०१ प्रथमः पादः

स्मृत्यधिकरणम्

द्वितीयाध्याये प्रथमः पादः

स्मृत्यधिकरणं ञ्ञ्–१–१

न्यायविवरणं

रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाप्तत्वम् ॥ श्रुत्यनुसारित्वात् ॥ १ ॥

भावबोध

आनन्दमयाद्युपलक्षिताशेषवैदिकशब्दसमन्वयेन सिद्धे जगज्जन्मादिकारणत्वादौ प्रथमाध्यायार्थे युक्त्यादिविरोधपरिहारार्थमयं द्वितीयोऽध्यायः प्रवृत्तः । तत्र सर्वविरोधानां युक्तिमूलकत्वाद्युक्तेरेव प्राधान्यात्तद्विरोधपरिहारार्थोऽयं प्रथमः पादः प्रवृत्तः । एतत्पादीयाधि-करणपूर्वपक्षसिद्धान्तन्यायाः सङ्ग्रहेणानुव्याख्यायामुक्ताः ॥

आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः ।

सर्वानुसारो लघुता विशेषाऽदर्शनाऽफले ॥

इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।

एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥ इति ।

॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष-प्रसङ्गात् ॐ ॥ इत्यत्र मतविमत्या जगज्जन्मादिकर्तृत्वं विष्णोर्युक्तं न वेति सन्देहे न युक्तमिति पूर्वः पक्षः । युक्तमेवेति सिद्धान्तः । तत्र ‘आप्तता’ इत्युक्तन्यायं पूर्वपक्षसिद्धान्तोभयसम्बन्धित्वेन विवृणोति ॥ रुद्रादीनामिति ॥ अनेन ‘रुद्रादीनामाप्तत्वं पूर्वपक्षन्यायः’ इति सूचितं भवति । तथा च रुद्रादीनां जगद्धितोपदेष्टृत्वेन सर्वज्ञत्वेन वाक्यार्थ-ज्ञानादिमत्त्वरूपाप्ततावत्त्वात्तद्विरचितानां स्मृतीनां दोषाभावगुण-युक्ततया प्रबलत्वेन निरवकाशत्वात्तद्विरुद्धाभिधायकश्रुतेरप्रामाण्यस्यैव प्रसङ्गान्न तया विष्णोर्जगत्कारणत्वं सिद्ध्यतीति पूर्वः पक्ष इति भावः । ‘विष्ण्वादीनामेव’ इत्येवकारेण सिद्धान्तयुक्तेः प्राबल्यमाह । तत्र हेतुमाह ॥ श्रुतीति ॥ विष्ण्वादिविरचितस्मृतीनामिति शेषः । अत्र श्रुत्यनुसारो नाम यथातथं तत्संवादस्तन्मूलत्वं चेति द्वयमपि ग्राह्यम् । अनेन पाशुपतादिस्मृतीनां श्रुतिविरोधेनाप्यप्रामाण्यमुक्तं भवति । तथा च वैष्णवस्मृतीनां परमाप्तैर्विष्ण्वादिभिः प्रणीतत्वेन निरवकाशत्वात् पाशुपतादिस्मृतीनां तद्विरोध एवाप्रामाण्यप्रसङ्गात् सुतरां तत्साहाय्य-वत्या श्रुत्या विरोधेऽप्रामाण्यप्रसङ्ग इति युक्तमेव विष्णोर्जगत्कर्तृत्व-मिति भावः । (अत्र पूर्वपक्षन्यायः ‘स्मृत्यनवकाशे’ति सौत्रपूर्वभागेन पाशुपतादिस्मृतीनामनवकाशमापादयता सूचितः । रुद्रादेराप्तत्वं विना तत्स्मृत्यनवकाशत्वानिर्वाहात् । अन्यथेष्टापादनं स्यात् । ‘इतरेषां चानुपलब्धेः’ इति द्वितीयसूत्रेण निषेध्यतया सूचितः । सिद्धान्त-न्यायस्तु ‘स्मृत्यनवकाशदोषप्रसङ्गाद्’ इति सिद्धान्तांशेन सूचितः ।)

॥ १ ॥


नविलक्षणत्वाधिकरणम्

नविलक्षणत्वाधिकरणं ञ्ञ्–१–२

न्यायविवरणं

न श्रुतेः रुद्रादिस्मृतिसाम्यं किन्तु साक्षि-प्रत्यक्षसाम्यमेव निरपेक्षत्वात् ॥ २ ॥

भावबोध

ॐ न विलक्षणत्वादस्य तथात्वं चशब्दात् ॐ ॥ इत्यत्र प्रमाणाप्रमाणभूतवाक्योपलब्ध्या श्रुत्यादिकं प्रमाणं न वेति सन्देहे न प्रमाणमिति पूर्वः पक्षः । प्रमाणमेवेति सिद्धान्तः । तत्र ‘समता’ इत्यनेनोक्तन्यायं पूर्वपक्षसम्बन्धित्वेन विवृण्वन् प्रतिक्षिपति ॥ न श्रुतेरिति ॥ यथाऽविद्यमानार्थाभिधायकत्वेन रुद्रादिविरचित-पाशुपतादिस्मृतीनामप्रामाण्यं तथा ‘कारीर्या यजेत वृष्टिकाम’ इति श्रुतेः, (उपलक्षणमेतत्, पञ्चरात्रादिस्मृतेश्च) कारीर्याद्यनुष्ठानेऽपि वृष्ट्याद्यदृष्ट्याऽविद्यमानार्थाभिधायकत्वादप्रामाण्यमित्येवंरूपं श्रुतेः रुद्रादिस्मृतिसाम्यमिति न तया विष्णोर्जगत्कर्तृत्वं सिध्यतीति नेत्यर्थः । तद्धेतुत्वेन ‘समता’ इत्यनेनैवोक्तन्यायं सिद्धान्तसम्बन्धित्वेन विवृणोति ॥ किन्त्विति ॥ यथा साक्षिप्रत्यक्षस्य प्रामाण्यं नियतं तथा श्रुतेः पञ्चरात्रादिस्मृतेश्च प्रामाण्यं नियतम् । प्रामाण्यनियमप्रदर्शनार्थमेव साक्षीत्युक्तम् । एवकारेण रुद्रादिस्मृतिसाम्यं व्यावर्तयति । अत्र हेतुमाह ॥ निरपेक्षत्वादिति ॥ कर्तृगुणप्रमाणान्तरसंवादफलसंवादा-द्यपेक्षाशून्यत्वादित्यर्थः । अयं भावः । वाक्याप्रामाण्यं वक्तृदोष-निबन्धनम् । न हि नित्ये वेदे दोषाः कल्पयितुं शक्यन्ते । अतो नित्यत्वाददोषवाक्यत्वेनान्यानपेक्षिततया साक्षिप्रत्यक्षवत्प्रामाण्यमिति । श्रुत्यपेक्षयैवेतत् । पञ्चरात्रादिस्मृतेस्तु श्रुतिरूपप्रमाणानुकूलत्वहेतुना सर्वमेतदुपपादनीयम् । तथा च आश्वाससम्भवात् श्रुत्याद्युक्तं जग-त्कर्तृत्वं विष्णोर्युक्तमिति भावः । (अत्र पूर्वपक्षन्यायः ‘तथात्वम्’ इत्यनेनोक्तो भवति । सिद्धान्तन्यायश्च ‘विलक्षणत्वाद्’ इत्यंशेन सूचितो भवति । श्रुत्यादेर्नित्यत्वान् निर्दोषत्वादिलक्षणस्य साक्षि-प्रत्यक्षसाम्यस्य सूचनात् ।) ॥ २ ॥