०४ चतुर्थः पादः

पुरुषार्थाधिकरणम् असार्वत्रिक्याधिकरणं च

अथ चतुर्थः पादः

पुरुषार्थाधिकरणम् असार्वत्रिक्याधिकरणं च ञ्ञ्ञ्–४–१,२

न्यायविवरणं

न च ज्ञानिन औदार्यान् मोक्षादन्यफलेच्छाया एवासम्भवात्तदुक्तिः प्रशंसामात्रमिति वाच्यम् । प्रायशो न सम्भवत्येव । कस्यचित्सौभर्यादिवद्भवति चेज् ज्ञानेनैवा-शेषमीप्सितं भवतीति व्यवस्थोपपत्तेः ॥ १२ ॥

भावबोध

उपासनाजनितभगवदपरोक्षज्ञानसामर्थ्यप्रतिपादनार्थमयं पादः प्रवृत्तः । एतत्पादान्तर्गताधिकरणपूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः ।

औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।

स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥

व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।

विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरोधहेतवः ॥ इति ।

ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ इत्यत्र ज्ञानस्य निरवधारणतया मुक्तिं प्रति साधनत्वोक्तेर् ज्ञानस्य मुक्तिमात्रसाधनत्वे मुक्तिस्वर्गादिसाधनत्वे च सम्भवाद् ब्रह्मज्ञानं किं मोक्षमात्रसाधनम् उत फलान्तरस्यापीति सन्देहे ज्ञानं मोक्षमात्रसाधनमिति पूर्वः पक्षः । मोक्षस्वर्गादिसमस्तपुरुषार्थसाधनमिति सिद्धान्तः । तत्र ‘औदार्यम्’ इत्युक्तपूर्वपक्षन्यायं साक्षात्परम्परासाध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च ज्ञानिन इति ॥ औदार्याद् विरक्तत्वात् । बुध्द्या विवेकेन मोक्षादन्यफलेत्येतत्सप्तम्यन्तं सद् औदार्यादित्यनेनापि सम्बध्यते । तदुक्तिः ‘ज्ञानादेव स्वर्गः’ इत्यादिरूपा ज्ञानस्य मोक्षेतरपुरुषार्थसाधनत्वोक्तिः । प्रशंसामात्रं ज्ञानस्य प्रशस्तत्व-ज्ञापनपरैवेत्यर्थः । तथा च ‘परीक्ष्य लोकान्’ इत्यादिश्रुतिस्मृतिभ्यां ज्ञानिनां मोक्षेतरपुरुषार्थेषु विरक्तत्वेन तदिच्छाभावस्य प्रमितत्वात् । ‘ज्ञानादेव स्वर्गः’ इत्यादिवाक्यस्य प्रशंसामात्रत्वस्य कल्पनीयत्वेन ज्ञानस्य स्वर्गादिहेतुत्वे प्रमाणाभावाज् ज्ञानस्य मोक्षमात्रसाधनत्वा-न्नैतत्सर्वथाऽऽपाद्यमिति नेति भावः । (अयं च न्यायः ‘शब्दात्’ इत्यनेन श्रुतौ, विशुद्धसत्वो ज्ञानी यं यं लोकं मनसा यदीच्छति तर्हि तं तं लोकं प्राप्नोतीति व्यवस्थोक्त्या ज्ञानिनो विरक्तत्वरूपौदार्यवत्त्वेन मोक्षातिरिक्तफलेच्छाभावादिति सूचनेन सूचितः ।) तद्धेतुत्वेन ‘व्यवस्थितिः’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ प्रायश इति ॥ न सम्भवत्येव ज्ञानिनो मोक्षान्यफलेच्छेति वर्तते । कस्यचिज्ज्ञानिनः । सौभर्यादीनामनेकदेहधारणेन स्त्रीभोगादिमोक्षेतरपुरुषार्थेच्छायाः पुराणेषु प्रसिद्धत्वात्सौभर्यादिवदित्युक्तम् । भवति चेदित्यत्रापि मोक्षादन्य-फलेच्छेति सम्बध्यते । ज्ञानेनैव तत्तत्साधनत्वेन विहितकर्मणेव ब्रह्मापरोक्षज्ञानेनैव अशेषमभीष्टं भवतीत्यनेन प्रकारेण ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्’, प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्’ इत्यादेर्ज्ञानिनां वैराग्यप्रतिपादकश्रुतिस्मृत्यादि-वाक्यस्य प्रायेण ज्ञानिनां स्वर्गेच्छाभावपरत्वेन, ‘यं यं लोकं मनसा संविभाति विशुद्धसत्वः’ इत्यादिज्ञानिनामपि मोक्षादन्यफलेच्छा-प्रतिपादकस्य श्रुत्यादिवाक्यस्य च तदिच्छोपेतसौभर्यादिविषयत्वेन व्यवस्थोपपत्तेरित्यर्थः । एवं च व्यवस्थित्या वाक्ययोर्विरोधाभावेन न ज्ञानादेवेति वाक्यस्य प्रशंसामात्रस्याकल्प्यत्वेन तेनैव ज्ञानस्याशेष-पुरुषार्थसाधनत्वसिद्धेः सर्वथा तदापाद्यमिति भावः । (अयं च न्यायः ‘शब्दात्’ इत्यनेनैव व्यवस्थाप्रतिपादकश्रुतिग्राहकेण सूचितः।) ॥१॥

भावबोध

ॐ असार्वत्रिकी ॐ ॥ इत्यत्र लौकिकसाधने सर्वाधिकारिकत्वैकाधिकारिकत्वप्रतीत्या ब्रह्मज्ञानं सर्वाधिकारिकं न वेति सन्देहे सर्वाधिकारिकमिति पूर्वः पक्षः । नेति सिद्धान्तः । यद्यप्येतदधिकरणसम्बन्धित्वेन पूर्वोत्तरपक्षन्याययोर्विवरणं न कृतं तथापि पूर्वाधिकरणसम्बन्धित्वेन विवृतयोरौदार्यव्यवस्थित्योरेतदधि-करणसम्बन्धित्वमपि ज्ञातव्यम् । तथा हि । औदार्यं नामोत्कृष्टत्वम् । ततश्च ज्ञानफलस्य मोक्षस्य निर्दुःखानन्दाद्यात्मकत्वरूपौदार्यात्सर्वेषां तदर्थित्वसम्भवात्सर्वेषामपि श्रवणादिसामर्थ्यात्तदुपयोगिविद्वत्वरूपौ-दार्यादर्थी समर्थो विद्वान् साधनेऽधिक्रियत इति सर्वेषामप्यस्ति ज्ञानेऽधिकार इति पूर्वपक्षन्यायगमनिका । (अयं च न्यायो ‘विभागः शतवत्’ इत्यनेन नवकोटिदेवानां देवत्वसाम्येऽपि परापरब्रह्मार्थित्व-साम्येऽपि अध्ययनवतामेवाधिकारो नान्येषामिति विभागकथने-नार्थित्वादेरप्रयोजकत्वकथनात्सूचितः।) अर्थित्वादिसाम्येऽपि न सर्वेषां ज्ञानाधिकारः । किं तु यथाशक्त्यखिलाध्ययनवत्वेन विशेषणान्तरेण युक्तस्यैवेति व्यवस्थोपपत्तेरिति सिद्धान्तन्यायगमनिका । (अयं च न्यायो ‘विभागः’ इत्यनेनैवोक्तः।) ॥ २ ॥


अविशेषाधिकरणम्

अविशेषाधिकरणं ञ्ञ्ञ्–४–३

न्यायविवरणं

न चाधिकारे समेऽपि तेषामेवोच्चावचशक्ति-योगात्फलभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम् । भक्त्याद्यधि-कारानुसारेण शास्त्रात्फलप्राप्तेः सर्वेषामविशेषात् । दृश्यमान-त्वाच्च भक्त्याद्यधिकारतारतम्यस्य । उच्चावचशक्तेरपि तन्निबन्धनत्वात् ॥ ३ ॥

भावबोध

ॐ नाविशेषात् ॐ ॥ इत्यत्र लौकिकसाधनेष्वेक-प्रकारानेकप्रकारत्वदर्शनाद्ब्रह्मज्ञानाधिकारः किं देवानामेकप्रकार उतानेकप्रकार इति संशये एकप्रकार इति पूर्वः पक्षः । अनेकप्रकार इति सिद्धान्तः । तत्र ‘उच्चावचशक्तिः’ इत्युक्तपूर्वपक्षन्यायं तत्साध्य-प्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न चाधिकार इति ॥ ननु ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिः’ इति ज्ञानतारतम्यस्योक्तत्वात्तदधिकारेऽपि तारतम्यं कल्पनीयमित्यत उक्तम्– अधिकारे समेऽपीति । तथा चाधिकारे स्वाभाविके समेऽपि तेषामधिकारिणामुच्चावचशक्तिरूपा-द्योगाद् उपायादेव फलभेदस्य ज्ञानलक्षणफलतारतम्यस्योपपत्तेः । फलभेदस्य कल्पकत्वाभावादधिकारिविशेषस्य भक्त्यादिमत्वलक्षण-स्याधिकारस्य यो विशेषस्तस्य स्वाभाविकदेवत्वर्षित्वमनुष्योत्तमत्व-रूपस्य कल्पनं व्यर्थमित्यर्थः । एवं चाधिकारिणामुच्चावचशक्ति-योगाज्ज्ञानतारतम्यस्योपपत्तेरेकप्रकार एव ज्ञानाधिकार इति न ज्ञानमतिशयवदिति नेति भावः । (अयं च न्यायः फलभेदे-नाधिकारभेदं समर्थयतोदाहृतसूत्रेण फलभेदस्योच्चावचशक्त्यैवोपपत्ते-रधिकारभेदकल्पनसूचकेन सूचितः) तद्धेतुत्वेन ‘अविशेषः’ इत्युक्त-सिद्धान्तन्यायं विवृणोति ॥ भक्त्यादीति ॥ आदिपदेनाध्ययनादिकं गृह्यते । शास्त्राद् विचारिताद् ध्यानद्वारा फलस्य ज्ञानस्य प्राप्तिः । सर्वेषां देवानामधिकारिणाम् अविशेषाद् अविशिष्टत्वान्न त्वेकस्यापि भक्त्याद्यधिकारानुसारेण फलप्राप्तिः । येन व्यभिचाराद्भक्त्याद्यधिकारस्य ज्ञानकारणता न स्यादित्यर्थः ।

यद्वा सर्वेषां देवादीनां ज्ञानस्येति शेषः । अविशेषप्रसङ्गाद्भक्त्या-द्यधिकारानुसारेणैव शास्त्रात्फलप्राप्तेर्ग्राह्यत्वादित्यर्थः । भक्त्या-द्यधिकारतारतम्ये कार्यवैचित्र्यरूपमनुमानमुक्त्वा प्रत्यक्षमप्याह ॥ दृश्यमानत्वाच्चेति ॥ यद्वा ‘अथे’त्यादिश्रुताविति शेषः । अनुमाने पूर्वपक्षोक्तान्यथासिद्धिं परिहरति ॥ उच्चावचशक्तेरिति ॥ तन्निबन्धन-त्वाद् भक्त्याद्यधिकारतारतम्यनिबन्धनत्वात् । अधिकारतारतम्य-मन्तरेण तत्कारणाभावादिति भावः । यथोक्तं प्राक् ।

स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते ।

कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत् ॥

इति । एवं च विशेषप्रसङ्गादधिकारतारतम्यानुसारेण ज्ञानप्राप्तिरिति सम्पूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावात्सातिशयं तदिति भावः । (अयं च न्यायो ‘अविशेषात्’ इत्यस्यावृत्तौ सत्यामधिकारस्य विशेष-ज्ञानस्य विशेषः स्यादित्यर्थकेनोक्तः ।) ॥ ३ ॥