०२ द्वितीयः पादः

वागधिकरणम्

अथ द्वितीयः पादः

वागधिकरणं ञ्ब्–२–१

न्यायविवरणं

न च ‘वाक्पूर्वरूपं, ‘मन उत्तररूपं, ‘मनः पूर्वरूपं, ‘वागुत्तररूपं, इत्युक्तेर्व्यामिश्रत्वादनिर्णीतिरेव । ‘वाक्पूर्वरूपं, ‘मन उत्तररूपं, इति वाचः पूर्ववर्णदेवतात्व-निर्देशमात्रेण ‘मनः पूर्वं, इत्यनेन साम्यम् । ‘मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरती’ति युक्तितो विशेषो मनः-पूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एवेति हि ज्ञायते ।

सृष्टौ च विलये चैव सदा पूर्वप्रवर्तने ।

नियन्तृत्वे च वचसे मनोऽधीशं शिवो हि तत् ॥

इति श्रुतेश्च ॥ १ ॥

भावबोध

देवदेहलयमनुष्योत्क्रान्तिप्रतिपादनार्थोऽयं पादः प्रवृत्तः । एतत्पादीयाधिकरणपूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः ।

व्यामिश्रता कार्यकरत्वमर्थक्लप्तिः सुदार्ढ्यं परतन्त्रता च ।

समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥

विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।

कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशेषहेतवः ॥

ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ इत्यत्र ‘तत्पूरकत्वाद्वाच’ इति वाचो मनोजातत्वोक्तिविशेषप्रमाणादर्शनाभ्यां वाङ्मनसि लीयते न वेति सन्देहे नेति पूर्वः पक्षः । मनसि लीयत इति सिद्धान्तः । तत्र ‘व्यामिश्रता’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च वागिति ॥ अनिर्णीतिर्वाङ्मनसयोर्नियम्य-नियामकभावस्येति शेषः । तदधीनस्य तत्र लयो वक्तव्यः । एवं च वाङ्मनसयोर्नियम्यनियामकभावे प्रतिपादकोक्तेर्व्यामिश्रत्वेन तद-निर्णयान्न मनसि वाचो लय इति मोक्षाभावादनियम इत्युक्तव्याघात इति नेति भावः । (अयं च न्यायः दर्शनाच्छब्दाच्चेत्यनेन, वाक्पूर्व-रूपमिति श्रुत्यपेक्षया मनः पूर्वरूपमिति श्रुतेः सयुक्तिकश्रुत्यानुकूल्येन प्रत्यक्षानुसारित्वेन च प्राबल्यद्योतकेन सूचितः) तद्धेतुत्वेन ‘विशेष-साम्यश्रुतिः’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ वाक्पूर्वरूपमिति ॥ इति वाचो ऽस्य वाक्यस्येत्यर्थः । साम्यमित्यनेन सम्बन्धः । वाचो वाङ्नामकस्य विष्णोरिति च ॥ पूर्ववर्णदेवतात्वेति ॥ विष्णुरिति संहितायां षकारादिपूर्ववर्णप्रतिपाद्यत्वनिर्देशमात्रेणेत्यर्थः । साम्यमिति मनोनामकस्यापि विष्णोः पूर्ववर्णदेवतात्वोपपत्तेरित्यर्थः । इदमुक्तं भवति । अस्त्येव वाचो मनसि लयः । न चोक्तयोर्व्यामिश्रत्वेन मनःप्राधान्यानिश्चयः । अत्र खलु ‘वाक्पूर्वरूपं, मन उत्तररूपम्’, इत्यादिना विष्णुरिति संहितायां पूर्वोत्तरवर्णदेवतात्वे मुनिमतविवाद उच्यते । तत्र चास्तूक्त्योः साम्यम् । अन्यतरपक्षे विशेषादर्शनात् । न च व्यामिश्रतापि । वक्तृत्वमन्तृत्वनिमित्तकवाङ्मनःशब्दवाच्ययोरु-भयोरपि विष्णुरूपयोः पूर्वोत्तरवर्णदेवतात्वोपपत्तेरिति ।

ननु यदा पूर्वोत्तरवर्णदेवतात्वे मुनिमतविवादस्तदा मास्तु व्यामिश्रत्वं वाङ्मनसनामकयोर्देवतयोर्गुणप्रधानभावे यदा मुनिमत-विवादस्तदाऽस्त्येवोक्तयोर्व्यामिश्रत्वम् । न च तत्र मुनिमतविवाद एव नास्तीति वाच्यम् । तथा सत्येतद्वाक्यद्वयस्य देवताविषयकत्वाभाव-प्राप्त्या ‘तत्पूर्वकत्वाद्वाचः’ इत्यधिकरणे भाष्ये, ‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपमिति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः’ इत्युक्त्य-योगादित्यतो विशेषश्रुतिरित्यंशं विवृणोति ॥ मनसेति ॥ युक्तित इति तृतीयान्तात्तसिः । मनःपूर्वकत्वस्य ‘मनः पूर्वरूपं’ ‘वागुत्तररूपं’ इत्युक्तस्य वाचो मनोजन्यत्वस्येत्यर्थः । एवकारेण मनसो वाक्पूर्व-कत्वस्येत्यस्य व्यवच्छेदः । हिशब्दो हेतौ । तथा च गुणप्रधानभावे मुनिमतविवादेऽपि नोक्त्योर्व्यामिश्रत्वम् । मनःपूर्वकत्वस्यैव युक्त्या विशेषश्रवणेन मनस एव प्राधान्यपरिज्ञानात् । न च वाचो मनोऽ-धीनत्वेऽपि देवतायाः कुतस्तदिति वाच्यम् । अचेतनस्यान्योन्यवश-त्वस्य देवतानिमित्तकत्वात् । न चास्मिन्पक्षे वाक्पूर्वरूपं मन उत्तर-रूपमिति मुनिमतस्याप्रामाण्यापत्तिः । तस्य पूर्वोत्तरवर्णदेवतात्वमात्र-परत्वेन देवतापरत्वाभावादिति भावः । मनस एव प्राधान्ये प्रमाणमाह ॥ सृष्टाविति ॥ पूर्वप्रवर्तने स्वावरापेक्षया प्रथमप्रवर्तन इत्यर्थः । वचसः सृष्ट्यादौ विषये मनोऽधीनता । मनोभिमानीन्द्रादीनां कथं वागभिमान्युमाधीशत्वमित्यत आह ॥ शिवो हीति ॥ एवं च वाङ्मनसयोर्नियम्यनियामकभावस्योक्तरीत्या निश्चयसम्भवाद्वाचो मनसि लयोपपत्तेर्युक्तमिति भावः । (अयं च न्यायः शब्दाच्चेत्यनेन, ‘मनसा वा अग्रे सङ्कल्पयती’त्युक्त्या वाचो मनोवशत्वरूपविशेषप्रतिपादक-श्रुतिग्राहकेणोक्तः । एतच्चोपलक्षणम् । उभयोरपि वर्णदेवतात्वरूप-साम्यस्यापि श्रुतत्वादित्यपि द्रष्टव्यम्) ॥ १ ॥


मनःप्राणाधिकरणम्

मनःप्राणाधिकरणं ञ्ब्–२–२

न्यायविवरणं

न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्ट-व्यापाराणां तस्य प्राणादनूनता ।

इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ ।

मनःस्थेन विशेषेण कामैः कर्मवदेव च ॥

पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः ।

जीवस्थितेन रूपेण वेदयत्यहमित्यपि ॥

प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः ।

तान्येतान्यवशान्येव तथापि कृपयैव सः ॥

पृथक्शक्तोऽपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् ।

तस्येशो भगवान्विष्णुरेवमेष यथान्यगः ॥

इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ॥ २ ॥

भावबोध

ॐ तन्मनः प्राण उत्तरात् ॐ ॥ इत्यत्र प्राणान्मन इति मनसः प्राणोत्पन्नत्वविशेषादर्शनाभ्यां मनः प्राणे लीयते न वेति सन्देहे नेति पूर्वः पक्षः । प्राणे लीयत इति सिद्धान्तः । तत्र ‘कार्य-करत्वम्’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च मन इति ॥ तदूनस्य हि तत्र लयो वक्तव्यः । न च मनसः प्राणादूनत्वं सम्भवति । यथा प्राणः सर्वप्रवृत्तिहेतुस् तथा मनोऽप्यन्वयव्यतिरेकाभ्यां सर्वप्रवृत्तिकारणं दृश्यते । एवं च मनसः सर्वकार्यकरणत्वेन प्राणानूनतया प्राणे लयाभावे नोक्तमयुक्तमिति नेति भावः । (अयं च न्यायोऽन्वयव्यतिरेकाभ्यां सर्वप्रवृत्तिकारणत्वेन ‘तद्दर्शनात्’ इति पूर्वसूत्रे प्रतिपादितं मनः, तत्परामर्शकेन तदित्यनेन सूचितः । अन्यथा ‘मन’ इत्येवावक्ष्यत् । तद्धेतुत्वेन, ‘आढ्यता’ इत्युक्तसिद्धान्तन्यायं प्रमाणोदाहरणपूर्वकं विवृणोति ॥ इन्द्रिय-स्थैरिति ॥ इन्द्रियस्थैः – चक्षुरादिनियामकसूर्यादिपुंस्थितैः । मनः-स्थेन मनोनियामकरुद्रस्थितेन । विशेषेण रूपेण । ज्ञानानि जनयतीति सम्बन्धः । मनसः सर्वज्ञानहेतुत्वादिति भावः । कामैः कर्मेन्द्रियनियामकदेवतागतैः ।

ननु प्राणः किमिन्द्रियादिदेवताः परित्यज्य ज्ञानजननादौ शक्तो न वा । आद्ये तत्रावस्थानवैयर्थ्यम् । द्वितीये कथं तस्याऽऽढ्यतेत्यत आह ॥ तानीति ॥ अपि– यद्यपि, प्राणः पृथक्– तद्वारतामन्तरेण । कार्यकरणे शक्तस् तथापि इन्द्रियनियमनात्तेषां फलाधिक्यं भवेदिति तेषु कृपया अवशान्येव– परतन्त्राण्येव, द्वारत्वेनादाय, तद्गतरूपविशेषै-स्तद्गकार्यकृत्– तेषु गतकार्यं तद्गकार्यं, तैः क्रियमाणमिति यावत् । तत्करोतीत्यर्थः । नन्वेवं प्राणस्यैव निरुपचरितस्वातन्त्र्यं स्यादित्यत आह ॥ तस्येति ॥ एवं प्राणान्तः प्राणकार्यकृदित्यर्थः । अनेन, ‘सोऽध्यक्ष’ इत्यत्र सिद्धान्ते प्रमाणमुक्तं वेदितव्यम् । एवं च मनोऽ-पेक्षया प्राणस्याऽऽढ्यतया मनसः प्राणे लय इत्युक्तं युक्तमिति भावः । (अयं च न्यायः ‘प्राणः’ इत्यनेन प्रकर्षेणानितीति रुद्रादिभ्योऽप्यति-शयेन चेष्टकत्वोक्त्या सूचितः ॥