ज्ञानकरणं त्रिविधम्
**प्रमाणप्रकरणम् **
**प्रत्यक्षानुमानप्रकरणम् - २९
**ज्ञानकरणं त्रिविधम् । प्रत्यक्षानुमानशब्दभेदात् । तत्र यथार्थज्ञानकरणानि प्रमाणानि । अयथार्थज्ञानकरणान्य-प्रमाणानि । यथार्थज्ञानमपि प्रमाणम् । स्वरूपेन्द्रियं साक्ष्यपि प्रत्यक्षरूपं प्रमाणम् । इन्द्रियार्थसन्निकर्षद्वारा चक्षुरादि- षडिन्द्रियाणि ज्ञानजनकानि । संस्कारद्वारा मनः स्मरण साधनम् । यथार्थस्मृतिरपि प्रमाणम् । दोषसहकारे- णेन्द्रियाण्ययथार्थज्ञानजनकानि ।
(२) अनुमानप्रकरणं
व्याप्तिज्ञानं समुचितदेशादौ सिद्धिचानुमानसहकारि । न तु पक्षधर्मताज्ञाननियमः ॥
शक्तिज्ञानमाकांक्षाऽऽसत्योश्च ज्ञानं शाब्दज्ञानकारणम् । न तु योग्यताज्ञानमपि । अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्व दर्शनात् । स्वातन्त्र्येण पदार्थस्मरणं न हेतुः । शक्तिज्ञान एवान्तर्भूतत्वात् ॥
साहचर्यनियमो व्याप्तिः । पदपदार्थयोर्वाच्यवाचकभावसम्बन्धः शक्तिः । तद्ग्रहश्च सादृश्यपुरस्कारेण सर्वधूमायोः सर्वपदार्थयोश्च भवति । न तु सामान्यप्रत्यासत्त्या ।
प्रत्यक्षादिजन्यं ज्ञानं सविकल्पकमेव । न तु निर्विकल्पकम् । मानाभावात् ॥
प्रत्यक्षप्रमाणमष्टविधम् । साक्षिषडिन्द्रिययथार्थज्ञानभेदात् ॥ अनुमानं त्रिविधम् । केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकि-भेदात् । अन्वयसहचारमात्रग्राह्यव्याप्तिकं केवलान्वयि । स्वातन्त्र्येणानुमितिहेतुर् व्यतिरेकसहचारमात्रग्राह्यव्याप्तिकं केवलव्यतिरेकि । व्यतिरेकव्याप्तिज्ञानमन्वयव्याप्तिज्ञानद्वाराऽनु- मितिहेतुः । न तु साक्षात् । व्यधिकरणत्वाद्व्यतिरेकव्याप्तेः । उभयसहचारग्राह्यव्याप्तिकमन्वयव्यतिरेकि । अत्राप्यन्वयव्याप्ति- ज्ञानमेवानुमितिहेतुः । व्याप्तिज्ञानकारणभेदाद्भेदः । स्वार्थं परार्थं चेति पुनर्द्विविधमनुमानम् । स्वार्थं स्वानुमितिहेतुः । परानुमितिहेतुः परार्थम् । यावता विना नानुमिति-
स्तावदवयवाः प्रयोक्तव्याः । न तु पञ्चावयव-नियमः ॥
आगमप्रकरणम् - ३०
आगमो द्विविधः । पौरुषेयापौरुषेयभेदात् । पौरुषेय आप्तोक्त एव प्रमाणम् । वक्तुराप्तता च विवक्षितार्थतत्त्वज्ञानम् । भ्रमप्रमादविप्रलिप्साकरणापाटवादिशून्यत्वं च । वेदानुसारित्वं वा । यथा भारतादि ।
अपौरुषेयस्तु सर्वोऽपि वेदः प्रमाणम् । वेदापौरुषेयत्वं च वेदेनैव सिद्धम् । उपक्रमादिषड्विधतात्पर्यलिङ्गैर्निर्णीतार्थक एव वेदः प्रमापकः । अन्यथा भ्रमजनकः ।
वेदार्थस्त्रिविधः । परमात्मा ब्रह्मादिदेवास्तदन्तर्गतभगवद्रूप चेति । परममुख्यया वृत्त्या परमात्मा प्रतिपादकः । तदन्य- प्रतिपादकता च मुख्यया लक्षणया गौण्योपचारेण रूढोपचारेण रूढलक्षणा चेति ।
मुख्यवृत्तिरपि त्रिविधा योगो रूढिर्योगरूढिश्चेति प्रयोगबाहुल्यमात्रं रूढिः । यथा गोघटादिशब्दानां गोघटादिषु । अवयववृत्तिर्योगः । यथा पाचकादिशब्दानां देवदत्तादौ । तदुभयं योगरूढः । यथा पङ्कजादिशब्दानां पद्मादौ । मुख्यान्वयानु-पपत्तिपूर्वकं मुख्यसम्बन्धवति वृत्तिर्लक्षणा । यथा गङ्गायां घोष इत्यत्र गङ्गापदस्य तीरे । मुख्यार्थसादृश्यवति वृत्तिर्गौणी । यथाग्निशब्दस्य माणवके । उपचारमात्रं यथा । चित्रलिखित-सिंहादौ सिंहशब्दस्य । तत्र प्रयोगबाहुल्यं चेद्रुढोपचारः । यथा तप्तायःपिण्डे दग्धृशब्दस्य । रूढलक्षणा यथा । मार्गा-श्चलन्तीत्यादौ मार्गादिशब्दानां तत्स्थे ॥
लक्षणापि त्रिविधा । जहदजहल्लक्षितलक्षणाभेदात् । मुख्यार्थ - परित्यागो यत्र तत्र जहल्लक्षणा । गङ्गापदस्य तीरे । मुख्यार्थस्या परित्यागो यत्र तत्राजहल्लक्षणा । छत्रिपदस्याच्छत्रिष्वपि । लक्ष्यं सम्बन्धीकृत्य तत्सम्बन्धिनि वृत्तिर्लक्षितलक्षणा । एकी- भवन्तीत्यादौ च्चिप्रत्ययस्य मत्यैक्यद्वारा मतिमत्सु । एता वृत्तयो जगति ।
परमात्मनि महायोगो महारूढिश्च । इन्द्रादिजगद्वाचिशब्दानां परमात्मनि महायोगः । योगार्थस्यैश्वर्यादेः परमात्म निरवधिकत्वात् । इन्द्रादिगताल्यैश्वर्यस्यापि परमात्माधीन-त्वाच्च । नारायणादिशब्दानां महायोगरूढिः ।
शक्तिश्च योग्येतरान्वितस्वार्थे व्यक्तावेव । न तु जातिविशिष्टे । गौरवात् । जातिभानं चाविनाभागवत् । अन्वयबोधश्च क्वचित्पदाध्याहारेण क्वचिदावृत्त्या कचित्तात्पर्यात् ।
विधिना प्रवर्तकं ज्ञानम् । निषेधेन निवर्तकं ज्ञानम् । विध्यर्थश्व बलवदनिष्टाननुबन्धित्वं कृतिसाध्यत्वम् इष्टसाधनत्वं च । न तु कार्यमपूर्वम् । तस्य कल्प्यत्वात् । तच्चापूर्वं फलसमानाधि- करणम् । न तु कृतिसमानाधिकरणम् । श्येनेनाभिचरन् यजेतेत्यादौ विधेरिष्टसाधनत्वेन लक्षणा । तस्य नरकादिबलवद-निष्टानुबन्धित्वात् । बलवदनिष्टानुबन्धित्वमिष्टसाधनत्वाभावश्व निषेधार्थः ॥अपभ्रंशानां तु न शक्तिः । किन्तु शक्तिभ्रमादाधुनिकसङ्केता-द्वार्थबोधः । वैदिकाश्शब्दाः साधवः । अपभ्रंशाश्वासाधवः । व्याकरणव्युत्पाद्यत्वं साधुत्वम् । तदभावोऽसाधुत्वम् ।
प्रमाणानां प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वम् । ज्ञानकारण-मात्रजन्यत्वमुत्पत्तौ स्वतस्त्वम् । ज्ञानग्राहकसाक्षिग्राह्यत्वनैयत्यं ज्ञप्तौ स्वतस्त्वम् । अन्यथाऽनवस्थानात् । स्वतस्त्वे संशयानु-पपत्तिर्बाधिकेति चेन्न । स्वतस्त्वस्यौत्सर्गिकत्वात् । बाधके स साक्षी प्रामाण्यं न गृह्णातीत्यभ्युपगमात् । अप्रामाण्यं च परतो ज्ञायते । उत्पद्यते चेति ॥
इति श्रीमत्पद्मनाभसूरिविरचिते पदार्थसङ्ग्रहव्याख्याने मध्वसिद्धान्तसारे प्रमाणप्रकरणं समाप्तम् ॥