आवृत्यधिकरणम्
चतुर्थाध्याये प्रथमः पादः
आवृत्यधिकरणं ञ्ब्–१–१
न्यायविवरणं
न च श्रवणाद्यनावृत्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुणः । महाफलत्वात्सर्वेषामशक्यताया एवो-पपन्नत्वात् । अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेः ॥ १ ॥
भावबोध
फलप्रतिपादकेऽस्मिन्नध्याये पूर्वभाविकर्मक्षयाख्य-मोक्षप्रतिपादनार्थोऽयं पादः प्रवृत्तः । एतत्पदीयाधिकरणपूर्वपक्ष-सिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः ।
सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसंज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥
ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ इत्यत्र उभयविधसाधनदर्शनेन श्रवणादिकं किं सकृदनुष्ठेयम् उताऽऽवर्तनीयमिति सन्देहे ज्योति-ष्ठोमादिवत्सकृदनुष्ठेयमिति पूर्वः पक्षः । व्रीह्यवघातवदावर्तनीयमिति सिद्धान्तः । तत्र ‘सुशक्यता’ इत्युक्तपूर्वपक्षन्यायं विवृण्वन् प्रतिक्षिपति ॥ न च श्रवणादीति ॥ अपरोक्षज्ञानोदयेऽभ्युपगते सतीति शेषः । सुशक्यत्वं ज्ञानस्येति शेषः । एवं च श्रवणाद्यना-वृत्त्याऽपरोक्षज्ञानाभ्युपगमे सकृच्छ्रवणाद्यनुष्ठानस्य सर्वसौलभ्येन सुशक्यत्वगुणलाभात्तादृशश्रवणादिना चापरोक्षज्ञानाभावान्न श्रवणादिकमपरोक्षज्ञानसाधनमिति नेति भावः । (अयं च न्यायः ‘आवृत्तिः’ इत्यनेन सर्वेषां सुशक्यत्वादनावृत्त्यैव ज्ञानमिति सूचनेन सूचितः ।) तद्धेतुत्वेन ‘महाफलत्वम्’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ महाफलत्वादिति ॥ ज्ञानस्येति शेषः । महत्फलं येनेति विग्रहो द्रष्टव्यः । ज्ञानस्य महाफलत्वेऽपि सर्वसुशक्यता कुतो नोपपन्नेत्यत आह ॥ अन्यथेति ॥ एवं च महाफलत्वाज्ज्ञानस्य श्रवणाद्या-वृत्तिसाध्यत्वमिति युक्तं श्रवणादेर् ज्ञानसाधनत्वमिति भावः (अयं च न्यायः ‘असकृदुपदेशात्’ इत्यनेन श्रवणादीनामज्ञाननिवृत्तिरूप-महाफलत्वाभावेऽसकृदुपदेशोऽपि न स्यादिति सूचितः ।) ॥ १ ॥
आत्माधिकरणम्
आत्माधिकरणं ञ्ब्–१–२
न्यायविवरणं
न च शश्वदतिप्रसिद्धत्वादात्मशब्दोदितं स्वामित्वं न नित्यश उपास्यम् । अन्येभ्योऽधिकफलत्वेन सविशेषत्वादात्मत्वस्य ॥ २ ॥
भावबोध
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ इत्यत्र उपासनस्य नित्यशः कर्तव्यत्वेन गुणान्तरप्रतीत्या चात्मत्वं नित्यश उपास्यं न वेति सन्देहे नेति पूर्वः पक्षः । नित्यश उपास्यमिति सिद्धान्तः । तत्र ‘शश्वदतिप्रसिद्धिः’ इत्युक्तपूर्वपक्षन्यायं तत्साध्य-प्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च शश्वदिति ॥ स्वामित्व-मिति ॥ हरेर्जगतीति शेषः । शश्वदतिप्रसिद्धस्य नित्यमुपासनं व्यर्थमेव किं त्वप्रसिद्धगुणोपासनस्य ज्यायस्त्वेन तदेव नित्यशः कर्तव्यमिति भावः । फलसम्बन्धः स्फुटः । (अयं च न्यायः, आत्मशब्दप्रयोगा-देवाऽऽत्मशब्दोदितस्वामित्वस्य शश्वदतिप्रसिद्धत्वादिति सूचनेन सूचितः ।) तद्धेतुत्वेन ‘प्रविविक्तता’ इत्युक्तसिद्धातन्यायं सहेतुकं विवृणोति ॥ अन्येभ्य इति ॥ अन्येभ्य उपासितानन्दादिगुणेभ्यः । अधिकफलत्वेन स्वावरस्वामित्वलक्षणाधिकफलत्वेन । आनन्दादि-वत्स्वामित्वस्य सकलमुक्तसाधारण्यादिति भावः । अनेन प्रसिद्धस्यापि फलानुसारेणोपास्यत्वाच्छश्वदतिप्रसिद्धेर्न प्रयोजकत्वमुक्तं भवति । तथा च प्रविविक्तता नाम सविशेषत्वमिति विवरणं कृतमिति ज्ञातव्यम् । एवं च प्रविविक्तत्वादात्मत्वस्य सर्वदोपास्यत्वमिति । (अयं च न्यायोऽवधारणार्थकतुशब्देन गुणान्तरपरित्यागेनात्मत्वस्यैवोपास्य-त्वोक्त्या सूचितः ।) ॥ २ ॥