०४ चतुर्थः पादः

संपद्याधिकरणम्

अथ चतुर्थः पादः

संपद्याधिकरणं ञ्ब्–४–१

न्यायविवरणं

न च ‘एतं सेतुं तीर्त्वा’ इत्यत्रातिक्रमोक्तेर्मुक्तो ब्रह्म तीर्त्वा गच्छति । तरतीति सामान्यप्रतीतेः । ब्रह्म तीर्त्वेदं गच्छतीति विशेषानुक्तेः । ‘इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यते’ इति विशेषोक्तेश्चैतं सेतुं प्रत्यन्यत्तीर्त्वेत्यन्यथोपपत्तेः ॥ १ ॥

भावबोध

भोगप्रतिपादकैतत्पादान्तर्गताधिकरणपूर्वपक्षसिद्धान्त-न्याया अनुव्याख्यायां सङ्ग्रहणोक्ताः ।

अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।

समस्तकार्यं वशिता च विश्वसम्भावनायुक्तयस्त्वन्यपक्षे ।

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमताऽस्तदोषः ।

विशेषक्लृप्तिः कृतनिनिश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥

इति ॥

ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ इत्यत्रार्चिराद्यतिक्रमोक्त्या ब्रह्मणो गम्यत्वोक्त्या च ज्ञानी किं ब्रह्मातिक्रम्य भोगान् भुङ्क्ते अथ तत्समीप एवेति सन्देहे अतिक्रम्यैवेति पूर्वः पक्षः । समीप एवेति सिद्धान्तः । तत्र ‘अतिक्रमोक्तिः’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शन-पूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न चैतं सेतुमिति ॥ अतिक्रमेत्यतः पूर्वं ब्रह्मेत्युपस्कर्तव्यम् । ब्रह्मणोऽप्यतिक्रमे गम्येनान्येन भवितव्यमित्या-शयेन गच्छतीत्युक्तम् । ननु श्रुतौ समानकर्तृकक्रियाप्रदर्शनार्थं भवतीति श्रूयते । अत एवेदं गच्छतीति वक्ष्यति । एवं चैतं सेतुमिति ब्रह्मणोऽप्यतिक्रमोक्तेर्न तद्गम्यमिति नेति भावः । (अयं च न्यायः ‘अविहाय’ इत्यनेन ब्रह्मणोऽतिक्रमाभावोक्त्या सूचितः ।) तद्धेतुत्वेन ‘सामान्यरूपम्’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ तरतीति ॥ तीर्त्वेत्यस्यार्थतो ग्रहणमिदम् । कथमनेन सामान्यप्रतीतिरित्यत आह ॥ ब्रह्म तीर्त्वेति ॥ तर्ह्यनिर्णय इत्यत आह ॥ इमामिति ॥ एतं सेतुं प्रतीति ॥ ‘सेतुश्चापि विधारणात् ।

सितमस्मिन् जगत्सर्वमिति सेतुरितीरितः ।

एतं सेतुं प्रति पुमानन्यत्तीर्त्वा ह्यदोषवान् ॥

इत्युक्तेश्चेति भावः । एवं चैतं सेतुमिति श्रुतेः सामान्यरूपत्वादेतं सेतुं प्रति अन्यत्तीर्त्वेत्यर्थोपपत्तेर्युक्तं तस्य गम्यत्वमिति भावः । (अयं च न्यायः ‘शब्दात्’ इत्यनेन ‘इमां घोराम्’ इति श्रुतिग्राहकेण एतं सेतुं तीर्त्वा इदं गच्छतीति वचनाभावेन सामान्यरूपत्वादिमां घोरा-मिति श्रुत्यनुसारेण एतं सेतुं प्रत्युतान्यत्तीर्त्वेत्यर्थोपपत्तेरिति सूचनेन सूचितः ।) ॥ १ ॥


मुक्ताधिकरणम्

मुक्ताधिकरणं ञ्ब्–४–२

न्यायविवरणं

न च कृतिमत्वादमुक्त एवोच्यते । स तत्र पर्येतीत्यादौ स्वेन रूपेणाभिनिष्पद्यत इति मुक्तस्य स्पष्टं प्रतिभातत्त्वात् श्रुतौ । स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्चैवं-भूतस्यापि प्रकरणत्वं प्रकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्यत इति श्रुतेरेवाभावप्रसङ्गः । सत्यं ज्ञानमित्यादावपि सत्यमित्यस्यान्नमित्यनेनान्वय इत्यादि-प्रसङ्गात् ॥ २ ॥

भावबोध

ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ इत्यत्र ‘स तत्र पर्येति’ इत्यादिनाऽस्य क्रियाप्रतीतेः श्रुत्युक्तेरुभयथापि सम्भवात् किं मुक्तो न वेति सन्देहे न मुक्त इति पूर्वः पक्षः । मुक्त इति सिद्धान्तः । तत्र ‘कृतिः’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षि-पति ॥ न च कृतिमत्वादिति ॥ कृतिरत्र क्रिया ग्राह्या । पर्येतीति श्रुत्यानुगुण्यात् । अत एव तत्वप्रकाशिकायां ‘स तत्र पर्येतीत्यादि-नाऽस्य क्रियाप्रतीतेः’ इत्युक्तम् । न च कृतिमत्वेऽपि मुक्तत्वं किं न स्यादिति वाच्यम् । न हि क्रियावत्त्वं कृतकृत्यस्य मुक्तस्योपपद्यत इति मुक्तत्वे क्रियावत्त्वमेव न स्यादिति भावः । एवं च कृतिमत्वाच्छ्रु-त्युक्तस्यामुक्तत्वेन मुक्तस्य भोगासम्भव इति नेति भावः । (अयं च न्यायः ‘तत्र पर्येति’ इति श्रुत्युक्तस्य मुक्तत्वस्य विधायकेन मुक्त इत्यनेन स तत्र पर्येतीति क्रियावत्त्वविधानादमुक्त एव सर्वत्रोच्यत इति सूचनेन सूचितः ।) तद्धेतुत्वेन ‘प्रतिभानम्’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ स्वेन रूपेणेति ॥ इति श्रुतावित्यन्वयः । यद्वेति पूर्ववाक्येन । श्रुतौ– स तत्र पर्येतीत्यस्यामित्यर्थः । ननु स एष सम्प्रसूतोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि-निष्पद्यत इति निर्गुणब्रह्मोपासकस्य स्वरूपाविर्भावाभिवायकमिदं प्रकरणान्तरम् । स तत्र पर्येतीत्यत्र तु पूर्वोक्तसगुणप्रतिपादकदहर-विद्योपासको भोगवत्त्वेनोच्यते । स चाऽमुक्त एव । तथा परं ज्योतिरित्यस्य स तत्र पर्येतीत्यस्माद्भिन्नप्रकरणत्वात्कथमनेन वाक्येन तद्वाक्योक्तभोगवतः स्पष्टतया प्रतिभानमित्यत आह ॥ स तत्रेति ॥ स तत्र पर्येतीत्यस्य परं ज्योतिरिति पूर्वश्रुत्यैक्यस्यैकविषयत्वस्य प्रतीतेरित्यर्थः । ‘स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति’ इत्यानुपूर्वीविशिष्टवाक्ये स इति तच्छब्देन स्वेन रूपेणाभि-निष्पद्यत इत्युक्ताविर्भूतस्वरूपमुक्तस्यैव परामर्शः । न तु दूरोक्तदहर-विद्योपासकस्य । अव्यवहितपरामर्शसम्भवे व्यवहितपरामर्शकल्पका-भावादिति भावः । प्रतीतपरित्यागेनाऽन्यथाकल्पने बाधकमाह ॥ एवंभूतस्यापीति ॥ एकवाक्यतया प्रतीतस्यापि । प्रकरणत्वं भिन्नप्रकरणत्वम् । श्रुतिबाधः स तत्रेत्यस्य मुक्तपरत्वापहारः । सा श्रुतिः परं ज्योतिरिति श्रुतिः । विभज्य परं ज्योतिस्तिष्ठतीत्यादि-रूपेण । श्रुतेरेव एकस्मिन्नर्थे प्रमाणतया एकवाक्यतापन्नश्रुतेरेवेत्यर्थः । ततश्चाव्यवहितत्वेनैकवाक्यतया प्रतीतस्यापि ज्ञापकं विना भिन्न-प्रकरणत्वकल्पने एकवाक्यतया सम्प्रतिपन्नस्य परं ज्योतिरुपसम्पद्ये-त्यस्यापि तिष्ठतीत्यादिपदाध्याहारेण भिन्नप्रकरणत्वं कल्पयितुं शक्यत इति श्रुतौ किञ्चिदप्येकार्थतयैकं वाक्यम् एकं प्रकरणमिति न स्यादिति भावः ।

ननु ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादिश्रुतीनां सत्यादिपदानां ब्रह्मपदे-नैकार्थप्रतिपादकतया सामानाधिकरण्यरूपान्वय सम्भवेनैकवाक्य-तापन्नानां विद्यमानत्वात्कथमेकवाक्यतापन्नश्रुतेरेवाभावप्रसङ्ग इत्यत आह ॥ सत्यमिति ॥ न केवलं सा श्रुतिरेव विभज्य योजयितुं शक्यते किं तु सत्यं ज्ञानमित्यत्रापि । एवं व्यवहिताङ्गीकारेण योजना कर्तुं शक्यत इत्यपेरर्थः । अनेन स तत्रेत्यस्य सन्निहितमुक्तपरत्वत्यागेन व्यवहितसगुणोपासकस्य जीवन्मुक्तिप्रतिपादकत्वाङ्गीकारे चातिप्रसङ्ग उक्तो भवति । तथा हि । अन्नमयादिप्रकरणस्य सत्यं ज्ञानमिति मन्त्रवर्णोक्तप्रवचनरूपत्वेन सत्यमित्यस्य ‘येऽन्नं ब्रह्मोपासते’ इत्युक्तान्नमित्यनेनैकार्थप्रतिपादकत्वेन सामानाधिकरण्यरूपान्वयः स्यात् । आदिपदेन ज्ञानमित्यस्य, मन इत्यनेन चाऽनन्तमित्यस्य, आनन्दमित्यनेनोक्तरीत्या सामानाधिकरण्यरूपान्वयः स्यात् । न चेदं तस्येष्टम् । सत्यं ज्ञानमिति मन्त्रस्याखण्डार्थनिष्ठतया ब्रह्मपरत्वेना-न्नमयादिप्रकरणानां च कोशपरत्वेन भिन्नप्रकरणत्वाङ्गीकारादिति पररीत्यैवेदमापादनं द्रष्टव्यम् । सिद्धान्ते त्वेकप्रकरणत्वस्याऽचार्यैरेव ‘मात्रवर्णिकमेव च गीयते’ इति सूत्रार्थतयोपपादितत्वादिति । एवं च स तत्र पर्येतीति श्रुत्युक्तस्य स्पष्टं मुक्तत्वप्रतिभानाद्युक्तो मुक्तस्य भोग इति भावः । (अयं च न्यायः ‘प्रतिज्ञानात्’ इत्यनेन सूचितः ।)

॥ २ ॥