एवं पदार्थे निरूपिते तत्सृष्ट्यादिकर्तृत्वेन भगवज्ज्ञानं मोक्ष-साधनमिति सृष्ट्यादिकं निरूप्यते
सृष्टिस्थितिसंहारादिप्रकरणम्
सृष्टिप्रकरणम् - १
एवं पदार्थे निरूपिते तत्सृष्ट्यादिकर्तृत्वेन भगवज्ज्ञानं मोक्ष-साधनमिति सृष्ट्यादिकं निरूप्यते । परमात्मनः प्रलयान्ते सिसृक्षा भवति । ततः प्रकृतिं प्रविश्य क्षोभयति । ततो गुणत्रयात्मना विभजति । ततो महदाद्यण्डपर्यन्तं तत्त्वानि तदभिमानिब्रह्मादिदेवांश्च सृजति । ततश्चेतनाचेतनानामंशानुदरे निक्षिप्य ब्रह्माण्डं प्रविशति । ततो दिव्यवर्षसहस्त्रान्ते स्वनाभितः पद्मं जनयति । तच्च पद्मम् आद्यब्रह्मणः प्रथम-परार्धान्ते जायते । तत्पद्मे चतुर्मुखोऽजनि । चतुर्मुखो जगत्सृष्टौ साधनास्मृत्या दिव्यवर्षसहस्त्रपर्यन्तं तपः करोति । तत्तपसा प्रसन्नो भगवान्स्वदेहतः पञ्चभूतानि सृजति । ततश्चतुर्मुखान्त- र्गत सन् सन्नामको भूत्वा पञ्चभूतैः पद्मदलैश्चतुर्दशभुवनानि सृजति । पुनः सर्वे देवा अण्डान्तर्जायन्ते ॥
लक्ष्म्यादिनित्यानामपि पराधीनविशेषावाप्तिलक्षणोत्पत्तिर् ब्रह्मणः प्रतिदिनं भूर्भुवः स्वरिति लोकत्रयस्य सृष्टिविनाशौ । चतुर्युगसहस्त्राणि ब्रह्मण एकं दिनम् । तत्र चतुर्दशमन्वन्त- राणि । एकैकस्य मनोः सार्धाष्टादशलक्षवर्षाधिकैकसप्ततिमहा-युगा भुक्तिकालाः । एवं स्वर्गलोकाधिपतय इन्द्राश्चतुर्दश । कृतत्रेताद्वापरकलिभेदेन युगचतुष्टयम् । तत्र देवतामानेन चतुस्सहस्त्रवर्षाणि कृतयुगस्य । पूर्वोत्तरं च प्रत्येकं चतुश्शत- वर्षाणि सन्धिकालाः । तथा त्रेतायुगस्य त्रिसहस्त्रवर्षाणि । पूर्वोत्तरं च प्रत्येकं त्रिशतवर्षाणि सन्धिकालाः । एवं द्वापरयुगस्य द्विसत्रवर्षाणि । पूर्वोत्तरं प्रत्येकं द्विशतवर्षाणि सन्धिकालाः । तथा कलियुगस्यैकसहस्त्रवर्षाणि । पूर्वोत्तरं शतवर्षाणि सन्धिकालाः । तथा च द्वादशसहस्रवर्षाणि चतुर्युगस्य । एत- चतुर्युगस्याप्यावृत्तावेको महायुगः ।
सृष्टिकालविशेषः कल्पः । स द्विविधः महाकल्पः पाद्मकल्पश्चेति । ब्रह्मकल्पोऽपि द्विविधः । दिनकल्पो मनुकल्पचेति । प्रतिदिनं सृष्टिकालो दिनकल्पोऽष्टादशसहस्त्रात्मकः । ब्रह्मण एकैकस्मिन्दिने चतुर्दशमनुकल्पाः । ब्रह्मणः प्रतिदिनं राजसतामसैर्जनैः सात्विकजनोपद्रवे सति मत्स्यकूर्माद्यवतारा भविष्यन्ति । तत्रापि वैवस्वत मन्वन्तरे दशावताराः । अन्यत्रान्यावतारा अपि । एतैरवतारैरयोग्यजनसंहारः सज्जनोद्धारश्व भविष्यति ।
स्थितिप्रकरणम् - २
भगवता नानारूपैर्जगत्प्रविश्य जाग्रदाद्यवस्थाभिः पोषणं स्थितिः । अवस्थाश्च जाग्रत्स्वप्नसुषुप्तिमोहतुरीयभेदात्पञ्च- विधाः। देहेन्द्रियाद्यभिमानेन तत्तद्विषयानुभवात्सुखदुःखोत्पादो जाग्रदवस्था । तत्प्रवर्तको विश्वनामकः परमात्मा दक्षिणाय स्थितः । स च सप्ताङ्ग एकोनविंशतिमुखः । तदा हृदय-स्थजीवस्य दक्षिणाक्षिस्यविश्वप्राप्तिः । सांशजीवानामंशेन । निरंशजीवानां तु प्रकाशतः सा चावस्था ब्रह्मादि-सर्वचेतनानाम् ।
देहेन्द्रियाद्यभिमानेन मनसः स्वाप्नपदार्थानुभवः स्वप्नावस्था । तत्प्रवर्तकस्तैजसनामा भगवान्कण्ठदेशगतमनस्संस्थः । सोऽपि सप्ताङ्ग एकोनविंशतिमुखः । स्वप्नावस्था च सर्वजीवानाम् । तत्र जीवस्य तैजसप्राप्तिः ॥
बाह्यस्वाप्नपदार्थादर्शनेन स्वरूपानुभवः सुषुप्तिः । तत्र सर्वेन्द्रियाणामुपरमः । तत्प्रवर्तकः प्राज्ञः । तदा जीवस्य तत्प्राप्तिः । सा चावस्था रुद्रादिसर्वजीवानाम् । जाग्रदवस्थायां तैजसप्राज्ञाभ्यां विश्वस्यैकीभाव इत्यादि बोध्यम् ॥
मूर्च्छावस्था मोहावस्था । तदा दुःखमात्रानुभवः । तत्प्रवर्तको भगवान् । रूपविशेषस्तु अस्माभिर्न बुद्धो महान्तः प्रष्टव्याः । सा चावस्था रुद्रादिसर्वजीवानाम् । तत्रार्धप्राप्तिः परमात्मना जीवस्य ॥
तुरीयावस्था मोक्षः । सा च वक्ष्यते । तत्प्रवर्तकस्तुरीयनामा भगवान् । नासिकामारभ्य द्वादशाङ्गुलपरिमितदेशगतः । एवं गर्भादावपि भगवान्पोषकः ।
संहारप्रकरणम् – ३
संहारस्तु प्रलयः । स च द्विविधः । महाप्रलयोऽवान्तरप्रलय- चेति । गुणत्रयमारभ्य ब्रह्माण्डपर्यन्तस्य तदभिमानिब्रह्मादीनां च विनाशो महाप्रलयः । तदेश्वरस्य सञ्जिहीर्षा भवति । तया शेषान्तर्गतस्य परमात्मनो मुखादग्निज्वाला जायते । तया ब्रह्माण्डस्य सावरणस्य भस्मीभावः । कार्याणां कारणेषु लयः । प्रकृतिमात्रावस्थानम् । तदा लक्ष्म्यात्मकं महोदकम् । वटपत्रे लक्ष्म्यात्मके शून्यनामा नारायणः शेते । सर्वेऽपि जीवास्तदुदरं प्रविशन्ति । श्वेतद्वीपानन्तासनवैकुण्ठेषु श्रीभागानां न नाशः । अन्धतमसः न विनाशः । रौरवाद्यनित्यनरकाणां च विनाशः । प्रकृत्या क्षणलवादिकालमात्रसृष्टिः ॥ अवान्तरप्रलयस्तु द्विविधः । दैनन्दिनप्रलयो मनु प्रतिदिनं ब्रह्मणो रात्र्यागमे विनाशो दैनन्दिनप्रलयः । तत्र भूरादिलोकत्रयमात्रस्य विनाशः । इन्द्रादयस्तु तदा महर्लोकादिकं गच्छन्ति । एकैकमनुभुक्तिकालसमाप्तौ यो विनाशः स मनु-प्रलयः । तदा भूरादिलोकत्रयनाशो नास्ति । भूलोकस्थ- मनुष्यादिमात्रविनाशः । लोकद्वयस्थानां तु महर्लोकादिगमनम् । तदा लोकत्रयस्याप्युदकेन पूर्तिः ॥
**नियमनप्रकरणम् – ४
**नियमनं च येन येन क्रियते तत्सर्वं परमात्मप्रेरणयैव क्रियत इति परमात्मप्रेरणमेव ।
इति श्रीमत्पद्मनाभसूरिविरचिते पदार्थसङ्ग्रहव्याख्याने मध्वसिद्धान्तसारे सृष्टिस्थितिसंहारादिप्रकरणम् समाप्तम् ॥