दोषभिन्नत्वं गुणत्वम्
गुणप्रकरणं
दोषभिन्नत्वं गुणत्वम् ॥
रूपप्रकरणम् - १
शुक्लादिव्यवहारहेतुर्गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरित- कपिलचित्रभेदात्सप्तविधम् । पुनर्द्विविधम् । नित्यमनित्यं च । पुनर्द्विविधम् । उद्भूतमनुद्भूतं च । तत्र शुक्लनीलपीतरक्तादि-सप्तान्यपि नित्यानि रूपाणि परमात्मनः । तद्वलक्ष्म्या अपि रूपाणि । सर्वाण्यप्युद्भूतरूपाणि नित्यानि सर्वजीवानाम् । प्रकृतेः शुक्लरक्तनीलानि नित्यानि त्रीणि । तद्वद्गुणत्रयस्यपि । महत्तत्त्वस्य हेमवद्रूपम् । अहङ्कारादौ तु रूपवद्द्रव्यारब्धत्वाद्रूपं सम्भावितम् । भूतेषु तेजोजलपृथिवीष्वनित्यानि रूपा-युद्भूतानि । आकाशे त्वनुद्भूतम् । तत्र पृथिव्यां सप्तविधम् । शुक्लं जले । शुक्लभास्वरं तेजसि । नीलमाकाशतमसोः । सर्वाण्यपि रूपाणि वासनाप्रतिबिम्बयोश्च ।
रसप्रकरणम् - २
माधुर्यादिव्यवहारहेतुर्गुणो रसः । स च षड्विधः । मधुराम्ल-लवणकटुकषायतिक्तभेदात् । रूपवन्नित्यानित्यविभागवान् । ईशलक्ष्म्योर्मधुररसः । पृथिव्यां वासनायां च षड्रसाः । जले तु मधुर एव ।
**गन्धप्रकरणम् - ३
**सुरम्यादिव्यवहारहेतुर्गुणो गन्धः । स च द्विविधः सुरभिर-सुरभिश्चेति । पूर्ववन्नित्यानित्यविभागवान् । ईशलक्ष्मीमुक्तानां सुगन्ध एव । पृथिव्यां वासनायां च द्विविधोऽपि ।
स्पर्शप्रकरणम् – ४
शीतादिव्यवहारहेतुर्गुणः स्पर्शः । स त्रिविधः शीतोष्णा-नुष्णाशीतस्पर्शभेदात् । पूर्वोक्तविभागयुक्तः । तत्र हरौ लक्ष्म्यां च त्रिविधोऽपि नित्यश्च । शीतं जले । उष्णं तेजसि कालकूटविषेऽपरोक्षज्ञाने च ।
सङ्ख्याप्रकरणम् -५
एकत्वादिव्यवहारहेतुस्सङ्ख्या । एकत्वं द्विविधम् । नित्यमनित्यं चेति । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्व-त्रित्वादिकं च सर्वत्रापेक्षाबुद्धिजन्यमनित्यमेव । एकत्वाद्यनन्त-पर्यन्ता । सर्वपदार्थवृत्तिः ।
परिमाणप्रकरणम् - ६
अणुत्वादिहेतुर्गुणः परिमाणम् । तत् त्रिविधम् । अणुमहन्मध्यमं चेति । नित्यं त्रिविधमपि परिमाणमीशलक्ष्म्योर्युगपदेव । नित्यमणुपरिमाणं सर्वजीवेषु । अनित्यमणुपरिमाणमनित्य-गतम् । नित्यं महत्परिमाणमव्याकृताकाशप्रकृतिवर्णगतम् । काले क्षणलवादिरूपेऽनित्यं महत्परिमाणम् । कार्यद्रव्येषु सर्वत्र मध्यमपरिमाणमनित्यमेव । मुक्तानां महत्तत्त्वादिकमणि-माद्यष्टैश्वर्यरूपम् ॥
संयोगप्रकरणम् – ७
संयुक्तव्यवहारहेतुर्गुणः संयोगः । स द्विविधः नित्योऽनित्यश्च । ईशलक्ष्म्योरीशजीवयोर्वर्णाव्याकृताकाशयोर्वर्णानां च परस्परं संयोगो नित्य एव । अनित्यनित्यद्रव्ययोरनित्यानां च परस्परं संयोगोऽनित्य एव । उभयोस्संयोगस्तु नैकः । किन्तु भिन्नभिन्न एव । अनित्यसंयोग एकविध एव । अन्यतरकर्मजः । मल्लयो- स्संयोगस्तु नैकः । किन्तु द्वौ । अतोऽन्यतरकर्मज । स्थाणु- श्येनसंयोगवत् । संयोगजसंयोगस्तु नास्त्येव । हस्तशरीर-योरभेदेन हस्तपुस्तकसंयोगेन संयोगान्तरोत्पत्तेरयोगात् ।
विभागप्रकरणम् – ८
विभक्तव्यवहारहेतुर्गुणो विभागः । स द्विविधः । नित्योऽ - नित्यश्च । अनित्यद्रव्यगतोऽनित्यः । भगवद्रूपाणां परस्परं मूलरूपेण च विश्लेषशब्दवाच्यो विभागो नित्यः । संश्लेषवद-चिन्त्यशक्त्या घटनीयः ।
परत्वापरत्वप्रकरणम् -९
परापरव्यवहारकारणे परत्वापरत्वे । ते प्रत्येकं द्विविधे । काल-परत्वापरत्वे देशपरत्वापरत्वे चेति । पुनर्द्विविधे । नित्येऽनित्ये चेति । नित्ये देशकालपरत्वे उभे अपीशलक्ष्मीजीवेषु । नित्यं कालपरत्वमव्याकृताकाशादिनित्यद्रव्येषु । अनित्यं कालपरत्वं ज्येष्ठे । अनित्यं कालापरत्वं कनिष्ठे । अनित्यं देशपरत्वं दूरस्थेऽनित्यद्रव्ये । नित्यं देशापरत्वमीशलक्ष्म्योः । अनित्यं देशापरत्वं समीपस्थे वस्तुनि ।
द्रवत्वप्रकरणम् - १०
द्रवणहेतुर्गुणो द्रवत्वम् । तद्द्विविधम् । नित्यमनित्यं चेति । पुनर्द्विविधम् । सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं नित्यं द्रवत्वमीशलक्ष्म्योर्देवेषु जलान्तर्गतेषु । अनित्यं सांसिद्धिकं जले। नैमित्तिकं द्रवत्वं घृतसुवर्णादौ ।
गुरुत्वप्रकरणम् - ११
पतनाऽसाधारणकारणं गुरुत्वम् । नित्यमनित्यं चेति द्विविधम् । नित्यं गुरुत्वमीशलक्ष्म्योः । कृष्णे यशोदाप्रत्यक्षसिद्धम् । योगिनां मुक्तानां च गुरुत्वमष्टैश्वर्यान्तर्गतम् । अनित्यं गुरुत्वं पाषाणादौ कार्यद्रव्यमात्रे । पञ्चतन्मात्रावाय्वाकाशतमस्सु न गुरुत्त्वम् ।
लघुत्वप्रकरणम् - १२
हेतुर्गुण लघुत्वम् । तद्द्विविधम् । नित्यमनित्यं च । नित्यं लघुत्वमव्याकृताकाशवर्णव्यतिरिक्तेशादिद्रव्यवृत्ति अनित्यं लघुत्वमनित्यद्रव्यवृत्ति । वेगहेतुत्वं च लघुत्वस्य लाघवाति-शयेन वेगातिशयदर्शनात्तेज आदौ प्रत्यक्षसिद्धम् । गुरुत्वाभावो लघुत्वमिति च वैपरीत्यपराहतम् । प्रतियोग्यनपेक्षणाच्च ॥
मृदुत्वप्रकरणम् - १३
मार्दवव्यवहारहेतुर्मृदुत्वम् । नित्यानित्यभेदेन द्विविधम् । नित्यमीशलक्ष्मीमुक्तेषु । अनित्यं मृदुत्वमाकाशकाला- विद्यान्धकारतेजोवायुव्यतिरिक्तेषु कार्यद्रव्येषु ।
काठिन्यप्रकरणम् – १४
काठिन्यं द्विविधम् । नित्यमनित्यं च । नित्यमीशलक्ष्म्योः । अनित्यमनित्यमूर्तद्रव्ये । न च काठिन्यं निबिडावयवसंयोगो न गुणान्तरमिति वाच्यम् । सम्बन्धिद्वयप्रतीतिं विनाऽपीदं कठिन-मिति प्रतीतेः । अन्यथा गुरुत्वमपि गुणान्तरं न स्यात् ।
पृथक्त्वखण्डनप्रकरणम् - १५
अन्योन्याभावातिरिक्तं पृथक्त्वं नास्त्येव ।
स्नेहप्रकरणम् – १६
स्नेहो द्विविधः । मनः प्रावण्यं चूर्णादिपिण्डीभावहेतु । उभयमपि नित्यानित्यभेदेन द्विविधम् । आद्यं मनः प्रावण्यं चैतन्यमात्रे । अनित्यं मनःप्रावण्यं संसारिषु । नित्यश्चूर्णादि- पिण्डीभावहेतुरीशलक्ष्म्योः । अनित्यस्तु जलमात्रवर्ती ॥
शब्दप्रकरणम् - १७
शब्दस्तु ध्वनिः । नित्यानित्यभेदेन द्विविधः । नित्य ईशलक्ष्मी-मुक्तप्राप्तान्धतमसाम् । अनित्यस्त्वव्याकृतकाशाविद्यान्धकार-वर्णव्यतिरिक्तेषु सर्वत्र । आकाशमात्रगुण इति च न युक्तम् ।
पूर्वपूर्वगुणानामुत्तरोत्तरेषु अनुभवाच्च । भूतेष्वनुवृत्तेर्भागवतादावुक्तेः । अनुभवाच्च ।
बुद्धिप्रकरणम् - १८
बुद्धिर्ज्ञानम् । सर्वव्यवहारहेतुर्गुणः । तच्च ज्ञानं द्विविधम् । नित्यमनित्यं च । पुनर्द्विविधम् । यथार्थमयथार्थं च । यथार्थं नित्यज्ञानमीशलक्ष्मीसज्जीवस्वरूपम् । अयथार्थं नित्यं ज्ञानमसज्जीवस्वरूपम् । अनित्यं यथार्थज्ञानं ब्रह्मादिसर्वजीवा-नाम् । अनित्यमयथार्थज्ञानं रुद्रादिसर्वजीवानाम् । ब्रह्मवाय्वोः सरस्वतीभारत्योश्च नायथार्थज्ञानम् । पुनर्ज्ञानं द्विविधम् । अनुभवः स्मृतिश्चेति । ईशलक्ष्मीमुक्तानामनुभव एव । न तु संस्कारजन्या स्मृतिः । स्मृतिर्ब्रह्मादिसर्वजीवानाम् । अनुभवस्त्रिविधः । प्रत्यक्षानुमितिशाब्दभेदात् । ईशलक्ष्म्योः प्रत्यक्षरूपमेव ज्ञानं नत्वनुमितिर्न वा शाब्दम् । ब्रह्मादीनां तु त्रिविधमपि ज्ञानम् ॥
सुखप्रकरणम् - १९
सर्वैरनुकूलतया वेदनीयं सुखम् । तद्विविधम् । नित्यमनित्यं च । नित्यमीशलक्ष्मीसज्जीवस्वरूपम् । अनित्यं सुखं ब्रह्मादिसर्व-जीवानां संसारावस्थायामेव । उभयमपि ज्ञानवद्वहुतारतम्यो-पेतम् । नित्यसंसारिणां तु दुःखमिश्रं सुखम् । तमोयोग्या-नामनित्यं सुखं संसारावस्थायामेव । तारतम्योपेतम् ॥
दुःखप्रकरणम् -२०
प्रतिकूलतया वेदनीयं दुःखम् । तदपि नित्यानित्यभेदेन द्विविधम्। नित्यं दुःखं तमोयोग्यानां स्वरूपं तारतम्योपेतम् । नित्यसंसारिणां सुखमिश्रं दुःखं स्वरूपभूतम् । अनित्यं दुःखं सर्वजीवानाम् ।
इच्छाप्रकरणम् – २१
काम इच्छा । सा द्विविधा । नित्यानित्यभेदात् । दुष्टादुष्टभेदेन पुनर्द्विविधा । तत्रादुष्टनित्येच्छा ईशलक्ष्मीसज्जीवस्वरूपभूता । अदुष्टाऽनित्येच्छा सर्वजीवानां संसारे । नित्यदुष्टेच्छा तमोयोग्य-स्वरूपा । अनित्यदुष्टेच्छा रुद्रादिसर्वजीवानाम् । ब्रह्मवायुतत्स्त्रीणां तु नासद्विषयेच्छा ।
द्वेषप्रकरणम् – २२
क्रोधो द्वेषः । स द्विविधः । नित्यानित्यभेदात् । नित्यः क्रोध ईशलक्ष्मीसर्वजीवानां स्वरूपम् । अनित्यः संसारिजीवानां बाह्यः ।
प्रयत्नप्रकरणम् - २३
प्रवृत्तिः प्रयत्नः । नित्यानित्यभेदात्सोऽपि द्विविधः । नित्यः प्रयत्न ईशलक्ष्मीसर्वजीवानां स्वरूपम् । अनित्यः प्रयत्नः संसारिणाम् । बुध्यादिप्रयत्नान्तं मनोधर्म एवानित्यम् । तत्स्वामित्वात्तदनुभवितृत्वाज्जीवस्य ।
धर्माधर्मप्रकरणम् – २४
धर्माधर्मौ पुण्यपापे । नित्यानित्यभेदेन तौ द्विविधौ । पुन- द्विविधौ । अल्पमहद्भेदात् । अनित्यौ द्विविधौ । काम्यकर्मजा - काम्यकर्मजभेदात् । तत्रेशलक्ष्म्योः पुण्यपापसम्बन्ध एव नास्ति । नित्यं पुण्यं ब्रह्मादिसज्जीवस्वरूपम् । ज्ञानोत्तरभाविसत्कर्मणाऽभिव्यज्यते । मोक्षे आनन्दातिशयहेतुः । अनित्यं पुण्यं सर्वजीवानां बाह्यम् । काम्यकर्मजमकाम्यकर्मजं च । ज्ञाना- त्पूर्वभाव्यकाम्यकर्मजं पुण्यमपरोक्षज्ञानहेतुरन्तःकरणशुद्धिद्वारा । काम्यकर्मजं पुण्यमनित्यं स्वर्गादिकाम्यफलहेतुः । पुनर द्विविधम् । इष्टानिष्टभेदात् । अनिष्टपुण्यस्य कस्यचिद्भोगेन नाशः । कस्यचिदपरोक्षज्ञानेन नाशः । इष्टपुण्यस्य न ज्ञानेन नाशः । ज्ञानोत्तरं मोक्षे वा भोगानुकूलम् । पुनः काम्यपुण्यं द्विविधम् । प्रारब्धमप्रारब्धं चेति । भोक्तुमारब्धं प्रारब्धम् । सञ्चितं भोक्तव्यमप्रारब्धम् । महतः प्रारब्धस्य पुण्यस्य भोगेनैव नाशः । ब्रह्मादिसज्जीवानाम् अल्पस्य प्रारब्धस्य ज्ञानेन विनाशः ।
पापप्रारब्धस्यापि भोगेन नाशो रुद्रादिसर्वजीवानाम् । नित्यं पापमीषद्रुदादिसज्जीवस्वरूपम् । तच्च श्रेष्ठापराधादपरोक्षज्ञाना- नन्तरमभिव्यज्यते । मुक्तावधिकानन्दस्य प्राप्तव्यस्य ह्रासकारणं देवानाम् । मनुष्योत्तमानां तु क्लृप्तानन्दस्यैव ह्रासकारणम् । नित्यं महत्पापं तमोयोग्यस्वरूपम् । तमस्साधनम् । अनित्यं पापं भगवद्वेषपरिपाकहेतुः । द्वेषपरिपाकानन्तरं च कृतं पापं तमसि दुःखातिशयहेतुः । तेषामनित्यपुण्यमैहिकपुरुषार्थहेतुः । न तु स्वर्गादिपारलौकिक-सुखहेतुः । द्वेषपरिपाकेन च संचितस्येष्टपुण्यस्य सर्वस्यापि विनाशः । अनिष्टपुण्यस्याविनाशः । अनिष्टपापस्य तु तमस्यनुस्यूतिः । प्रारब्धपुण्यपापयोस्तु भोगेनैव विनाशः । एतयोरेवादृष्टमिति नाम । तच्च कार्यमात्रं प्रति कारणम् ।
संस्कारप्रकरणम् – २५
संस्कारश्चतुर्विधः । वेगो भावना योग्यता स्थितस्थापक चेति । धावनादिक्रियाहेतुर्गुणो वेगः । स द्विविधः । नित्योऽनित्यश्च । नित्य ईशलक्ष्मीप्रकृतिजीवस्वरूपभूतः । अनुभवजन्यः स्मृतिहेतुस्संस्कारो भावना । अनित्यैव । ईशलक्ष्मीमुक्तानां स्मरणाभावान्न भावना । हठाख्ययोग्यताऽनादिरूपा । मोक्ष-तमसोस्तत्साधनानां तारतम्यस्य च व्यवस्थापिका । अन्यथा साङ्कर्यात् । सा ब्रह्मादिसर्वजीवानां स्वरूपभूतैव । पूर्वा-वस्थापादकः स्थितस्थापकः । नित्योऽनित्यश्चेति द्विविधः । नित्य ईशलक्ष्म्यादिस्वरूपभूतः । अनित्यः कटधनुरादिवर्ती ॥
आलोकप्रकरणम् – २६
रूपादिज्ञानहेतुरालोकः । स द्विविधः नित्योऽनित्यश्च । नित्य ईशलक्ष्मीमुक्तजीवानां स्वरूपम् । अनित्यो अनित्यतेजो-मात्रवृत्तिः । दीपेनैव सह गमनागमनरूपानुविधानाद्गुणत्वम् ॥
शमदमादिगुणप्रकरणम् - २७
शमो बुद्धेर्भगवन्निष्ठता । नित्यानित्यभेदेन द्विविधः ।ईशलक्ष्मीब्रह्मादिसज्जीवस्वरूपभूतः । अनित्यः सकलजीवानां बाह्यः ।
इन्द्रियनिग्रहो दमः । नित्यानित्यभेदेन द्विविधश्शमवत् । कृपा दया । नित्यानित्यभेदेन साऽपि द्विविधा । नित्या ईश-लक्ष्मीसज्जीवस्त्ररूपभूता । अनित्या सर्वजीवानाम् । सुखदुःखादिद्वन्द्वसहिष्णुता तितिक्षा ।
कृपावन्नित्याऽनित्या च । परापेक्षां विना कार्यानुकूलगुणो बलम् । तद्द्विविधम् । नित्याऽ-नित्यभेदात् । नित्यं बलं चेतनमात्रस्य । अनित्यं संसारिणां बाह्यम् ।
भयं नित्यानित्यभेदेन द्विविधम् । नित्यं भयं दैत्यस्वरूपभूतम् । लज्जाऽपि स्वरूपास्वरूपभेदेन द्विविधा । स्वरूपभूता लज्जा लक्ष्म्यादीनामपि । अनित्या संसारिणाम् ।
गाम्भीर्यादीनि सौन्दर्यान्तानि द्विविधानि पूर्ववज्ज्ञेयानि । प्रभृतिशब्देन शब्दादयो ग्राह्याः ।
पाकजादिप्रक्रियाप्रकरणम् - २८
रूपरसगन्धस्पर्शशब्दाः पृथिव्यां पाकजा अपाकजाच ॥ अन्यत्रापाकजाः ।
कारणं द्विविधम् । उपादानकारणमपादानकारणं चेति । परिणामिकारणमेवोपादानकारणम् । अपादानकारणमेवनिमित्तकारणमित्युच्यते । कार्यं सदसदात्मकम् । उत्पत्तेः पूर्वं कारणात्मना सत् कार्यात्मनाऽसच्च । उत्पत्त्यनन्तरं कार्यात्मना सत् कारणात्मनाऽसच्च । उपादानोपादेययोर्भेदाभेदौ । यावद्द्रव्यभाविनां गुणक्रियाजातीनां गुण्यादिभिरत्यन्ताभेद एव । अयावद्द्रव्यभाविनां तु भेदाभेदौ । उपादानगता एव गुणाः कार्यगाः ॥
ज्ञानोत्पत्तिक्रमस्तु । आत्मा मनसा संयुज्यते । मन इन्द्रिये
-णेन्द्रियमर्थेन । ततोऽन्तःकरणमेव ज्ञानात्मना परिणमते । ज्ञाना-दिच्छा। इच्छातः प्रवृत्तिः । अपरोक्षज्ञानहेतुरिन्द्रियार्थ सन्निकर्षस्संयोग एव । गुणादिभिरपीन्द्रियस्य संयोग एव । ज्ञानविषययोस्तु विषयविषयिभावो ऽन्तःकरणस्थितस्य ज्ञानस्य बाह्यघटादिना संयोगाभावात् ॥
॥ इति श्रीपद्मनाभसूरिविरचिते पदार्थसङ्ग्रहे गुणनिरूपणं समाप्तम् ॥