०२ द्वितीयः पादः

सन्ध्याधिकरणम्

अथ द्वितीयः पादः

सन्ध्याधिकरणं ञ्ञ्ञ्–२–१

न्यायविवरणम्

पश्चाददृष्टेः स्वप्नविषयस्यासत्वं न वाच्यम् । अशक्यक(का)रणशक्तिमत्त्वादीश्वरस्य । संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेः । जाग्रत्त्व-प्रतीतिमात्रस्य भ्रान्तित्वात् ॥ १ ॥

भावबोध

वैराग्यसाध्योपास्तिसाधनभक्तेः पुरुषप्रयत्नाविषय-त्वेनाविधेयत्वात्तदुत्पत्त्यर्थं भगवन्माहात्म्यप्रतिपादनार्थोऽयं पादः प्रवृत्तः । एतत्पादीयाधिकरणपूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः ।

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।

स्थानभेदो विरुद्धत्वं न्यायसाम्यं सतो भवः ॥

गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।

नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥

अशक्यकर्तृताशक्तिः स्वतोऽबोधस्त(थै)देव च ।

अमानक्लृप्तिः सन्मानव्यवस्थात्यल्पताभवः ।

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।

अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥ इति ॥

ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ इत्यत्र वादिविप्रतिपत्त्या स्वप्नो भगवदधीनो न वेति सन्देहे नेति पूर्वः पक्षः । भगवदधीन इति सिद्धान्तः । तत्र ‘पश्चाददृष्टिः’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शन-पूर्वकं विवृण्वन् प्रतिक्षिपति ॥ पश्चाददृष्टेरिति ॥ उपलक्षणमेतत् । पूर्वमपीत्यपि ग्राह्यम् । अयं भावः । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत्स्वाप्नानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्य-त्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धि-प्रसङ्गात् । न हि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपरतेष्विति सम्भवति । न चान्यत्रगताः, अन्यैरप्यनुपलम्भात् । स्वाप्नाः पदार्था नानादिनित्याः । मध्यम-परिमाणोपेततया दृश्यमानत्वात् । घटवदित्यनुमानविरोधाच्च । नाप्युत्पत्तिविनाशवन्तः । तथात्वेऽपि घटादिवत्प्रागूर्ध्वमुपलम्भ-प्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चातः प्रागूर्ध्व-मनुपलम्भो न दोषायेति । इत्थम्भावे प्रमाणाभावात्, प्राङ्मृदादीना-मूर्ध्वं कपालादीनामनुपलम्भापत्तेश्च । न चैवैषां तत्कालीने जन्मनि उपादानं निमित्तं च पश्यामः । कर्ता च न तावज्जीवात्मा, द्रष्टु-र्निर्व्यापारत्वात् । अपरस्य चादर्शनात् ।

तथा च यावद्विशेषबाधे सामान्यबाधान्न सत्त्वं तेषाम् । अविद्य-मानानेकतुरगकर्यादीन् पश्यामीत्युत्तरकालीनानुभवविरोधाच्च । ‘स्व-प्नमायासरूपा, ‘स्वप्नमनोरथो यथा’ इत्यादिश्रुतिस्मृतिविरोधाच्चेति । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । इन्द्रियप्रवृत्तीनामुपरतत्वात् । मनसो बाह्यार्थेष्वस्वातन्त्र्यादिति । एवं च स्वप्नस्यासत्वादसतश्चेश्वराधीनत्वा-योगान्न तस्य महामहिमत्वमिति नेति भावः । (अयं च न्यायः ‘सन्ध्ये सृष्टिर् इत्यनेन सूचितः । तेन पश्चाददृष्टेर्गत्युक्तेः पश्चाददृष्टिः पूर्वपक्षन्याय इत्युक्तं भवति ।) तद्धेतुत्वेन ‘अशक्यकर्तृताशक्तिः’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ अशक्यकारणेति ॥ सृष्ट्वा संस्कारमात्रतामापाद्येत्यत्र ‘स्वप्नकाल एव’ इत्युपस्कर्तव्यम् । तथा च सृष्ट्वेत्यनेनानादित्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः । तत्काल एव सृष्ट्वेत्यनेन प्रागुपलम्भप्रसङ्गः, संस्कारमात्रतामापाद्येत्यनेन पश्चा-दुपलम्भप्रसङ्गश्च निराकृतः । संस्कारेत्युपादानकीर्तनम् । न च तस्य गुणत्वेनोपादानत्वानुपपत्तिः । मनोवृत्तित्वेन द्रव्यत्वात् । संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोर्द्व्यणुकस्येव प्रागूर्ध्वं चानुपलम्भो न दोषाय । न चात्र प्रमाणाभावः । ‘मनोगतांस्तु संस्कारान्’ इति स्मृतिवचनस्यैव प्रमाणत्वात् । एतेनैतदपि प्रत्युक्तम्– यत्प्रतीति-कारणाभाव इत्युक्तं, मनस एव तत्कारणत्वेन स्मृत्युक्तत्वात् । ईश्वरस्येति कर्तृनिर्देशः । ननु कर्तुस्तदैव सृष्टिसंहारकारणत्वम-सम्भावितमित्यत उक्तम्– ॥ अशक्येति ॥ एवं च सति अदृष्टादिकं निमित्तं प्रसिद्धमेव । न केवलमेवमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वं किन्तु ज्ञानस्येत्यभिप्रेत्याह ॥ तस्यापीति ॥ सृष्ट्वेत्यनन्तरं ‘प्रदर्श्य’ इत्युपस्कर्तव्यम् । तेनात्र तच्छब्देन तत्प्रदर्शनं परामृश्यते । तथा च न केवलमीश्वरः स्वाप्नान् गजादीन् सृष्ट्वा संस्कारतामापादयति किन्तु तान् प्रदर्श्य, तस्य दर्शनस्य तिरोधानमपि करोतीत्यर्थः ।

नन्वेतत्स्वाप्नस्य सत्यत्वे, ‘अविद्यमानानेव करितुरगादीनपश्य-मित्युत्तरकालिकतिरोधानानुभवविरोध इत्यत आह ॥ जाग्रत्त्वेति ॥ मात्रेति पदार्थस्वरूपं व्यावर्तयति । जाग्रत्त्वं नाम जागरानुभूत-पदार्थैरेकत्वम् । तथा च स्वाप्न एवायं न जागरानुभूत इत्यनुभवाज् जाग्रत्त्वप्रतीतिरेव भ्रान्तिर्न स्वाप्नपदार्थस्वरूपप्रतीतिः । नायं गज इति बाधाभावादिति भावः । ननु जाग्रत्त्वस्यापि सोपादानत्वसम्भवात्कथं तत्प्रतीतिर्भ्रान्तिरित्युच्यत इति चेन्न । न हि वयं कारणसामग्री-संपादनसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे किंतु बाधाभावेनैव । सामग्य्रभावेनासत्त्वं ब्रुवाणं प्रति तु तदसिद्धिरुक्ता । अस्ति च जाग्रत्त्वप्रतीतेर्बाधः ‘स्वाप्न एवाऽयं, न जागरानुभूत’ इत्याद्युदयादिति भावः । नन्वेवं स्वाप्नपदार्थानां सत्यत्वे कथं श्रुतिस्मृतिभ्यां तदसत्त्व-मावेद्यत इत्यत आह ॥ जाग्रत्वेति ॥ जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात्तद्विषयं श्रुत्यादिकमिति भावः । एवं चेश्वरस्याशक्यकर्तृतायां शक्तेः स्वाप्न-पदार्थानामीश्वरसृष्टत्वेन तदधीनत्वाद् युक्तं तस्य महामहिमत्वमिति भावः । (अयं च न्यायो ‘निर्मातारम्’ इत्यनेन सूचितः ।) ॥ १ ॥


पराभिध्यानाधिकरणम्

पराभिध्यानाधिकरणं ञ्ञ्ञ्–२–२

न्यायविवरणं

न चाविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति वाच्यम् । बोधे जीवस्यास्वातन्त्र्यात् । ज्ञानाज्ञानयोस्तदन्यत्वे, जडत्वात्कैमुत्येनास्वातन्त्र्यात् । तत्स्वरूपत्वे तेनैव व्याख्यातत्वात् । उभयात्मकत्वे दोष-द्वयापातात् । अनुभयात्मकत्वे (स्व)व्याहतेः । तावन्मात्र-निमित्तत्वे मानाभावात् । सर्वस्येश(हेतुत्वे)वशत्वे मानाच्च

॥ २ ॥

भावबोध

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ इत्यत्र सर्वस्य भगवदधीनत्वोक्त्या विशेषानुक्त्या, स्वप्नतिरो-भावो भगवदधीनो न वेति सन्देहे नेति पूर्वः पक्षः । भगवदधीन इति सिद्धान्तः । तत्र ‘अविज्ञानम्’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शन-पूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न चाविज्ञानेति ॥ बाह्याविज्ञानादेव हि स्वप्नः प्रतीयते । अतो ज्ञानशक्त्यैव तिरोभावोऽप्युपपद्यते । शक्तिरेषा ज्ञानस्य, यत्समानविषयाज्ञानं नाशयतीति । एवं च न तस्य महामहिमत्वमिति नेति भावः । तद्धेतुत्वेन ‘स्वतोऽबोधः’ इत्युक्तं सिद्धान्तन्यायं विवृणोति ॥ बोध इति ॥ बोधे प्रबोधे । अनेनानुव्याख्याने, ‘स्वतः’ स्वातन्त्र्येण ‘अबोधः’ प्रबोधाभाव इति अकारप्रश्लेष इत्युक्तं भवति । नन्वज्ञाननिमित्तत्वात्स्वप्नस्य, ज्ञानेनैव स्वप्नतिरोधानसम्भवाज्जीवस्यास्वातन्त्र्यकथनं क्वोपयुक्तमित्यतो ज्ञाना-ज्ञानयोर्जीवाभिन्नत्वं वा, तत्स्वरूपत्वं वा, भिन्नाभिन्नत्वं वा, भिन्नत्वाभिन्नत्वोभयराहित्यरूपानुभयत्वं वेति विकल्पान् हृदि निधाय क्रमेण सर्वत्रापि दोषमाह ॥ ज्ञानाज्ञानयोरित्यादिना । तच्छब्देन जीवः परामृश्यते । अज्ञानज्ञानाभ्यामेव स्वप्नतिरोधानसम्भवात् किमीश्वरेणेति वदता पूर्वपक्षिणा ज्ञानाज्ञानयोरीश्वरभिन्नत्वमङ्गी-कृतमेवेति तन्नोक्तम् । तथा चेश्वरलक्ष्मीभिन्नत्वे सति जीवभिन्नत्वं जडत्वे हेतुरिति नेश्वरादौ व्यभिचारः शङ्कनीयः । यदा चेतनस्य जीवस्यास्वातन्त्र्यं तदा किं वाच्यं जडरूपज्ञानाज्ञानयोरित्यभिप्रेत्य कैमुत्येनेत्युक्तम् । तेनैवास्वातन्त्र्यतयोक्तजीवेनैव । ज्ञानाज्ञानयोरपि जीववदस्वातन्त्र्यात्प्रबोधहेतुत्वानुपपत्तिरिति भावः ॥ दोषद्वयापाता-दिति ॥ भिन्नत्वमादाय जडत्वात्कैमुत्येनास्वातन्त्र्यम् । अभिन्नत्व-

मादाय जीवगतास्वातन्त्र्यमिति दोषद्वयापातादित्यर्थः ॥ व्याहतेरिति ॥ भिन्नं न भवतीत्युक्ते, अभिन्नमित्येवोक्तं स्यात् । भिन्नाभिन्नेऽभिन्नत्व-राहित्याभावात् पुनर्न भवतीत्युक्ते व्याहतिः । एवमभिन्नं न भवतीत्युक्ते, भिन्नमित्येवोक्तं स्यात् । भिन्नाभिन्ने भेदराहित्याभावात् पुनर्भिन्नं न भवतीत्युक्ते व्याहतिरित्यर्थः । अज्ञानादेः स्वप्नादिनिमित्तत्वस्य प्रमाणसिद्धत्वादुक्तानुपपत्तिः कथञ्चित्परिहर्तव्येत्यत आह ॥ ताव-न्मात्रेति ॥ अनुभवस्य विद्यमानत्वात्कथं मानाभाव इत्यत उक्तम् ॥ मात्रेति ॥ अनुभवस्य ज्ञानाज्ञानयोर्निमित्तत्वमात्रविषयत्वमिति भावः । न केवलं स्वप्नादेरज्ञानादिमात्रनिमित्तत्वे मानाभावादेवमङ्गीकारः किं तु ईशहेतुत्वे मानसद्भावाच्चेत्याह ॥ सर्वस्येति ॥ अनेन जीवादेर-स्वातन्त्र्यमपि प्रमापितं भवति । अत एव स्वप्नादेरित्यनुक्त्वा सर्व-स्येत्युक्तम् । एवं च जीवस्य स्वतः स्वातन्त्र्येण प्रबोधाभावात्, ज्ञानादीनां जडत्वेन सुतरां स्वातन्त्र्याभावादीश्वरस्यैव स्वप्नतिरोधान-हेतुत्वमिति भावः । (अत्र पूर्वपक्षसिद्धान्तन्यायौ ‘ततो ह्यस्य बन्ध-विपर्ययौ’ इत्यनेन दृष्टान्ते स्वातन्त्र्यज्ञानाज्ञानाधीनबन्धमोक्षयोः परमात्माधीनत्वोक्त्या, ‘अविज्ञानं,’ ‘स्वतोऽबोध’ इति क्रमा-त्सूचितौ ।) ॥ २ ॥