०२ द्वितीयः पादः

द्वितीयः पादः

अथ द्वितीयः पादः

न्यायविवरणम्

उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्ष-न्यायाः, तद्विरोधिनोऽन्ये, इति प्रसिद्धा एव ॥ १ ॥

इति द्वितीयाऽध्यायस्य द्वितीयः पादः ॥

भावबोध

॥ समयपादीयाधिकरणानां सर्वेषामनुव्याख्याने व्याख्यातत्वान्न तत्पूर्वपक्षसिद्धान्तन्यायाः सङ्ग्रहेणोक्ताः । यद्यपि सङ्ग्रहेणोक्त्यभावेऽपि न्यायानां प्रथमाध्यायगताद्यपादद्वये विवरणं कृतं तथाप्येतत्पादीयाधिकरणेषु न्यायानां स्पष्टमुक्तत्वाद्विवरणं न कृत-मित्याशयेनाह ॥ उक्तविरोधिन इति ॥ उक्तजगत्कारणत्वादौ विरोधिनो विरुद्धार्थसाधकास् तत्तत्समयसिद्धाः साङ्ख्यचार्वाकादि-सिद्धान्तोत्प्रेक्षिताः पूर्वपक्षन्यायाः । तद्विरोधिनस् तत्साध्यविरुद्धार्थ-साधका अन्ये सिद्धान्तन्यायाः । इतिशब्दः प्रकारार्थः । ततश्चोक्त-विरोधित्वेन प्रकारेण पूर्वपक्षन्यायाः, तद्विरोधित्वेन प्रकारेण सिद्धान्तन्याया अनुव्याख्याने प्रकर्षेण सिद्धा एव न तु विवरण-मर्हन्तीत्यर्थः ।

इति श्रीमन्न्यायविवरणभावबोधे द्वितीयाध्यायस्य द्वितीयः पादः ॥