ज्ञानप्रकरणम्
ज्ञानप्रकरणम् ५
ज्ञानमपि परमात्माधीनमित्याह -येन येनेति ।
येन येन साधनेन यस्य यस्य यद्यज्ज्ञानं जायते तत्सर्वं परमात्मना जन्यत इति ज्ञानमपि परमात्माधीनम् । तद्द्विविधम् । संसारहेतुर्मोक्षहेतुश्चेति ॥। ४७८ ॥
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
इत्यनुव्याख्यानोक्तेरिति भावः ।
संसारहेतुत्वमेव ज्ञानस्य दर्शयति-देहेति ।
देहापत्यकलत्राऽदिषु ममतादिरूपं ज्ञानं संसारहेतुः ॥ ४७९ ॥
तदुक्तं तृतीयस्कन्धतात्पर्ये-
भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते ।
भ्रान्तिर्देहाद्यभिमतिरतो ज्ञानाद्विनश्यति ॥ इति ।
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये । इत्यादिभागवतोक्तेश्च ।
अपरोक्षज्ञानप्रकरणम्
(अ) अपरोक्षज्ञानप्रकरणम्
योग्यापरोक्षरूपमिति-
**मोक्षसाधनं च ज्ञानं योग्यापरोक्षरूपम् ॥ ४८० ॥ **
सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात् ॥ इति भाष्योक्तेः ।
निर्णयेऽपि-
तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।
स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा ॥ इति ।
बृहद्भाष्येऽपि-
अपरोक्षदृशिश्चापि महाऽऽचार्योक्तदर्शनम् ।
सोऽपि यन्मोक्षनियतमनसा समुदीरयेत् ।
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ॥ इति ।
स्वयोग्यभगवद्दृष्टेः सर्वैर्मुक्तिरवाप्यते ।
पुनर्ज्ञानान्तराधिक्यात्सुखाधिक्यं विमोक्षगम् ॥ इति च ।
गीतातात्पर्येऽपि–
सर्वे ते दर्शनात्तस्मात्स्वयोग्यान्मुक्तिगामिनः ॥ इति ।
ननु तर्हि तद्योग्यापरोक्षज्ञानं सर्वेषां सर्वदा स्यादित्यत आह-
तद्बहुसाधनेति ।
तद्बहुसाधनसम्पत्तिजन्यम् ॥ ४८१ ॥
सर्वेषां च युगपत्साधनपूर्तेरभावादिति भावः ।
तर्हि तमोयोग्यानामपि साधनैरपरोक्षज्ञानं स्यादित्यत आह-चतुर्मुखमिति ।
चतुर्मुखमारभ्य मनुष्योत्तमपर्यन्तं सज्जीवानामेवापरोक्षज्ञानं जायते ॥ ४८२ ॥
अत्र चतुर्मुखशब्दो ऋजुयोगिपरः । अन्यथा
न देवपदमन्विच्छेद्ब्रह्मदर्शनवर्जितः ।
इति गीतातात्पर्यप्रमाणबलेन प्राप्तपदानां जातापरोक्षत्वेन साधनसम्पत्त्या पुनर्ज्ञानाऽजननात्तद्विरोधाऽपत्तेः । नचैवं योगिज्ञानमृजूनामनादिनित्यमिति प्रमाण लक्षणाद्यनुरोधेन ऋजूनामपरोक्षज्ञानस्यापि प्रवाहतोऽनादिनित्यत्वेन साधनसम्पत्त्यनपेक्षणादिति वाच्यम् । प्रवाहतोऽनाद्यपरोक्षज्ञानस्य मोचकापरोक्षत्वाभावात् । मोचकापरोक्षज्ञानस्य च
शतजन्मसु पूर्वं तु ज्ञानोदय उदीरितः ।
इत्येकादशस्कन्धतात्पर्यबलेन साधनसम्पत्तिसाध्यत्वोपपत्तेः ।
ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । इत्यनुव्याख्याने योग्यापरोक्षज्ञानसाधनोपासनोक्तेश्च । अन्यथा तद्वैयर्थ्याऽपत्तेः । नत्विति–
न तु तमोयोग्यानाम् ॥ ४८३ ॥
तमोयोग्यानां तु भगवद्वेषपरिपाकादेव तमः प्राप्तिर् न तु ब्रह्मापरोक्ष- ज्ञानादिति भावः ।
तदुक्तमेकादशस्कन्धतात्पर्ये-
परोक्ष्येण हरेस्तत्वं लोकं चापि विदन्ति ये ।
तेऽपि तत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् ॥
आपरोक्ष्यान्न तु ज्ञानं तेषामुत्पद्यते क्वचित् ॥ इति ।
नन्वेवं तमोयोग्यानां सम्यज्ज्ञानरूपापरोक्षज्ञानाभावेऽपि हीनत्वेन वा ब्रह्मात्म्यैक्येन वा मिथ्याभूतापरोक्षज्ञानमङ्गीकर्तव्यम् । अन्यथा तेषामज्ञाननिवृत्तिर्न स्यात् । न च द्वेषादेवाज्ञाननिवृत्तिरिति वाच्यम् । ज्ञानाज्ञानयोरेव विरोधेन द्वेषस्य तन्निवर्तकत्वायोगात् ॥
किञ्च-
पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ।
द्विषतो वा भवेत्पुण्यनाशो नास्त्यत्र संशयः ॥
इति भाष्ये तमोयोग्यानामप्यपरोक्षज्ञानोक्तेः ।
तथा
मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ॥ इत्यणुभाष्येऽपि –
तमोयोग्यानां मिथ्याऽपरोक्षज्ञानोत्तेरिति चेद् उच्यते । तमोयोग्यानां नापरोक्षज्ञानमुत्पद्यते । द्वेषिणस्तदपरोक्षज्ञानस्य लोकविरुद्धत्वात् । नहि लोके राजद्वेषिणोऽपरोक्षज्ञानं राजाऽनुमन्यते । प्रत्युत दूर एव निष्कासनताडनकारागृहप्रवेशादिकम् । तद्वद्भगवद्वेषिणोऽपि द्वेषपरिपूर्तेरेव तमः प्राप्तिः ।
तदुक्तमनुव्याख्याने कर्मक्षयपादे-
………………….तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ।
ब्रह्मद्विड् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥ इति ।
तत्र सुधायामपि – ब्रह्मद्विषश्चैवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवत्युत्तरस्यासङ्गताऽपीति । सन्यायरत्नावल्यामपि दैत्यानां तु विष्णावुत्कटद्वेषोत्पत्तेरनन्तरस्य सुकर्मणः पूर्वकृतस्यानारब्धकार्यस्य विनाशः । तच्चोक्तमाग्नेये-
यथा श्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।
एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम् ॥ इति ।
नयचन्द्रिकायामपि । भगवद्विषोऽपि द्वेषपरिपाके सत्येव पूर्वस्य पुण्यस्य विनाशः । उत्तरस्यासङ्गता चेति । टीकायामपि भगवद्वेषिणः पाते प्रत्यासन्ने यथा ज्ञानिनां पापस्यैवं तत्पुण्यस्याश्लेषो विनाशश्च भवतीत्यादि बहुस्थलेष्वपरोक्षज्ञानसमानकक्ष्यात्वेन तद्वेषपरिपाकस्यैवोक्तिः ।
निर्णयेऽपि–
अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् ॥ इति ।
न च हीनं च ब्रह्म पश्यत इति भाष्यविरोध इति वाच्यम् । तस्य परोक्षज्ञानविषयत्वात् । पश्यार्थैश्चानालोचन इति सूत्रे पाणिनिना ज्ञान- सामान्येऽपि दृशेरुक्तत्वात् । न च तत्त्वप्रदीपिकायामितरस्य भगवद्वेषिणः पुण्यस्याप्येवमुत्तरस्याश्लेषः पूर्वस्य विनाशो ऽधःपाते आसन्ने । अन्यथाज्ञाने परिपूर्णे च पुण्यस्याश्लेषोऽयमुच्यत इत्यादिना मिथ्याज्ञानपरिपूर्तिरुक्तेति वाच्यम् । नहि मिथ्याज्ञानपरिपूर्तिरेव नास्तीति ब्रूमः । किन्त्वपरोक्षज्ञानम् । न च मिथ्याज्ञानपरिपूर्तिरेवापरोक्षज्ञानमिति वाच्यम् । साधकाभावात् । अज्ञाननिवृत्तिस्तु मिथ्याज्ञानपरिपूयैव भवतीति न कश्चिद्दोष इति सङ्क्षेपः । अपरोक्षज्ञानं तु ब्रह्मादीनां न युगपत्किन्तु क्रमेणैवेत्याह- एकैकस्मिन्निति ।
एकैकस्मिन्ब्रह्मकल्पे एकैकस्य ऋजोरपरोक्षज्ञानम् । एकैकस्य मुक्तिः ॥ ४८४ ॥
शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते ॥
इत्येकादशतात्पर्ये शतब्रह्मकल्पात्पूर्वं मोचकापरोक्षज्ञानं जायत इत्युक्तम् ।
तथा–
ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्ख्यः ।
**इत्यनुव्याख्याने **शतब्रह्मकल्पपर्यन्तं प्रारब्धानुभवश्चाभिहितः ।
तथा—
ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु ।
त एव शतजन्मानि विशेषोपासका हरेः ॥
सर्वदाऽपि विशेषेण शतजन्मप्रयत्नतः ।
स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यत ॥
इति चतुर्थस्कन्धतात्पर्ये ऋजूनां शतजन्मसु साधनं विहितम् । एतद्बहु- प्रमाणपर्यालोचनया सत्यलोकाधिपत्ये विद्यमानब्रह्मणः पूर्वम् एकोनशतब्रह्मकल्पे एकस्य ऋजोरपरोक्षज्ञानं जायते । तेन सह शतसङ्ख्याका ऋजवो जातापरोक्षाः । सर्वस्मिन्ब्रह्मकल्पे सन्त्येव नियमतः । तत्रैतच्चतुर्मुखस्य मुक्तौ सत्यां पूर्वकल्पस्थवायोरेष्यत्कल्पे ब्रह्मपदप्राप्तिः । तत्रैकस्य ऋजोरपरोक्षज्ञानं नियमेन जायते । एवं शेषगरुडपदयोग्ययोरप्येकोनपञ्चाशद्ब्रह्मकल्पात्पूर्वमपरोक्षज्ञानं जायते । तेन सह पञ्चाशत्सङ्ख्याका गारुडपदयोग्याः शेषपदयोग्याश्च प्रत्येकम् । जातापरोक्षा नियमेन सन्त्येव । इन्द्रकामपदयोग्ययोस्त्वेकोनविंशति कल्पात्पूर्वमपरोक्षज्ञानं जायते । तेन सह विंशतिसङ्ख्याका जातापरोक्षाः सर्वदा सन्त्येव । तत्रैकस्य मुक्तिरेकस्यापरोक्षज्ञानम् । एवं सूर्यचन्द्रपदयोग्ययोरपि दशब्रह्मकल्पात्पूर्वमपरोक्षज्ञानमित्यादि बोध्यम् । अत्र प्रमाणानि त्वपरोक्षज्ञानोत्पत्तिप्रकरणे वक्ष्यन्ते ।