गुणप्रकरणम्
गुणप्रकरणं
द्रव्याण्युक्तानि । गुणा निरूप्यन्ते ।
तत्रादौ गुणसामान्यलक्षणमाह-दोषभिन्नत्वमिति ।
दोषभिन्नत्वं गुणत्वम् ॥ २०४ ॥
नचैवं गुणभिन्नत्वं दोषत्वमिति परस्परसापेक्षत्वादन्योन्याश्रय इति वाच्यम् । दुष्टव्यवहारजनकत्वं दोषत्वमित्यङ्गीकारादिति भावः ।
रूपप्रकरणम्
रूपप्रकरणम् १
प्रथमोद्दिष्टस्य रूपस्य लक्षणमाह-शुक्लादीति ।
**शुक्लादिव्यवहारहेतुर्गुणो रूपम् ॥ २०५ ॥ **
तद्विभजति तच्चेति ।
तच्च शुक्लनीलपीतरक्तहरितकपिलचित्र भेदात्सप्तविधम् । पुनर्द्विविधम् । नित्यमनित्यं च । पुनर्द्विविधम् । उद्भूतमनुद्भूतम् ॥ २०६ ॥
च नित्यानां रूपाणामाश्रयमाह-तत्रेति ।
तत्र शुक्लनीलपीतरक्तादिसप्तान्यपि नित्यानि रूपाणि परमात्मनः ॥ २०७ ॥
तदुक्तं छान्दोग्यभाष्ये–
ऋक्प्रोक्तो लोहिताकारो वासुदेवः परः पुमान् । स एव सूर्यलौहित्ये प्राच्यरश्मिषु संस्थितः ॥ सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः । शुक्लवर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः ॥ प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः । प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः । अनिरुद्धः सुनीलश्च इतिहासपुराणयोः । अथर्ववेदे चोक्तः सन्नुदग्रश्मिषु संस्थितः ॥ सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः । ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः ॥ इति । नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम् । शुक्लं तु वासुदेवाख्यं नादिन्यामग्रतः स्थितम् । पिङ्गलाख्यं पिङ्गलं च रूपं सङ्कर्षणाभिधम् ॥ पश्चिमे वज्रिकायां च पीतं प्रद्युम्ननामकम् । इडायामनिरुद्धाख्यं नीलं रूपं व्यवस्थितम् ॥ इति ।
बृहद्भाष्येऽपि-
शुक्लं तु वासुदेवाख्यमनिरुद्धं सुनीलकम् ।
सङ्कर्षणं पिङ्गलं च प्रद्युम्नं हरितं मतम् ॥
नारायणं लोहितं स्यात्पञ्च रूपाण्यजे हरौ ॥ इति ।
तन्त्रसारेऽपि-
युक्ताः प्रदीपवर्णाश्च सर्वाभरणभूषिताः ।
तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः ॥
मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते ।
चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ।
उद्यदादित्यवर्णाश्च ज्ञानमुद्राभयोद्यताः ॥
वराहस्तु– श्यामः सुदर्शनदराभयसद्वरेतः ।
हंसस्तु–
अन्त्यस्तु रक्तवर्णो वा ध्येयो विष्णुः सनातनः ।
विद्युद्वर्णोऽथवा ध्येयः ।
दधिवामनः-
ध्यायेत्सुशुक्लमरविन्ददलायताक्षम् ।
परशुरामः-
अङ्गारवर्णमभितोण्डबहिः प्रभाभिर्व्याप्तम् ।
कृष्णः-
ध्यायेद्धरिन्मणिनिभम् ।
वेदव्यासः-
विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् ।
हयग्रीवः-
वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातम् ।
कपिलदत्तात्रेयौ-
प्रोद्यद्दिवाकरसमानतनुम् ।
धन्वन्तरिः-
चन्द्रौघकान्तिम् ॥
हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः ।
प्रद्युम्नादिस्वरूपेण ध्येयः सिद्धिमभीप्सता ॥ इति ।
ऋग्भाष्येऽपि–
हितत्वाद्रमणीयत्वाद्धिरण्यं वर्णतोऽपि च ।
हिरण्याक्षो नरसिंहात्मना स वार्याणि यद्वरणीयं सुवित्तम् ।
दधानोऽसौ स्वर्णवर्णश्च तेन स्वर्णपाणिः स्वर्णहस्तश्च देवः ॥ इति ।
सूत्रे भाष्ये च-
ॐ रूपोपन्यासाच्च ॐ । “यदा पश्यः पश्यते रुक्मवर्णम्” । “तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रौक्मं कृष्णम्" इति ॥
शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ॥ इति ।
चित्ररूपमपि परमात्मनश्च्छान्दोग्योपनिषदि तद्भाष्ये चोक्तम्-
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्य इति ॥
श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान् ॥ इति ।
षष्ठस्कन्धतात्पर्येऽपि-
नानावर्णो हरिस्त्वेको बहुशीर्षशिरोरुपात् ।
आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना ॥ इति ।
**निर्णयेऽपि **वेदव्यासस्य चित्ररूपमुक्तम्-
शुभमरकतवर्णो रक्तपादाब्जनेत्राधरकरनखराग्रश्चक्रशङ्खाब्जरेखः ।
रविकरवरगौरं चर्मचैणं वसानस्तटिदमलजटासन्दीप्तचूडं दधानः ॥ इति ।
अत्रैकस्मिन्नेव शरीरे रूपत्रयोक्तेः ।
गीतायां विश्वरूपाध्यायेऽपि-
नानाविधानि दिव्यानि नानावर्णाकृतीनि च । इति ।
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ॥ इति ।
अत्रैकस्यैव विश्वरूपस्य नानावर्णत्वमुच्यत इति ।
ननु चित्ररूपसद्भावे मानाभावः । न च चित्रः पट इति प्रतीतिरेव मानमिति वाच्यम् । अवयवरूपाणामेव पटे भानोपपत्तेरिति चेन्न । चित्रपटे यदि चित्ररूपं न स्यात्तर्हि तस्याप्रत्यक्षत्वापत्तेः । अन्यगतरूपस्यान्यत्र प्रत्यक्षत्वाप्रयोजकत्वात् । नचावयवावयविनोरभेदात्प्रत्यक्षत्वोपपत्तिरिति वाच्यम् । रूपिद्रव्यस्य नीरूपद्रव्येणाभेदानुपपत्तेः । नचैकस्मिन्नेव पटे नानारूपाणि सन्त्विति वाच्यम् । संयोगवद्रूपस्य प्रदेशवृत्तित्वाभावात् । विरोधेनैकत्र नानारूपाणामवस्थानस्य तत्तदवयवाभेदस्य चायोगात् । अतश्चित्ररूपसिद्धिः । तदुक्तं जिज्ञासाधिकरणसुधायाम् – “एकमेव हि चित्रं नामरूपमाश्रयं व्याप्यवर्तीति पदार्थविदः" इति ।
लक्ष्म्यामपि रूपाण्यतिदिशति-तद्वलक्ष्म्या इति ।
तद्वल्लक्ष्म्या अपि रूपाणि । सर्वाण्यप्युद्भूतरूपाणि नित्यानि सर्वजीवानाम् ॥ २०८ ॥
तदुक्तं छान्दोग्यभाष्ये-
चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत्स्वरूपिणी ॥ इति ।
वैकुण्ठलोकगतनानावर्णनवरत्नात्मकत्वान्नानावर्णत्वं लक्ष्म्याः ।
तन्त्रसारेऽपि-
कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।
उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां जनित्रीम् ॥ इति ।
दुर्गाया अपि-
वर्णः श्यमो विशेषोऽत्र ताम्बूलं नीलमुत्पलम् ॥ इति ।
तथा निर्णयेऽपि– सत्यभामाया रूपमुक्तम् ॥
अनन्तशक्तिः सहसत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः ।
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कमास्निग्धपिशङ्गवाससा ॥ इति ॥
एवं जीवानामपि नानावर्णाः स्वरूपभूताः सन्त्येव ।
तदुक्तं छान्दोग्यभाष्ये–
जीववर्णो जीवगतो लोहितश्चक्षुषि स्थितः । इति ।
द्वितीयस्कन्धभागवतेऽपि-
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥
प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मना ॥ इति ।
एते च भागवतश्लोका अनुव्याख्यानच्छान्दोग्यभाष्यादौ मुक्तपरत्वेनैवोदाहृताः ।
मध्वविजयेऽपि-
अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽत्र पराः ।
हरिनीलनीलरुचयोऽप्यपराः प्रकटीभवन्ति विविधाभरणाः ॥ इति ।
मूलप्रकृतेर्नित्यरूपाण्याह– प्रकृतेरिति ।
प्रकृतेः शुक्लरक्तनीलानि नित्यानि त्रीणि ॥ २०९ ॥
अजामेकां लोहितशुक्लकृष्णामिति श्रुतेः ॥
नन्वेवं रूपादिमत्त्वाच्च विपर्ययो दर्शनादिति सूत्रकारेणोक्तेः परमात्मादीनामनित्यत्वं स्यादिति चेन्न । भौतिकरूपस्यैव विनाशव्याप्तत्वेनाभौतिकस्य तदभावात् । परमात्मादीनां चाप्राकृतरूपत्वात् ।
तदुक्तं वैशेषिकाधिकरणानुव्याख्याने-
भौतिकं त्वेव रूपादिव्याप्तं नाशेन नो मतः ॥ इति ।
तत्सुधायामपि-
भौतिकमेव रूपं विनाशव्याप्तमिति ।
अनित्यरूपस्योदाहरणमाह–तद्वद्गुणत्रयस्यापीति । महत्तत्वस्येति ।
तद्वद्गुणत्रयस्यपि । महत्तत्वस्य हेमवद्रूपम् । अहङ्कारादौ तु रूपवद्द्रव्यारब्धत्वाद्रूपं सम्भावितम् ॥ २१० ॥
तदुक्तं तृतीयस्कन्धभागवते-
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ इति ।
भूतेष्विति-
भूतेषु तेजोजलपृथिवीष्वनित्यानि रूपाण्युद्भूतानि । आकाशे त्वनुद्भूतम् । तत्र पृथिव्यां सप्तविधम् । शुक्लं जले । शुक्लभास्वरं तेजसि ॥ २११ ॥
आकाशो नीलिमोदेति न प्रदेशः कथंचन । इति ।
न्यायविवरणोक्तेर्भूताकाशस्य नीलरूपमित्यर्थः । नचैवं भूताकाशस्य प्रत्यक्षत्वापत्तिरिति वाच्यम् । अनुद्भूतरूपवत्त्वेनाप्रत्यक्षत्वोपपत्तेः ।
तदुक्तमनुव्याख्याने-
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ॥ इति ।
पृथिव्यादौ रूपाणां प्रत्यक्षसिद्धत्वान्न प्रमाणान्तरापेक्षा ।
नीलमाऽकाशतमसोरिति नीलमाऽकाशतमसोः ॥ २१२ ॥
अत्र तमः शब्देनाविद्याऽपि विवक्षिता । तस्या नीलरूपवत्त्वात् ।
तदुक्तं तृतीयतात्पर्ये-
केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका ।
जाताऽतिकृष्णा तद्देहाद्दैत्यरक्षः पिशाचकाः ॥ इति ।
वासनाप्रतिबिम्बयोरिति-
सर्वाण्यपि रूपाणि वासनाप्रतिबिम्बयोश्च ॥ २१३ ॥
स्वाप्नानां वासनोपादानकपदार्थानां नानारूपवत्त्वं दर्पणादिगतप्रतिबिम्बस्य च नानारूपवत्त्वं प्रत्यक्षसिद्धमिति भावः ।
॥ इति रूपप्रकरणम् ॥
***