०३ तृतीयः पादः

अर्चिराद्यधिकरणम्, वायुशब्दाधिकरणम् , तटिदधिकरणम्, आतिवाहिकाधिकरणम्

**अथ तृतीयः पादः **

**अर्चिराद्यधिकरणम्, वायुशब्दाधिकरणम् , **

तटिदधिकरणम्, आतिवाहिकाधिकरणं ञ्ब्–३–१,२,३,४

न्यायविवरणं

न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम् । ‘सर्वे वा एत उत्क्रामन्ति तेऽर्चिषमेवाभिसंयन्ति ततो वायुं ततोऽहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः । द्वे सृती अशृृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च’ इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तेः । एष एव ब्रह्मपथ इत्यवधारणविरोधादन्यथा । एजदिति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः ।

पुनरावर्तिनो ये तु तेषां धूमपथो ध्रुवः ।

अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः ॥

धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः ।

विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति चाधरम् ॥

अत्यल्पानामविज्ञाताऽप्यनुज्ञावर्तिनां भवेत् ।

पुंद्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम् ॥

अतो न मार्गभेदोऽस्ति न हि मार्गोऽत्र सम्भवः ।

प्रेतत्वं चाधरो मार्गः पापजत्वात्तयोः पृथक् ॥

इति स्मृतेश्च ॥ १–४ ॥

भावबोध

ब्रह्मनाड््योत्क्रान्तानां ब्रह्मप्राप्त्यर्थं मार्गस्य, तेन मार्गेण गतानां गम्यस्य च निर्णायकेऽस्मिन्पादे प्रत्यधिकरणपूर्वपक्ष-सिद्धान्तन्याया अनुव्याख्यायामुक्ताः ।

‘सुक्रमविक्रमौ च सान्तानिकं प्राप्तिरभीष्टता च ।

सौकर्यमित्यन्यमतस्य तर्का विशेषसंप्राप्तिरुरुत्वमाप्तिः ।

क्रमानुरागः कथितानुवृत्तिः सिद्धान्तनिर्णीतिकराः’ इति ॥

॥ ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ इत्यत्र ‘तेऽर्चिषमभि-सम्भवन्ति, यदाह पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति’ इति श्रुत्यवष्टम्भेनार्चिषः प्राथम्यं वायोर्वेति सन्देहे उभयोरपि प्राथम्यमिति पूर्वः पक्षः । अर्चिष एव प्राथम्यमिति सिद्धान्तः । तत्र ‘सुक्रमः’ इत्युक्तपूर्वपक्षन्यायं विवृण्वन् प्रतिक्षिपति ॥ न च तत्र तत्रेति ॥ तत्र तत्रोदाहृतश्रुतिद्वये मार्गस्यान्यथाऽर्चिरादित्वेन वाय्वादित्वेन चोक्तत्वा-न्मार्गभेदेनोभयोः प्राथमिकत्वेऽप्यधिकारिभेदेन विरोधाभावाच्च मार्ग-नानात्वलक्षणसुक्रमोपपत्तिरित्यर्थः । एवं च सुक्रमोपपत्तेर्मार्गस्य निर्णयाभावात्तदनुस्मृत्ययोग इति नेति भावः । (अयं च न्यायो ऽर्चिः प्राप्तिरेव प्रथमेनार्चिरादिनेत्यनेनार्चिष एव प्रथमप्राप्यत्वोक्त्या सूचितः ।) तद्धेतुत्वेन ‘विशेषसम्प्राप्तिः’ इत्युक्तसिद्धान्तन्यायं प्रमाणोदाहरणपूर्वकं विवृणोति ॥ सर्वे वा एत इति ॥ ततो वायुमित्येतावत्युदाहर्तव्येऽन्यांशोदाहरणमुत्तरत्रोपयोक्ष्यते । अनेन विशेषाच्छ्रुत्यादिरूपाज्ज्ञापकादर्चिः प्राथमिकस्यैव ज्ञानिकर्तृकप्राप्तेरिति न्यायो विवृतो भवति । सत्यमित्यस्यार्थ एवेति । तेऽर्चिषमित्यस्याः श्रुतेः कथं विशेषश्रुतित्वमित्यत आहएष एवेति । अन्यथा मार्गभेदे । अनेन मार्गैक्यविशेषश्रुतित्वमुपपादितमिति द्रष्टव्यम् । उपलक्षणं चैतत् । मार्गस्यार्चिरादित्वेऽपि तेऽर्चिषमेवेत्यवधारणयुक्तत्वेन ततो वायुमिति वायोर्द्वितीयप्राप्यत्वप्रतिपादकत्वेन च विशेषश्रुतित्वं द्रष्टव्यम् ।

ननु सर्वेषां स्वर्गमोक्षप्रापकधूमार्चिरादिमार्गद्वयप्राप्तौ तमःप्रभृत्यधो-गतिः केषाञ्चिन्न स्यात् । सन्ति च तथाविधाः केचित् । अतः कथं द्वे सृती इत्यत्र विश्वमित्युक्तमित्याशङ्कानिरासार्थं श्रुतावेजदित्युक्त-मित्याशयेनाह ॥ एजदितीति ॥ वैदिकानुष्ठानवत इति सावधारणं, मार्गद्वयस्येति शेषः । ततश्चायं मन्त्रार्थः । मर्त्यानां मरणशीलानां मोक्षस्वर्गादिगन्तृणां द्वे एव सृती मार्गावहमशृृणवम् । के ते देवानां पितृणां च सम्बन्धिन्यौ देवयानपितृयानलक्षणे । ‘द्यौर्नः पिता पृथिवी माता’ इति श्रुतेः पितरं मातरं चान्तरा द्यावापृथिव्योर्मध्ये वर्तमानं यदेतत्प्रत्यवायाद्बिभ्यद् वेदोक्तप्रवृत्तनिवृत्तकर्मादिसाधनसम्पूर्णमदिति यावत् । इदं विश्वं जीवजातं ताभ्यां सृतिभ्यां ब्रह्म स्वर्गं च समेतीति । अनेनास्याः श्रुतेर्ब्रह्ममार्गैक्य एव विशेषश्रुतित्वमुपपादितं भवति । ब्रह्ममार्गस्यैकत्वेऽर्चिरादित्वे च स्पष्टं स्मृतिं चाह ॥ पुनरावर्तिन इति ॥ ननु ‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम्’ इत्यात्मत्वमात्रो-पासकानामस्ति तावन्मुक्तिः । केचिदत्रैव मुच्यन्त इत्युक्तेः । नन्वेतेषां देवानामिव स्वोत्तमप्रवेशेन देहलयद्वारा मुक्तिः, अत्यल्पत्वात् । नाप्युत्क्रमणं, नोत्क्रामन्तीत्युक्तत्वात् । न ह्मुत्क्रमणशून्यानामर्चिरादि-मार्गः सम्भवति । उत्क्रान्तिमार्गश्च विमुक्तगम्यमिति तेषामेवार्चिरादि-मार्गोक्तेः । अतस्तेषां मुक्तेर्मार्गान्तरं वक्तव्यमिति कथमपुनरावर्ति-मार्गैक्यमित्यत आह ॥ अत्यल्पानामिति ॥ पुंद्वारेण स्वामित्व-मेवोपास्यमिति गुरूपदेशेन, ‘स्वदृष्टया यस्य गुणाः प्रतिभास-न्त्युपासने’ इत्युक्तरीत्या वाऽनुवर्तिनां स्वामित्वमात्रोपासनाविधि-बद्धानां यथायोग्यं विमुच्यतां स्वोपासनानुसारेणोत्क्रमणमार्ग-व्यतिरिक्तकर्मक्षयभोगमात्रलक्षणमुक्तिं गच्छताम् । अत एव चतुर्गुणो-पासकापेक्षयाऽत्यल्पानामविज्ञातापि तदोकोग्रज्वलनं तत्प्रकाशितद्वार इत्युक्तरीत्या ज्ञातब्रह्मनाडीव्यतिरिक्तापि चक्षुःश्रोत्रादिरूपा गतिर्मार्गो भवेद्यतोऽतो नार्चिरादिमार्गेऽवान्तरभेदोऽस्तीत्यर्थः ।

तथोक्तं बृहदारण्यकभाष्ये

केचित्तु मानुषा मुक्तिमनुत्क्रम्यैव देहतः ।

देहपाते तु देहस्य दोषान्मुक्त्वैव सर्वशः ।

मरणोच्छूनतादींस्तु स्वकीयारब्धकर्मजान् ॥

देहक्षीणे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया ।

पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ॥ इति ।

देवव्यतिरिक्तानामुत्क्रान्त्यादि सम्पूर्णमोक्षवतामेवार्चिरादिमार्गैक्यं न तु सर्वेषामिति भावः । ननु द्युपर्जन्यादेर्जीवोत्पत्तिमार्गस्य प्रेतत्वस्य च सत्वात् कथं न मार्गभेद इत्यत आह ॥ न हीति ॥ सम्भव उत्पत्तिः । तयोर्देवयानपितृयानयोः सकाशाद् ऊर्ध्वलोकगमनमार्गयोरेवात्र विवक्षितत्वादिति भावः । एवं च सम्प्राप्त्या एकस्यैव मार्गस्य निर्णयादनुस्मृतिसम्भवादिति भावः ॥ १ ॥

भावबोध

ॐ न च वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ इत्यत्र ‘स वायुमागच्छति अर्चिषोऽह्नः’ इति श्रुत्यवष्टम्भेन वायोरह्नो वा द्वितीयप्राप्यत्वमिति सन्देहे उभयोरपीति पूर्वः पक्षः । वायोरेवेति सिद्धान्तः । तत्रापि सुक्रमविशेषसम्प्राप्तिरूपपूर्वपक्षसिद्धान्तन्यायावेव ‘न च तत्र’ इत्यादिना न्यायविवरणेन विवृतौ । तथा हि । तत्र तत्र स वायुमागच्छति, अर्चिषोऽहरिति श्रुतिद्वये मार्गस्यान्यथा वायो-र्द्वितीयत्वेन अह्नो द्वितीयत्वेन चोक्तेरिति पूर्वपक्षन्यायविवरणांश-योजना । शिष्टं पूर्ववत् । पूर्वपक्षन्यायश्च वायोरेव सुक्रमोपपत्तेरिति सूचनेन सूचितः । सिद्धान्ते तूदाहृतश्रुत्यादेर्मार्गस्यैकत्वे पूर्ववदेव । विशेषरूपत्वं वायोर्द्वितीयत्वे च ततो वायुं ततोऽहरिति वाय्वह्नोः क्रमेण द्वितीयतृतीयतया प्राप्यत्वप्रतिपादकत्वेनेत्यपि द्रष्टव्यम् । एकमार्गस्यैवेत्यस्य च तत्रापि वायुद्वितीयकस्येत्यर्थः । अत एव तत्वप्रकाशिकायामेतत् ‘अधिकारिभेदेन मार्गभेदाद्द्वितीयप्राप्यत्वमिति पूर्वः पक्षः । न मार्गभेदेन द्वयोर्द्वितीयप्राप्यत्वं मन्तव्यं किं त्वेक एव मार्गः । तत्रापि मार्गेऽर्चिषोऽनन्तरमेव वायुं गच्छति । न च श्रुत्यन्तरविरोधः । वायोरनन्तरमह्नः प्राप्तिसम्भवादिति भावः’ इति पूर्वपक्षसिद्धान्तौ दर्शितौ । तदेतदुक्तं सम्बन्धदीपिकायां– ‘वायु-शब्दादविशेषविशेषाभ्यां सुक्रमो विशेषसंप्राप्तिः’ इति । (सिद्धान्त-न्यायश्च, विशेषेत्यनेन भागेन ‘स इतो गतो द्वितीयम्’ इति विशेष-श्रुत्या वायोरेव द्वितीयप्राप्यत्वस्य प्राप्यत्वादिति वदता सूचितः ।)

॥ २ ॥

भावबोध

ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ इत्यत्र ‘संवत्सराद्वरुणलोकं संवत्सरात्तटितम्’ इति श्रुत्यवष्टम्भेन संवत्सरा-नन्तरं वरुणलोकस्य प्राप्यत्वमुत तटित इति सन्देहे उभयोरपीति पूर्वः पक्षः । तटित एवेति सिद्धान्तः । तत्रापि सुक्रमविशेषप्राप्तिरूपावेव पूर्वपक्षसिद्धान्तन्यायौ ‘न च तत्र’ इत्यादिना न्यायविवरणेनैव विवृतौ । तथा हि । तत्र तत्र संवत्सराद्वरुणलोकं संवत्सरात्तटितमिति श्रुतिद्वये मार्गस्यान्यथा तटिल्लोकस्य वरुणलोकस्य च साक्षात्संवत्सरा-नन्तरत्वेनोक्तेः । संवत्सरलोकात्प्रजापतिलोकं गन्तुम् अधिकारिभेदेन मार्गभेदोपपत्तेर्विरोधाभावादिति पूर्वपक्षविवरणयोजना । शिष्टं पूर्ववत् । सिद्धान्ते तूदाहृतश्रुत्यादिकं मार्गैकत्वविषय एव द्रष्टव्यम् । तटित एव संवत्सरानन्तरप्राप्यत्वे तु ‘तटिता ह्यूह्यते वरुणलोकः’ इति भाष्यो-दाहृता विशेषश्रुतिर्द्रष्टव्या । अत एव तत्वप्रकाशिकायामस्मि-न्नप्यधिकरणे एतावेव पूर्वपक्षसिद्धान्तन्यायाविति हृदि निधाय तद्विवरणरूपतत्र तत्रेत्यादिन्यायविवरणानुसारेण ‘संवत्सरलोका-त्प्रजापतिलोकं गन्तुमधिकारिभेदेन मार्गभेदोपपत्तेरिति पूर्वः पक्षः’ ‘किं त्वेक एव मार्गः । तत्र संवत्सरानन्तरं तटितमेव गच्छति’ इति सिद्धान्तश्च प्रदर्शितौ । तदेतदुक्तं सम्बन्धदीपिकायां ‘तटितोऽधिवरुणः सम्बन्धात्सुक्रमविशेषसम्प्राप्तिः’ इति । (पूर्वपक्षन्यायस्तु ‘तटितोऽधि-वरुणः’ इत्यनेन तटिदनन्तरं वरुणलोकस्य प्राप्यत्वोक्तया संवत्सरा-नन्तरं तटिद्वरुणयोरप्यधिकारिभेदेन प्राप्यत्वान्मार्गस्य सुक्रमोपपत्तेरिति सूचितः ।) ॥ ३ ॥

भावबोध

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ इत्यत्राप्याति-वाहिकमुख्यप्राणयोर् वायुशब्दप्रयोगात् स वायुमागच्छतीत्यादौ अर्चिरनन्तरं प्राप्यत्वेनोक्तो वायुरातिवाहिको मुख्यो वेति सन्देहे मुख्य इति पूर्वः पक्षः । आतिवाहिक इति सिद्धान्तः । तत्रापि सुक्रम-विशेषसम्प्राप्तिरूपावेव पूर्वपक्षसिद्धान्तन्यायावनेनैव न्यायविवरणेन विवृतौ । तथा हि । तत्र तत्र ‘स वायुमागच्छति’ ‘उत्क्रान्तो विद्वान्’ इति श्रुतिद्वये मार्गभूतस्य वायोरन्यथाऽर्चिरनन्तरं विद्युदनन्तरं च प्राप्यत्वोक्तेः प्रथमत एव मुख्यवायुग्रहणे वायुशब्दमुख्यार्थत्वेन प्रतीतौ प्रथमप्राप्यत्वलक्षणसुक्रमोपपत्तेरिति पूर्वपक्षन्यायविवरणयोजना । सिद्धान्ते तु विशेषश्रुतेर्ज्ञानिनामेकमार्गस्यैव प्राप्तेरित्येतावत एव न्याय-विवरणस्य ग्रहणम् । तद्योजना तु । अन्तिमस्य वायोर्दिवस्पतित्व- प्रतिपादिकाया ‘उत्क्रान्तो विद्वान्’ इति श्रुतेर्ज्ञानिनाम् एकमार्गस्यैव मुख्यवायुरूपमार्गस्यैवान्ते प्राप्तेर्न त्वमुख्यस्यातिवाहिकस्येति परिशेषा-द्द्वितीयप्राप्यत्वमातिवाहिकस्यैवेति । अत एव तत्वप्रकाशिकाया-मनयोरेव न्याययोरेतदधिकरणेऽपि सम्बन्ध इत्यभिप्रेत्य तद्विवरुणरूप-न्यायविवरणतात्पर्यार्थतया ‘मुख्यस्यापि प्रथमप्राप्तिसम्भवात् । न च विशेषहेतुरस्ति’ इति पूर्वः पक्षः । ‘उत्तरस्य दिवस्पतित्वश्रवणात्तस्य मुख्यवायुलिङ्गत्वादिति भाव’ इति सिद्धान्तश्च प्रदर्शितौ । तदुक्तं सम्बन्धदीपिकायाम् ‘आतिवाहिकस्तल्लिङ्गात्सुक्रमः विशेषप्राप्तिः’ इति । तत्रैव तदधिकरणत्रयेऽपि सिद्धान्तन्यायस्योपपादनं कृतम् । अत्र सिद्धान्तसंप्रापकविशेषवाक्यानि, ‘स इतो गतो द्वितीयां गतिं वायु-मागच्छति । तटिता ह्यूह्यते वरुणलोकः । उत्क्रान्तो विद्वान्परमभि-गच्छन्विद्युतमेवान्तत उपगच्छति । द्यौर्वा व विद्युत्तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इत्यादिनाऽऽचार्येणैव भाष्ये दर्शितानीति पृथग-विवरणे कारणमप्युक्तम् ।

अत्र चास्यान्तर्भेदाधिकरणत्वात्तदन्तर्गतावान्तराधिकरणसमुदाय-स्याप्युक्तेः पृथगविवरणमिति ज्ञातव्यमिति । यद्वा विक्रमोरुत्वरूपावेव पूर्वपक्षसिद्धान्तन्यायावेतदधिकरणसम्बन्धित्वेनापि ‘न च सोमादग्निम्’ इत्यादिन्यायविवरणेन विवृतौ ज्ञातव्यौ । तथा हि । मुख्यवाय्वाति-वाहिकयोर्मार्गत्वेनावश्यं प्राप्यत्वान्मार्गे तु सोमादवरस्याग्नेरिन्द्रादवरस्य ध्रुवस्यापि प्रथमप्राप्यत्वश्रवणादुत्तमत्वक्रमानुसारेणैव प्राप्त्यभावादुत्तरस्य मुख्यवायुत्वे नियामकविशेषाभावेन बाधकाभावाच्च प्रथमप्राप्यो मुख्यवायुः । परप्राप्यस्तु प्रधानवायोरवरोऽपि अन्य आतिवाहिकः किं न स्यादिति पूर्वपक्षन्यायविवरणयोजना । अत एव तत्वप्रकाशिकायां ‘उभयव्यामोहात्’ इति सूत्रभाष्यानुसारेण, ‘ननु तथापि कथं पूर्वप्राप्यस्य वायोरातिवाहिकत्वसिद्धिः’ इत्यादिना निर्धारितपूर्वपक्ष उक्तः । एवं चोत्तमत्वक्रमापेक्षया विपरीतक्रमेणातिवाहिकात्पूर्व-मर्चिषोऽनन्तरमेव मुख्यवायोः प्राप्यत्वान्न तस्याधिक्यमिति न वाच्य-मिति भावः । सिद्धान्ते तु ‘उत्तमत्वात्तस्य’ इत्येतावत एव न्याय-विवरणांशस्य ग्रहणम् । तस्याभिप्रायः । यद्यपि पूर्वोक्त आतिवाहिको मुख्यो वा परोक्तो मुख्यो वाऽऽतिवाहिको वेति सन्देहस् तथापि पूर्वोक्तस्यातिवाहिकत्वं परोक्तस्य च मुख्यत्वं सिध्द्यति । तस्य परप्राप्यत्वेन बुद्धिस्थस्यैव दिवस्पतित्वरूपोत्तमत्वादेव । तस्य द्युशब्दवाच्यभारतीपतित्वस्योत्तमत्वादतिशयितधर्मत्वान्मुख्यवायोश्च रुद्राद्युत्तमत्वात्तस्यैव लिङ्गत्वादिति । एवं च दिवस्पतित्वरूपो-रुत्वादन्तिमप्राप्यस्य मुख्यवायुत्वमेवेति निर्णये पूर्वोक्तस्यातिवाहिकत्व-निश्चय इति युक्तं तस्याधिक्यमिति । (अयं च न्यायः ‘तत्सिद्धेः’ इत्यनेनोक्तस्य दिवस्पतित्वविशेषणात् पूर्वोक्त आतिवाहिकः, उत्तरोक्तश्च मुख्य इति सिद्धिरिति वदता सूचितः ।) ॥ ४ ॥