बन्धप्रकरणम्
बन्धप्रकरणम्
इदानीं बन्धस्य परमात्माधीनत्वमाह— बन्धोऽपीति ।
बन्धोऽपि जीवस्य परमात्माधीनः ॥ ५२५ ॥
के ते बन्धा जीवस्येत्याकांक्षायामाह-ईश्वरेच्छेत्यादिना ।
बन्धास्तु ईश्वरेच्छाऽविद्या कामकर्म लिङ्गशरीरं त्रिगुणात्मकं मनः स्थूलशरीरमित्यादि ॥ ५२६ ॥
तदुक्तं द्वितीयतात्पर्ये-
अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् ॥
ईश्वरेच्छा प्राथमिकी तां विना न हि किञ्चन ॥
द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः ॥
तेषां सम्पातजो भावो ममाहमिति या मतिः ॥
देहात्परस्य देहित्वमहंभावमृते कुतः ॥ इति ।
माण्डूकभाष्येऽपि -
अनादिमायया विष्णोरिच्छया स्वापितो यदा ।
तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥ इति ।
अविद्याया आवरणत्वमुक्तमविद्याप्रकरणे ।
गीतायामपि-
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ इति ।
कामकर्मणोऽपि बन्धकत्वम् ॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ॥ इत्युक्तेः ।
समयपादीयानुव्याख्यानेऽपि -
अनादिकर्मणा बद्धो जीवः संसारमण्डले ।
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥ इति ।
गीताभाष्ये तु– यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीव इति कामस्यैव बन्धकत्वमुक्तं तच्च काम्यकर्मणो मूलकारणत्वाभिप्रायेण । लिङ्गशरीरस्वरूपमुत्तरत्र वक्ष्यते ।
त्रिगुणात्मकं मन इति-
मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्याद्युक्तेः ।
भक्तिपादीयानुव्याख्यानेऽपि -
त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥ इति ।
स्थूलशरीरस्य नानाविधपुण्यपापजनकत्वेन बन्धकत्वं प्रत्यक्षसिद्धमिति भावः ।
प्रकृतप्रमेयमुपसंहरति- एवं चेति ।
एवं च सृष्ट्यादयो बन्धान्ताः परमात्माधीनाः ॥ ५२७ ॥
॥ इति बन्धप्रकरणम् ॥
****\ *