०६ सृष्टिस्थितिसंहारादिप्रकरणम्

सृष्टिप्रकरणम्

**सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणम् IV **

सृष्टिस्थितिसंहारादिप्रकरणम्

सृष्टिप्रकरणम् – १

ननु परमात्ममाहात्म्यज्ञानमेव मोक्षसाधनम् । न तु तदतिरिक्तपदार्थ-ज्ञानमपि । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथेति । नान्यः पन्था अयनाय विद्यत इति श्रुतेरिति चेन्न । पदार्थज्ञानस्य साक्षान्मोक्षसाधनत्वाभावेऽपि तत्सृष्ट्याद्यष्टकर्तृत्वेन परमात्मज्ञानद्वारा मोक्षसाधनत्वमित्यभि प्रायेणाह- एवं पदार्थे निरूपित इति

एवं पदार्थे निरूपिते तत्सृष्ट्यादिकर्तृत्वेन भगवज्ज्ञानं मोक्षसाधनमिति सृष्ट्यादिकं निरूप्यते ॥ ४१६ ।

यद्वा तार्किकोक्तसृष्टिप्रक्रियानिरासायाह-एवमिति । अत्र यद्यपि पूर्वं द्रव्यप्रकरण एव प्रकृत्यादिसृष्टिर्निरूपिता । अथाप्यत्र पद्मसृष्ट्यादौ विशेषस्य वक्ष्यमाणत्वात्पुनरनुवाद इति न पौनरुत्यम् । सृष्ट्यादिकर्तृत्वेन परमात्मज्ञानं मोक्षसाधनमित्यत्र प्रमाणं तु निर्णये प्रतिपादितम् —

सृष्टिरक्षाहऽऽतिज्ञाननियत्यज्ञानबन्धनान् ।

मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्न चान्यथा ॥ इति ।

ईशावास्यभाष्येऽपि-

…………….तस्मात्सर्वगुणात्मकम् ॥

सर्वकर्तारमीशेशं सर्वसंहारकारकम् ।

यो वेद संहतिज्ञानाद्देहबन्धाद्विमुच्यते ॥ इति ।

सिसृक्षा भवतीति–

परमात्मनः प्रलयान्ते सिसृक्षा भवति ॥ ४१७ ॥

जगृहे पौरुषं रूपं भगवान्महदादिभिः ।

सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ इति प्रथमस्कन्धभागवतोक्तेः ।

ईशावास्य भाष्येऽपि -

अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया विभुः । इति ।

माण्डूकभाष्येऽपि-

अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।

उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥ इति ।

इच्छामात्रं प्रभोः सृष्टिरिति श्रुतिः ॥

क्षोभयतीति-

ततः प्रकृतिं प्रविश्य क्षोभयति । ततो गुणत्रयात्मना विभजति । ततो महदाद्यण्डपर्यन्तं तत्त्वानि तदभिमानिब्रह्मादिदेवांश्च सृजति । ततश्चेतनाचेतनानामंशानुदरे निक्षिप्य ब्रह्माण्डं प्रविशति । ततो दिव्यवर्षसहस्त्रान्ते स्वनाभितः पद्मं जनयति ॥ ४१८ ॥

कार्योन्मुखं करोतीत्यर्थः ॥

प्रकृतिं क्षोभयामास प्रविश्य पुरुषोत्तमः । इति भाष्योक्तेः ।

तृतीयतात्पर्येऽपि-

प्रकृतेः क्षोभकं रूपं दैवं नारायणाभिधम् ।

प्रकृतौ महतः स्रष्टा परमः पुरुषोत्तमः ॥ इति ।

ततो गुणत्रयात्मनेत्यारभ्य पद्मं जनयतीति पर्यन्तस्य प्रमाणानि पूर्वमेवोदाहृतानि ।

तत्पद्मं कदा जातमित्याकाङ्क्षायामाह – **तच्चेति **।

तच्च पद्मम् आद्यब्रह्मणः प्रथमपरार्धान्ते जायते । तत्पद्मे चतुर्मुखोऽजनि । चतुर्मुखो जगत्सृष्टौ साधनाऽस्मृत्या दिव्यवर्षसहस्त्रपर्यन्तं तपः करोति । तत्तपसा प्रसन्नो भगवान्स्वदेहतः पञ्चभूतानि सृजति ॥ ४१९ ॥

तदुक्तं तृतीयस्कन्धभागवते-

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥

तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ इति ।

पद्मदलैश्चेति–

ततश्चतुर्मुखान्तर्गतस्सन् सन्नामको भूत्वा पञ्चभूतैः पद्मदलै- चतुर्दशभुवनानि सृजति । पुनः सर्वे देवा अण्डान्तर्जायन्ते ॥ ४२० ॥

तदुक्तं तृतीयस्कन्धभागवते-

पद्मकोशं तदाविश्य भगवान्कर्मचोदितः ।

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्य द्विसप्तधा ॥ इति ।

अत्र पूर्वं परमात्मना सूक्ष्मरूपेण सृष्टान्येव चतुर्दश भुवनानि चतुर्मुखः पञ्चभूतैः स्थूलानि चकारेति बोध्यम् ।

तदुक्तमैतरेयभाष्ये-

भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः ।

लोकभेदांश्च चक्रेऽत्र पश्चाद्ब्रह्मा विशेषतः ।

सम्यक् चकार लोकांस्ताल्ँलोककर्ता ततः स च ॥ इति ।

नन्वण्डान्तर्न सर्वेषामुत्पत्तिः । लक्ष्म्यव्याकृताऽकाशादीनां नित्याना- मनुत्पत्तेरित्यत आह– लक्ष्म्यदीति

लक्ष्म्यादिनित्यानामपि पराधीनविशेषावाप्तिलक्षणोत्पत्तिः ॥ ४२१ ॥

तदुक्तं वियत्पादीयानुव्याख्याने-

प्रकृतिः पुरुषः कालः वेदास्तदभिमानिनः ।

महदाद्याश्च जायन्ते पराधीनविशेषतः ॥

इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ।

तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ।

खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥

प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।

ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।

……………………..वेदस्यापीश्वरेच्छया ।

व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ।

………………उत्पत्तिरत्र कथिता ॥ इति ।

न्यायविवरणेऽपि-पराधीनविशेषमात्रं त्वव्याकृताकाशस्य तदभिमानि-प्रकृतेश्च सममेवेति । वियत्पादीयसुधायामपि प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति-पुरुषेति । यस्मात्पुरुषादीनां रमाभिमानिनी सा चैकैव । देहदेह्यादिभेदरहिता तत्तस्मात्साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदितेति ।

महरादिसृष्टिवद्ब्रह्मकल्पे भूरादिलोकत्रयस्य नैकवारं सृष्टिः । किन्तु प्रतिदिनमित्याह - ब्रह्मण इति ।

ब्रह्मणः प्रतिदिनं भूर्भुवः स्वरिति लोकत्रयस्य सृष्टिविनाशौ ॥ ४२२ ॥

तदुक्तं तृतीयस्कन्धभागवते-

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ इति ।

ब्रह्मणः प्रतिदिनं सृष्टिलयावित्युक्तम् । तत्र ब्रह्मदिनं कीदृशमित्याकाङ्क्षायां तत्परिमाणमाह-चतुर्युगेति

चतुर्युगसहस्राणि ब्रह्मण एक दिनम् ॥ ४२३ ॥

तदुक्तं तृतीयभागवते-

मध्वसिद्धान्तसारस्

त्रैलोक्याद्युगसाहस्रं बहिराब्रह्मणो दिनम् ।

तावत्येव निशा तात यन्निमीलति विश्वसृ ॥ इति ।

निर्णयेऽपि-

मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।

द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः ।

सहस्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ॥ इति ।

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ इति पुराणवाक्यं च । एकस्मिन्ब्रह्मदिने चतुर्दशमनूंस्तद्भुक्तिकालांश्चतुर्दशेन्द्रान् भगवान् सृजतीत्याह– । तत्रेति

तत्र चतुर्दशमन्वन्तराणि ॥ ४२४ ॥

एकैकस्मिन्दिन इत्यर्थः । चतुर्दशमनवस्तु । स्वायम्भुवः । स्वारोचिः । उत्तमः । तापसः । रैवतः । चाक्षुषः । वैवस्वतः । सावर्णिः । दक्षसावर्णिः । ब्रह्मसावर्णिः । धर्मसावर्णिः । रुद्रसावर्णिः । देवसावर्णिः । इन्द्रसावर्णिरिति ।

तदुक्तमष्टमस्कन्धभागवते-

स्वायभुवस्येह मनोर्वंशोऽयं विस्तराच्छतः ।

आद्यस्तु कथितो यत्र देवादीनां च सम्भवः ।

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो मनुः ।

सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणं

तृतीय उत्तमो नाम प्रियवृतसुतोऽभवत् ।

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः ।

पञ्चमो रैवतो नाम मनुस्तापससोदरः ।

षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।

मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।

सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ।

मनोर्वैवस्वतस्यैते तदा पुत्राः परन्तप ।

अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।

नवमो रुद्रसावर्णि र्मनुर्वरुणसम्भवः ।

भविता रुद्रसावर्णी राजन्द्वादशमो मनुः ।

मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ॥

मनुर्वा इन्द्रसावर्णिश्चतुर्दशम इष्यते ।

राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।

प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ इति ।

**गीताभाष्येऽपि -**चत्वारः प्रथमाः स्वायम्भुवाद्याः ।

स्वायम्भुवं रोचिषं च रैवतं च तथोत्तमम् ॥ इति ।

प्रमेयदीपिकायामपि -ब्रह्मसावर्णी रुद्रसावर्णिर्धर्मसावर्णिर्दक्षसावर्णिरिति चत्वारः । स्वायम्भुवस्वारोचिषरैवतोत्तमाः प्रथमाः । मेरुसावर्णिरपि । तापसस्य भगवदवतारत्वम् । चतुर्दश मनव इत्यादि ।

चतुर्दशमनूनां प्रत्येकं भुक्तिकालमर्यादामाह – एकैकस्य मनोरिति

एकैकस्य मनोः सार्धाष्टादशलक्षवर्षाधिकैकसप्ततिमहायुगा भुक्तिकालाः ॥ ४२५ ॥

तदुक्तं तृतीयस्कन्धभागवते-

यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश ।

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकामेकसप्ततिम् । इति ।

तृतीयतात्पर्येऽपि-

युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् ।

वत्सराणां मनोर्भुक्तिः । इति ।

चतुर्दशमनूनां प्रलयकालस्तु । स्वायम्भुवमनोर्द्विसहस्रवर्षाणि प्रलयकालः । स्वारोचिषमनोः पञ्चशतोत्तरसहस्रवर्षाणि । उत्तममनोस्तु चतुःशतोत्तरसहस्रवर्षाणि प्रलयकालः । तापसाद्येकादशमनूनां तु द्विशतोत्तरसहस्रवर्षाणि प्रत्येकं प्रलयकाला इति ।

तदुक्तं तृतीयतात्पर्ये-

सहस्रं चतुरुत्तरम् ।

शतानां प्रलयश्चैव पञ्चोत्तरमथापि वा ।

आद्येषु षट्सु प्रथमे द्विसहस्त्रं प्रकीर्तितम् ।

वत्सराणां मनोरन्तरेवमिन्द्रादिनां भवेत् ॥ इति ।

मनुन्यायमिन्द्रादीनामतिदिशति - एवमिति ।

एवं स्वर्गलोकाधिपतय इन्द्राश्चतुर्दश ॥ ४२६ ॥

चतुर्दशेत्युपलक्षणम् । भुक्तिकालाः प्रलयकालाश्च मनुवदेवेति द्रष्टव्यम् ।अत्रैकस्मिन्मन्वन्तर एकैक एवेन्द्र इति द्रष्टव्यम् । एवमिन्द्रादीनां भवेदिति तात्पर्योक्तेरिति भावः । चतुर्दशेन्द्राश्च । यज्ञनामा भगवानिन्द्रः स्वायम्भुवमन्वन्तरे । रोचननामेन्द्रः स्वारोचिषमन्वन्तरे । सत्यजिन्नामक इन्द्र उत्तममन्वन्तरे । तापसमन्वन्तरे तापसनामा भगवानिन्द्रः । रैवतमन्वन्तरे विभुरिन्द्रः । चाक्षुषमन्वन्तरे मन्द्रद्युम्न इन्द्रः । वैवस्वतमन्वन्तरे पुरन्दर इन्द्रः । सावर्णिमन्वन्तरे बलिरिन्द्रः । दक्षसावर्णिमन्वन्तरे अद्भुतनामेन्द्रः । ब्रह्मसावर्णिमन्वन्तरे शम्भुरिन्द्रः । धर्मसावर्णिमन्वन्तरे वैधृतिनामेन्द्रः । रुद्रसावर्णिमन्वन्तरे ऋतुधामेन्द्रः । देवसावर्णिमन्वन्तरे दिवस्पतिरिन्द्रः । इन्द्रसावर्णिमन्वन्तरे शुचिरिन्द्रः । इदं चाष्टमस्कन्धभागवत एवोक्तमनुसन्धेयम् । अत्र मन्द्रद्युम्नः पुरन्दर एव । तस्य द्विवारमिन्द्रपदम् ।

तदुक्तमैतरेयभाष्ये

इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ।

तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे ।

पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ।

द्विवारमिन्द्रतामाप तस्माद्वादश ते परे ॥ इति ।

नच

अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः । इति निर्णये

वाय्वादीनामिन्द्रपदोक्तेस्तद्विरोध इति वाच्यम् । वाय्वादीनामेव रोचनादि- शब्दवाच्यत्वोपपत्तेः । इन्द्रादीनां मन्वन्तरकाल एव स्वर्गाधिपत्यमित्यत्र छान्दोग्यभाष्यं मानम् । इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्तीति ।

महायुगपरिमाणं वक्तुं कृतत्रेतादियुगपरिमाणमाह- कृतेति

कृतत्रेताद्वापरकलिभेदेन युगचतुष्टयम् । तत्र देवतामानेन चतुस्सहस्त्रवर्षाणि कृतयुगस्य । पूर्वोत्तरं च प्रत्येकं चतुश्शतवर्षाणि सन्धिकालाः । तथा त्रेतायुगस्य त्रिसहस्त्रवर्षाणि । पूर्वोत्तरं च प्रत्येकं त्रिशतवर्षाणि सन्धिकालाः । एवं द्वापरयुगस्य द्विसत्रवर्षाणि । पूर्वोत्तरं प्रत्येकं द्विशतवर्षाणि सन्धिकालाः । तथा कलियुगस्यैकसहस्त्रवर्षाणि । पूर्वोत्तरं शतवर्षाणि सन्धिकालाः । तथा च द्वादशसहस्त्रवर्षाणि चतुर्युगस्य । एतच्चतुर्युगस्याप्यावृत्तावेको महायुगः ॥ ४२७ ॥

तदुक्तं तृतीयस्कन्धभागवते-

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्द्वादशसाहस्त्रैर्वषैः साधु निरूपितम् ॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

सङ्ख्यातानि सहस्त्राणि द्विगुणानि शतानि च ॥

सन्ध्यासन्ध्यांशयोरन्तर्यक्कालः शतसङ्ख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा ….. । इति ।

निर्णयेऽपि -

मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।

द्विषट्सहस्त्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः ॥ इति ॥

महाकल्पादि निरूपयितुं कल्पशब्दार्थमाह-सृष्टिकालेतिअण्डे पद्मचतुर्मुखयोरिति

सृष्टिकालविशेषः कल्पः । स द्विविधः महाकल्पः पाद्मकल्पश्चेति ॥ ४२८ ॥

महदाद्यण्डपर्यन्तं सृष्टिकालो महाकल्पः । अण्डे पद्मचतुर्मुखयोः सृष्टिकालः पाद्मकल्पः । स एव ब्रह्मकल्प इत्युच्यते ॥

इदमुपलक्षणम् । अण्डाद्बहिरा ब्रह्मसृष्टिकालोऽपि ब्रह्मकल्प इति ध्येयम् ।

तदुक्तं तृतीयभागवते-

पूर्वस्याऽदौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥

अयं तु कथितः कल्प ……… । इति ।

यत्र ब्रह्मान्तरोत्पत्तिर्ब्रह्मकल्प इतीरितः ॥ इति तात्पर्ये च ।

ब्रह्मकल्पः परश्चेति महाकल्पश्च कीर्त्यते । इति सप्तमतात्पर्यमपि ।

ब्रह्मकल्पोऽपीति-

**ब्रह्मकल्पोऽपि द्विविधः । दिनकल्पो मनुकल्पश्चेति ॥४२९ ॥ **

ब्रह्माण्डान्तर्वर्तिब्रह्मकल्पोऽपीत्यर्थः ।

प्रतिदिनमिति-

**प्रतिदिनं सृष्टिकालो दिनकल्पोऽष्टादशसहस्त्रात्मकः ॥ ४३० ॥ **

प्रतिदिनं भूरादिलोकत्रयस्य नाशेन पुनःपुनर्लोकत्रयस्य सृष्टेरिति भावः ।

तदुक्तं तृतीयभागवते—

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ इति ।

दिनकल्पाः कतीत्याकांक्षायामाह-अष्टादशेति । आद्यब्रह्मणः प्रथमपरार्धान्तिमदिने पद्मस्योत्पत्तिः । तत्र चतुर्मुखोत्पत्तिः । तेन च प्रतिदिनं भूरादिसृष्टिः । इति पूर्वोदाहृतभागवते प्रतिपादितम् । तथा च द्वितीयपरार्ध एव दिनकल्पः । स चाष्टादशसहस्त्रात्मको भवतीत्यर्थः । केचित्तु षट्त्रिंशत्सहस्रात्मको दिनकल्पः । भारतादिकमपि षट्त्रिंशत्सहस्त्रात्मकमिति मन्यन्ते । तन्न । प्रथमपरार्धे लोकसृष्टेरभावेन चतुर्मुखस्याप्युत्पत्तेरभावेन दिनकल्पाभावात् । न च

भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः ।

लोकभेदांश्च चक्रेऽत्र पश्चाद्ब्रह्मा विशेषतः ।

सम्यक् चकार लोकांस्ताल्ँलोककर्ता ततः स च ॥ इति ।

ऐतरेयभाष्ये- सूक्ष्मरूपेण लोकानां परमात्मना सृष्टत्वोक्तेः प्रथमपरार्धेऽपि दिनकल्पोऽस्तीति वाच्यम् । तत्प्रमाणबलेनैव प्रथमपरार्धे चतुर्मुखस्याजातत्वेन तेन भूरादिसृष्टेरभावात् । परमात्मना प्रतिदिनं भूरादिविनाशपूर्वकं भूरादिकं सृष्टमित्यत्र प्रमाणाभावात् । ब्रह्माण्डान्तश्चतुर्दशभुवनात्मकपद्मस्योदकैः पूर्णत्वेन प्रतिदिनसृष्टेरयुक्तत्वाच्च । प्रथमपरार्धे वसिष्ठशक्तिपराशरसत्यवतीव्यासादीनामभावेन भारतादिनिर्माणस्य दूरोत्सारितत्वाच्च । वैवस्वतमन्वन्तरेऽष्टाविंशतितमे द्वापरे व्यासावतारेण भारतस्य कृतत्वेन प्रथमपरार्धे वैवस्वतमन्वन्तरादेरसम्भवाच्च । न च-

लयस्य त्वष्टमो भागः सृष्टिकाल उदाहृतः ॥

इति दशमतात्पर्योक्तेः प्रथमपरार्धेऽपि सृष्टिः सम्भवतीति वाच्यम् । महदादिब्रह्माण्डान्तस्सृष्टिपरत्वेनाप्युपपत्तौ भूरादिसृष्टिविनाशसाधकत्वाभावात् ।

न च–

द्विपरार्धधिष्ण्यमध्यासितः सकललोकनमस्कृतं यत् ।

इति द्वितीयस्कन्धभागवते सत्यलोकस्य द्विपरार्धधिष्ण्यत्वमुच्यते । तदर्थस्तु द्विपरार्धसम्बन्धिधिष्ण्यं द्विपरार्धधिष्ण्यं तदध्यासित इति । तथा च प्रथमपरार्धेऽपि सत्यलोकादिकं चतुर्मुखश्चोत्पन्न इति वाच्यम् । द्वे परार्धे यस्याऽद्यब्रह्मणः स द्विपरार्धस्तस्य धिष्ण्यं चतुर्मुखरूपेणेति तदर्थोपपत्तेः । यद्वा पद्मस्य प्रथमपरार्धान्तिमदिने जातत्वेन सत्यलोकस्य द्विपरार्धसम्बन्धित्वोपपत्तेः । सूक्ष्मरूपेण सत्यादिलोकानां परमात्मना पूर्वं जातत्वाच्च । तस्मादष्टादशसहस्रात्मक एव दिनकल्प इति सिद्धम् ।

मनुकल्पसङ्ख्यामाह— **एकैकस्मिन्निति **।

**ब्रह्मण एकैकस्मिन्दिने चतुर्दशमनुकल्पाः ॥ ४३१ ॥ **

तदुक्तं तृतीयभागवते-

निशावसाना आरब्धो लोककल्पोऽनुवर्तते ।

यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश ॥ इति ।

तथा च द्वितीयपरार्धे द्विसहस्राधिकसार्धद्विलक्षसङ्ख्याका मनुकल्पा भवन्तीति बोध्यम् ।

प्रयोजनोक्तिपूर्वकं भगवदवतारानाह-ब्रह्मणः प्रतिदिनमिति । राजस- तामसैरिति

ब्रह्मणः प्रतिदिनं राजसतामसैर्जनैः सात्विकजनोपद्रवे सति मत्स्यकूर्माद्यवतारा भविष्यन्ति ॥ ४३२ ॥

तदुक्तं द्वितीयस्कन्धतात्पर्ये-

सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम् ।

रजस्तमोभ्यां विष्णुर्हि तदा प्राहुर्भवत्यजः ।

राजसांस्तामसान्हत्वा सात्विकान्वर्धयिष्यति ॥ इति ।

गीतायामपि-

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति ।

प्रथमस्कन्धभागवते–

एते स्वांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् ।

इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ इति ।

वैवस्वतमन्वन्तर इति-

**तत्रापि वैवस्वतमन्वन्तरे दशावताराः ॥ ४३३ ॥ **

आदौ मत्स्यावतारः । तदुक्तं प्रथमस्कन्धभागवते

रूपं स जगृहे मात्स्यं चाक्षुषान्तरसम्प्लवे ।

नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ इति ।

सृष्टिस्थितिसंहारादिप्रकरणे सृष्टिप्रकरणम्

अष्टमस्कन्धभागवतेऽपि-

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ॥

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ इति ।

द्वितीयवारमपि मत्स्यावतारः ।

स च हयग्रीवासुरेणापहृतान्वेदानुज्जहार ।

तदुक्तं द्वितीयस्कन्धभागवते-

विस्रंसितानुरुभये सलिले मुखान्म

आदाय तत्र विजहार ह वेदमार्गान् । इति ।

कूर्मावतारोऽपि द्विवारम् । अमृतमथनस्य द्विवारत्वात् ।

तदुक्तमष्टमस्कन्धतात्पर्ये–

अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् ।

अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः ॥ इति ।

वराहस्याप्यवतारद्वयम् । तदुक्तं तृतीयतात्पर्ये-

ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः ।

स एव पार्षदाविष्टो द्वितीयं कर्णताडनात् ॥ इति ।

नृसिंहावतार एक एव -सप्तमस्कन्धोक्तः

वामनस्याप्यवतारद्वयम् । तस्यैव त्रिविक्रमत्वात् ।

तदुक्तं पञ्चमतात्पर्ये–

वाराहे वामपादं तु तदन्येषु तु दक्षिणम् ।

पादकल्पेषु भगवानुज्जहार त्रिविक्रमः ॥ इति ।

रामावतारोऽप्येक एव त्रेतायुगे नवमस्कन्धोक्तः

परशुरामावतारोऽप्येक एव नवमस्कन्धोक्तः । कृष्णावतार एक एव । दशमस्कन्धोक्तः । बुद्धावतारः कल्क्यवतारश्चैक एव निर्णयोक्तः । दशावतारा इत्युपलक्षणम् । वैवस्वतमन्वन्तरे व्यासावतारा द्वापरयुगेषु पञ्चद्रष्टव्याः ।

तदुक्तं द्वितीयतात्पर्ये-

तृतीये सप्तमे चैव षोडशे पञ्चविंशके ।

अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत ॥

व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु ।

विव्यास वेदांश्चक्रे च भारतं वेदसम्मितम् ॥ इति ।

प्रथमतात्पर्येऽपि रामावतारात्पूर्वमप्यस्ति व्यासावतारः ॥

तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान् । इति ।

अन्यत्रान्यावतारा इति-

अन्यत्रान्यावतारा अपि ॥ ४३४ ॥

स्वायम्भुवमन्वन्तरादिषु यज्ञऋषभाद्यवतारा इत्यर्थः । ते चावतारा अष्टमस्कन्ध भागवतादावुक्ता ज्ञातव्याः । स्वायम्भुवमन्वन्तरे यज्ञऋषभावतारद्वयम् ।

तदुक्तं पञ्चमस्कन्धतात्पर्ये-

दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः ।

पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम् ॥ इति ।

अवताराणां प्रयोजनमाह-एतैरिति ।

एतैरवतांरैरयोग्यजनसंहारः सज्जनोद्धारश्च भविष्यति ॥ ४३५ ॥

एतच्च तत्र तत्र भागवतादौ द्रष्टव्यमिति ।

॥ इति सृष्टिप्रकरणम् ॥

***


स्थितिप्रकरणम्

स्थितिप्रकरणम् २

लब्धजन्मनः स्थित्यादीति टीकोक्तेः सृष्टिनिरूपणानन्तरं स्थितिं निरूपयितुं स्थितिस्वरूपमाह -भगवतेति

भगवता नानारूपैर्जगत्प्रविश्य जाग्रदाद्यवस्थाभिः पोषणं स्थितिः ॥ ४३६ ॥

प्रत्यक्षादिप्रमाणप्रमितत्वादिति भावः ।

अवस्थां विभजति-अवस्थाश्वेति

अवस्थाश्च जाग्रत्स्वप्नसुषुप्तिमोहतुरीयभेदात्पञ्चविधाः ॥४३७॥

जाग्रदवस्थालक्षणमाह-देहेन्द्रियाद्यभिमानेनेति ।

देहेन्द्रियाद्यभिमानेन तत्तद्विषयानुभवात्सुखदुःखोत्पादो जाग्रदवस्था ॥ ४३८ ॥

न च

ब्रह्मा तु निरभीमानाच्छरीर्यप्यशरीरवान् । इत्युक्तेः ।

कथं ब्रह्मवाय्वोर्जाग्रदवस्था । बालोन्मत्तानामप्यभिमानाभावाच्चेति वाच्यम् । भगवद्दत्तशरीरादिना भगवदाज्ञया सर्वं पश्यामि सृजामीति ज्ञानस्यैव ब्रह्मणोऽभिमानशब्दार्थत्वात् । अन्यथा प्रवृत्त्याद्यनुपपत्तेः । मत्तादीनामपि शरीरयात्रान्यथानुपपत्त्येषदभिमानोऽस्त्येवेति भावस्

तत्प्रवर्तकभगवद्रूपं तस्य स्थानं तल्लक्षणं चाऽह -तत्प्रवर्तक इति

तत्प्रवर्तको विश्वनामकः परमात्मा दक्षिणाक्ष्यग्रे स्थितः । स च सप्ताङ्ग एकोनविंशतिमुखः ॥ ४३९ ॥

तदुक्तं माण्डूकभाष्ये-

चतुर्धाऽवस्थितो देहे परमात्मा सनातनः ।

वैश्वानरो जागरितस्थानगो गजवक्रकः ।

निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः ।

अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥

मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् ।

पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥ इति ।

माण्डूकोपनिषद्यपि -

जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः । दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । इति ।

बृहद्भाष्येऽपि-

यच्चक्षुषि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते ।

शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम् ।

जाग्रतां सर्वजीवानां स विष्णुर्दक्षिणाक्षिगः ॥ इति ।

एकादशतात्पर्येऽपि-

दक्षिणाक्षिस्थितो विष्णुर्भुङ्क्तेऽर्थाआग्रदादिकान् ।

कण्ठसंस्थस्तथा स्वप्नाञ्जीवाऽनन्दं च सुप्तिगः ॥ इति ।

ननु विश्वस्य दक्षिणाक्षिगतत्वे हृदि ह्येष आत्मेत्यादिश्रुत्या हृद्गतजीवा- वस्थाप्रवर्तकत्वं कथमित्यत आह- तदा हृदयस्थेति ।

**तदा हृदयस्थजीवस्य दक्षिणाक्षिस्थविश्वप्राप्तिः ॥ ४४० ॥ **

तदुक्तं भाष्ये-

हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति ॥ इति ।

ननु जीवस्य हृदयमेव नियतस्थानं तत्परित्यज्य न चक्षुः स्थविश्वं प्रति गमनं युक्तम् । बिम्बरूपस्य हृद्येवावस्थानस्य वक्ष्यमाणत्वात् । तदुक्त- मैतरेयभाष्ये नहि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदिस्थितमेव हि तस्य स्वरूपमिति । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रं च । अतो न जीवस्य चक्षुर्गमनमित्यत आह- सांशजीवानामिति ।

सांशजीवानामंशेन । निरंशजीवानां तु प्रकाशतः ॥ ४४१ ॥

तथा च सांशजीवानामेकांशेन चक्षुर्गमनागमनादिकं युक्तं भाष्यप्रमाणबलात् । निरंशानां तु प्रकाशतो व्याप्तिः । तदुक्तमैतरेयभाष्य एव-जागरितेप्यक्ष्यादिषु विशेषतः सन्निहितो भवति दीपप्रकाशवदिति । ॐ गुणाद्वाऽऽलोकवत् ॐ’ इति सूत्रं चेति ।

जाग्रदवस्थायाः स्थानमाह– साचेति

**सा चावस्था ब्रह्मादिसर्वचेतनानाम् ॥ ४४२ ॥ **

नन्वीशलक्ष्मीमुक्तानां सुप्त्याद्यवस्थाऽभावाज्जाग्रदवस्था वक्तव्या । तेषां दक्षिणाक्षिस्थविश्वप्राप्तेरभावात्कथं सेति चेन्न । परमात्मनः स्वतन्त्रत्वेन स्वप्राप्त्यनपेक्षणात् । लक्ष्म्यादौ तु विश्वादीनां नियामकत्वे बाधकाभावात् । मुक्तानां तुरीयरूपेण प्रवृत्तिसम्भवाच्च ।

तदुक्तं माण्डूकभाष्ये-

सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः । मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । इति ।

स्वप्नावस्थां निरूपयति- देहेन्द्रियादिति

देहेन्द्रियाद्यभिमानेन मनसः स्वाप्नपदार्थानुभवः स्वप्नावस्था ॥ ४४३ ॥

देहेन्द्रियाद्यभिमाने तु तत्तव्यापारप्रसङ्गादिति भावः ।

तदुक्तं माण्डूकभाष्ये-

देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले । इति ।

स्वाप्नपदार्थानामनुभवो यत्रेति बहुव्रीहिः ।

तत्प्रवर्तकभगवद्रूपं तस्य स्थानं तल्लक्षणं चाह -तत्प्रवर्तक इति

तत्प्रवर्तकस्तैजसनामा भगवान्कण्ठदेशगतमनस्संस्थः ॥४४४ ॥

तदुक्तं माण्डूकोपनिषदि-मनस्यन्तस्तु तैजस इति ।

माण्डूकभाष्येऽपि-

चित्तस्थो दर्शयेत्तस्मात्तैजसः स्वप्नकृद्धरिः । इति ।

बृहद्भाष्येऽपि-

तद्गतस्य ततो विष्णोः कण्ठस्थानागमो यदा ।

तदा स्वप्नो भवेज्जाग्रद्दर्शनं न च जायते ॥ इति ।

स्वप्नकाले स्वाप्नपदार्थानुभव इत्युपलक्षणम् । केषाञ्चिदिन्द्रादिजीवानामर्जुना द्यवतारेषु बहिर्गमनेन बाह्यपदार्थ ज्ञानमपि भवतीति द्रष्टव्यम् ।

तदुक्तं बृहद्भाष्ये-

अंशेन जीवमादाय क्वचिदीशो बहिर्नयेत् ।

स्वप्ने तु फल्गुनं यद्वत्कृष्णः कैलासमानयत् ।

वासनारूपकान्प्रायस्त्वन्तरेव प्रदर्शयेत् ॥ इति ।

निर्णयेऽपि-

जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत्तं गिरिशान्तिकं हरिः । इति ।

ननु धृष्टद्युम्नोऽश्वत्थाम्ना करिष्यमाणां स्वमृतिं कालरात्र्यादिकं च स्वप्ने प्रतिदिनं पश्यति । तत्तत्पदार्थानां पूर्वमननुभूतत्वेन संस्काराभावात्स्वाप्नपदार्थः कथं वासनामयः ।

तदुक्तं निर्णये-

अवश्यं भाविनं मृत्युं धृष्टद्युम्नो विचिन्त्य तम् ।

तूष्णीं बभूव स्वप्नेऽपि नित्यं पश्यति तां मृतिम् ।

द्रौणिं च कालरात्रिं च द्रोणपातादनन्तरम् ।

विशसन्तं कृषन्तीं च स्वप्ने पश्यति पार्षतः ॥ इति चेन्न ।

भारतयुद्धस्य प्रतिदिनं जायमानत्वेन पूर्वदिनेऽनुभूतस्वमृतिविषयकसंस्कारोपादानकस्वमृत्याद्यनुभवसम्भवात् । न च चतुर्मुखप्रथमदिने का गतिरिति वाच्यम् । सर्वज्ञकल्पानां देवानामागामिपदार्थानुभवसम्भवेन तज्जनितसंस्कारोपादानकपदार्थानां स्वप्नेऽनुभवसम्भवात् । शाब्दानुभवजनितसंस्कारसम्भवाच्च । श्रुतं चाश्रुतं चेत्यादिश्रुतेः । अत एव बाणासुरपुत्र्याः समुद्रद्वीपवासिन्याः कदाप्यननुभूतेनानिरुद्धेन स्वप्ने सम्भोगोऽप्येतन्यायसिद्धः ।

सोऽपि सप्ताङ्ग इति–

सोऽपि सप्ताङ्ग एकोनविंशतिमुखः ॥ ४४५ ॥

तदुक्तं माण्डूकोपनिषदि–स्वप्नस्थानोऽन्तःप्रज्ञः । सप्ताङ्ग एकोन- विंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पाद इति ।

स्वप्नावस्थाया आश्रयमाह - स्वप्नावस्था चेति ।

**स्वप्नावस्था च सर्वजीवानाम् ॥ ४४६ ॥ **

सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादयः ।

असुप्ताः श्रीश्च मुक्ताश्चेत्यैतरेयभाष्ये ब्रह्मणः सुप्त्युक्तेः ।

सुप्तेश्च स्वप्नावस्थापूर्वकत्वाद्ब्रह्मणाऽपि स्वप्नावस्था स्वीकर्तव्येति भावः । रुद्रस्याश्वत्थामावतारे स्वप्न उक्तः प्रथमस्कन्धतात्पर्ये-

पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह ।

बन्धनं चाऽत्मनस्तत्र द्रौपद्या चैव मोक्षणम् । इति ।

तत्र जीवस्येति–

तत्र जीवस्य तैजसप्राप्तिः ॥ ४४७ ॥

समीपस्थस्तथा स्वप्नमिति भाष्योक्तेरिति भावः ।

सुप्त्यवस्थां निरूपयति-बाह्येति

बाह्यस्वाप्नपदार्थादर्शनेन स्वरूपानुभवः सुषुप्तिः ॥ ४४८ ॥

तदुक्तं माण्डूकभाष्ये–

सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः ।

न कामयेन्नैव पश्येज्जीवः स्वाऽत्मतमो विना ।

कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् ॥ इति ।

बृहद्भाष्येऽपि-

यं विष्णुं श्येनवच्छ्रान्तो जीवो जागरिते भ्रमन् ।

स्वप्ने च सुप्तावभ्येति संश्रान्तः सद्ग्रहं यथा ॥ इति ॥

तत्प्रवर्तकमाह- तत्प्रवर्तक इति

तत्र सर्वेन्द्रियाणामुपरमः । तत्प्रवर्तकः प्राज्ञः । तदा जीवस्य तत्प्राप्तिः ॥ ४४९ ॥

प्राज्ञेनात्मना सम्परिष्वक्त इति श्रुतिः ।

माण्डूकभाष्येऽपि -

नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।

प्राज्ञः संवेदयेत्किञ्चिज्जीवकालतमो विना ।

सुप्त्यवस्थां सुखं चापि विना नान्यत्प्रदर्शयेत् । इति ।

ननु मुक्तियोग्यानां स्वरूपस्य सुखात्मकत्वात्सुप्तौ तदनुभवसम्भवेऽपि तमोयोग्यानां स्वरूपस्य दुःखात्मकत्वात्कथं सुखानुभवः । न च सुप्तौ तेषां दुःखानुभव एवास्त्विति वाच्यम् । अनुभवविरोधात् । एतावन्तं कालं सुखमहमस्वाप्समित्याद्यौत्तरिकानुस्मृतिविरोधप्रसङ्गाच्च । न च तेषां बाह्य- सुखानुभव इति वाच्यम् । तदा विषयसन्निधानाभावेन मनसोऽप्युपरतत्वेन वृत्तिसुखोत्पत्तेरयोगात् । एवं नित्यसंसारिणामपि सुप्तौ सुखानुभवानुपपत्तिरिति चेत् । उच्यते । तमोयोग्यानामपि सुप्तौ सुखानुभवोऽस्त्येव । न च स्वरूपस्य दुःखात्मकत्वात्सुखानुभवानुपपत्तिरिति वाच्यम् । प्राकृतसुखानु- भवसम्भवात् । न च मनस उपरतत्वेन सुखोत्पत्त्यनुपपत्तिरिति वाच्यम् । ग्राहकत्वशक्तेरुपरतत्वेऽपि परिणामशक्तेरनुपरतत्वात् । न च विषय- सन्निधानाभावात्सुखानुत्पत्तिरिति वाच्यम् । परमेश्वरसन्निधानसामर्थ्ये- नोत्पत्तिसम्भवात् ।

तदुक्तं गरुडपुराणे-

सृजत्यनित्यसौख्यं तु स्वसङ्गात्तामसेष्वजः ।

सुप्तिकाले तु भगवांस्तत्सुखं प्राकृतं स्मृतम् ॥ इति ।

षट्प्रश्नटीकायामपि— परमेश्वरसन्निधानसामर्थ्येनोद्भूतं सुखमात्मस्वरूप- ज्ञानेनानुभवतीति । एवं नित्यसंसारिणामपि स्वरूपस्योभयात्मकत्वेऽपि दुःखानुभवाभावेन सुखमात्रानुभवसम्भवात् ।

तदुक्तं वायुपुराणे-

सृतियोग्यस्वरूपस्य सुखदुःखात्मकत्वतः ।

ईशेशवशतस्तत्र सुखमात्रं प्रतीयते ॥ इति ।

केचित्तु तमोयोग्यानां सुप्तिकाले दुःखाभावे सुखभ्रान्तिः । यथा भारोद्वाहकस्य पुरुषस्य भारापगमे सति दुःखाभावे सुखानुभवस्तद्वदित्याहुः । तन्न । दुःखाभावे सुखत्वारोपाङ्गीकारे सुप्तिकाले मयानुभूतं सुखं न किन्तु दुःखाभाव इत्युत्तरत्र बाधकज्ञानप्रसङ्गात् ।

किञ्च सुखत्वभ्रमः स्वरूपभूतो वा वृत्तिरूपो वा । नाद्यः । स्वरूपस्य दुःखात्मकत्वेन दुःखाभावे सुखात्मकत्वानुभवरूपत्वाभावात् । नान्त्यः । मनस उपरतत्वेन भ्रमात्मना परिणामायोगादिति भवद्भिरेवोक्तत्वात् । यदि मनसः परिणामोऽङ्गीक्रियते तर्हि सुखात्मना परिणाम एव किं न स्यात् । अपि च दुःखाभावे सुखभ्रमो गृह्यमाणाऽरोपो वा स्मर्यमाणाऽरोपो वा । नाद्यः । तदानीं प्राकृतसुखस्याभावेन न गृह्यमाणाऽरोपानुपपत्तेः । न द्वितीयः । सुखस्मरणं मनसा वा स्वरूपेण वा । नाद्यः । मनस उपरतत्वेन स्मरणजननसामर्थ्यायोगात् । न द्वितीयः । स्वरूपस्य दुःखानुभवात्मकत्वेन सुखस्मरणरूपत्वाभावात् ।

किञ्चाधिष्ठानत्वेनाभिमतदुःखाभावः स्वरूपभूतो वा तदतिरिक्तो वा । नाद्यः । स्वरूपस्य दुःखात्मकत्वेन दुःखाभावात्मकत्वायोगात् । न द्वितीयः । मनस उपरतत्वेन तज्ज्ञानाभावेऽधिष्ठानज्ञानाभावेनाऽरोपासम्भवात् । न च स्वरूपेन्द्रियेण प्राकृतदुःखाभावज्ञानमिति वाच्यम् । प्रतियोगिनो दुःखस्य स्मरणाभावेन दुःखाभावज्ञानासम्भवात् । न चैवं कस्यापि सुप्तौ दुःखाभावानुभवो न स्यादिति वाच्यम् । मुक्तियोग्यस्य स्वरूपस्य दुःखाभावात्मकत्वेन स्वरूपेणैव तदनुभवसम्भवात् । तमोयोग्यस्वरूपस्य दुःखा- भावानुभवस्वरूपत्वाभावेनेष्टापत्तेः ।

अपि च दुःखाभावे सुखारोपपक्षे बहुकल्पनादोषः । तथाहि । अधिष्ठान- ज्ञानं सादृश्यज्ञानमारोप्यसदृशज्ञानं भ्रमरूपज्ञानं चेति ज्ञानचतुष्टयं कल्प्यम् । न च सुप्तिकाले वृत्तिज्ञानबाहुल्यं युक्तम् । सुप्तित्वभङ्गप्रसङ्गात् । वृत्तिसुखकल्पने तु नानेककल्पना । किन्तु मनसः परिणामशक्तिमात्रकल्पनेति लाघवम् । यच्चोक्तं भारापगमे सति दुःखाभावे सुखभ्रान्तिवदिति तन्न । तत्रापि भारापगमेन सुखान्तरोत्पत्तेरेवाङ्गीकृतत्वात् । अन्यथा सर्वेषामपि भ्रान्तिपरिकल्पनाप्रसङ्गात् । मयाऽनुभूतं न सुखं किन्तु दुःखाभाव इत्युत्तरत्र बाधकज्ञानप्रसङ्गाच्च । यदि भारवाहकस्य भारापगमे दुःखाभावे सुखत्व- भ्रान्तिस्तर्हि भारवहनकालेऽपि सुखाभावे दुःखत्वभ्रमापत्त्या दुःखोत्पत्तिरेव न स्यात् । न च तदा दुःखजनकस्य भारवहनस्य सद्भावाद्दुःखोत्पत्तिरिति वाच्यम् । तर्हि भारापगमस्य देहादिविषयदर्शनस्य च सुखजनकत्वेन सुखोत्पत्तिसम्भवात् । तस्माद्दुःखाभावे सुखभ्रान्तिरित्येतदयुक्तमेव ।

अपरे तु सुप्तिकाले तमोयोग्यस्य स्वरूपं परमेश्वरसन्निधानवशेन दुःखत्वोप मर्देन सुखात्मना परिणमते । यथा जपाकुसुमसन्निधानेन शुद्धस्फटिकस्वरूपं लोहितात्मना परिणमते तद्वदित्याहुः । तदपि न । तमोयोग्यस्वरूपस्य दुःखैकरूपस्य सुखात्मना परिणामे प्रमाणाभावात् । न चेश्वरसन्निधानवशात्सुखात्मना परिणाम इति वाच्यम् । तमस्यपि बिम्बभूतपरमात्मसन्निधानसत्त्वेन सुखात्मपरिणामाऽपत्तेः । यच्चोक्तं स्फटिकलौहित्यवदिति । तन्न । परिणामयोग्यावयवोपेतस्य स्फटिकस्यैव जपाकुसुमसन्निधानेन लोहितात्मना परिणामसम्भवात् । उक्तं च तत्त्वनिर्णयटीकायां दर्पणस्य प्रतिमुखपरिणतिहेतुत्वसम्भवादिति ।

सुप्त्यवस्थायाः स्थानमाह-सा चेति

सा चावस्था रुद्रादिसर्वजीवानाम् ॥ ४५० ।

यद्यपि चतुर्मुखस्यापि पूर्वोदाहृतैतरेयभाष्यबलेन सुप्त्यवस्थाऽस्त्येव । तथाऽपि न रुद्रादिवत्सुप्तिस्तस्येत्यभिप्रायेण रुद्रादीत्युक्तम् ।

ननु जाग्रदाद्यवस्थासु विश्वादीनां दक्षिणाक्ष्यादितत्तत्स्थानगतत्वे जीवस्य न काप्यवस्था स्यात् । तत्तत्प्रवर्तकानां स्वस्वव्यापारस्य वक्तव्यत्वेनैक- दाऽनेकावस्थाऽयोगादित्यत आह- जाग्रदवस्थायामिति

जाग्रदवस्थायां तैजसप्राज्ञाभ्यां विश्वस्यैकीभाव इत्यादि बोध्यम् ॥ ४५१ ॥

तथा च तैजसप्राज्ञयोर्जाग्रदवस्थायां विश्वेनैकीभूतत्वाज्जीवस्य जाग्रदवस्थैवेति भावः ।

तदुक्तं माण्डूकभाष्ये-

………………………..प्राज्ञस्तेन जनार्दनः ।

एकीभावं व्रजेत्तां च तेन विश्वस्य तैजसः ।

एकीभूतः स्वतः प्राज्ञः…………………….। इति ।

सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । प्रतिदिवसं विभाग एकीभावश्च विद्येते विश्वादीनामिति च । इत्यादीति । स्वप्नावस्थायां तैजसस्य विश्वप्राज्ञाभ्यामेकीभावः । सुप्त्यवस्थायां प्राज्ञस्य विश्वतैजसाभ्यामेकीभाव इत्यर्थः ।

मूर्च्छावस्थां निरूपयति- मोहेति

मूर्च्छावस्था मोहावस्था । तदा दुःखमात्रानुभवः । तत्प्रवर्तको भगवान् । रूपविशेषस्तु अस्माभिर्न बुद्धो महान्तः प्रष्टव्याः ॥ ४५२ ॥

तस्या आश्रयमाह–साचेति

सा चावस्था रुद्रादिसर्वजीवानाम् ॥ ४५३ ॥

रुद्रस्य भीमसेनप्रहारेण मूर्च्छा । अश्वत्थाम्नोऽपि युद्धकाले भीमप्रहारेण मूर्च्छा । लक्ष्मणस्य रावणशक्तिप्रहारेण मूर्च्छा । बलरामस्यापि जरासन्धयुद्धे मूर्च्छा । इन्द्रस्य देवासुरयुद्धे मूर्च्छा । अर्जुनस्य स्वपुत्रेण बभ्रुवाहनेन मूर्च्छा च निर्णयाद्युक्ताऽनुसन्धेया ।

जाग्रदाद्यवस्थायां जीवस्य यथा विश्वादिषु समग्रप्राप्तिर्न तथा मूर्च्छाव स्थायामित्याह - तदाऽर्धप्राप्तिरिति

तत्रार्धप्राप्तिः परमात्मना जीवस्य ॥ ४५४ ॥

तदुक्तं सूत्रे भाष्ये च । ॐ “मुग्धेऽर्धसम्पत्तिः परिशेषात्” ॐ । “मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य " इति ॥

यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।

अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः ॥ इति ।

तुरीयावस्थां निरूपयति-तुरीयेति

तुरीयावस्था मोक्षः ॥ ४५५ ॥

तुरीयायामवस्थायां प्राणादेव निबोधनमिति छान्दोग्यभाष्ये मोक्षस्य तुरीयावस्थात्वोक्तेरिति भावः ।

ननु जाग्रदाद्यवस्थावदिदानीं सर्वैरनुभूयमानत्वाभावात्तुरीयावस्था नास्त्येवेत्यत आह-सा चेति

सा च वक्ष्यते ॥ ४५६ ॥

इदानीमननुभूयमानत्वेऽपि साधनपूर्त्या लिङ्गभङ्गानन्तरमनुभूयमानत्वादित्युत्तरत्र वक्ष्यत इत्यर्थः ।

तत्प्रवर्तकमाह-तत्प्रवर्तक इति ।

तत्प्रवर्तकस्तुरीयनामा भगवान् ॥ ४५७ ॥

तदुक्तं माण्डूकभाष्ये–

सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ।

सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥ इति ।

तस्य स्थानमाह– नासिकामारभ्येति ।

नासिकामारभ्य द्वादशाङ्गुलपरिमितदेशगतः ॥ ४५८ ॥

तदुक्तं माण्डूकभाष्ये–

मध्वसिद्धान्तसारः

विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।

मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ इति ।

द्वादशान्त इत्यस्य व्याख्यानं व्यासतीर्थैः कृतम् । नासिकामूलमारभ्य द्वादशाङ्गुलान्ते मस्तकमध्य इति केचित् । मस्तकमध्यमारभ्योपरि द्वादशाङ्गुलप्रदेश इत्यन्य इति । अत्र जाग्रदादिपञ्चावस्था इत्युपलक्षणम् । अपरोक्षज्ञानिनां समाध्यवस्थाप्यन्या ध्येया । सा च न जाग्रदवस्था । जाग्रत्पदार्थज्ञानाभावात् । भेरीताडनादावपि परमानन्दमग्नत्वादिति गीताभाष्योक्तेः । नापि सुप्त्यवस्था सा । मनसा परमात्मावलोकनरूपत्वात् । तदुक्तं गीताभाष्ये तस्यामिन्द्रियसंयमयुक्तो ज्ञानी जागर्ति सम्यगापरोक्ष्येण पश्यतीति । नापि स्वप्नावस्था सा । तैजसप्राप्तिरूपत्वाभावात् ।

किश्च स्वप्नाद्यवस्थां गतस्य सन्ध्यादिकाले तदकुर्वतः पापादिप्रसक्तिः प्रमाणप्रसिद्धा । तत्कालेऽसम्प्रज्ञातसमाधिस्थस्य सन्ध्याद्यकृतौ पापादि- प्रसक्तेरभावात् । तदुक्तं गीताभाष्ये-नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरसम्प्रज्ञातसमाधेः । असम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते । असम्प्रज्ञातसमाधेरेव कार्याभावः । न च सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्तीति । नापि मोक्षावस्था सा । प्राकृतशरीरवत्त्वात् । अतोऽसम्प्रज्ञातसमाधिर्नामा- वस्थान्तरमङ्गीकर्तव्यम् । एवं द्रौपद्याः सम्भोगावस्थाऽपि जाग्रदाद्यवस्थातिरिक्ताऽङ्गीकार्या ।

तदुक्तं निर्णये-

कृष्णा च तेषु पृथगेव चतुःस्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात् । इत्यारभ्यनो सुप्तिवत्त्विदमतोऽन्यवशत्वतो हि देहस्य संस्मृतित एव हरेर्न मोहः । नावेशवच्च तत एव मृतेः स्वरूपमेतत्त्वतः प्रतिदिनं जननाद्धि कन्या ॥ एवमुभयज्ञानशब्दितावस्थाऽन्याऽङ्गीकर्तव्या ।

तदुक्तं माण्डूकभाष्ये-

बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ।

यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता ॥ इति ।

जाग्रदाद्यवस्थावज्जीवस्य गर्भवासावस्थायामपि परमात्मैव रक्षक इत्याह- एवमिति

एवं गर्भादावपि भगवान्पोषकः ॥ ४५९ ॥

तदुक्तं छान्दोग्यभाष्ये– अनिरुद्धाश्रयत्वाद्गर्भाणाम् ॥

योनिक्लृप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् ।

आसेककर्म प्रद्युम्नादनिरुद्धाच्च धारणम् ॥ इति ।

धाता गर्भं दधातु त इति श्रुतिः ॥

यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः । इत्यादिपुराणवाक्यानि ।

**॥ इति स्थितिप्रकरण **॥

***