द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणम्
द्रव्यप्रकरणं
द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणम् । द्रवणं च गमनम् । उपादानकारणत्वं वा द्रव्यत्वम् । उपादानत्वं च परिणामोऽभि - व्यक्तिश्चेति द्विविधम् ॥
परमात्मप्रकरणम् - १
तत्र परमात्माऽनन्तगुणपरिपूर्णः । सृष्ट्याद्यष्टकर्ता । सर्वज्ञः । परममुख्यया वृत्त्या सकलशब्दवाच्यः । जडजीवप्रकृति- भ्योऽत्यन्तविलक्षणः । ज्ञानानन्दाद्यात्मककल्याणविग्रहवान् । सर्वस्वतन्त्रः । एक एव । नानारूपः । सर्वाण्यपि रूपाणि पूर्णानि । स्वरूपगुणावयवक्रियादिभिरत्यन्ताभिन्नः ॥
लक्ष्मीप्रकरणम् - २
परमात्मभिन्ना तन्मात्राधीना लक्ष्मीः । परमात्मवन्नित्यमुक्ता तद्भार्या नानारूपा । परमात्मवज्जडदेहरहिता । तद्वत्सर्वशब्दवाच्या । देशकालाभ्यामेव परमात्मना समव्याप्ता ॥
जीवप्रकरणम् – ३
अज्ञानादिदोषयुक्ताः संसारिणो जीवाः । असङ्ख्याका गणशोऽप्यनन्ताः । ते च त्रिविधाः । मुक्तियोग्या नित्य- संसारिणस्तमोयोग्याचेति ॥
तत्र मुक्तियोग्याः पञ्चविधाः । देवर्षिपितृचक्रवर्तिमनुष्योत्तम-भेदात् । ब्रह्मवाय्वादयो देवाः । ऋषयो नारदाद्याः । पितरश्चिराः । रध्वम्बरीषादयश्चक्रवर्तिनः । मनुष्योत्तमास्तु द्विविधाः ॥ चतुर्गुणोपासका एकगुणोपासकाश्चेति । तृणजीवा एकगुणो- पासकाः । तव्यतिरिक्ताश्चतुर्गुणोपासकाः । नित्यं सुखदुःख- मिश्रा नित्यसंसारिणः । ते च मध्यममनुष्या एवासङ्ख्याताः । सर्वदा स्वर्गभूनिरयचारिणः । तमोयोग्यास्तु चतुर्विधाः । दैत्या राक्षसाः पिशाचा मनुष्याधमाश्चेति । सर्वेऽपि जीवाः परस्परं परमात्मना च भिन्नाः । संसारे मुक्तौ च तारतम्योपेता जीवाभिमानिनो ब्रह्मादयः ॥
अव्याकृताकाशप्रकरणम् - ४
सृष्टिप्रलययोर्विकारशून्या दिगव्याकृताकाशम् । भूताकाश-भिन्नम्। एकं नित्यं व्याप्तं स्वगतं वा । प्राच्यादिस्वाभाविकावयवोपेतं च । तदभावे मूर्तं निबिडं जगत्स्यात् । लक्ष्मीस्तस्याभिमानिनी ।
मूलप्रकृतिप्रकरणम् - ५
साक्षात्परम्परया वा विश्वोपादानं प्रकृतिः । जडरूपा । व्याप्ता च । तदभिमानिनी रमा । सर्वजीवलिङ्गशरीररूपा । तद्भिन्ना चेत्यनेकविधा ।
गुणत्रयप्रकरणम् - ६
सत्त्वरजस्तमोनामकानां गुणानां समुदायो गुणत्रयम् । सृष्टिकाले मूलप्रकृतेस्सकाशात्परमात्मना त्रेधा भिन्नम् । महदादिजगदुपादानम् । तमोगुणापेक्षया रजोगुणो द्विगुण- परिमाणयुक्तः । रजोगुणापेक्षया सत्त्वगुणो द्विगुणपरिमाण-युक्तः । सत्त्वरजोभ्यां मिश्रं च तमः । तमस्सत्त्वाभ्यां मिश्रं च रजः । सत्त्वं तु शुद्धमेव । तत्र शुद्धसत्त्वं मुक्तानां लीला-विग्रहाय भवति । रजोगुणेन सृष्टिः । रजोगुणस्थसत्त्वेन स्थितिः । तमोगुणेन विनाशः । सत्त्वाभिमानिनी श्रीः । रजोभिमानिनी भूः । तमोभिमानिनी दुर्गा रमैव । ब्रह्मा गुणत्रयाभिमानिनः ॥
महत्तत्त्वप्रकरणम् – ७
साक्षाद्गुणत्रयोपादानकं महत्तत्त्वम् । तमोगुणापेक्षया दशगुण-परिमाणन्यूनम् । ब्रह्मवायू तत्स्त्रियौ च तदभिमानिनः ।
अहङ्कारतत्त्वप्रकरणम् - ८
महत्तत्वोपादानकमहङ्कारतत्वम् । वैकारिकतैजसतामसभेदेन त्रिविधम् । महत्तत्वाद्दशांशन्यूनम् । गरुडशेषरुद्रादय-स्तदभिमानिनः ।
बुद्धितत्त्वप्रकरणम् - ९
बुद्धिर्द्विविधा । तत्त्वरूपा ज्ञानरूपा चेति । तत्र तत्त्वरूपा द्रव्यम् । तत्त्वरूपा महत्तत्त्वजन्या । तैजसाहङ्कारेणोपचिता । ज्ञानरूपा बुद्धिर्ज्ञानप्रकरणे वक्ष्यते । ब्रह्माद्युमान्तास्तदभिमानिनः ।
मनस्तत्त्वप्रकरणम् - १०
मनो द्विविधं तत्त्वरूपं तद्भिन्नं चेति । वैकारिकाहङ्कारोपादानकं मनस्तत्त्वम् । पूर्वोक्तदेवता इन्द्रकामानिरुद्धाश्च तदभिमानिनः ।
तत्त्वभिन्नं मन इन्द्रियम् । तद्विविधम् । नित्यमनित्यं चेति । नित्येन्द्रियमीशलक्ष्मीब्रह्मादिसर्वजीवानां स्वरूपभूतम् । अनित्येन्द्रियं ब्रह्मादिसर्वजीवानां बाह्यम् । तत्पञ्चविधम् । मनोबुद्धिरहङ्कारश्चित्तं चेतनेति ।
इन्द्रियतत्त्वप्रकरणम् – ११
इन्द्रियाण्यपि द्विविधानि । तत्त्वभूतानि तत्त्वभिन्न पुनर्द्विविधानि । ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चेति । प्राणरस- नचक्षुः श्रोत्रत्वग्रूपाणि ज्ञानेन्द्रियाणि पञ्च । वाक्पाणिपादपायूप- स्थानि कर्मेन्द्रियाणि पञ्च । नित्यानित्यभेदेन पुनर्द्विविधानि । तत्र तत्त्वरूपाण्यनित्यानि ज्ञानकर्मेन्द्रियाणि तैजसाहङ्कारो पादानकानि ।
तत्त्वभिन्नानि नित्यानि ज्ञानकर्मेन्द्रियाणीशलक्ष्मीसर्वजीवानां स्वरूपभूतानि । तानि साक्षीत्युच्यन्ते । ईशलक्ष्म्योर्दशे- न्द्रियाण्यपि प्रत्येकं गन्धादिसर्वपदार्थविषयकाणि । मुक्तानाम-मुक्तानां च ब्रह्मादीनामिन्द्रियाणि तत्तद्योग्यपदार्थविषयकाणि ॥ अनित्यानि तत्त्वभिन्नानि दशेन्द्रियाणि ब्रह्मादिसर्वजीवानाम् । ब्रह्मादयः सूर्यादयश्च तदभिमानिनः । संसारावस्थायामपि साक्षि-स्वरूपेन्द्रियस्यात्मा मनस्तद्धर्माः सुखदुःखादयोऽविद्या कालो - व्याकृताकाशश्व साक्षादेव विषयाः । बाह्येन्द्रियद्वारा शब्दादयोऽपि साक्षिविषयाः । ज्ञाततयाऽज्ञाततया सर्वेप्यतीन्द्रियाः साक्षि-विषयाः । साक्ष्यनङ्गीकारे कालाकाशाद्यसिद्धिप्रसङ्गात् ।
पञ्चतन्मात्राप्रकरणम् - १२
मीयंत इति मात्राः शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः । ता द्विविधाः । तत्त्वरूपास्तद्भिन्नाश्चेति । तत्त्वरूपास्तामसाहङ्कार-जन्याः पञ्चतन्मात्रा इत्युच्यन्ते । तत्त्वभिन्ना मात्रा गुणा-स्तत्प्रकरणे निरूप्यन्ते । उमासुपर्णीवारुण्यो बृहस्पत्याद्याच तदभिमानिनः ॥
पञ्चभूतप्रकरणम् - १३
तद्वारा तामसाहङ्कारजन्यानि पञ्चभूतानि । आकाशवायुतेजोऽ- पृथिव्यः । तानि द्विविधानि । तत्त्वभूतानि तद्भिन्नानि चेति ।
(१) आकाशप्रकरणं
तत्र शब्दादाकाशोत्पत्तिः । तदभिमानी विनायकः । अहङ्कार-तत्त्वाद्दशगुणन्यूनमाकाशम् ।
(२) वायुप्रकरणं
वायुर्द्विविधः । प्राणापानादिरूपस्तद्भिन्नश्चेति । पुनर्द्विविधः । नित्योऽनित्यश्च । नित्यः प्राणादिरीशलक्ष्म्योर्मुक्तानां च स्वरूपभूतः । अनित्यस्तत्वभिन्नः संसारिणाम् ॥ तत्त्वरूपो वायुः स्पर्शजन्यः । वाय्वादिदेवास्तदभिमानिनः । आकाशाद्दशगुणन्यूनः ॥
(३) तेजःप्रकरणं
तेजो द्विविधम् । तत्त्वरूपं तद्भिन्नं चेति । नित्यानित्यभेदेन पुनर्द्विविधम् । नित्यं तेज ईशलक्ष्म्योर्मुक्तानां च स्वरूपभूतम् ॥ तत्त्वरूपं तेजो रूपतन्मात्राजन्यमनित्यं च । वायुतत्त्वाद्दशगुणन्यूनम् । ब्रह्मादयो देवास्तदभिमानिनः ।
(४) अप्प्रकरणम्
आपो द्विविधाः । तत्त्वभूतास्तद्भिन्नाश्चेति । पुनर्द्विविधा नित्या अनित्याश्च । तत्त्वभूता आपो रसजन्याः । तत्त्वभिन्ना आपोऽनित्याः । ईशलक्ष्मीमुक्तस्वरूपभूताः । ब्रह्मादयो देवा अबभिमानिनः । तेजसो दशगुणन्यूनाः ।
(५) पृथिवीप्रकरणम्
पृथिवी द्विविधा तत्त्वा तत्त्वभेदात् । पुनर्द्विविधा नित्यानित्या चेति । अनित्या तत्त्वरूपा पृथिवी गन्धजन्या । नित्या तत्त्वभिन्ना ईशलक्ष्मीमुक्तस्वरूपभूता । ब्रह्मादयो धरा च तदभिमानिनः । अद्भिर्दशांशन्यूना । ब्रह्माण्डाद्विगुणपरिमाणा । अव्यक्तमारभ्य पृथिवीतत्त्वपर्यन्तानि ब्रह्माण्डाद्वाह्याता-वरणानि । तत्त्वभिन्नान्याकाशादिपञ्चभूतानि ब्रह्माण्डान्तर्गतानि परमात्मजन्यानि । महदाद्यनङ्गीकारे ब्रह्माण्डोत्पत्तिर्न स्यात् । तत्तद्देवानामंशि-नामवस्थानानि न स्युः । तत्तत्तत्त्वपर्यन्तव्याप्तभगवद्रूपापरोक्षज्ञानं देवानां न स्यात् । तत्तत्प्रतिपादकप्रमाणविरोधश्च स्यात् ।
ब्रह्माण्डप्रकरणम् - १४
एतैस्तत्त्वैर्विष्णुर्वीर्यात्मना परिणाम्य ब्रह्माण्डमसृजत् । तच्च पञ्चाशत्कोटिविस्तीर्णम् । एकमेव कपालद्वयम् । उपरतनं कपालं सुवर्णम् । अधस्तनं रजतम् । कूर्मरूपेण हरिणा वायुना च धृतम् । सर्वप्राणिनां चतुर्दशलोकानां चावासस्थानम् । सन्धिदेशे क्षुरधारोपमसुषिरयुक्तम् । तदभिमानी चतुर्मुखः ॥ ततो भगवान्महदादितत्त्वांशान्स्वोदरे निक्षिप्य ब्रह्माण्डान्तः प्रविवेश । तदोदके शयानस्य भगवतो नाभेः पद्ममभूत् । पद्मे च चतुर्मुखोऽजनि । तस्मात्पुनर्देवादयो मनआदीनि जातानि ।
**अविद्याप्रकरणम् - १५
**ततोऽविद्योत्पन्ना । सा च पाञ्चपर्वणी । पञ्चपर्वाणि तु मोहो महामोहस्तामिस्त्रमन्धतामिस्त्रं तमश्चेति । पुनर्जीवाच्छादिका परमाच्छादिका शैवला माया चेति चतुर्विधा । सर्वाप्यविद्या जीवाश्रिता । प्रातिस्विकी च ।
वर्णप्रकरणम् - १६
वर्णा अकारादय एकपञ्चाशत् । सर्वे लौकिका वैदिकाश्च शब्दा एकपञ्चाशद्वर्णात्मकाः प्रत्येकं व्याप्ता अनादिनित्याश्च ।उच्चारणध्वनिव्यङ्गयाः । प्रत्येकमानुपूर्वीविशेषविशिष्टतया च पदार्थवाचकाः ।
अन्धकारप्रकरणम् - १७
प्रकाशविनाश्योऽन्धकारः । न तु तेजोऽभावः । चक्रादिच्छेद्यत्वात् । ब्रह्मणा लभ्यमानत्वाच्च पीयमानत्वादावरणत्वात्स्वातन्त्र्येणोपलभ्यमानत्वाच्च ।
वासनाप्रकरणम् - १८
स्वाप्नपदार्थोपादानानि वासनाः । पूर्वानुभवजन्या मनोगताः । प्रवाहतोऽनादयः । संस्कारपदवाच्याः ।
कालप्रकरणम् - १९
आयुर्व्यवस्थापकः कालः । क्षणलवाद्यनेकरूपः । प्रत्येकं व्याप्तः । प्रकृत्योत्पत्तिविनाशवान् । स्वगतः । सर्वाधारश्च । कालप्रवाहस्तु नित्यः । सर्वकार्योत्पत्तिहेतुः । । ।
प्रतिबिम्बप्रकरणम् - २०
प्रतिबिम्बस्तु बिम्बाविनाभूतस्तत्सदृशः । स च द्विविधः । नित्योऽनित्यश्च । परमात्मव्यतिरिक्ताः सर्वेऽपि चेतनाः परमात्मप्रतिबिम्बा नित्याः । नित्यानित्योपाधियुक्ताः । स्वापेक्षयोत्तमोत्तमप्रतिबिम्बाश्च । दर्पणादौ मुखादिप्रतिबिम्बा अनित्याः । दर्पणाद्युपाध्युपादानकाः । न तु बिम्बात्मकाः । आभिमुख्यादिविरुद्धधर्माधिकरणत्वात् । छायाऽपि प्रतिबिम्बभूतैव । नत्वन्यालोकोपादानभूता । क्वचिच्चेतनेऽपि छाया शब्दप्रयोगः प्रतिबिम्बत्वसाम्याद्भवतीति ।
॥ इति श्रीपद्मनाभसूरिविरचिते पदार्थसङ्ग्रहे द्रव्यनिरूपणं समाप्तम् ॥