सर्ववेदान्तप्रत्ययाधिकरणम्
**अथ तृतीयः पादः **
सर्ववेदान्तप्रत्ययाधिकरणं ञ्ञ्ञ्–३–१
न्यायविवरणं
न च प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वा-त्तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । ‘नानावेदै-रितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च’ इति श्रुतेः सुष्ठु ज्ञेयत्वाद्विष्णोः ॥ १ ॥
भावबोध
भक्तिसाध्यापरोक्षज्ञानसाधनोपासनाप्रतिपादकोऽयं पादः प्रवृत्तः । एतत्पादान्तर्गताधिकरणपूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायामुक्ताः ।
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ।
विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाऽविशेषिता ।
अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ।
विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ।
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ।
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिःक्रिया ।
युक्तयः पूर्वपक्षस्य सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ।
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ।
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ।
संस्कारापाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ।
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ।
अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥
ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ इत्यत्र श्रवणादि-कर्तव्यतोक्तेः साधारणत्वाद्ब्रह्म किमेकैकेन सर्वशाखोक्तं ज्ञातव्यमुत स्वशाखोक्तमिति सन्देहे स्वशाखोक्तमेव ज्ञेयमिति पूर्वः पक्षः । सर्वशाखोक्तमेव ज्ञेयमिति सिद्धान्तः । तत्र ‘पृथग्दृष्टिः’ इत्युक्त-पूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च प्रतिशाखमिति ॥ पृथक्त्वाद् भिन्नप्रकारत्वेन दर्शनादित्यर्थः । तत्र तत्रोक्तं तस्यां तस्यां शाखायामुक्तम् । इतिशब्दः प्रकारे । तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । तथा हि । एकं हि वस्तुत्वेन ज्ञातव्यम् । न हि सर्वशाखोक्तं वस्त्वेकम् । कस्यां-चिच्छाखायां ‘विज्ञानमानन्दं ब्रह्म’ इति विज्ञानानन्दरूपवस्तूच्यते । क्वचिच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति सत्यज्ञानानन्तरूपम् । क्वचित् ‘श्रोता मन्ता’ इति श्रोतृमन्त्रादिरूपम् । ‘य आत्माऽपहतपाप्मा’ इत्यन्यत्र । एवं च सर्वशाखोक्तार्थानां पृथक्त्वादेकस्यैव ज्ञातव्यत्वात् स्वस्वशाखोक्तमेव ज्ञातव्यमिति सर्वश्रुतिनिर्णायकस्य न सर्वोपादेयतेति नेति भावः । (अयं च न्यायो ‘भेदान्नेति चेत्’ इत्यनेन प्रतिशाख-मुच्यमानानामर्थानां पृथक्त्वात्तत्र तत्रोक्तं तत्तच्छाखिभिरेव ज्ञेयमिति प्रतिपादयतोक्तो भवति ।) तद्धेतुत्वेन ‘सुज्ञेयम्’ इत्युक्तसिद्धान्तन्यायं श्रुत्युदाहरणपूर्वकं विवृणोति ॥ नानावेदैरिति ॥ सु(ष्ठु)ज्ञेय-त्वादिति ॥ सर्वशाखोक्तप्रकारेण ज्ञानं विना ब्रह्मणः सुज्ञेयत्वं न सम्भवतीति भावः । अनेन पूर्वपक्षहेतोर्बाधितविषयत्वमुक्तं भवति । किं च तत्तच्छाखोक्तार्थानां पृथक्त्वेऽनेकाशयत्वे, एकशाखोक्तार्थानामपि ॐ ब्रह्म खं ब्रह्मेत्यादौ पृथक्त्वदर्शनेन तत्तच्छाखोक्तस्यापि तेन तेनाज्ञेयत्वप्रसङ्ग इति । एवं च सर्ववेदोक्तत्वेन विष्णोः सुज्ञेयत्वा-च्छास्त्रं सर्वोपादेयमिति भावः । (अयं च न्यायः सर्ववेदैर्विष्णोरेव सुज्ञेयत्वं प्रतिपादयता ‘सर्ववेदान्तप्रत्यय’ इत्यनेन उक्तो भवति ।)
॥ १ ॥
उपसंहाराधिकरणम्
उपसंहाराधिकरणं ञ्ञ्ञ्–३–२
न्यायविवरणं
न चाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति । ‘‘सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधि-कृन्नान्यथा स्यात्’ इति श्रुतेः, विहितक्रियालोपप्रसङ्गात् ॥२॥
भावबोध
ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥ इत्यत्र ध्यानविधेरुभयथा पर्यवसानात् परमात्मा किं सर्ववेदोक्त-गुणानुपसंहृत्य ध्यातव्योऽन्यथा वेति सन्देहे अन्यथैवेति पूर्वः पक्षः । सर्ववेदोक्तगुणानुपसंहृत्य ध्यातव्य इति सिद्धान्तः । तत्र ‘अशक्य-त्वम्’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न चाशक्यतयेति ॥ सिद्धान्तेऽपि न सर्वेषां सर्वगुणोपसंहार इत्यत उक्तम् ॥ कस्यापीति ॥ चतुर्मुखस्यापीत्यर्थः । नास्तीत्यतः परं ‘इति सर्ववेदोक्तप्रकारेण न ध्यातव्यः’ इति वाक्यशेषो द्रष्टव्यः । एवं च सर्वगुणोपसंहारेण ध्यातुमशक्यत्वात्तदर्थं सर्वपरिज्ञानं व्यर्थमिति नेति भावः । (अयं च न्यायोऽनुपसंहारं समर्थयता ‘न वा प्रकरणभेदा-त्परोवरीयस्त्वादिवत्’ इत्यनेन सूचितो भवति ।) तद्धेतुत्वेन ‘विधि-क्रिया’ इत्युक्तसिद्धान्तन्यायं श्रुत्युदाहरणपूर्वकं विवृणोति ॥ सर्वे गुणा इति ॥ तेनैव सर्वगुणोपासनेनैव । विधिकृद्विहितत्वादिति भावः । श्रुतेरित्यतः परं ‘सर्वगुणोपसंहाराभावः’ इति भावः ॥ लोपप्रसङ्गा-दिति ॥ ततश्चानर्थप्राप्तेरिति भावः । अनेन ‘सर्वगुणोपसंहारः कर्तव्यः, विहितक्रियात्वात्, ज्योतिष्टोमादिवत्’ इति न्यायोऽप्यर्था-द्विवृतो भवति । न चाशक्यत्वविरोधः । विध्यन्यथानुपपत्त्यैव केषाञ्चिच्छक्तानां कल्पनात् । वक्ष्यति च । ‘सर्वगुणोपासकस्याप्यधि-कारिणोऽभावात्’ इति । एवं च सर्वगुणोपसंहारेणोपासनाक्रियाया विहितत्वेन कर्तव्यत्वात्सार्थकमेव सर्वपरिज्ञानमिति भावः । (अयं च न्यायः, यथा विहितत्वात्सर्वाणि कर्माणि क्रियन्ते तथोपसंहारेऽपि कर्तव्य इति वदता ‘विधिशेषवत्’ इत्यनेन सूचितो भवति । अत एव विधिशेषवदित्युक्तम् । अन्यथा कर्मवदित्येवावक्ष्यत् ।) ॥ २ ॥