द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणं द्रवणं च गमनम्
द्रव्यप्रकरणम्
पूर्वं सूचीकटाहन्यायेन कर्मसामान्यादेर्निरूपितत्वादवशिष्टद्रव्यगुणयोर्विशेषाकारेण निरूपणं चिकीर्षुर्गुणाश्रयत्वेन द्रव्यस्य प्राधान्यादादौ द्रव्यलक्षणमाह-द्रवणप्राप्यत्वमिति ॥
**द्रवणप्राप्यत्वं द्रव्यसामान्यलक्षणम् । द्रवणं च गमनम् ॥ ५६ ॥ **
अंह पूर्वमहं पूर्वमिति विवदमानयोः पुरुषयोर्यद्धावनप्राप्यं तद्द्रव्यमित्यर्थः ।
तदुक्तं द्वितीयस्कन्धतात्पर्ये-
द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः ।
पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशतः ॥ इति ।
अनेनाव्याकृताऽकाशप्रकृतिकालवर्णानां व्याप्तानामपि प्रदेशतो गमनप्राप्यत्वमिति नाव्याप्तिरिति बोध्यम् ॥
लक्षणान्तरमाह—
उपादानकारणत्वं वा द्रव्यत्वम् ॥ ५७ ॥
वाशब्दो व्यवस्थितविकल्पार्थः । तमेवाह-उपादानत्वं चेति ॥
**उपादानत्वं च परिणामोऽभिव्यक्तिश्चेति द्विविधम् ॥ ५८ ॥ **
अत्र प्रकृतिमारभ्य ब्रह्माण्डपर्यन्तं तथाऽविद्याकालान्धकारवासनाप्रतिबिम्बानां च परिणामः । तत्रापि प्रकृतेर्महदाद्यात्मना परिणामः । स्वयं च नान्येन परिणता । महदादेस्तु स्वयं परिणतत्वमहंकारादिपरिणामहेतुत्वंच । ब्रह्माण्डस्य परिणतत्वमात्रम् । अविद्याया उभयम् । अन्धकारवासनाकालप्रतिबिम्बानां च परिणतत्वमिति बोध्यम् । परमात्मलक्ष्मीजीवाव्याकृताऽकाशवर्णानामभिव्यक्तिरिति व्यवस्थेत्यर्थः । परमात्मनोऽनन्तावताराभिव्यञ्जकत्वम् । लक्ष्म्या अपि सीतारुक्मिण्याद्यनन्तावताराभिव्यक्तिमत्त्वम् । जीवानां सांशानामंशाभिव्यञ्जकत्वम् । निरंशानां पराधीनशरीरादिभिरभिव्यक्तिमत्त्वम् । अव्याकृताकाशस्य पराधीनमूर्तसम्बन्धरूपविशेषवत्त्वेनाभिव्यक्तत्वम् । एतच्च प्रथमभागवते स्पष्टम् एतन्नानावताराणां निधानं बीजमव्ययम् ॥ इति ।
एतच्च वियदधिकरणसुधाऽनुव्याख्यानयोरपि स्पष्टम् । वर्णानामपि वर्णान्तराभिव्यञ्जकत्वम् ।
तदुक्तं तन्त्रसारे-
पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ।
नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च ।
विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ।
नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात्पुनः ।
वेदमाता तु गायत्री द्विगुणा द्वादशाक्षरात् ॥ इति ।
अत्रायं सम्प्रदायः । प्रलयकाले सर्वेऽपि वर्णाः परस्परं निबिडतया सम्बद्धाः । नानादीपालोकवत् । सृष्टिकाले प्राप्ते परमात्मा तत्तद्वर्णानुच्चारणेन विभजति । तत्र ताराष्टाक्षरविभागकाले नारायणाष्टाक्षरसम्बद्धांस्ताराष्टाक्षरानुच्चारणेन विभजति । ततस्ताराष्टाक्षरेभ्यो नारायणाष्टाक्षरानुच्चारणेनोद्धरति । एवं नारायणाष्टाक्षरादपि । दीपाद्दीपान्तरवत् ।
तदुक्तं तन्त्रसारे-
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥ इति ।
***
परमात्मप्रकरणम्
परमात्मप्रकरणं
तत्रादौ सर्वोत्तमत्वेन प्रधानं परमात्मानं निरूपयति-तत्र परमात्मेति ॥
**तत्र परमात्माऽनन्तगुणपरिपूर्णः ॥ ५९ ॥ **
परमात्मनो द्रव्यत्वं चोपासनापादीयानुव्याख्याने
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परः ॥
इत्युक्तम् । द्रव्यं भगवानिति सुधा । अत्र परिपूर्णपदस्यादावपि सम्बन्धः । तथा च परिपूर्णानन्तगुणपरिपूर्णत्वं परमात्मनो लक्षणमित्यर्थः । अनन्तानामपि गुणानां परिपूर्णत्वं च प्रत्येकं निरवधिकत्वं निरतिशयत्वं च । लक्ष्म्यादिगतज्ञानाद्यपेक्षया परमात्मगतज्ञानानन्दादिकमनन्तगुणितम् एकैकमप्यनन्तमिति सजातीयानन्त्यम् । तथा ज्ञानान्दबलशक्त्यादीनामप्यानन्त्यमिति विजातीयानन्त्यञ्च विवक्षितम् ।
तदुक्तं निर्णये षष्ठभागवते च-
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ॥ इति ।
षष्ठतात्पर्येऽपि-गुणतोऽनन्ते ।
प्रत्येकशो गुणानां तु निस्सीमत्वमुदीर्यते ।
यदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।
अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च ॥ इति ।
भाष्यादावपि – “गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि " इत्यनेन विजातीयानन्त्यमपि । परमात्मज्ञानस्य लक्ष्म्यादिज्ञानापेक्षयाऽपरिमितत्वं चोत्क्रान्तिपादीयानुव्याख्याने प्रतिपादितम् ॥
बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः । महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥ अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥
सूर्यप्रभावादखिलं भासयन्ती निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः । तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् ॥
न तादृशी ब्रह्मणस्तु प्राय एवं श्रियो यथा । मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥
अग्निज्वालावदेव स्यात्सृतिगानां दृशो भवः ॥ इति ।
तथा ज्ञानपादीयानुव्याख्यानेऽपि-
सुसूक्ष्मैरप्यशेषैश्च विशेषैस्सह पश्यति । स्वात्मानं भगवान्विष्णुः सर्वरूपोऽपि सर्वदा ॥
सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वेदेवेशं पश्यत्येव रमाऽपि तु ॥
न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् । स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥ इति ।
एवमानन्दादीनामप्यमितत्वम् ।
तदुक्तं निर्णये-
क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम् ।
ऊचुः परं पुरुषमेकमनन्तशक्तिं
सूक्तेन तेऽब्जजमुखा अपि पौरुषेण ॥ इति ।
लक्षणान्तरमाह— सृष्ट्यादीति ।
सृष्ट्याद्यष्टकर्ता ॥ ६० ॥
जगत इति शेषः । तदुक्तं भाष्ये-
उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृत्तिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति ।
तत्त्वसङ्ख्यानेऽपि–
सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ॥ इति ।
अनुव्याख्यानेऽपि-
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेस्सदा ॥ इति ।
सृष्ट्यादिकर्तृत्वं सर्वज्ञानं विनाऽनुपपन्नमित्यत आह-सर्वज्ञ इति ।
सर्वज्ञः ॥ ६१ ॥
‘‘यः सर्वज्ञः सर्ववित्” इत्याद्याः श्रुतयोऽत्र मानम् ॥
ननु परमात्मनः सकलगुणपरिपूर्णत्वं कथं घटत इत्यत आह- परममुख्ययेति ।
परममुख्यया वृत्त्या सकलशब्दवाच्यः ॥ ६२ ॥
तथा च सर्वेषां शब्दानां परमात्मनि महायोगवृत्त्यैव प्रवर्तमानत्वेन सकलपदप्रवृत्तिनिमित्तवत्त्वाद्गुणपरिपूर्ण इति भावः ।
तदुक्तमणुभाष्ये-
अवान्तरं कारणं च प्रकृतिः शून्यमेव च । इत्याद्यन्यत्र नियंतैरपि मुख्यतयोदितः ॥
शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ॥ इति ।
ननु न परमात्मनोऽनन्तगुणपरिपूर्णत्वं युक्तम् । तस्याल्पगुणजीवाभिन्न- त्वादित्यत आह—**जडजीवेति **।
जडजीवप्रकृतिभ्योऽत्यन्तविलक्षणः ॥ ६३ ॥
जडं प्रकृत्यादि । ब्रह्मादयो जीवाः । प्रकृतिर्महालक्ष्मीः । तेभ्योऽत्यन्त-
विलक्षणः परमात्मेत्यर्थो
ऽत्र प्रमाणं तु–
द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥ इति गीता ।
तथा–
ब्रह्मा शिवः सुरेशाद्याः शरीरक्षरणात्क्षराः । लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ॥ इति ।
तत्त्वनिर्णयोदाहृतश्रुतिश्च ॥ तत्र क्षराक्षरपदाभ्यां जडमप्युपलक्ष्यते ॥
ननु न परमात्मनो जगत्कर्तृत्वं युक्तम् । शरीराभावात् । शरीरवत्त्वेऽ- नित्यत्वाऽपत्तिरित्यत आह- ज्ञानानन्दादीति ।
ज्ञानानन्दाद्यात्मककल्याणविग्रहवान् ॥ ६४ ।
तथा च शरीरवानेव भगवान् ।नचाऽनित्यत्वापत्तिः । ज्ञानानन्दा- द्यात्मकशरीरवत्त्वात् । प्राकृतदेहस्यैव विनाशवत्त्वात् ।
ननु ज्ञानादिदेहवत्त्वेऽप्यन्धपंग्वादित्वे सर्वकर्तृत्वानुपपत्तिरित्यत आह- कल्याणेति । सकलेन्द्रियपाटववानित्यर्थः ।
अत्र प्रमाणं तु–
तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् ।
चिदानन्दभुजं ज्ञानसुखैकपदसाङ्गुलिम् ।
आकेशादानखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् ॥ इति बृहद्भाष्यम् ।
सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः ।
सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥ इति ईशावास्यभाष्यम् ।
तथा–
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ।
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षकः ॥ इति माण्डूकभाष्यम् ।
विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥ इत्यैतरेयभाष्यम् ।
ब्रह्मरुद्रादिवदस्य न पराधीनत्वमित्याह-सर्वस्वतन्त्र इति ।
सर्वस्वतन्त्रः ॥ ६५ ॥
अत्र मानं तु–
स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेश जीवयोः ॥ इति भाष्यम् ।
स्वतन्त्रो भगवान्विष्णुरिति तत्त्वसङ्ख्यानम् ॥
परमात्मसमोऽधिको वाऽन्यो नास्तीत्याह-एक एवेति ।
एक एव ॥ ६६ ॥
एकमेवाद्वितीयमिति श्रुतिस्तत्र मानम् ।
तथा—
केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि । तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः ॥
अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् । अस्तीति भावनेत्याद्या अवज्ञा सम्प्रकीर्तिता ॥ इति ।
न हरेरीश्वरः कश्चित्कदाचित्वापि विद्यते । नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा ॥
स्वतन्त्रो भगवान्विष्णुरेक एव न संशयः ॥ इत्येकादशतात्पर्यम् ।
मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय ॥ इति गीता ।
तात्पर्यनिर्णयेऽपि-
साम्यं न चास्य परमेण च केन चाप्यं मुक्ते न च क्वचिदतस्त्वभिदा कुतोऽस्य ।
प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात्परस्य ॥ नास्ति नारायणसमं न भूतं न भविष्यति ।
‘यस्मिन्परेऽन्येऽप्यजजीवकोशा’ ‘नाहं परायुर्न मरीचिमुख्याः’ । जानन्ति यद्गुणगणान्न रमादयोऽपि नित्यः स्वतन्त्र उत कोऽस्ति तदन्य ईशः ॥
बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।
बलं तस्य हरिस्साक्षान्न हरेर्बलमन्यतः ॥ इत्यादि ।
द्वादशस्तोत्रमपि–
हरिरेव परो हरिरेव गुरुर्हरिरेव जगत्पितृमातृगतिः ।
न ततोऽस्त्यपरं जगतीड्यतमं परमात्परतः पुरुषोत्तमतः ॥ इत्यादि ।
निरंशजीववदेकरूपो न किन्तु बहुरूप इत्याह- नानारूप इति ।
नानरूपः ॥ ६७ ॥
अत्र प्रमाणं तु– वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहंशतधा सहस्रधाहममितोऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञा न बन्धो न मुक्तिः सर्व एते पूर्णा अजरा अमृताः परमाः परानन्दा इति भाष्योदाहृतश्रुतिः ।
गीताभाष्यमपि-
अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम् । एकत्र त्वनन्तान्यस्य रूपाणीत्यनन्तरूपः । परात्परं यन्महतो महान्तं यदेकमव्यक्तमनन्तरूपम् । असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च ॥ इति । बृहद्भाष्यमपि -
स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः । शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ।
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः ॥ इति ।
गीतापि-
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ इति ।
इन्द्रार्जुनादिवद्भगवद्रूपाणां न विशेष इत्याह-सर्वाण्यपीति ।
सर्वाण्यपि रूपाणि पूर्णानि ॥ ६८ ॥
तदुक्तं बृहद्भाष्ये-
विष्णोः सर्वगुणैः पूर्तिरपि मत्स्यादिरूपिणः । अजेयत्वमभेद्यत्वमच्छेद्यत्वं च सर्वशः ॥
सर्वावताररूपाणामपि चित्सुखरूपता । अवतारा हि विष्णोश्च सर्वे पूर्णाः प्रकीर्तिताः ।
पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः । न देशकालसामर्थ्येः पारावर्यं कथञ्चन ॥ इति ।
प्रथमस्कन्धतात्पर्येऽपि-
सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः । अन्यूनानधिकाश्चैव गुणैस्सर्वैश्च सर्वतः ॥ इति ।
काठकभाष्येऽपि-
मूलरूपश्च यो विष्णुः प्रादुर्भावादिकश्च सः । गुणतः स्वरूपतो वाऽपि विशेषं योऽत्र पश्यति ।
अत्यल्पमपि मत्वा स तमोन्धं यात्यसंशयम् ॥ इति ।
अनुव्याख्यानेऽपि
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथास्थितिः । स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥ इति ।
अतोऽनन्तगुणात्मैको भगवानेक एव तु । उच्यते सर्ववेदैश्व ते चाखिलविलक्षणाः ॥
सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।
तथापि सविशेषाश्च विद्वद्व्युत्पत्तितोऽपि च ॥ इति च ।
आनन्त्यं च देशतः कालतो गुणतश्च ।
तदुक्तं तृतीयस्कन्धतात्पर्ये-
कालकोटिविहीनत्वं कालाऽनन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशाऽनन्त्यं तथैव च ॥
गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥ गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् ॥ इति ।
ननु रामावतारे बलस्य कथं परिच्छेदः ।
तथाहि निर्णये-
यावद्वलेन न्यहनत्खरादिकान्न तावतैव न्यपतत्स राक्षसः । अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन्बाणवरान्मुमोच ॥ इति । अत्र खरदूषणादिवधे प्रयुक्तस्य बलस्य कुम्भकर्णवधसामर्थ्याभावः प्रतीयते । अतो बलस्यापूर्णत्वमिति चेन्न । अल्पबलेऽल्पबलं प्रयोक्तव्यम् । नत्वधिकबलम् । अविवेकित्वाऽपत्तेः । अतः खरादिहननं यावद्बलप्रयोगेणालं तावत्पूर्वं प्रयुक्तम् । कुम्भकर्णहनने त्वधिकं प्रयोक्तव्यम् । तावता पूर्वप्रयुक्त- बलस्य नासामर्थ्यम् । तथैवेश्वरसङ्कल्पत्वान्न दोषः ।
पटादिभिः पटाद्यवयवगुणक्रियाणां यथा भेदो न तथा भगवदवयवादीनां भगवतेत्याह– स्वरूपगुणावयवेति ।
स्वरूपगुणावयवक्रियादिभिरत्यन्ताभिन्नः ॥ ६९ ॥
परमात्मनो मत्स्यकूर्मादिस्वावतारैः करचरणाद्यवयवैर्ज्ञानानन्दादि गुणैर्जग- त्सर्जनादिक्रियाभिश्चात्यन्ताभेद इत्यर्थः ।
अत्र प्रमाणं तु ।
विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च । तस्यैव शिर आदीनां नैव भेदोऽस्ति कश्चन ।
विष्णोः क्रियाश्च याः काश्चिदभेदस्तैरपि ध्रुवम् ॥ इति बृहद्भाष्यम् ।
मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि । तथैवावयवानां च भेदं पश्यति यः क्वचित् ।
भेदाभेदौ च यः पश्येत्स याति तम एव तु । पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ॥
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् । केशवादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ॥
अणोरणुतरैरूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ॥ इति गीतातात्पर्यम् ।
॥ इति परमात्मप्रकरणम् ॥
***