प्राणाधिकरणम्
अथ चतुर्थः पादः
प्राणाधिकरणं ञ्ञ्–४–१
न्यायविवरणं
न च प्राणानामुत्पत्त्यङ्गीकारे, ‘प्राणा एवा-नादयः’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । ‘आत्मैवेदमग्र आसीत्स प्राणमसृजत, स प्राणान्’ इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । ‘इदं सर्वमसृजते’ति सामान्य-वचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात् ॥ १ ॥
भावबोध
श्रुत्यादिप्रसिद्धप्रबलयुक्त्युपेतश्रुतीनामध्यात्मविषयाणां परस्परविरोधपरिहारार्थमयं पादः प्रवृत्तः । एतत्पादीयाधिकरण-पूर्वपक्षसिद्धान्तन्यायाः सङ्ग्रहेणानुव्याख्यायामुक्ताः
‘तत्र स्पष्टार्थवत् श्रुतिः ।
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः ।
दृष्टाऽयुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।
युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ।
युक्तयो निर्ण(यायैव)यस्यैव स्वयं भगवतोदिताः ॥ इति ॥ तत्र
ॐ तथा प्राणाः ॐ ॥ इत्यत्र ‘प्राणा एवेदमग्र आसुः, अथ प्राणा एवानादयः’ इति ‘एतस्माज्जायते प्राणः’ इति श्रुतिविगानेन प्राणाः किमुत्पत्तिमन्तो न वेति सन्देहे नोत्पत्तिमन्त इति पूर्वः पक्षः । उत्पत्तिमन्त इति सिद्धान्तः । तत्र ‘स्पष्टार्थवत् श्रुतिः’ इत्युक्त पूर्वपक्षन्यायं तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च प्राणानामिति ॥ स्वपक्षसाधकस्यैव परपक्षदूषकत्वमिति ज्ञापयितुं विरोधमुखेनैव न्यायो विवृतः । अन्यथा ‘स्पष्टार्थवद्विशेषश्रुतेः प्राणा-नामनादित्वम्’ इत्यवक्ष्यत् । यद्वा ‘स्पष्टार्थवत् श्रुतिः’ इत्यत्र ‘विशेषश्रुतिवैरूप्यम्’ इत्यतो वैरूप्यपदमनुकर्षणीयमिति भावेनैवं न्यायविवरणं कृतम् । एवमन्यत्रापि द्रष्टव्यम् । स्पष्टार्थवती अनादित्व-रूपस्पष्टार्थप्रतिपादिका विशेषश्रुतिः ‘प्राणा एव’ इति प्राणरूपार्थ-विशेषमधिकृत्य प्रवृत्ता । तया विरोधः प्राणानामुत्पत्त्यङ्गीकारे इत्यर्थः । एवं च स्पष्टार्थवच्छ्रुत्या प्राणानामनादित्वेऽङ्गीकार्ये न सर्वकर्तृत्वं विष्णोर्युक्तमिति नेति भावः । कुतो नेत्यतस्तद्धेतुत्वेन ‘स्पष्टार्थव-च्छ्रुति’रित्युक्तमेव न्यायं सिद्धान्तसम्बन्धित्वेनापि विवृणोति ॥ आत्मैवेदमिति ॥ अस्या अपि श्रुतेः ‘आत्मैव’ इत्यवधारणे-नान्यानादित्वनिषेधकत्वेन ‘असृजत’ इति स्पष्टमुत्पत्तिप्रतिपादकत्वेन ‘प्राणं, प्राणान्’ इत्यर्थविशेषमधिकृत्य प्रवृत्तत्वेन च स्पष्टार्थवद्विशेष-श्रुतित्वं द्रष्टव्यम् । एवकारेण प्राणानादित्वश्रुतेः सावकाशत्वेन सिद्धान्ताविरोधकत्वमाह । अत एव ‘सावकाशायाः’ इति वक्ष्यति । न चैवं सति श्रुतिद्वयस्यापि साम्यात्कथं निर्णय इत्यत आह ॥ इदं सर्वमिति ॥ श्रुतित्वाविशेषात्कथमनया निर्णय इत्यत आह ॥ विशेषेति ॥ विशेषश्रुतिमात्रादिति योजना । सूक्ष्मरूपानादित्व-प्रतिपादकत्वेन सावकाशाया इत्यर्थः । एवं च सामान्यश्रुतिसाहित्येन प्रबलस्पष्टार्थवद्विशेषश्रुत्या प्राणोत्पत्तिसिद्धेर्युक्तमीश्वरस्य श्रुतिसमन्वयेन जगत्कर्तृत्वमिति भावः । (अत्र पूर्वपक्षन्यायः ‘गौण्यसम्भवात्’ इत्यनेन, अनादित्वश्रुतेर्गतिं वदता सूचितः । सिद्धान्तन्यायश्च ‘असम्भवात्’ इत्यनेन, उत्पत्तिश्रुत्यसम्भवादित्यर्थकेन, ‘प्रतिज्ञानु-परोधाच्च’ इत्यनेन चोक्तः ।) ॥ १ ॥
मनोधिकरणम्
मनोधिकरणं ञ्ञ्–४–२
न्यायविवरणं
न च ‘नित्यं मनोऽनादित्वात्’ इति विशेष-श्रुतिविरोधः । ‘एतस्माज्जयते प्राणो मनः सर्वेन्द्रियाणि च’ इति विशेषश्रुतेः ॥ २ ॥
भावबोध
ॐ तत्प्राक्श्रुतेश्च ॐ ॥ इत्यत्र ‘एतस्माज्जायते प्राणो मनः’ इति, तत्र ‘नित्यं मनोऽनादित्वात्’ इति श्रुतिविरोधेन मनः किमुत्पत्तिमन्न वेति सन्देहे नेति पूर्वः पक्षः । उत्पत्तिमदेवेति सिद्धान्तः । तत्र ‘विशेषश्रुतिवैरूप्यम्’ इत्युक्तं न्यायं पूर्वपक्ष-सम्बन्धित्वेन तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च नित्यमिति ॥ अनिश्चितस्य हेतुत्वेन कथनासम्भवात् हेतुतयाऽ-नादित्वप्रतिपादकत्वेन ‘नित्यं मनः’ इति विशिष्य मनोविषयत्वेन चास्याः श्रुतेर्विशेषविषयत्वं ज्ञातव्यम् । वैरूप्यमित्यस्यार्थो विरोध इति । ‘मनस उत्पत्तिमत्त्वे’ इति शेषः । एवं च विशेषश्रुतेर्वैरूप्या-न्मनसोऽनादित्वे न सर्वकर्तृत्वं विष्णोर्युक्तमिति नेति भावः । (अयं च न्यायोऽनादित्वश्रुतिगतिप्रदर्शकस्मृतिसमुच्चायकचशब्देन विपक्षबाधकतर्करूपः सूचितः ।) तद्धेतुत्वेन ‘विशेषश्रुतिवैरूप्यम्’ इत्युक्तमेव न्यायं सिद्धान्तसम्बन्धित्वेनापि विवृणोति ॥ एतस्मादिति ॥ अस्याः पृथङ्मनसो जन्माभिधायकत्वेन विशेषश्रुतित्वं द्रष्टव्यम् । श्रुतेः श्रुतिविरोधात् । ‘मनोऽनादित्वस्येति शेषः । न चानादित्वश्रुतिविरोधः। तस्याः सूक्ष्मरूपानादित्वपरत्वात् । एवं च मनस उत्पत्तिप्रतिपादक-विशेषश्रुतिविरोधान्न मनोऽनादित्वमिति युक्तं हरेः सर्वकर्तृत्वमिति भावः । (अयं च न्यायः ‘श्रुतेः’ इत्यनेन विपक्षबाधकतर्करूप उक्तः ।) ॥ २ ॥