०३ तृतीयः पादः

वियदधिकरणम्

अथ तृतीयः पादः

वियदधिकरणं ञ्ञ्–३–१

न्यायविवरणं

न च वियत उत्पत्तिमत्त्वेऽनुभूतियुक्तिबहु-वाग्विरोधोऽस्ति । व्यवस्थाऽयोगात् । अवकाशमात्रस्या-व्याकृतात्मकत्वादनुत्पत्तिवचनानां तद्विषयत्वं, उत्पत्तिवचना-नामसितवर्णभूततदभिमानिशरीरविषयत्वं पराधीनविशेषवत्त्व-मात्रविषयत्वं चेति व्यवस्था ।

आकाशो नीलिमोदेति न प्रदेशः कथञ्चन ।

अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि ॥

इति पैङ्गिश्रुतेः ॥ १ ॥

भावबोध

विष्णोर्जगत्कारणत्वादौ अधिभूतादिविषयश्रुतीनां परस्परविरोधपरिहारायायं तृतीयः पादः प्रवृत्तः । एतत्पादीयाधिकरण-पूर्वपक्षसिद्धान्तन्याया अनुव्याख्यायां सङ्ग्रहेणोक्ताः–

अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।

एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥

दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।

प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥

लोकदृष्ट्यनुसारित्वं जीवसाम्यमनादिता ।

तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥

उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।

नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥

व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।

मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥

गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।

अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥

विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ॥ इति ।

ॐ न वियदश्रुतेः ॐ ॥ इत्यत्र ‘आत्मन आकाशः सम्भूतः, अनादिर्वाऽयमाकाशः’ इति श्रुतिविप्रतिपत्त्या आकाश उत्पत्तिमान्न वेति सन्देहे वियदनुत्पत्तिमदेवेति पूर्वः पक्षः । नेति सिद्धान्तः । तत्र ‘अनुभूतियुक्तिबहुवाग्वैलोम्यम्’ इत्युक्तपूर्वपक्षन्यायं, अर्थात्तत्साध्य-प्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ न च वियत इति ॥ उत्पत्ति-मत्त्वे अङ्गीकृत इति शेषः । अवकाशरूपाकाशस्यानुत्पत्तेः साक्ष्यनु-भवसिद्धत्वेन तदुत्पत्तेरनुभवविरोधः । तथा ‘वियद् अनुत्पत्तिमद् विभुत्वात् सम्प्रतिपन्नवत्’ इत्यादियुक्तिविरोधः । ‘अनादिर्वाऽय-माकाशः’ इत्यादिबहुवाग्विरोधश्च । एवं चानुभूत्यादिविरोधेनाकाश-स्योत्पत्त्यभावात्, तदुत्पत्तिप्रतिपादकश्रुति वज्जगत्कर्तृत्वश्रुतेरप्य-प्रामाण्यान्न विष्णोर्जगत्कारणत्वं युक्तमिति नेत्यर्थः । तद्धेतुत्वेन ‘व्यवस्था’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ व्यवस्थेति ॥ उत्पत्ति-श्रुतेराकाशपदार्थसर्वविषयत्वसम्भवेन मुख्यार्थत्वं, अनादिश्रुतेः कतिपयाकाशपदार्थविषयत्वेन गौणत्वमिति व्यवस्थाऽयोगादित्यर्थः । तामेव व्यवस्थां दर्शयति ॥ अवकाशमात्रस्येति ॥ दिग्रूपाव-काशस्याव्याकृतात्मकत्वेन कूटस्थत्वात् ‘अनादिर्वा’ इत्यनुत्पत्ति-वचनानां तद्रूपावकाशपदार्थैकदेशविषयत्वमित्यनादित्वस्यामुख्यत्वम् । ‘आत्मन आकाशः सम्भूतः’ इत्याद्युत्पत्तिवचनानाम् असितवर्ण-त्वेनानुमितोत्पत्तिमद्भूताकाशतदभिमानिविनायकोत्पत्तिमज्जडशरीरविषयत्वम् । तथा, अवकाशतदभिमानिभूततदभिमानिरूपाणां चतुर्णामप्याकाश-पदवाच्यानां पराधीनविशेषवत्त्वमात्ररूपोत्पत्तिविषयत्वं चेति व्यवस्था । अनेन ‘आत्मन आकाशः सम्भूतः’ इत्याद्युत्पत्तिप्रतिपादकवाक्य-गताकाशशब्दस्य सर्वविषयत्वम्, सम्भूतादिशब्दोक्तोत्पत्तेरुक्तप्रकारेण सर्वत्राकाशशब्दवाच्ये सत्त्वात् । ‘अनादिर्वा अयमाकाशः’ इत्यादि-वाक्यगताकाशशब्दस्य सर्वाकाशपदवाच्यविषयत्वं भूते कथमप्य-सम्भवात् तस्य स्वरूपेणोत्पत्तेरित्युक्तं भवति । भूताकाशस्यासित-वर्णत्वे श्रुतिमाह ॥ आकाश इति ॥ नीलिमा नीलरूपविशिष्टः । प्रदेशो ऽवकाशः । कथञ्चन स्वरूपेण विकृतरूपेण वा नोदेतीति सम्बन्धः । अनुत्पत्तौ युक्तिमाह ॥ अभावो हीति ॥ यस्य चोत्पत्तिस् तस्य प्रागभावेन भाव्यम् । न च प्रदेशस्य प्रागभावः सम्भवति । अनुत्पन्नप्रतीतिकत्वादिति भावः । तत्कथमित्यत आह ॥ न ह्यत्रेति ॥ अपिपदेन नञोऽनुकर्षः । अभावो हि प्रतीयमानः ‘अस्य, अत्र’ इति प्रतीयते न तु निराश्रयः । न च प्रदेशाभावस्याश्रयप्रतीतिरुपपद्यते, यदेव ‘अत्रे’ति निर्दिश्यते तस्यैव प्रदेशत्वादित्यर्थः ॥ तथा चाकाशो-त्पत्त्यनुत्पत्तिश्रुत्योरुक्तमार्गेण व्यवस्थोपपत्तेः प्रामाण्यसम्भवाद्युक्तं हरे-र्वियदादिजगत्कर्तृत्वमिति भावः । (अत्र पूर्वपक्षन्यायः ‘गौण्य-सम्भवात्’ इति सूत्रेणानुत्पत्तिश्रुतिगतिं वदतोपलक्षणत्वेन सूचितः । सिद्धान्तन्यायश्चानेनैव सूत्रेणोक्तः ।) ॥ १ ॥


मातरिश्वाधिकरणम्

मातरिश्वाधिकरणं ञ्ञ्–३–२

न्यायविवरणं

ततोऽधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायू-त्पत्ताविति, न वायोरेव मुख्यानुत्पत्त्यनुपपत्तेः । पराधीन-विशेषवत्त्वमात्रं ह्युत्पत्तिः । तदभावे उभयोः स्वातन्त्र्यं विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेः । उभयोरपि पराधीनत्व-प्राप्तेश्चान्योन्यानुरोधे, अननुरोधे तु न सर्वैश्वर्यम् । ज्ञाना-विस्मृत्या वायावपि व्यवस्थेत्यतिदेशः । अनुपपत्तिस्तु तत्प्रापिका । पराधीनविशेषवत्त्वमात्रं त्वव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव ॥ २ ॥

भावबोध

ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ इत्यत्र ‘तासां वायुर्वत्सः सा वा एषा देवताऽनादिर्योऽयं पवते’ इति विगानेन मुख्यो वायुरुत्पत्तिमान्न वेति सन्देहे अनुत्पत्तिमानेवेति पूर्वः पक्षः । मुख्य-वायुरुत्पत्तिमानेवेति सिद्धान्तः । तत्र ‘ततोऽधिकमेतत्सर्वम्’ इत्युक्त-पूर्वपक्षन्यायमर्थात्तत्साध्यप्रदर्शनपूर्वकं विवृण्वन् प्रतिक्षिपति ॥ ततोऽधिकमिति ॥ एतच्छब्दपरामृष्टं दर्शयति– अनुभूत्यादि-विरुद्धमिति । आदिपदेन युक्तिबहुवाग्ग्रहणम् । अधिकमित्यनेना-भ्यधिकाशङ्कामाह । तथा हि । न चाकाशानुत्पत्तिश्रुतेर्गौणार्थत्वम् । तथा सत्याकाशादिवन्मुख्यवायोरुत्पत्त्यनुत्पत्तिमत्त्वे, तेजोऽबन्ना-काशादीनां ‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि’ इत्यनित्यत्वमुक्त्वा, ‘वायुर्वा व नित्यः’ इति वायो-र्नित्यत्वोक्तिरयुक्ता स्यात् ।

किं च वायोरनुत्पत्तेर्गौणत्वं नाम स्वरूपमात्रविषयत्वमिति वक्तव्यम् । तथा सति तस्य सर्वचेतनसाम्येन ‘अथ चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति तान्यचेतनानि’ इति तेजःप्रभृतीनामचेतनत्व-मुक्त्वा, ‘वायुर्वा व चेतनः’ इत्युक्तं वायोरतिशयचेतनत्वमयुक्तं स्यात् । ‘कुविदङ्ग’ इति ऋगुक्तसर्वदेवोपास्यता च नोत्पत्तिमत्त्वे घटते । तस्योदयनिम्लोचाभावे च कुतो जन्मसम्भवः । एवंविधस्य चोत्पत्त्यङ्गीकारेऽनुभूत्यादिव्याकोपः स्यात् । (ततोऽधिकमेतत्सर्वम् अनुभूतियुक्तिबहुवाग्विरुद्धं, वायूत्पत्तावङ्गीकृतायामित्यर्थः ।) युक्तयश्च ‘वायुर्नोत्पत्तिमान् परमनित्यत्वात्, परमचेतनत्वात्, इत्यादिरूपा द्रष्टव्याः । बहुवाचश्च भाष्योदाहृता एव । एवं चानुभूत्यादिविरोधेन मुख्यवायोरुत्पत्त्यभावाद् वायूत्पत्तिप्रतिपादकश्रुतिवज्जगत्कर्तृत्वश्रुते-रप्रामाण्यान्न विष्णोर्जगत्कारणत्वं युक्तमिति नेत्यर्थः । कुतो नेत्य-तस्तद्धेतुत्वेन ‘अनुपपत्तिः’ इत्युक्तसिद्धान्तन्यायं विवृणोति ॥ वायो-रेवेति ॥ अनुत्पत्तिश्रुतेर्ब्रह्मण्येव मुख्यत्वाद्वायोरनित्यत्वव्याप्त-विभक्तशक्तिमत्त्वाच्चानुत्पत्तेरनुपपत्तेरित्यर्थः । एवशब्दस्य प्राबल्यादि-द्योतकत्वेनानुपपत्तेरेवेति सम्बन्धः ।

यद्वा वायोरनुत्पत्तिं वदन् पृष्टव्यः ‘किं वायुरेवानादिर् ईश्वरोऽपि वा’ इति । तत्राद्यं पक्षं दूषयति ॥ वायोरेवेति ॥ ईश्वरानादित्व-प्रतिपादकप्रमाणविरोधेन वायोरेवेत्यन्ययोगव्यवच्छेदेनानुत्पत्तेरनुपपत्ते-रित्यर्थः । द्वितीये द्वयोरपि स्वातन्त्र्यापात इति दूषणमभिप्रेत्य तदु-पपादयति ॥ पराधीनेति ॥ हि यस्माद्वायोरुत्पत्तिः पराधीन-विशेषलाभरूपा विवक्षिता, अतस् तदभावे पराधीनविशेषलाभाभावे उभयोर् वायुविष्ण्वोः स्वातन्त्र्यं स्यात् । न च तदस्त्विति वाच्य-मित्याह ॥ विरुद्धमेवेति ॥ उभयोः स्वातन्त्र्यं विरुद्धमेव । न तु केनापि प्रकारेण घटनीयमित्यर्थः । तत्कथमित्यत आह ॥ सर्वेति ॥ उभयोरिति अत्रापि सम्बध्यते । तदपि कथमित्यत आह ॥ उभयो-रपीति ॥ वायुविष्ण्वोरन्योन्यानुरोधे, उभयोरपि पराधीनत्वप्राप्तेः । अननुरोधे तु वायोरीश्वरनियामकत्वाभावादीश्वरस्य च वायुनियामकत्वा भावान्न तयोः सर्वैश्वर्यमित्यर्थः ।

ननूक्ताभ्यधिकाशङ्कानिरासाय ‘एतेने’ति ‘गौण्यसम्भवात्’ इत्युक्त-व्यवस्थाया अतिदेशो न युज्यते । आकाशाद्यपेक्षया स्वरूपातिरिक्त-स्यानादित्वश्रुतिविषयस्यानादिभूतस्याभावात् । स्वरूपविषयत्वेन व्यवस्थायाः पूर्वमेव सिद्धत्वादित्यत आह ॥ ज्ञानाविस्मृत्येति ॥ ज्ञानस्य वृत्तिरूपस्य स्वरूपातिरिक्तस्य अविस्मृत्याऽपरिलोपेन वायावपि शरीराद्युत्पत्तिस्वरूपानुत्पत्तिभ्यामाकाशपदवाच्यदेवतासमान योगक्षेमे प्रवाहतो वृत्तिज्ञानं स्वरूपातिरिक्तमादाय व्यवस्था सम्भव-तीति हेतोः ‘एतेने’’त्यतिदेशो युक्त इत्यर्थः ।

नन्वेवं तर्हि अनुव्याख्याने व्यवस्थां विहाय कथमनुपपत्तिः सिद्धान्तयुक्तित्वेनोक्ता । ‘एतेने’ति सूत्रा(न)नुगुणत्वादित्याह ॥ अनुपपत्तिस्त्विति ॥ तत्प्रापिका व्यवस्थाप्रापिका । साक्षा-त्सिद्धान्तयुक्तिर्व्यवस्थैव । तदभ्युपगमे ‘अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः’ इत्याद्यवगतोत्पत्त्यनुत्पत्तिविशिष्टे वायौ मुख्यानुत्पत्यनुपपत्तिः कारणत्वेनोक्तेत्यर्थः । नन्वनुपपत्तेर्व्यवस्था-प्रापकत्वं पूर्वाधिकरणेऽपि वक्तव्यमेव । तत्र मुख्यवायोरिव भूताकाशाभिमानिनो देहोत्पत्तिमत्त्वेन मुख्यानुत्पत्त्यनुपपत्तावपि अव्याकृताकाशचित्प्रकृत्योः कथं मुख्यानुत्पत्त्यनुपपत्तिः, देहोत्पत्ते-रप्यभावादित्याह ॥ पराधीनविशेषेति ॥ मुख्यवायौ पराधीन-विशेषवत्त्वमपि मुख्यानुत्पत्त्यनुपपत्तिहेतुत्वेन विवक्षितम् । तन्मात्रं तु देहाद्युत्पत्तिरहितयोरवकाशचित्प्रकृत्योश्च सममेव । तादृशोत्पत्तिमादाय मुख्यानुत्पत्त्यनुपपत्तेः सत्त्वाद्युक्तमनुपपत्तेर्व्यवस्थाप्रापकत्वं पूर्वाधि-करणेऽपीति भावः । यद्वा ननु किमनेन ‘वायूत्पत्तिश्रुतिः शरीरोत्पत्ति विषया, अनुत्पत्तिश्रुतिर्ज्ञानविपरिलोपविषया’ इति व्यवस्थाङ्गीकारेण । वायूत्पत्तिश्रुतिः पराधीनविशेषवत्त्वमात्रविषया । तदनुत्पत्तिश्रुतिस्तु देहाद्यनुत्पत्तिविषयेति व्यवस्था कुतो नाङ्गीकार्या । पूर्वाधिकरणसिद्ध-व्यवस्थाविलक्षणत्वादित्यत आह ॥ पराधीनेति ॥ भवेदेवं यदीयं व्यवस्था पूर्वाधिकरणसिद्धव्यवस्थाविलक्षणा स्यात् । न चैवम् । भूताकाशतदभिमानिनोरिव पूर्वाधिकरणेऽव्याकृताकाशतदभिमानिनो-रपि वियच्छब्देन विवक्षितत्वात् । तयोश्च शरीरादितोऽप्युत्पत्त्यसम्भवेन पराधीनविशेषवत्त्वमात्रेण व्यवस्थाया वाच्यत्वेन, अस्याः पूर्वाधिकरण सिद्धव्यवस्थावैलक्षण्याभावात् । अत एवोक्तं तदधिकरणीय-तत्त्वप्रकाशिकायाम्– ‘आकाशपदेन भूतावकाशतद्देवता उच्यन्त’ इति । ‘अवकाशतदभिमानिनोरप्यस्ति पराधीनविशेषलाभलक्षणो-त्पत्तिः’ इति च । अत एतदधिकरणावैयर्थ्यायोक्तविधैव व्यव-स्थाऽङ्गीका (र्या)र्यैवेति भावः । एवं च वायोर्मुख्यानुत्पत्त्यनुपपत्तेः पूर्ववद्व्यवस्थया श्रुतिप्रामाण्यसम्भवाद्युक्तं विष्णोर्जगत्कारणत्वमिति हृदयम् । (अत्र पूर्वपक्षसिद्धान्तन्यायावप्यतिदेशेनैव पूर्वाधिकरण-वत्सूचितौ ज्ञातव्यौ ।) ॥ २ ॥