०४ चतुर्थः पादः

अनुमानिकाधिकरणम्

**अथ चतुर्थः पादः **

अनुमानिकाधिकरणं ञ्–४–१

न्यायविवरणम्

अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्त्वं चेति द्विविधं ह्यवरत्वादि । ‘निरनिष्ठो’‘निरवद्यः’ इत्यादिश्रुतेस्त-त्तद्दोषतादात्म्यात्यस्पृष्टिनियमाद् विष्णोः ‘नामानि सर्वाणि यमाविशन्ति’ इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्या-पतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वात्कर्तृव्युत्पत्तेः । तमेव मृत्युममृतं, तात दैवं सर्वात्मना वै हि परं परायणमित्यादेश्च । उपचार-कल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकारे सर्वमानविरोधः ॥ १ ॥

भावबोध

अन्यत्रैव प्रसिद्धाव्यक्तादिशब्दसमन्वयार्थं चतुर्थः पादः प्रवृत्तः । एतत्पादीयाधिकरणपूर्वपक्षसिद्धान्तन्यायाः सङ्ग्रहेण अनुव्याख्यायामुक्ताः ।

सर्वमानविरोधश्च व्युत्पत्तेरप्यशक्यता ।

परस्परविरोधश्च विरोधः कार्यतद्वतोः ।

स्त्रीलिङ्गत्वं निषेधश्च युक्तयः पूर्वपक्षगाः ॥

दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।

बहुरूपत्वमीशस्य व्यक्ताव्यक्तिविशेषिता ॥

उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।

इत्याद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥ इति ।

ॐ आनुमानिकमप्यकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते-र्दर्शयति च ॐ इत्यत्र ‘अव्यक्तात्पुरुषः परः’ इति वाक्यगता-व्यक्तादिशब्दवाच्यं किं प्रधानादि उत विष्णुरिति अवरत्वादिलिङ्गा-पादितान्यत्रप्रसिद्धिसमन्वयसूत्राभ्यां सन्देहे प्रधानाद्येवेति पूर्वः पक्षः । विष्णुरेवेति सिद्धान्तः । तत्र ‘सर्वमानविरोधश्च’ इति, ‘दोषात्य-स्पृष्टिनियमः’ इति, उक्तपूर्वपक्षसिद्धान्तन्यायौ बाध्यबाधकभावं दर्शयन् विवृणोति ॥ अवरत्वादीत्यादिना ॥ सिद्धान्तयुक्तिं सङ्गमयितुं तदुपयुक्तं तावदाह ॥ अवरत्वादिधर्मनियन्तृत्वमिति ॥ (तत्ता-दात्म्यमित्यत्र तच्छब्देनाऽवरादिवस्तुपरामर्शः ।) अवरत्वादीत्यतः पूर्वं परगतेति शेषः । अवरत्वादि अवरत्वादिशब्दप्रवृत्तिनिमित्तमित्यर्थः । हिशब्दस् तस्य ‘यदधीना गुणा यस्य तद्गुणी सोऽभिधीयते’ इत्यादिप्रमाणप्रसिद्धिद्योतकः । नन्वस्त्वेवमवरादिशब्दप्रवृत्तिनिमित्त-द्वैविध्यं, ततः किमित्यतो ‘नेश्वरस्यावरत्वादिधर्माधिकरणत्वेनावरादि-शब्दवाच्यत्वम् । येन सर्वमानविरोधः स्यात् । किन्तु परगता-वरत्वादिधर्मनियन्तृत्वेनैव’ इति विवक्षुरवरत्वादिधर्माधिकरण-त्वेनावरादिशब्दवाच्यत्वाभावे हेतुत्वेन सप्रमाणकं सिद्धान्तन्यायं विवृणोति ॥ निरनिष्ठ इति ॥

ननु दोषात्यस्पृष्टिनियमस्य अवरादिशब्दवाच्यत्वाभावेनाप्युपपत्ते-रवरत्वादिनियन्तृत्वेन तच्छब्दवाच्यत्वापादकत्वं कथमित्यत उक्तम् ॥ नामानीति ॥

ननु तथापि न परगतावरत्वादिनियन्तृत्वेनावरादिशब्दवाच्यत्वं विष्णोः । ‘निरनिष्ठः’ इत्यादिश्रुतेरर्थसङ्कोचेनावरत्वाद्यधिकरणत्वे-नावरादिशब्दवाच्यत्वस्य वा ‘नामानि सर्वाणि’ इति श्रुतेरर्थसङ्कोचे-नावरादिशब्दवाच्यत्वस्यैव वा सम्भवादित्यत आह ॥ श्रुतिद्वय-स्येति ॥ ननु भवेदेतत्प्रधानादिगतशब्दप्रवृत्तिनिमित्तप्रेरकत्वेनेश्वर-स्यावरादिशब्दवाच्यत्वं यद्यन्यगतप्रवृत्तिनिमित्तप्रेरकेऽसौ शब्दो वर्तत इति सिध्द्येत् । तदेव कुत इत्यत आह ॥ मृत्युशब्दादिष्विति ॥ अन्यगतमारकत्वादिनियामकत्वेन यमादिवाचकत्वस्येति शेषः । एवं तर्ह्यन्यगतप्रवृत्तिनिमित्तप्रेरके वृत्तिरमुख्या स्यादित्यतो वाऽऽह ॥ मृत्युशब्दादिष्विति ॥ मृत्युशब्दस्य यमादिवाचकत्वस्य प्रसिद्धेर् बहुलप्रयोगसिद्धत्वात् । बहुलप्रयोगसिद्धस्य च मुख्यत्वादित्यर्थः । न केवलमुक्तन्यायेनावरादिशब्दवाच्यत्वं विष्णोः किन्तु ‘स बद्धः’ ‘स दुःखी’ ‘स बद्धयति’ ‘स दुःखयति’ इत्यादिश्रुतिषु बद्धादिशब्दानां विष्णौ कर्तृव्युत्पत्तेः प्रसिद्धत्वाच्चेत्याह ॥ प्रसिद्धत्वादिति ॥ स्मृतावपि विष्णौ कर्तृव्युत्पत्ति१मपेक्ष्य शब्दप्रयोगोऽस्तीत्याह ॥ तमेवेति ॥ मृत्युं मारकम् । अमृतं मोचकम् । नन्वत्र मृत्युप्रमुखशब्दानामौप-चारिकत्वं किं न स्यादित्यत आह ॥ उपचारेति ॥ तर्हि सिंहो देवदत्त इत्यत्रापि न स्यादित्यत आह ॥ प्रमाणाभावादिति ॥ तत्र मुख्यार्थ-बाधानुसन्धानरूप प्रमाणसद्भावादौपचारिकत्वम् । अत्र तु तदभावा-न्नौपचारिकत्वमिति भावः । सिद्धान्तन्यायफलत्वात्पूर्वपक्षन्याय-निषेधस्य । इदानीं तन्निषेधपूर्वं पूर्वपक्षन्यायं विवृणोति ॥ नाव्यक्तादि-शब्दानामिति ॥ ‘अव्यक्तात्पुरुषः परः’ इत्यादिवाक्यगताव्यक्तादि-शब्दानां परमात्मवाचकत्वाङ्गीकारे पुरुषगतपरत्वावधित्वादिना अवर-त्वादिप्राप्त्या ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्यादिसर्वमानविरोधो नेत्यर्थः । तथा च विष्णोरव्यक्तादिशब्दवाच्यत्वेऽवरत्वादिप्राप्तौ सर्वमानविरोधात् । प्रधानाद्येवाव्यक्तादिशब्दवाच्यमिति पूर्वपक्षे दोषात्यस्पृष्टिनियमाद् विष्णोरव्यक्तादिनियामकत्वेनाव्यक्तादिशब्द-वाच्यत्वमिति सिद्धान्त इति भावः । (अत्र पूर्वपक्षन्यायः ‘तदधीन-त्वात्’ इत्यनेन, अवरत्वादिनियामकत्वेनैवावरत्वादिशब्दजातमर्थव-न्नावरत्वाद्यधिकरणत्वेन, तथात्वे ‘निरनिष्ठ’ इत्यादिसर्वमानविरोध इत्यर्थकेन सूचितः । यद्वा ‘तदधीनत्वात्’ इत्यनेनार्थवत्त्वसाधनेन श्रुतिनैरर्थ्यापादकत्वसूचनेन सूचितः । सिद्धान्तन्यायस् तदधीन-त्वादित्यनेनोक्तो भवति ॥ १ ॥


ज्योतिरुपक्रमाधिकरणम्

ज्योतिरुपक्रमाधिकरणं ञ्–४–२

न्यायविवरणं

रूढो, रूढियोगो, महायोगो, महारूढियोगो, रूढोपचारो, रूढलक्षणोपचारो, लक्षणेति शब्दवृत्तिभेदा रूढि-पूर्वकत्वेन महायोगवृत्त्या परमेश्वरेऽखिलशब्दव्युत्पत्त्युपपत्तिः

॥ २ ॥

भावबोध

ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ अत्र ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इति वाक्यगतज्योतिरादिशब्दानां प्रागुक्तसंशयबीजेन भगवत्परत्वकर्मादिपरत्वकोटिकसंशये कर्मादि-परत्वमेवेति पूर्वः पक्षः । भगवत्परत्वमिति सिद्धान्तः । एतत्पूर्वपक्ष-सिद्धान्तसाधकत्वेन ‘व्युत्पत्तेरप्यशक्यता’ इति ‘शब्दार्थाऽनेकता तथा’ इति न्यायौ बाध्यबाधकभावं दर्शयन् विवृणोति ॥ रूढ इत्यादिना ॥ शब्दार्थानामनेकत्वोपपादनार्थं वृत्तिभेदकथनम् । नारायणादिशब्दानां महारूढियोगः, आनन्दमयादिशब्दानां महायोग इति भगवति वृत्तिद्वयम् । तदितरत्र यथायथमितराः सप्त वृत्तय इति ज्ञातव्यम् । एतेषां लक्षणोदाहरणानि तत्वप्रकाशिकादौ द्रष्टव्यानि । ज्योतिर्वसन्तस्तोमादिशब्दानां याग–काल–समूहादिषु रूढत्वात्, शब्दान्तराणां योगादिसद्भावेऽपि रूढेः प्रायिकत्वाच्च रूढिपूर्वकत्वे-नेत्युक्तम् । रूढ्यादिपूर्वकत्वेनेत्याशयः । अत एव तत्वप्रकाशिकायां ‘वृत्तीः’ इति बहुवचनप्रयोगेनैतदभिप्राय उक्तः ।

‘व्युत्पत्त्युपपत्तिः’ इति वदतैव ‘तदशक्यता’ इत्येतदधिकरण-पूर्वपक्षसाधिकेति विवृतं भवति । व्युत्पत्त्युपपत्तिरित्युपलक्षणम् । कर्मादिफलोपलक्षणविरोधाभावश्चेत्यपि द्रष्टव्यम् । तेन ‘अशक्यता-पी’ति भिन्नक्रमेणापिशब्देन समुच्चितः कर्मक्रमादिविलोपरूपो न्यायो विवृतो द्रष्टव्यः । ततश्च सर्वशब्दानां ब्रह्मपरत्वे ज्योतिष्टोमादिशब्देषु ‘ज्योतिषां स्तोमः’ इति विग्रहे भगवन्नामावृत्तिमात्रत्वप्रसङ्गाद्व्युत्पत्ते-रप्यशक्यत्वेन कर्मादिवाचकत्वमेव ज्योतिष्टोमादिशब्दानामिति पूर्वपक्षे, शब्दार्थानामनेकत्वाज्ज्योतिरादिशब्दानामन्यत्र रूढ्यादि-वृत्त्यभ्युपगमेन महायोगवृत्त्या परमेश्वरे शब्दप्रवृत्त्यभ्युपगमाज्ज्योतिषां स्तोम इत्याद्यखिलशब्दव्युत्पत्त्युपपत्तेर् ब्रह्मैव ज्योतिष्टोमादिशब्द-वाच्यमिति सिद्धान्त इति भावः । (अत्र पूर्वपक्षन्यायः ‘कल्पनोप-देशात्’ इत्यत्र सूत्रे ‘अविरोधः’ इत्यनेन सूचितः । सिद्धान्ते व्युत्पत्त्यविरोधं वदता पूर्वपक्षे तदशक्यतालक्षणविरोधसूचनात् । सिद्धान्तन्यायस्तु मध्वादिवदित्यनेन भागेनोक्तो भवति । शब्दार्था-नेकताया अनेनोक्तत्वात् ।) ॥ २ ॥