ईश्वरः प्रकृतिर्जीवो जडश्चेति चतुष्टयम्
पदार्थसामान्यप्रकरणं
तत्र सामान्यतः पदार्थान्निरूपयति–तत्रेति ।
तत्र द्रव्यगुणकर्मसामान्यविशेषविशिष्टांशिशक्तिसादृश्याभावा दश पदार्थाः ॥ २ ॥
पदार्थनिरूपणस्यावश्यकत्व इत्यर्थः । ननु भगवत्पादैरेव तत्त्वसङ्ख्याने स्वतन्त्रास्वतन्त्रभेदेन द्वैविध्यस्य,
बृहद्भाष्ये
ईश्वरः प्रकृतिर्जीवो जडश्चेति चतुष्टयम् ।
पदार्थानां समुद्दिष्टं तत्रेशो विष्णुरुच्यते ॥
इति चातुर्विध्यस्य चोक्तेर्दश पदार्था इत्येतच्छास्त्रविरुद्धमिति चेदुच्यते । अस्य ग्रन्थस्य तार्किकादिसमयनिरासाय प्रवृत्तत्वेन तद्विभागमनुसृत्य केषाञ्चित् पदार्थानामावापः केषाञ्चिदुद्धारः क्रियत इति न तद्विरोधः । तत्त्वसङ्ख्यानादौ च सामान्यविस्तराभ्यां पदार्थतत्त्वज्ञानं मोक्षसाधनमित्यभिप्रायेण प्रवृत्तं विभागद्वयमिति न दोषः । तत्र विशिष्टांशिशक्तिसादृश्यानां तार्किकैः पदार्थान्तरत्वेनानङ्गीकारात्तन्निरासाय विभागे प्रक्षेपः । समवायस्याप्रामाणिकस्योद्वापः । तार्किकाङ्गीकृतद्रव्यगुणादिष्वपि बहुव्यत्यासोऽस्ति । तत्सर्वं तत्तत्पदार्थनिरूपणप्रस्तावे दर्शयिष्यामः । प्रमेयत्वं पदार्थसामान्य-लक्षणं स्फुटतयोपेक्ष्य विभाग एवादौ कृतः ॥
॥ इति पदार्थसामान्यप्रकरणम् ॥
द्रव्यविभागप्रकरणम्
द्रव्यविभागप्रकरणं
द्रव्यसामान्यलक्षणस्योत्तरत्र वक्ष्यमाणत्वात्प्रथमोद्दिष्टं द्रव्यं विभजति-तत्रद्रव्याणीति ।
तत्र द्रव्याणि । परमात्मलक्ष्मीजीवाव्याकृताकाशप्रकृतिगुणत्रयमहत्तत्त्वाहङ्कारतत्त्वबुद्धिमनइन्द्रियमात्राभूतब्रह्माण्डाविद्यावर्णान्धकार वासनाकालप्रतिबिम्बभेदाद्विंशतिरेव ॥ ३ ।
अस्य विंशतिरेवेत्यनेन सम्बन्धः । एवकारेण तार्किकोक्तविभागोऽप्रामाणिकः प्रमाणविरुद्धश्चेति सूचयति । प्रकृतिगुणत्रयादीनां प्रामाणिकत्वेन दुरपह्नवत्वात्पृथिव्यादिनवद्रव्येष्वन्तर्भावासम्भवाच्च पृथग्द्रव्यत्वं युक्तमिति भावः । तदुक्तं वैशेषिकाधिकरणसुधायाम् । यदुक्तं वैशेषिकादिभिः पृथिव्यादिनवैव द्रव्याणीति, तदसत् । महदहङ्कारादीनामपि सत्त्वादिति । एतेषां च यथा द्रव्यत्वं तथा तत्तदवसरे वक्ष्यामः ॥
॥ इति द्रव्यविभागप्रकरणम् ॥
***