०१ प्रथमः पादः

तदंतराधिकरणम्

तृतीयाध्याये प्रथमः पादः

तदंतराधिकरणं ञ्ञ्ञ्–१–१

न्यायविवरणम्

‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति वचनात्स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम् । मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशान्मरणे भूतवियोग-स्यैवाभावात् । ‘भूतयुक्तः परं लोकमिमं लोकं च गच्छति’ इत्यादिवचनाच्च ॥ १ ॥

भावबोध

वैराग्यसाध्योपास्तिसाधनभक्तेः पुरुषप्रयत्ना-विषयत्वेनाविधेयत्वात् तदुत्पत्त्यर्थं भगवत्प्रीतिसाधनविचार परतृतीया-ध्याये मोक्षसाधनेषु वैराग्यस्य प्राथमिकत्वात्तत्प्रतिपादनाय प्रथमः पादः प्रवृत्तः । तदन्तर्गताधिकरणपूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः ।

स्वाभाविकाऽन्यथानामसहाभावान्यथोक्तयः ।

अविशेषविशेषौ च सहभावो विमिश्रता ।

विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥

युक्तयः पूर्वपक्षस्य गुणाधिक्याऽर्थतो भवौ ।

उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।

योग्यता बलवत्त्वं च विभागः कारणाभवः ।

क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥ इति ।

ॐ तदन्तरप्रतिपत्तौ रंहतिसम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ इत्यत्र ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रगताथशब्देन वैराग्यादे-र्मोक्षसाधनतोक्त्या वैराग्यादेर्मोक्षान्वयव्यतिरेकदर्शनाद्वैराग्यादिकं मुमुक्षुणाऽनुष्ठेयं न वेति सन्देहे नानुष्ठेयं मुमुक्षुणेति पूर्वः पक्षः । अनुष्ठेयमेवेति सिद्धान्तः । तत्र ‘स्वाभाविका’ इत्युक्तन्यायं प्रमाणो-दाहरणपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ भूतबन्धस्त्विति ॥ मरणस्य स्वाभाविकत्वं नाम ‘जातस्य हि ध्रुवो मृत्युः’ इत्यादिप्रमाणोक्त-नियतत्वम् । तादृशमरणेऽपि सर्वात्मना भूतवियोगो भवतीति पूर्वपक्ष्यभिप्राय इति ज्ञातव्यम् । एवं च भूतवियोगरूपमरणस्यैव मोक्षत्वान् मरणस्य स्वाभाविकत्वेन वैराग्यानपेक्षणाज् जिज्ञासासूत्रानु-पपत्तिरिति न मन्तव्यमिति भावः । (अयं च न्यायः ‘तदन्तर-प्रतिपत्तौ’ इत्यनेन स्वाभाविकमरणमेव मुक्तिरिति सूचितः ।)

तद्धेतुत्वेन ‘गुणाधिक्य’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ मुक्तिसाधनत्वेनेति ॥ गुणानामाधिक्यम् अपरोक्षत्वादिरूपम् । नन्वपरोक्षज्ञानाद्यभावेऽपि स्वाभाविकमरण एव भूतवियोगस्य जायमानत्वात्तस्यैव च मोक्षत्वादुपदिष्टमपि ज्ञानादिकं न मुक्तिसाधनं व्यभिचारादित्यत आह ॥ भूतयुक्त इति ॥ भूतेत्यतः पूर्वं सर्वात्मनेति शेषः । मरण एव सर्वात्मना भूतवियोगे गुणाधिक्योपदेशो न स्यात् । एवं च मुक्त्यर्थं गुणाधिक्योपदेशेन स्वाभाविकमरणस्य मुक्तित्वा-भावादनुष्ठेयमेव मुमुक्षुणा वैराग्यादिकमिति न जिज्ञासा सूत्रानुपपत्ति-रिति भावः । (अयं च न्यायः मरणं विना देहान्तरप्राप्तेरयोगात् ‘सम्परिष्वक्तः’ इत्यनेन, मुक्तिव्यतिरिक्तमरणे भूतपरिष्वङ्गः, मुक्ति-रूपे तु तदभावः, इत्यत्र ज्ञानादिगुणाधिक्यस्यैव नियामकत्वा-त्सूचितः ।) ॥ १ ॥


त्र्यात्मकत्वाधिकरणम्

त्र्यात्मकत्वाधिकरणं ञ्ञ्ञ्–१–२

न्यायविवरणम्

‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती’त्यत्र भूतानीति सामान्यनामानुक्त्वाऽऽपामिति विशेष-नामकथनादपामेव सहगतिरिति न वाच्यम् । त्र्यात्मकत्वा-दपामर्थतः सर्वभूतानां गतिप्राप्तेः ॥ २ ॥

भावबोध

ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥ इत्यत्र ‘भूत-परिष्वक्तो रंहति’ इति साधारणवचनस्योभयथाप्युपपत्त्या मरणे सर्वभूतानि किं जीवं परिष्वज्य गच्छन्ति उत नेति सन्देहे न सर्वाणीति पूर्वः पक्षः । सर्वाणीति सिद्धान्तः । तत्र ‘अन्यथानाम’ इत्युक्तपूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ इति तु पञ्चम्यामिति ॥ उदाहृतश्रुतौ भूतानीत्यनुक्त्वा, आप इत्येव वचने अपामपि भूतत्वात्पूर्वपक्षसाधकत्वं न स्यादित्यतः सामान्यनामानुक्त्वे-त्युक्तम् । सामान्या(न्यनामा)पेक्षया विशेष(नाम्नोऽ)स्यान्यथात्वा-(त्त)द्व्याख्यानार्थं विशेषनामेत्युक्तम् । अपामेवेत्येवकारसामर्थ्येन न सर्वभूतानां जीवेन सहगमनमिति साध्यसिद्धिः । एवं च श्रुतौ ‘आपः’ इत्यन्यथानामोक्तेः समस्तभूतपरिष्वङ्गाभावादेकस्य च शरीरानारम्भ-कत्वान्मरण एव मोक्षसिद्धेर्व्यर्थं वैराग्यादीति न वाच्यमिति भावः । (अयं च न्यायः ‘भूयस्त्वात्’ इत्यनेन ‘अप्’ शब्दप्रयोगगतिं वदता सूचितः । सामान्यनामापेक्षया विशेषनाम्नोऽन्यथात्वात् ।) तद्धेतुत्वेन ‘अर्थतो भवः’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ त्र्यात्मकत्वा-दिति ॥ सर्वभूतानां गतीति शेषोक्तिः । भवशब्दस्यार्थः प्राप्तेरिति । एवं च सर्वभूतगतेरर्थतो भवान्मरणस्यैव मुक्तित्वाभावेनानुष्ठेयमेव वैराग्यादीति भावः । (अयं च न्यायः ‘त्र्यात्मकत्वात्’ इत्यनेन अपां भूतत्रयात्मकत्वादपां सहगमनेन भूतानां सहगतिरपि सिद्धैवेति सूचितः।) ॥ २ ॥