०१ पदार्थसामान्यप्रकरणम्

लक्ष्मीपतिं सम्प्रणम्य सर्वज्ञादिगुरूनपि पदार्थानां सङ्ग्रहोऽयं क्रियते शास्त्रतोऽञ्जसा

श्रीवेदगर्भ पद्मनाभसूरिविरचितः पदार्थसङ्ग्रहः
लक्ष्मीपतिं सम्प्रणम्य सर्वज्ञादिगुरूनपि ।
पदार्थानां सङ्ग्रहोऽयं क्रियते शास्त्रतोऽञ्जसा ॥ १॥

पदार्थसामान्यप्रकरणं

तत्र द्रव्यगुणकर्मसामान्यविशेषविशिष्टांशिशक्तिसादृश्याभावा दश पदार्थाः ॥
द्रव्यविभागप्रकरणम् – १
तत्र द्रव्याणि । परमात्मलक्ष्मीजीवाव्याकृताकाशप्रकृतिगुणत्रय
महत्तत्त्वाहङ्कारतत्त्वबुद्धिमनइन्द्रियमात्राभूतब्रह्माण्डाविद्यावर्णान्धकार- वासनाकालप्रतिबिम्बभेदाद्विंशतिरेव ॥
गुणविभागप्रकरणम् - २
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणसंयोगविभागपरत्वापरत्वद्रवत्वगुरुत्व- लघुत्वमृदुत्वकाठिन्यस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म-
संस्कारालोकशमदमकृपातितिक्षाबलभयलज्जागाम्भीर्यसौन्दर्य- स्थैर्यशौर्यौदार्यसौभाग्यप्रभृतयोऽनेके गुणाः ॥
**कर्मप्रकरणम् – ३
**विहितनिषिद्धोदासीनभेदेन त्रिविधं कर्म । विहितमपि काम्याकाम्यभेदेन द्विविधम् । तच्च ब्रह्मादिसर्वजीवानाम् । लक्ष्मीनारायणयोस्तु लीलया मोहनाय वा । निषिद्धं कर्म रुद्रादीनाम् । उदासीनं कर्म तु परिस्पन्दः । स चोत्क्षेपणापक्षेपणा- कुश्चनप्रसरणगमनागमनभ्रमणवमनवपनभोजनविदारणा- द्यनेकविधः । यथायोगं चेतनाचेतनयोर्धर्मः । पुनर्द्विविधः नित्योऽनित्यश्च । नित्य ईश्वरादिचेतनस्वरूपभूतः । अनित्योऽ-नित्यगतः ॥
सामान्यप्रकरणम् - ४
नित्यमनित्यं चेति सामान्यं द्विविधम् । प्रतिव्यक्त्यनंनुगतम् । पुनर्द्विविधम् । जातिरुपाधिश्चेति । जीवत्वादियावद्वस्तुभावि नित्यम् । ब्राह्मणत्वमनुष्यत्वाद्ययावद्वस्तुभाव्यनित्यं सर्वज्ञत्वप्रमेयत्वाद्युपाधिरपि तद्वत् ॥
विशेषप्रकरणम् – ५
भेदाभावेऽपि भेदव्यवहारनिर्वाहका अनन्ता एव विशेषाः । सर्वपदार्थनिष्ठाः । स्वनिर्वाहकाश्च । ते द्विविधाः । नित्या अनित्याश्च । नित्या ईश्वरादिनित्यद्रव्यगताः । घटाद्यनित्य- द्रव्यगता अनित्याः ॥
समवायनिराकरणप्रकरणं
समवायस्तु स्वरूपत एव नास्ति ॥

विशिष्टप्रकरणम् – ६
विशेषणसम्बन्धेन विशेष्यस्य य आकारस्तद्विशिष्टम् । तत्द्विविधम् । नित्यमनित्यं च । नित्यं सार्वज्ञादिविशिष्टं परब्रह्मादि । द्वितीयं दण्डादिविशेषणसम्बन्धेन परिणतं दण्ड्यादि ॥
अंशिप्रकरणम् – ७
अंशी तु हस्तवितस्त्याद्यतिरिक्तः पटादिर्गगनादिश्वानुभवसिद्धः ।
शक्तिप्रकरणम् - ८
शक्तिश्चतुर्विधा अचिन्त्यशक्तिराधयेशक्तिस्सहजशक्तिः पदशक्तिश्चेति । तत्राचिन्त्यशक्तिः परमेश्वरे सम्पूर्णा । अन्यत्र यथायोग्या ।
कार्यमात्रानुकूला स्वभावरूपा सहजशक्तिः । सर्वपदार्थनिष्ठा । नित्यानित्यभेदेन द्विविधा । नित्यगता नित्या । अनित्यगताऽ- नित्या ॥
अन्याहितशक्तिराधेयशक्तिः । सा च प्रतिष्ठादिना प्रतिमादौ ॥
पदपदार्थयोर्वाच्यवाचकभावसम्बन्धः पदशक्तिः । सा च स्वर-ध्वनिवर्णपदवाक्यमात्रगता । मुख्या परममुख्या चेति द्विविधा । सर्वशब्दानां परमात्मनि परममुख्यवृत्तिः । अन्यत्र मुख्यवृत्तिः ॥
सादृश्यप्रकरणम् - ९
सादृश्यं च पदार्थान्तरम् । न तु तद्भिन्नत्वे सति तद्गतभूयो - धर्मवत्त्वम् । यमलादिषु नाना । एकनिरूपितमपरवृत्ति । न त्वनुगतम् । तद्द्विविधम् ॥ नित्यमनित्यं चेति । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥
अभावप्रकरणम् - १०
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽन्योन्याभावोऽ- त्यन्ताभावश्चेति । कार्योत्पत्तेः प्राग्विद्यमानोऽभावः प्रागभावः । महदादिकार्यमात्रस्य । उत्पत्त्यनन्तरमेव विद्यमानोऽभावः प्रध्वंसः । सोऽपि कार्यमात्रस्य ॥
सार्वकालिकोऽभावोऽन्योन्याभावः । पदार्थस्वरूपमेव । नित्यात्मको नित्यः । अनित्यात्मकोऽनित्यः । भावाभावाऽ- सत्प्रतियोगिश्च ॥
अप्रामाणिकप्रतियोगिकाभावोऽत्यन्ताभावः । न तु प्रामाणिक प्रतियोगिकः । स च नित्यः । घटाद्यभावस्तु यथायथं प्रागभावादिरूप एव ॥
॥ इति श्रीवेदगर्भकुलीनपद्मनाभसूरिविरचिते पदार्थसङ्ग्रहे पदार्थनिरूपणं समाप्तम् ॥