुर्लातव्यो नियतगुरुः । तत्र मनुष्यादीनां बहुजन्मसु श्रवणम् । सूर्यचन्द्रपदयोग्ययोस्तु मन्वन्तरचतुष्टयं श्रवणकालः । इन्द्रपदयोग्यस्य दश मन्वन्तरं श्रवणकालः । गरुडपदयोग्ययोस्तु सार्धपरार्धकालः ॥
अनियतगुरवस्तु भगवत्तत्त्वमात्रोपदेष्टारः । तेभ्योऽपि श्रोतव्य- मेव । पूर्वप्राप्तगुरुस्सर्वथा न त्याज्यः । तदुत्तमप्राप्त्यौ पूर्वानुज्ञा न मृग्यते । समप्राप्तौ विकल्पः । अधमप्राप्तौ पूर्वानुज्ञा मृग्यत एव । स्वोत्तमास्सर्वेऽपि गुरवो ब्रह्मपर्यन्तम् । तेषु तत्त-न्माहात्म्यानुसारेण भक्तिः कर्तव्या । मोक्षार्थमनुज्ञाप्रदातृत्वात् । ज्ञानप्रयोजकत्वात् । शिष्यानुष्ठितश्रवणादिफलभोक्तृत्वाच्च । गुरोः शिष्यापेक्षयाष्टभागाधिकफलं भविष्यति । तस्माद तद्गुरोर्द्विगुणं फलम् । तस्मात्सार्धं फलमपरेषाम् । तेभ्यः सहस्त्र-गुणितं फलं देवानाम् । तेभ्यश्चतुर्मुखस्य महौघगुणितं फलम् । तत्र द्वात्रिंशल्लक्षणवत्त्वाद्ब्रह्मोत्तमोत्तमगुरुः । रुद्रादयस्तु क्रमाल्लक्षणहीना अमुख्या गुरवः । अतो गुरुभक्त्या गुरुप्रसाद- सम्पादनीयः ।
(२) तारतम्यप्रकरणं
तारतम्यं चास्मद्गुरुपादैस्सम्यगुपपादितं तारतम्यस्य सङ्ग्रहे तत्रैवानुसन्धेयम् ॥
(३) उपासनाप्रकरणम्
उपासना च द्विविधा । सततं शास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्र केषाञ्चिदधिकारिणां सततं शाखालोडनेनापरोक्षज्ञानं जायते । केषाञ्चिद्ध्यानेन ।
ध्यानं चेतरतिरस्कारपूर्वकभगवद्विषयकाखण्डस्मृतिः । तदेव निदिध्यासनम् । तच्च श्रवणमननाभ्यामज्ञानसंशयमिथ्याज्ञान- निरासेनेदमित्थमिति निश्चयवतो भवति । सा चोपासना आत्मत्वमात्रगुणविशिष्टत्वेन भगवद्विषया एकगुणोपासका- नाम् । सच्चिदानन्द आत्मेति चतुर्गुणविशिष्टभगवद्रूपविषया मनुष्योत्तमानाम् । देवर्ष्यादीनां तु यथायोग्यं बहुगुणविशिष्ट-व्याप्तभगवद्रूपविषया । देवेष्वपि ब्रह्मा वेदोक्तानन्तगुणक्रिया- विशिष्टानन्तरूपोपासनां करोति । सरस्वती तु क्रियांशे सामान्याकारेणैवोपासनां करोति । गरुडरुद्रौ च गुणक्रिययोः सामान्याकारेणानन्तभगवद्रूपोपासनां कुरुतः । इन्द्रादयस्तु गुणसामान्यतः क्रिया सामान्यतो रूपसामान्यत उपासनां कुर्वन्ति ।
देहान्तर्गतबिम्बोपासना केषाञ्चिदृषीणाम् । अग्निप्रतिमयो-रुपासना मनुष्याणाम् । व्याप्तोपासना देवानाम् । केषाश्चि- दृषीणां गन्धर्वाणामप्सरसां च । सर्वैरपि बिम्बरूपोपासनं कर्तव्यमेव । बिम्बरूपं च प्राज्ञरूपमिति सम्प्रदायविदः । तत्त्रिविधं प्रादेशमूलेशाग्रेशभेदात् । हृदयस्थप्रादेशोपासना-योग्याश्च केचन । हृत्कर्णिकामूलगताङ्गुष्ठाग्रपरिमाणरूप- मूलेशोपासकाच केचन । हृत्कर्णिकाग्रगताङ्गुष्ठपरिमितभगवद्रूपोपासकाश्च केचन ॥
ऋजूनां शतब्रह्मकल्प उपासनाकालः । रुद्रगरुडपदयोग्ययोस्तु चत्वारिंशद्ब्रह्मकल्पेषु मोक्षप्रयत्नः । शक्रस्य विंशतिकल्पेषु प्रयत्नः । सूर्यादीनां दशकल्पेषु प्रयत्नः । रुद्रपदयोग्यस्य सार्ध-परार्धस्य त्रिभागकाल उपासनाकालः I शक्रपदयोग्यस्य मन्वन्तरचतुष्टयमुपासनाकालः । सूर्यचन्द्रपदयोग्ययोस्तु एक-मन्वन्तरमुपासनाकालः । अन्येषां त्वेकमन्वन्तर एवोपासना- कालाः कतिपयाः ॥
(४) पञ्चभेदप्रकरण
पञ्चभेदास्तु जीवेशयोर्भेदः जीवानां च एस्परं भेदः जडेशयो- र्भेदः जडानां च परस्परं भेदः जडजीवयर्भेदः । एते पञ्चभेदा अनादिनित्या मुक्तावप्यनुस्यूताः ॥
(५) अपरोक्षज्ञानप्रकरणम्
एतत्साधनसम्पत्त्या ब्रह्मादिमानुषान्तमोक्षमानं यथायोग्यं जायते । तत्र मनुष्योत्तमानां विद्ब्रह्मापरोक्षज्ञानम् । . सूर्यमण्डलवत्तेजःपुञ्जत्वेन भगवद्विषयमपक्षज्ञानं देवानाम् । प्रतिबिम्बबद्गरुडरुद्रयोः । ब्रह्मणस्तु यावदायवविशिष्टत्वेन स्पष्टं भगवदपरोक्षज्ञानम् । व्याप्तोपासकानां केषाञ्चिद्ब्रह्माण्डान्तर्गत- तन्मात्रपरिमितभगवद्रूपापरोक्षज्ञानम् । सूर्यावराणां देवानां ब्रह्माण्डाद्बहिरपि पञ्चभूतपर्यन्तं स्थितभावद्रूपापरोक्षज्ञानम् । चन्द्रसूर्यौ तु मनस्तत्त्वपर्यन्तं व्याप्तभावद्रूपं पश्यतः । उमासौपर्न्णै महत्तत्त्वपर्यन्तं व्याप्तरूपं पश्यतः । गिरिशगरुडौ तमोगुणपर्यन्तं व्याप्तभगवद्रूपं पश्यतः । वाणी त्रैगुण्यात्परतः शतगुणितं व्याप्तरूपं पश्यति । ब्रह्मा यावदव्याकृताकाशं व्याप्तभगवद्रूपं पश्यति ।
ब्रह्मणः शतब्रह्मकल्पात्पूर्वं योग्यापरोक्षज्ञा जायते । पञ्चाश-द्ब्रह्मकल्पात्पूर्वं शिवगरुडपदयोग्ययोः । इन्द्रकामयोर्विंशति- ब्रह्मकल्पात्पूर्वमपरोक्षज्ञानम् । सूर्यादीनान्तु दशब्रह्म-कल्पात्पूर्वमपरोक्षज्ञानं जायते । अन्येषामेब्रह्कल्प एव ज्ञानं जायते । अपरोक्षज्ञानं च मानसम् । अणिमाद्यष्टैश्वर्यं च देवादीनामपरोक्षज्ञानजन्यम् ।तमोयोग्यानां तु नापरोक्षम् । किन्तु द्वेषपरिपाक एव तम-स्साधनम् । तत्साधनानि तु विषयलोलता त्रिविधगुरुद्वेषः नवविधहरिद्वेषः । एवं ज्ञानस्य परमात्माधीनत्वम् ॥
अज्ञानप्रकरणं
तथाऽज्ञानमपि परमात्माधीनम् ।
बन्धप्रकरणम्
बन्धोऽपि जीवस्य परमात्माधीनः । बन्धास्तु ईश्वरेच्छाविद्या कामकर्म लिङ्गशरीरं त्रिगुणात्मकं मनः स्थूलशरीरमित्यादि । एवं च सृष्ट्यादयो बन्धान्ताः परमात्माधीनाः ।
मोक्षप्रकरणं
तन्मोक्षोऽपि परमात्माधीनः । तथाहि अपरोक्षज्ञानानन्तरं परमभक्तिर्जायते । ततोऽत्यर्थप्रसादः । तस्मात्प्रकृत्यविद्यादिभ्यो मोक्षः ।
स चतुर्विधः कर्मक्षय उत्क्रान्तिर् अर्चिरादिमार्गे भोगचेति । कर्मक्षयस्त्वपरोक्षज्ञाने जाते सञ्चितस्य सर्वस्यापि पापस्यानिष्टस्य पुण्यस्य च सर्वात्मना विनाशः । विनाशो नाम अनिष्टपुण्यस्य कस्यचित्सुहृभ्यो दानम् । पापस्य कस्यचिद्वेषिभ्यो दानम् । केषाञ्चित्स्वरूपत एव नाशः । प्रारब्धकर्मणस्तु भोगेनैव नाशः । ब्रह्मणः शतब्रह्मकल्पपर्यन्तं पुण्यं प्रारब्धफलस्य सत्यलोकाधिपत्यादेरनुभवः । गरुडशेषयोः पञ्चाशद्ब्रह्मकल्प-पर्यन्तं पुण्यपापरूपप्रारब्धस्यानुभव इन्द्रकामयोर्विंशति- ब्रह्मकल्पपर्यन्तं पुण्यपापप्रारब्धानुभवः । सूर्यचन्द्रादीनां देवानां दशकल्पपर्यन्तं प्रारब्धानुभवः । अन्येषां मनुष्योत्तमानां त्वेकब्रह्मकल्पमात्र इति ।
प्रारब्धानुभवानन्तरं च ब्रह्मनाड्या देहादुत्क्रामन्ति । सुषुम्नानाडी ब्रह्मनाडी । सा मूलाधारमारभ्य मूर्धपर्यन्तमृजुरूपेण दीर्घ-शलाकावद्देहे वर्तते । सैव पञ्चभेदिनी ।
तथा ज्ञानिनो द्विविधाः । प्रतीकालम्बना अप्रतिकालम्बना- देहादिप्रतीकेऽपरोक्षज्ञानवन्तः प्रतीकालम्बनास् तदन्यत्रापरोक्षज्ञानवन्तोऽप्रतीकालम्बनाः । अप्रतीकालम्बनानां देवादिव्यतिरिक्तानां
केषाञ्चित्सुषुम्नानाडीमध्यादुत्क्रमणं तत्काले हृदयस्याग्रं प्रद्योतते । तत्प्रकाशितद्वारो निष्क्रामति । तदा प्राज्ञेनान्वारूढो भवति । तत्परमात्मनोऽग्रतो वायु- र्गच्छति। तथार्चिरादिमार्गेण गमनं भवति । तत्र तत्र लोकेषु पूजा च भवति । ततः क्रमेण वैकुण्ठलोकप्राप्तिः । तत्र तुरीयनामकभगवत्प्राप्तिश्च ।
प्रतीकालम्बनानां त्वन्तकाले नियमतो भगवत्स्मरणं जायते । सुषुम्नानाडीपार्श्वस्थनाड्या भगवत्प्रकाशयुक्तद्वारा गमनम् । अर्चिरादिलोकप्राप्तिः । क्रमेण वायुलोकप्राप्तिः । वायुलोक-प्राप्त्यनन्तरं च वायुरेव चतुर्मुखलोकं नयति । स च स्वशरीरलयानन्तरं वैकुण्ठं नयति ।
एवमेकगुणोपासकानामपरोक्षज्ञानानन्तरं न शरीरादुत्क्रमणम् ।किन्तु शरीरस्य श्वैतीभावेनोच्छूनता जायते । ततः क्रमेण शरीरस्य विनाशः । तेषां च पृथिव्यादावेवावस्थानम् । सर्वेषामपि सत्यलोके चतुर्मुखोपदेशः । श्वेतद्वीपे वासुदेव- दर्शनम् । ध्रुवलोकस्थशिंशुमारदर्शनं च नियतम् ।
तमोयोग्यानामपि द्वेषपरिपाकानन्तरं देहादुत्क्रमणं सर्वेषां कलिप्राप्तिः । कलेस्तु ब्रह्मणा सह लिङ्गभङ्गो वायु- गदाप्रहाराद्भवति ।
नित्यसंसारिणामपि लिङ्गभङ्गः । अन्यथा तत्स्वरूपमात्रस्य कदाप्यनुभवाभावप्रसङ्गात् । साधनानुष्ठानवैयर्थ्यप्रसङ्गाच्च । जनलोकमारभ्योर्ध्वलोकं गतानां न पुनरावृत्तिः । देवादीनां तु नोत्क्रमणं न वार्चिरादिमार्गः । मानुषादिषु जातानां तूत्क्रमणं मार्गश्च भवति । तदा न मुक्तिः । किन्तूत्तमेषु देहलयानन्तरमेव ॥ देहलयक्रमस्तु मार्गौ द्वौ गरुडमार्गः शेषमार्गश्चेति । तत्र गरुडः सौपर्णी इन्द्रो गुरुः सूर्योऽग्निरिति गरुडमार्गः । शेषो वारुणी कामोऽनिरुद्धः सोमो वरुण इति शेषमार्गः । अग्नेः सूर्ये लयः सूर्यस्य गुरौ लयः गुरोरिन्द्रे लय इन्द्रस्य सौपर्ण्य लयः सौपर्ण्याच गरुडे लयः । एवं वरुणस्य सोमे लयः सोमस्यानिरुद्धे लयो ऽनिरुद्धस्य कामे लयः कामस्य वारुण्यां लयः वारुण्यास्तु शेषे लयः ।
अन्येषां तु केषाञ्चिद्गरुडमार्गे केषाञ्चिच्छेषमार्गे प्रवेशः । तथाहि भृग्वादीनां दक्षे लयः दक्षस्येन्द्रे लय इति गरुडमार्गप्रवेशः ।आकाशाभिमानिनो गणेशस्य पृथिव्यभिमानिन्या धरायाश्च गुरौ लय इति गरुडमार्गप्रवेशः । कर्मजदेवानां प्रियव्रतगययोश्च स्वायंभुवमनौ लयः स्वायंभुवमनोरिन्द्रे लयः मरुद्गणानां जयादीनामपीन्द्रे लयः यमस्य मनौ लयः निर्ऋतेश्च यमे लयः पितॄणां यमे लयः । अग्निपुत्राणामाजानजादीनामवशिष्टानां देवानां चाग्नौ लय इति गरुडमार्गप्रवेशः । गन्धर्वाणां कुबेरे लयः । कुबेरस्य सोमे लयः । सनकादीनां तु कामे लयः । विष्वक्सेनस्यानिरुद्धे लय इति शेषमार्गप्रवेशः । गरुडशेषयोश्च सरस्वत्यां लयः । सरस्वत्याश्चतुर्मुखे लयः । चतुर्मुखस्य लक्ष्मीद्वारा परमात्मनि लयः । उमाया रुद्रे लयः । रुद्रस्य भारत्यां लयः । भारत्याश्च वायौ लयः । वायोश्च लक्ष्म्यां लयः ।
तेषां तदा न मुक्तिः किन्त्वेतद्ब्रह्मकल्पानन्तरमेष्यत्कल्पे वायो- ब्रह्मपदप्राप्तिः । भारती सरस्वती भविष्यति । रुद्रस्य शेषपद-प्राप्तिः । उमा वारुणी भवष्यिति । इत्येवं वाय्वादिचतुर्णां ब्रह्मादिभावानन्तरं मुक्तिः ।
एवं लयानन्तरं चतुर्मुखदेहे प्रविष्टानामेतद्ब्रह्मकल्पे लिङ्गभङ्ग- योग्यानां ब्रह्मणा सह विरजानदीनानेन लिङ्गभङ्गो जायते । विरजानदी च प्रधानाव्याकृताकाशयोर्मध्ये वर्तते लक्ष्म्यात्मिका । लिङ्गशरीरं च दशेन्द्रियाणि सूक्ष्मरूपाणि पञ्चप्राणाः सूक्ष्मरूपा मनश्च सूक्ष्मरूपम् आहत्य षोडशकलो- पेतम् । तस्य भङ्गो नाम जीवसम्बन्धनाशः । स्वरूपत एव नाश इति केचित् । प्रलयकाले सर्वेषां भगवदुदरे प्रवेशः । तदा न भोगः । किन्तु पुनः सृष्टयनन्तरं सृष्टिकाले भोगः ॥ तत्र भोगाश्चतुर्विधाः सालोक्यसामीप्यसारूप्यसायुज्यभोगवन्त इति । केचन भगवल्लोके यत्र कुत्रचित्स्थिता यथेष्टभोगवन्तः । केचन भगवत्समीपे यथेष्टभोगवन्तः । केचन चतुर्भुजाश्शंख- चक्राद्यायुधवन्तो यथेष्टभोगिनः । केचन भगवच्छरीरं प्रविश्य यथेष्टभोगवन्तः । एवं केचन क्षीरसागरगाः । केचनाश्वत्थ- वनगाः । केचनारण्याख्यसुधासमुद्रगाः । केचन बाह्योप- वनगाः । तत्र बहवो वृक्षाः । तेषु प्रतिशाखं धानापूपाः स्रवन्ति । तथा पायसकर्दमाः । मांसराशयश्च । तत्र तत्र मुक्तास्तत्तत्पदार्थभोगवन्तो भवन्ति । केचन स्त्रीभोगं कुर्वन्ति । केचन गजतुरगादीन् धावयन्ति । केचनदिव्याभरणादिमन्तः स्त्रीभिस्सह जलक्रीडां कुर्वन्ति । स्फटिकेन्द्रनीलमण्यादिनिर्मित- विचित्रसद्मप्रासादेषु रमन्ते । केचन ऋगादिवेदोच्चारणेन - भगवन्तं स्तुवन्ति । केचन सुखोद्रेकेण हावु हावु इत्यादि- शब्दानुच्चरन्ति । केचन पूर्वाभ्यासवशेन यज्ञादिकं कुर्वन्ति । केचनाजन्ममरणं स्मृत्वा हर्षं प्राप्नुयुः । केचनेच्छामात्रेण पित्रादिदर्शनवन्तो भवन्ति । केचन सर्वलोकचारिणः । केचन शुद्धसत्त्वनिर्मितलीलाशरीराण्युपादाय क्रीडन्ते । केचन भगव-गुणकर्माणि गायन्ति । केचन नृत्यन्ति केचन वाद्यानि वादयन्ति ।
सर्वेऽपि तारतम्यवन्त ईर्ष्यासूयादिदोषरहिता मोदन्ते । अपरोक्षज्ञानानन्तरमनुष्ठितकर्मोपासनादिवशादानन्दातिशयवन्तो
भवन्ति । अन्यथा तदनुष्ठानवैयर्थ्यापातात् । अनुतिष्ठन्ति च रुद्रादयः । तथाहि लवणार्णवे रुद्रेण दशकल्पं तपश्चीर्णम् ।शक्रेण कोटिवर्षं धूमः पीतः । सूर्येणायुतवर्षमर्वाक्शिरसा तपः कृतम् । आकाशशायिना धर्मेण सहस्रवर्षं मरीचयः पीताः । अत आनन्दातिशयः ।
स्वर्णकारः सुवर्णवत्परमात्मा मुक्तानां स्वेच्छयैव भोगार्थं कल्याणतमं महद्रूपं करोति । वैकुण्ठादौ विद्यमानाः सर्वेऽपि पदार्था लक्ष्म्याद्यात्मकाः ॥
मुक्तब्रह्मादीनां जगत्सृष्ट्यादिव्यापारो नास्ति । मुक्तस्वकीयावर-नियामकत्वं चास्त्येव । पुनस्संसारे नावर्तन्ते मुक्ताः ।
परमात्मा चात्र सकलभोगयुक्तः । मुक्तब्रह्मादिभिरीड्यमानो लक्ष्म्यात्मके विमिताख्ये पर्यंके शेते । तत्र प्रियकर्म गायती बहुधा विभूतिभिर्बहुमानं करोति महालक्ष्मीरित्यशेषमतिमङ्गलम् ॥
महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या । सुराद्या नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति ॥
रघुनाथार्यशिष्येण पद्मनाभेन धीमता ।
कृतः पदार्थसंक्षेपोप्यनुगृह्णन्तु सूरयः ॥ १ ॥
॥ इति श्री वेदगर्भ पद्मनाभसूरिविरचितः पदार्थसङ्ग्रहः समाप्तः ॥ श्रीकृष्णार्पणमस्तु